श्रीमद्भागवताष्टकम्
(शार्दूलविक्रीडितम्)
श्रीगोविन्दपदारविन्दमधुपानन्याभिलाषोत्भितान्
पूर्णप्रेमरसोत्सवोज्ज्वलमनोवृत्तिप्रसन्नाननान् ।
शश्वत्कृष्णकथामहामृतपयोराशौ मुदा खेलतो
वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ १॥
पादाब्जे कृतसत्कृतावपि चतुर्वर्गे घृणां कुर्वतो
दृक्पातेऽपि गतव्यथान् व्रजपतिप्रेमामृतास्वादकान् ।
मन्वानानतिदुस्तरं भवमहापाथोनिधिं गोष्पदं
वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ २॥
मृग्यां ब्रह्मभवादिभिर्व्रजवधूनाथाङ्घ्रिकञ्जद्वयीं
स्वातन्त्र्यात्प्रणयोरुरज्जुभिरहो बद्धा बलान्निर्भरम् ।
स्वच्छन्दं पिबतः सदासवरसं प्रस्यन्दमानं मुदा
वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ३॥
विश्वेषां हृदयोत्सवान्स्वसुखदान्मायामनुष्याकृतीन्
कृष्णेनाध्यवतारितान् जनसमुद्धाराय पृथ्वीतले ।
संसाराब्धिबहित्रपादकमलांस्त्रैलोक्य भाग्योदयान्
वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ४॥
आलोकामृतदानतो भवमहावन्धं नृणां छिन्दतः
स्पर्शात्पादसरोजशौचपयसां तापत्रयं भिन्दतः ।
आलापाद् व्रजनागरस्य पदयोः प्रेमाणमातन्वतो
वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ५॥
भावावेशसमुज्ज्वलान् पुलकिनो हर्षाश्रु धारावली-
निर्द्धौताननपङ्कजान्नवनवानन्दाद्भृशं नृत्यतः ।
प्रेमोच्चैश्चरितं सगद्गदपदं गोपी-पतेर्गायतो
वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ६॥
प्रेमास्वादपरायणान् हरिपदस्फूर्तिस्फुरन्मानसान्
नानन्दैकपयोनिधीन्रससमुल्लासिस्मितश्रीमुखान् ।
धन्यान् सच्चरितौघनन्दितजनान्कारुण्यपूराशयान्
वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ७॥
कृष्णादन्यमजानतः क्षणमपि स्वप्नेऽपि विश्वेश्वरे
तस्मिन्भक्तिम हैतुकीं विदधतो हृत्कायवाग्भिः सदा ।
श्रीलान् सद्गुणपुञ्जकेलिनिलयान्प्रेमावतारानहं
वन्दे भागवतानिमाननुलवं मूर्ध्ना निपत्य क्षितौ ॥ ८॥
एतद्भागवताष्टकं पठति यः श्रद्धान्वितः क्षेमदं
भक्त्युद्रेकविवर्धनं प्रतिपदं प्रेमप्रमोदप्रदम् ।
प्रेमाणं परमं ध्रुवं स लभते वृन्दावने सात्मसु
क्षिप्रं भागवतेषु येन वशगो गोपाङ्गनावल्लभः ॥
इति श्रीमद् रसिकानन्दगोस्वामिनाविरचितं श्रीमद्भागवताष्टकं सम्पूर्णम् ।
Encoded and proofread by Priyanshu Chhikara