७ श्रीमद्देवीभागवतमहापुराणे सप्तमः स्कन्धः
७.१ प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।
सूत उवाच -
श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः ।
व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः ॥ १॥
जनमेजय उवाच -
स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् ।
तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा ॥ २॥
कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् ।
चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः ॥ ३॥
ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् ।
देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक् ॥ ४॥
इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः ।
तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः ॥ ५॥
व्यास उवाच -
निशामय महाराज विस्तराद्गदतो मम ।
सोमसूर्यान्वयानां च तथान्येषां समुद्भवम् ॥ ६॥
विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः ।
तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम् ॥ ७॥
तया दत्तवरो धाता जगत्कर्तुं समुद्यतः ।
नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः ॥ ८॥
विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः ।
न विस्तारं जगामाशु रचितापि महात्मना ॥ ९॥
(ससर्ज मानसान्पुत्रान्सप्तसङ्ख्यान्प्रजापतिः)
मरीचिरङ्गिरात्रिश्च वसिष्ठः पुलहः क्रतुः ।
पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः ॥ १०॥
रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् ।
दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः ॥ ११॥
वामाङ्गुष्ठाद्दक्षपत्नी जाता सर्वाङ्गसुन्दरी ।
वीरिणी नाम विख्याता पुराणेषु महीपते ॥ १२॥
असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः ।
देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः ॥ १३॥
जनमेजय उवाच -
अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः ।
वीरिण्यां नारदो जातो दक्षादिति महातपाः ॥ १४॥
कथं दक्षस्य पत्न्यां तु वीरिण्यां नारदो मुनिः ।
जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः ॥ १५॥
विचित्रमिदमाख्यातं भवता नारदस्य च ।
दक्षाज्जन्मास्य भार्यायां तद्वदस्व सविस्तरम् ॥ १६॥
पूर्वदेहः कथं मुक्तः शापात्कस्य महामना ।
नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने ॥ १७॥
व्यास उवाच -
ब्रह्मणासौ समादिष्टो दक्षः सृष्ट्यर्थमादितः ।
प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयम्भुवा ॥ १८॥
ततः पञ्चसहस्रांश्च जनयामास वीर्यवान् ।
दक्षः प्रजापतिः पुत्रान् वीरिण्यां बलवत्तरान् ॥ १९॥
दृष्ट्वा तान्नारदः पुत्रान्सर्वान्वर्धयिषून्प्रजाः ।
उवाच प्रहसन्वाचं देवर्षिः कालनोदितः ॥ २०॥
भुवः प्रमाणमज्ञात्वा स्रष्टुकामाः प्रजाः कथम् ।
लोकानां हास्यतां यूयं गमिष्यथ न संशयः ॥ २१॥
पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्यः समुद्यमः ।
कृत्तोऽसौ सिद्धिमायाति नान्यथेति विनिश्चयः ॥ २२॥
बालिशा बत यूयं वै यदज्ञात्वा भुवस्तलम् ।
समुद्यताः प्रजाः कर्तुं कथं सिद्धिर्भविष्यति ॥ २३॥
व्यास उवाच -
नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः ।
अन्योन्यमूचुः सहसा सम्यगाह मुनिः किल ॥ २४॥
ज्ञात्व प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः ।
इति सञ्चिन्त्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः ॥ २५॥
तलं सर्वं परिज्ञातुं वचनान्नारदस्य च ।
प्राच्यां केचिद्गताः कामं दक्षिणस्यां तथापरे ॥ २६॥
प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समन्ततः ।
दक्षः पुत्रान्गतान्दृष्ट्वा पीडितस्तु शुचा भृशम् ॥ २७॥
अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः ।
तेऽपि तत्रोद्यताः कर्तुं प्रजार्थमुद्यमं सुताः ॥ २८॥
नारदः प्राह तान्दृष्ट्वा पूर्वं यद्वचनं मुनिः ।
बालिशा बत यूयं वै यदज्ञात्वा भुवः किल ॥ २९॥
प्रमाणं तु प्रजाः कर्तुं प्रवृत्ताः केन हेतुना ।
श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः ॥ ३०॥
जग्मुः सर्वे यथापूर्वं भ्रातरश्चलितास्तथा ।
तान्सुतान्प्रस्थितान्दृष्ट्वा दक्षः कोपसमवितः ॥ ३१॥
शशाप नारदं कोपात् पुत्रशोकसमुद्भवात् ।
दक्ष उवाच -
नाशिता मे सुता यस्मात् तस्मान्नाशमवाप्नुहि ॥ ३२॥
पापेनानेन दुर्बुद्धे गर्भवासं व्रजेति च ।
पुत्रो मे भव कामं त्वं यतो मे भ्रंशिताः सुताः ॥ ३३॥
इति शप्तस्ततो जातो वीरिण्यां नारदो मुनिः ।
षष्टिर्भूयोऽसृजत्कन्या वीरिण्यामिति नः श्रुतम् ॥ ३४॥
शोकं विहाय पुत्राणां दक्षः परमधर्मवित् ।
तासां त्रयोदश प्रादात्कश्यपाय महात्मने ॥ ३५॥
दश धर्माय सोमाय सप्तविंशति भूपते ।
द्वे चैव भृगवे प्रादाच्चतस्रोऽरिष्टनेमिने ॥ ३६॥
द्वे चैवाङ्गिरसे कन्ये तथैवाङ्गिरसे पुनः ।
तासां पुत्राश्च पौत्राश्च देवाश्च दानवास्तथा ॥ ३७॥
जाता बलसमायुक्ताः परस्परविरोधकाः ।
रागद्वेषान्विताः सर्वे परस्परविरोधिनः ।
सर्वे मोहावृताः शूरा ह्यभवन्नतिमायिनः ॥ ३८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
सोमसूर्यवंशवर्णने दक्षप्रजापतिवर्णनं नाम प्रथोमोऽध्यायः ॥ ७.१॥
७.२ द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।
ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् ।
सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः ॥ १॥
शृणु भारत वक्ष्यामि रविवंशस्य विस्तरम् ।
यथा श्रुतं मया पूर्वं नारदादृषिसत्तमात् ॥ २॥
एकदा नारदः श्रीमान्सरस्वत्यास्तटे शुभे ।
आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः ॥ ३॥
प्रणम्य शिरसा पादौ तस्याग्रे संस्थितस्तदा ।
ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात् ॥ ४॥
विधिवत्पूजयित्वा तमुक्तवान्वचनं त्विदम् ।
पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै ॥ ५॥
कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् ।
राजानो ये समाख्याताः सप्तमेऽस्मिन्मनोः कुले ॥ ६॥
तेषामुत्पत्तिरतुला चरितं परमाद्भुतम् ।
श्रोतुकामोऽस्म्यहं ब्रह्मन् सूर्यवंशस्य विस्तरम् ॥ ७॥
समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् ।
इति पृष्टो मया राजन्नारदः परमार्थवित् ॥ ८॥
उवाच प्रहसन्प्रीतः समाभाष्य मुदान्वयम् ।
नारद उवाच -
शृणु सत्यवतीसूनो राज्ञां वंशमनुत्तमम् ॥ ९॥
पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम् ।
ब्रह्मा पूर्वं जगत्कर्ता नाभिपङ्कजसम्भवः ॥ १०॥
विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः ।
सर्वज्ञः सर्वकर्तासौ स्वयम्भूः सर्वशक्तिमान् ॥ ११॥
तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा ।
सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम् ॥ १२॥
पुत्रानुत्पदयामास मानसाञ्छुभलक्षणान् ।
मरीचिः प्रथिस्तेषामभवत्सृष्टिकर्मणि ॥ १३॥
तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः ।
त्रयोदशैव तस्यासन्भार्या दक्षसुताः किल ॥ १४॥
देवाः सर्वे समुत्पन्ना दैत्या यक्षाश्च पन्नगाः ।
पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी ॥ १५॥
देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु ।
तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः ॥ १६॥
तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः ।
नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः ॥ १७॥
तेषां नामानि राजेन्द्र शृणुष्वैकमनाः पुनः ।
इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ॥ १८॥
नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्च सप्तमः ।
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ १९॥
इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत ।
तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान् ॥ २०॥
नवानां वंशविस्तारं सङ्क्षेपेण निशामय ।
शूराणां मनुपुत्राणां मनोरन्तरजन्मनाम् ॥ २१॥
नाभागस्य तु पुत्रोऽभूदम्बरीषः प्रतापवान् ।
धर्मज्ञः सत्यसन्धश्च प्रजापालनतत्परः ॥ २२॥
धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत ।
सङ्ग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा ॥ २३॥
शर्यातेस्तनयश्चाभूदानर्तो नाम विश्रुतः ।
सुकन्या च तथा पुत्री रूपलावण्यसंयुता ॥ २४॥
च्यवनाय सुता दत्ता राज्ञाप्यन्धाय सुन्दरी ।
मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह ॥ २५॥
विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् ।
जनमेजय उवाच ।
सन्देहोऽयं महान् ब्रह्मन् कथायां कथितस्त्वया ॥ २६॥
यद्राजा मुनयेऽन्धाय दत्ता पुत्री सुलोचना ।
कुरूपा गुणहीना वा नारी लक्षणवर्जिता ॥ २७॥
पुत्री यदा भवेद्राजा तदान्धाय प्रयच्छति ।
ज्ञात्वान्धं सुमुखीं कस्माद्दत्तवान्नृपसत्तमः ॥ २८॥
कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा ।
सूत उवाच -
इति राज्ञो वचः श्रुत्वा परीक्षितसुतस्य वै ॥ २९॥
द्वैपायनः प्रसन्नात्मा तमुवाच हसन्निव ।
व्यास उवाच -
वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः ॥ ३०॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः ।
राजपुत्र्यः सरूपाश्च सर्वलक्षणसंयुताः ॥ ३१॥
पत्न्यः प्रेमयुताः सर्वाः प्रिया राज्ञः सुसम्मताः ।
एका पुत्री तु तासां वै सुकन्या नाम सुन्दरी ॥ ३२॥
पितुः प्रिया च मातॄणां सर्वासां चारुहासिनी ।
नगरान्नातिदूरेऽभूत्सरो मानससन्निभम् ॥ ३३॥
बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ३४॥
दात्यूहसारसाकीर्णं सर्वपक्षिगणावृतम् ।
पञ्चधाकमलोपेतं चञ्चरीकसुसेवितम् ॥ ३५॥
पार्श्वतश्च द्रुमाकीर्णं वेष्टितं पादपैः शुभैः ।
सालैस्तमालैः सरलैः पुन्नागाशोकमण्डितम् ॥ ३६॥
वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम् ।
जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा ॥ ३७॥
क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः ।
यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः ॥ ३८॥
जम्ब्वाम्रतिन्तिणीभिश्च करञ्जकुटजावृतम् ।
पलाशनिम्बखदिरबिल्वामलकमण्डितम् ॥ ३९॥
बभूव कोकिलारावः केकास्वनविराजितम् ।
तत्समीपे शुभे देशे पादपानां गणावृते ॥ ४०॥
भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः ।
ज्ञात्वासौ विजनं स्थानं तपस्तेपे समाहितः ॥ ४१॥
कृत्वा दृढासनं मौनमाधाय जितमारुतः ।
इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः ॥ ४२॥
जलपानादिरहितो ध्यायन्नास्ते पराम्बिकाम् ।
सवल्मीकोऽभवद्राजल्लँताभिः परिवेष्टितः ॥ ४३॥
कालेन महता राजन् समाकीर्णः पिपीलिकैः ।
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः ॥ ४४॥
कदाचित्स महीपालः कामिनीगणसंवृतः ।
आजगाम सरो राजन् विहर्तुमिदमुत्तमम् ॥ ४५॥
शर्यातिः सुन्दरीवृन्दसंयुतः सलिलेऽमले ।
क्रीडासक्तो महीपालो बभूव कमलाकरे ॥ ४६॥
सुकन्या वनमासाद्य विजहार सखीवृता ।
सुमनांसि विचिन्वन्ती चञ्चला चञ्चलोपमा ॥ ४७॥
सर्वाभरणसंयुक्ता रणच्चरणनूपुरा ।
चङ्क्रममाणा वल्मीकं च्यवनस्य समासदत् ॥ ४८॥
क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः ।
ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी ॥ ४९॥
किमेतदिति सञ्चिन्त्य समुद्धर्तुं मनो दधे ।
गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी ॥ ५०॥
सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा ।
विचरन्ती सुकेशान्ता मन्मथस्येव कामिनी ॥ ५१॥
तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः ।
तामभाषत कल्याणीं किमेतदिति भार्गवः ॥ ५२॥
दूरं गच्छ विशालाक्षि तापसोऽहं वरानने ।
मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि ॥ ५३॥
तेनेदं प्रोच्यमानापि सा चास्य न शृणोति वै ।
किमु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ ५४॥
दैवेन नोदिता भित्त्वा जगाम नृपकन्यका ।
क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च ॥ ५५॥
चुक्रोध स तथा विद्धनेत्रः परममन्युमान् ।
वेदनाभ्यर्दितः कामं परितापं जगाम ह ॥ ५६॥
शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात् ।
विशेषेण तु भूपस्य सामात्यस्य समन्ततः ॥ ५७॥
गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा ।
ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत् ॥ ५८॥
सैनिकैः कथितं तस्मै शकृन्मूत्रनिरोधनम् ।
चिन्तयामास भूपालः कारणं दुःखसम्भवे ॥ ५९॥
विचिन्त्याह ततो राजा सैनिकान्स्वजनांस्तथा ।
गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम् ॥ ६०॥
सरसः पश्चिमे भागे वनमध्ये महातपाः ।
च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम् ॥ ६१॥
केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे ।
तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः ॥ ६२॥
तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः ।
केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः ॥ ६३॥
ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम् ।
कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह ॥ ६४॥
इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः ।
मनोवाक्कायनितं न विद्मोऽपकृतं वयम् ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे शर्यातिराजवर्णनं नाम द्वितीयोऽध्यायः ॥ ७.२॥
७.३ तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।
व्यास उवाच -
इति पप्रच्छ तान्सर्वान् राजा चिन्ताकुलस्तथा ।
पर्यपृच्छत्सुहृद्वर्गं साम्ना चोग्रतयापि च ॥ १॥
पीड्यमानं जनं वीक्ष्य पितरं दुःखितं तथा ।
विचिन्त्य शूलभेदं सा सुकन्या चेदमब्रवीत् ॥ २॥
वने मया पितस्तत्र वल्मीको वीरुधावृतः ।
क्रीडन्त्या सुदृढो दृष्टश्छिद्रद्वयसमन्वितः ॥ ३॥
तत्र खद्योतवद्दीप्तज्योतीषी वीक्षिते मया ।
सूच्याविद्धे महाराज पुनः खद्योतशङ्कया ॥ ४॥
जलक्लिन्ना तदा सूची मया दृष्टा पितः किल ।
हाहेति च श्रुतः शब्दो मन्दो वल्मीकमध्यतः ॥ ५॥
तदाहं विस्मिता राजन्किमेतदिति शङ्कया ।
न जाने किं मया विद्धं तस्मिन्वल्मीकमण्डले ॥ ६॥
राजा श्रुत्वा तु शर्यातिः सुकन्यावचनं मृदु ।
मुनेस्तद्धेलनं ज्ञात्वा वल्मीकं क्षिप्रमभ्यगात् ॥ ७॥
तत्रापश्यत्तपोवृद्धं च्यवनं दुःखितं भृशम् ।
स्फोटयामास वल्मीकं मुनिदेहावृतं भृशम् ॥ ८॥
प्रणम्य दण्डवद्भूमौ राजा तं भार्गवं प्रति ।
तुष्टाव विनयोपेतस्तमुवाच कृताञ्जलिः ॥ ९॥
पुत्र्या मम महाभाग क्रीडन्त्या दुष्कृतं कृतम् ।
अज्ञानाद्बालया ब्रह्मन् कृतं तत्क्षन्तुमर्हसि ॥ १०॥
अक्रोधना हि मुनयो भवन्तीति मया श्रुतम् ।
तस्मात्त्वमपि बालायाः क्षन्तुमर्हसि साम्प्रतम् ॥ ११॥
व्यास उवाच -
इति श्रुत्वा वचस्तस्य च्यवनो वाक्यमब्रवीत् ।
विनयोपनतं दृष्ट्वा राजानं दुःखितं भृशम् ॥ १२॥
च्यवन उवाच -
राजन्नाहं कदाचिद्वै करोमि क्रोधमण्वपि ।
न मयाद्यैव शप्तस्त्वं दुहित्रा पीडने कृते ॥ १३॥
नेत्रे पीडा समुत्पन्ना मम चाद्य निरागसः ।
तेन पापेन जानामि दुःखितस्त्वं महीपते ॥ १४॥
अपराधं परं कृत्वा देवीभक्तस्य को जनः ।
सुखं लभेत यदपि भवेत् त्राता शिवः स्वयम् ॥ १५॥
किं करोमि महीपाल नेत्रहीनो जरावृतः ।
अन्धस्य परिचर्यां च कः करिष्यति पार्थिव ॥ १६॥
राजोवाच -
सेवका बहवः सेवां करिष्यन्ति तवानिशम् ।
क्षमस्व मुनिशार्दूल स्वल्पक्रोधा हि तापसाः ॥ १७॥
च्यवन उवाच -
अन्धोऽहं निर्जनो राजंस्तपस्तप्तुं कथं क्षमः ।
त्वदीयाः सेवकाः किं ते करिष्यन्ति मम प्रियम् ॥ १८॥
क्षमापयसि चेन्मां त्वं कुरु मे वचनं नृप ।
देहि मे परिचर्यार्थं कन्यां कमललोचनाम् ॥ १९॥
तुष्येऽनया महाराज पुत्र्या तव महामते ।
करिष्यामि तपश्चाहं सा मे सेवां करिष्यति ॥ २०॥
एवं कृते सुखं मे स्यात्तव चैव भविष्यति ।
सन्तुष्टे मयि राजेन्द्र सैनिकानां न संशयः ॥ २१॥
विचिन्त्य मनसा भूप कन्यादानं समाचर ।
न चात्र दूषणं किञ्चित्तापसोऽहं यतव्रतः ॥ २२॥
व्यास उवाच -
शर्यातिर्वचनं श्रुत्वा मुनेश्चिन्तातुरोऽभवत् ।
न दास्येऽप्यथवा दास्ये किञ्चिन्नोवाच भारत ॥ २३॥
कथमन्धाय वृद्धाय कुरूपाय सुतामिमाम् ।
देवकन्योपमां दत्त्वा सुखी स्यामात्मसम्भवाम् ॥ २४॥
को वात्मनः सुखार्थाय पुत्र्याः संसारजं सुखम् ।
हरतेऽल्पमतिः पापो जानन्नपि शुभाशुभम् ॥ २५॥
प्राप्य सा च्यवनं सुभ्रूः पञ्चबाणशरार्दिता ।
अन्धं वृद्धं पतिं प्राप्य कथं कालं नयिष्यति ॥ २६॥
यौवने दुर्जयः कामो विशेषेण सुरूपया ।
आत्मतुल्यं पतिं प्राप्य किमु वृद्धं विलोचनम् ॥ २७॥
गौतमं तापसं प्राप्य रूपयौवनसंयुता ।
अहल्या वासवेनाशु वञ्चिता वरवर्णिनी ॥ २८॥
शप्ता च पतिना पश्चाज्ज्ञात्वा धर्मविपर्ययम् ।
तस्माद्भवतु मे दुःखं न ददामि सुकन्यकाम् ॥ २९॥
इति सञ्चिन्त्य शर्यातिर्विमना स्वगृहं ययौ ।
सचिवांश्च समादाय मन्त्रं चक्रेऽतिदुःखितः ॥ ३०॥
भो मन्त्रिणो ब्रुवन्त्वद्य किं कर्तव्यं मयाधुना ।
पुत्री देयाथ विप्राय भोक्तव्यं दुःखमेव वा ॥ ३१॥
विचारयध्वं मिलिता हितं स्यान्मम वै कथम् ।
मन्त्रिण ऊचुः -
किं ब्रूमोऽस्मिन्महाराज सङ्कटेऽतिदुरासदे ॥ ३२॥
दुर्भगाय सुकन्यैषा कथं देयातिसुन्दरी ।
व्यास उवाच -
तदा चिन्ताकुलं वीक्ष्य पितरं मन्त्रिणस्तदा ॥ ३३॥
सुकन्या त्विङ्गितं ज्ञात्वा प्रहस्येदमुवाच ह ।
पितः कस्माद्भवानद्य चिन्ताव्याकुलितेन्द्रियः ॥ ३४॥
मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै ।
अहं गत्वा मुनिं तत्र समाश्वास्य भयार्दितम् ॥ ३५॥
करिष्यामि प्रसन्नं तमात्मदानेन वै पितः ।
इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया ॥ ३६॥
तामुवाच प्रसन्नात्मा सचिवानां च शृण्वताम् ।
कथं पुत्रि त्वमन्धस्य परिचर्यां वनेऽबला ॥ ३७॥
करिष्यसि जरार्तस्य क्रोधनस्य विशेषतः ।
कथमन्धाय चानेन रूपेण रतिसन्निभाम् ॥ ३८॥
ददामि जरया ग्रस्तदेहाय सुखवाञ्छया ।
पित्रा पुत्री प्रदातव्या वयोज्ञातिबलाय च ॥ ३९॥
धनधान्यसमृद्धाय नाधनाय कदाचन ।
क्व ते रूपं विशालाक्षि क्वासौ वृद्धो वनेचरः ॥ ४०॥
कथं देया मया पुत्री तस्मै नातिवराय च ।
उटजे नियतं वासो यस्य नित्यं मनोहरे ॥ ४१॥
कथमम्बुजपत्राक्षि कल्पनीयो मया तव ।
मरणं मे वरं प्राप्तं सैनिकानां तथैव च ॥ ४२॥
न ते प्रदानमन्धाय रोचते पिकभाषिणि ।
भवितव्यं भवत्येव धैर्यं नैव त्यजाम्यहम् ॥ ४३॥
सुस्थिरा भव सुश्रोणि न दास्येऽन्धाय कर्हिचित् ।
राज्यं तिष्ठतु वा यातु देहोऽयं च तथैव मे ॥ ४४॥
न त्वां दास्याम्यहं तस्मै नेत्रहीनाय बालिके ।
सुकन्या तं तदा प्राह श्रुत्व तद्वचनं पितुः ॥ ४५॥
प्रसन्नवदनातीव स्नेहयुक्तमिदं वचः ।
सुकन्योवाच -
न मे चिन्ता पितः कार्या देहि मां मुनयेऽधुना ॥ ४६॥
सुखं भवतु सर्वेषां लोकानां मत्कृतेन हि ।
सेवयिष्यामि सन्तुष्टा पतिं परमपावनम् ॥ ४७॥
भक्त्या परमया चापि वृद्धं च विजने वने ।
सतीधर्मपरा चाहं चरिष्यामि सुसम्मतम् ॥ ४८॥
न भोगेच्छास्ति मे तात स्वस्थं चित्तं ममानघ ।
व्यास उवाच -
तच्छ्रुत्वा भाषितं तस्या मन्त्रिणो विस्मयं गताः ॥ ४९॥
राजा च परमप्रीतो जगाम मुनिसन्निधौ ।
गत्वा प्रणम्य शिरसा तमुवाच तपोधनम् ॥ ५०॥
स्वामिन् गृहाण पुत्रीं मे सेवार्थं विधिवद्विभो ।
इत्युक्त्वासौ ददौ पुत्रीं विवाहविधिना नृपः ॥ ५१॥
प्रतिगृह्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत् ।
पारिबर्हं न जग्राह दीयमानं नृपेण ह ॥ ५२॥
कन्यामेवाग्रहीत्कामं परिचर्यार्थमात्मनः ।
प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा ॥ ५३॥
राज्ञश्च परमाह्लादः सञ्जातस्तत्क्षणादपि ।
दत्त्वा पुत्रीं यदा राजा गमनाय गृहं प्रति ॥ ५४॥
मतिं चकार तवङ्गी तदोवाच नृपं सुता ।
सुकन्योवाच -
गृहाण मम वासांसि भूषणानि च मे पितः ॥ ५५॥
वल्कलं परिधानाय प्रयच्छाजिनमुत्तमम् ।
वेषं तु मुनिपत्नीनां कृत्वा तपसि सेवनम् ॥ ५६॥
करिष्यामि तथा तात यथा ते कीर्तिरच्युता ।
भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले ॥ ५७॥
परलोकसुखायाहं चरिष्यामि दिवानिशम् ।
दत्त्वान्धाय च वृद्धाय सुन्दरीं युवतीं तु माम् ॥ ५८॥
चिन्ता त्वया न कर्तव्या शीलनाशसमुद्भवा ।
अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि ॥ ५९॥
तथैवाहं भविष्यामि नात्र कार्या विचारणा ।
अनसूया यथा साध्वी भार्यात्रेः प्रथिता भुवि ॥ ६०॥
तथैवाहं भविष्यामि पुत्री कीर्तिकरी तव ।
सुकन्यावचनं श्रुत्वा राजा परमधर्मवित् ॥ ६१॥
दत्त्वाजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम् ।
त्यक्त्वा भूषणवासांसि मुनिवेषधरां सुताम् ॥ ६२॥
विवर्णवदनो भूत्वा स्थितस्तत्रैव पार्थिवः ।
राज्ञ्यः सर्वाः सुतां दृष्ट्वा वल्कलाजिनधारिणीम् ॥ ६३॥
रुरुदुर्भृशशोकार्ता वेपमाना इवाभवन् ।
तामापृच्छ्य महीपालो मन्त्रिभिः परिवारितः ।
ययौ स्वनगरं राजन् मुक्त्वा पुत्रीं शुचार्पिताम् ॥ ६४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनं नाम तृतीयोऽध्यायः ॥ ७.३॥
७.४ चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।
व्यास उवाच -
गते राजनि सा बाला पतिसेवापरायणा ।
बभूव च तथाग्नीनां सेवने धर्मतत्परा ॥ १॥
फलान्यादाय स्वादूनि मूलानि विविधानि च ।
ददौ सा मुनये बाला पतिसेवापरायणा ॥ २॥
पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा ।
परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि ॥ ३॥
तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् ।
तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम ॥ ४॥
तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि ।
बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत् ॥ ५॥
पश्चादानीय पक्वानि फलानि च नृपात्मजा ।
भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम् ॥ ६॥
भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् ।
पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता ॥ ७॥
गृहीतमुखवासं तं संवेश्य च शुभासने ।
गृहीत्वाऽऽज्ञां शरीरस्य चकार साधनं ततः ॥ ८॥
फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ ।
प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो ॥ ९॥
पादसंवाहनं तेऽद्य करोमि यदि मन्यसे ।
एवं सेवापरा नित्यं बभूव पतितत्परा ॥ १०॥
सायं होमावसाने सा फलान्याहृत्य सुन्दरी ।
अर्पयामास मुनये स्वादूनि च मृदूनि च ॥ ११॥
ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया ।
सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा ॥ १२॥
सुप्ते सुखं प्रिये कान्ता पदसंवाहनं तदा ।
चकार पृच्छती धर्मं कुलस्त्रीणां कृशोदरी ॥ १३॥
पादसंवाहनं कृत्वा निशि भक्तिपरायणा ।
निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके ॥ १४॥
शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी ।
कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा ॥ १५॥
हेमन्ते काष्ठसम्भारं कृत्वाग्निज्वलनं पुरः ।
स्थापयित्वा तथापृच्छत्सुखं तेऽस्तीति चासकृत् ॥ १६॥
ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् ।
समर्पयित्वा शौचार्थं समुत्थाप्य पतिं प्रिया ॥ १७॥
स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् ।
कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः ॥ १८॥
आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे ।
मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि ॥ १९॥
दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् ।
समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी ॥ २०॥
चकारोष्णं जलं शुद्धं समानीतं सुपावनम् ।
स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता ॥ २१॥
किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् ।
उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम् ॥ २२॥
वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते ।
विधिवद्धवनं कृत्वा देवतापूजनं कुरु ॥ २३॥
एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता ।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ २४॥
अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा ।
आराधयामास मुदा च्यवनं सा शुभानना ॥ २५॥
कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ ।
च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ ॥ २६॥
जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति ।
गच्छन्तीं चारुसर्वाङ्गीं रविपुत्रावपश्यताम् ॥ २७॥
तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् ।
ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ ॥ २८॥
क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि ।
आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते ॥ २९॥
पुत्री कस्य पतिः कस्ते कथमुद्यानमागता ।
एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने ॥ ३०॥
द्वितीया श्रीरिवाभासि कान्त्या कमललोचने ।
इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने ॥ ३१॥
कोमलौ चरणौ कान्ते स्थितौ भूमावनावृतौ ।
हृदाये कुरुतः पीडां चलन्तौ चललोचने ॥ ३२॥
विमानार्हासि तन्वङ्गि कथं पद्भ्यां व्रजस्यदः ।
अनावृतात्र विपिने किमर्थं गमनं तव ॥ ३३॥
दासीशतसमायुक्ता कथं च त्वं विनिर्गता ।
राजपुत्र्यप्सरा वासि वद सत्यं वरानने ॥ ३४॥
धन्या माता यतो जाता धन्योऽसौ जनकस्तव ।
वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे ॥ ३५॥
देवलिकाधिका भूमिरियं चैव सुलोचने ।
प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम् ॥ ३६॥
सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने ।
ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना ॥ ३७॥
स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने ।
पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छास्ति सादरम् ॥ ३८॥
व्यास उवाच -
तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी ।
तावुवाच त्रपाक्रान्ता देवपुत्री नृपात्मजा ॥ ३९॥
शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह ।
च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया ॥ ४०॥
पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः ।
तस्य सेवामहोरात्रं करोमि प्रीतिमानसा ॥ ४१॥
कौ युवां किमिहायातौ पतिस्तिष्ठति चाश्रमे ।
तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम् ॥ ४२॥
तदाकर्ण्य वचो दस्रावूचतुस्तां नराधिप ।
कथं त्वमपि कल्याणि पिता दत्ता तपस्विने ॥ ४३॥
भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा ।
न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनि ॥ ४४॥
त्वं दिव्याम्बरयोग्यासि शोभसे नाजिनैर्वृता ।
सर्वाभरणसंयुक्ता नीलालकवरूथिनी ॥ ४५॥
अहो विधेर्दुष्कलितं विचेष्टितं
यदत्र रम्भोरु वने विषीदसि ।
विशालनेत्रेऽन्धमिमं पतिं प्रिये
मुनिं समासाद्य जरातुरं भृशम् ॥ ४६॥
वृथा व्रतस्तेन भृशं न शोभसे
नवं वयः प्राप्य सुनृत्यपण्डिते ।
मनोभवेनाशु शराः सुसन्धिताः
पतन्ति कस्मिन्पतिरीदृशस्तव ॥ ४७॥
त्वमन्धभार्या नवयौवनान्विता
कृतासि धात्रा ननु मन्दबुद्धिना ।
न चैनमर्हस्यसितायतेक्षणे
पतिं त्वमन्यं कुरु चारुलोचने ॥ ४८॥
वृथैव ते जीवितमम्बुजेक्षणे
पतिं च सम्प्राप्य मुनिं गतेक्षणम् ।
वने निवासं च तथाजिनाम्बर-
प्रधारणं योग्यतरं न मन्महे ॥ ४९॥
अतोऽनवद्याङ्ग्युभयोस्त्वमेकं
वरं कुरुषावहिता सुलोचने ।
किं यौवनं मानिनि सङ्करोषि
वृथा मुनिं सुन्दरि सेवमाना ॥ ५०॥
किं सेवसे भाग्यविवर्जितं तं
समुज्झितं पोषणरक्षणाभ्याम् ।
त्यक्त्वा मुनिं सर्वसुखापवर्जितं
भजानवद्याङ्ग्युभयोस्त्वमेकम् ॥ ५१॥
त्वं नन्दने चैत्ररथे वने च
कुरुष्व कान्ते प्रथितं विहारम् ।
अन्धेन वृद्धेन कथं हि कालं
विनेष्यसे मानिनि मानहीनम् ॥ ५२॥
भूपात्मजा त्वं शुभलक्षणा च
जानासि संसारविहारभावम् ।
भाग्येन हीना विजने वनेऽत्र
कालं कथं वाहयसे वृथा च ॥ ५३॥
तस्माद्भजस्व पिकभाषिणि चारुवक्त्रे
एवं द्वयोस्तव सुखाय विशालनेत्रे ।
देवालयुषे च कृशोदरि भुङ्क्ष्व भोगान्
त्यक्त्वा मुनिं जरठमाशु नृपेन्द्रपुत्रि ॥ ५४॥
किं ते सुखं चात्र वने सुकेशि
वृद्धेन सार्धं विजने मृगाक्षि ।
सेवा तथान्धस्य नवं वयश्च
किं ते मतं भूपतिपुत्रि दुःखम् ॥ ५५॥
शशिमुखि त्वमतीव सुकोमला
फलजलाहरणं तव नोचितम् ॥ ५६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां सप्तमस्कन्धे अश्विनीकुमारयोः सुकन्यां
प्रति बोधवचनवर्णनं नाम चतुर्थोऽध्यायः ॥ ७.४॥
७.५ पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।
व्यास उवाच -
तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा ।
धैर्यमालम्ब्य तौ तत्र बभाषे मितभाषिणी ॥ १॥
देवौ वां रविपुत्रौ च सर्वज्ञौ सुरसम्मतौ ।
सतीं मां धर्मशीलां च नैवं वदितुमर्हथः ॥ २॥
पित्रा दत्ता सुरश्रेष्ठौ मुनये योगधर्मिणे ।
कथं गच्छामि तं मार्गं पुंश्चलीगणसेवितम् ॥ ३॥
द्रष्टायं सर्वलोकस्य कर्मसाक्षी दिवाकरः ।
कश्यपाच्चैव सम्भूतो नैवं भाषितुमर्हथः ॥ ४॥
कुलकन्या पतिं त्यक्त्वा कथमन्यं भजेन्नरम् ।
असारेऽस्मिन्हि संसारे जानन्तौ धर्मनिर्णयम् ॥ ५॥
यथेच्छं गच्छतं देवौ शापं दास्यामि वानघौ ।
सुकन्याहं च शर्यातेः पतिभक्तिपरायणा ॥ ६॥
व्यास उवाच -
इत्याकर्ण्य वचस्तस्या नासत्यौ विस्मितौ भृशम् ।
तावब्रूतां पुनस्त्वेनां शङ्कमानौ भयं मुनेः ॥ ७॥
राजपुत्रि प्रसन्नौ ते धर्मेण वरवर्णिनि ।
वरं वरय सुश्रोणि दास्यावः श्रेयसे तव ॥ ८॥
जानीहि प्रमदे नूनमावां देवभिषग्वरौ ।
युवानं रूपसम्पन्नं प्रकुर्यावः पतिं तव ॥ ९॥
ततस्त्रयाणामस्माकं पतिमेकतमं वृणु ।
समानरूपदेहानां मध्ये चातुर्यपण्डिते ॥ १०॥
सा तर्योवचनं श्रुत्वा विस्मिता स्वपतिं तदा ।
गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम् ॥ ११॥
सुकन्योवाच -
स्वामिन् सूर्यसुतौ देवौ सम्प्राप्तौ च्यवनाश्रमे ।
दृष्टौ मया दिव्यदेहौ नासत्यौ भृगुनन्दन ॥ १२॥
वीक्ष्य मां चारुसर्वाङ्गीं जातौ कामातुरावुभौ ।
कथितं वचनं स्वामिन् पतिं ते नवयौवनम् ॥ १३॥
दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल ।
एतेन समयेनाद्य तं शृणु त्वं मयोदितम् ॥ १४॥
समावयवरूपं च करिष्यावः पतिं तव ।
तत्र त्रयाणामस्माकं पतिमेकतमं वृणु ॥ १५॥
तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् ।
किं कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसङ्कटे ॥ १६॥
देवमायापि दुर्ज्ञेया न जाने कपटं तयोः ।
यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम् ॥ १७॥
च्यवन उवाच -
गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते ।
आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ ॥ १८॥
क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा
व्यास उवाच -
एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत् ॥ १९॥
क्रियतामाशु नासत्यौ समयेन सुरोत्तमौ ।
तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ ॥ २०॥
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ।
रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह ॥ २१॥
अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् ।
ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः ।
तुल्यरूपा दिव्य देहा युवानः सदृशाः किल ।
दिव्यकुण्डलभूषाढ्याः समानावयवास्तथा ॥ २३॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि ।
अस्माकमीप्सितं भद्रे पतिं त्वममलानने ॥ २४॥
यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने ।
व्यास उवाच -
सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा ॥ २५॥
एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् ।
सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन् ॥ २६॥
अजानन्ती पतिं सम्यग्व्याकुला समचिन्तयत् ।
किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम् ॥ २७॥
पतिं देवसुता ह्येते संशये पतितास्म्यहम् ।
इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम् ॥ २८॥
कर्तव्यं किं मया चात्र मरणं समुपागतम् ।
न मया पतिमुत्सृज्य वरणीयः कथञ्चन ॥ २९॥
देवस्त्वाधुनिकः कश्चिदित्येषा मम धारणा ।
इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम् ॥ ३०॥
दध्यौ भगवतीं देवीं तुष्टाव च कृशोदरी ।
सुकन्योवाच -
शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता ॥ ३१॥
रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तव ।
नमः पद्मोद्भवे देवि नमः शङ्करवल्लभे ॥ ३२॥
विष्णुप्रिये नमो लक्ष्मि वेदमातः सरस्वति ।
इदं जगत्त्वया सृष्टं सर्वं स्थावरजङ्गमम् ॥ ३३॥
पासि त्वमिदमव्यग्रा तथात्सि लोकशान्तये ।
ब्रह्मविष्णुमहेशानां जननी त्वं सुसम्मता ॥ ३४॥
बुद्धिदासि त्वमज्ञानां ज्ञानिनां मोक्षदा सदा ।
आज्ञा त्वं प्रकृतिः पूर्णा पुरुषप्रियदर्शना ॥ ३५॥
भुक्तिमुक्तिप्रदासि त्वं प्राणिनां विशदात्मनाम् ।
अज्ञानां दुःखदा कामं सत्त्वानां सुखसाधना ॥ ३६॥
सिद्धिदा योगिनामम्ब जयदा कीर्तिदा पुनः ।
शरणं त्वां प्रपन्नास्मि विस्मयं परमं गता ॥ ३७॥
पतिं दर्शय मे मातर्मग्नास्मि शोकसागरे ।
देवाभ्यां चरितं कूटं कं वृणोमि विमोहिता ॥ ३८॥
पतिं दर्शय सर्वज्ञे विदित्वा मे सतीव्रतम् ।
व्यास उवाच -
एवं स्तुता तदा देवा तथा त्रिपुरसुन्दरी ॥ ३९॥
हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम् ।
निश्चित्य मनसा तुल्यवयोरूपधरान्सती ॥ ४०॥
प्रसमीक्ष्य तु तान् सर्वान्वव्रे बाला स्वकं पतिम् ।
वृतेऽथ च्यवने देवौ सन्तुष्टौ तौ बभूवतुः ॥ ४१॥
सतीधर्मं समालोक्य सम्प्रीतौ ददतुर्वरम् ।
भगवत्याः प्रसादेन प्रसन्नौ तौ सुरौत्तमौ ॥ ४२॥
मुनिमामन्त्र्य तरसा गमनायोद्यतावुभौ ।
लब्ध्वा तु च्यवनो रूपं नेत्रे भार्यां च यौवनम् ॥ ४३॥
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ।
उपकारः कृतोऽयं मे युवाभ्यां सुरसत्तमौ ॥ ४४॥
किं ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे ।
प्राप्य भार्यां सुकेशान्तां दुःखं मेऽभवदन्वहम् ॥ ४५॥
अन्धस्य चातिवृद्धस्य भोगहीनस्य कानने ।
युवाभ्यां नयने दत्ते यौवनं रूपमद्भुतम् ॥ ४६॥
सम्पादितं ततं किञ्चिदुपकर्तुमहं ब्रुवे ।
उपकारिणि मित्रे यो नोपकुर्यात्कथञ्चन ॥ ४७॥
तं धिगस्तु नरं देवौ भवेच्च ऋणवान्भुवि ।
तस्माद्वां वाञ्छितं किञ्चिद्दातुमिच्छामि साम्प्रतम् ॥ ४८॥
आत्मनो ऋणमोक्षाय देवेशौ नूतनस्य च ।
प्रार्थितं वां प्रदास्यामि यदलभ्यं सुरासुरैः ॥ ४९॥
ब्रुवाथां वां मनोद्दिष्टं प्रीतोऽस्मि सुकृतेन वाम् ।
श्रुत्वा तौ तु मुनेर्वाक्यमभिमन्त्र्य परस्परम् ॥ ५०॥
तमूचतुर्मुनिश्रेष्ठं सुकन्यासहितं स्थितम् ।
मुने पितुः प्रसादेन सर्वं नो मनसेप्सितम् ॥ ५१॥
उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह ।
भिषजाविति देवेन निषिद्धौ चमसग्रहे ॥ ५२॥
शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले ।
तस्मात्त्वमपि धर्मज्ञ यदि शक्तोऽसि तापस ॥ ५३॥
कार्यमेतद्धि कर्तव्यं वाञ्छितं नौ सुसम्मतम् ।
एतद्विज्ञाय वा ब्रह्मन्कुरु वां सोमपायिनौ ॥ ५४॥
पिपासास्ति सुदुष्प्रापपा त्वत्तः समुपयास्यति ।
च्यवनस्तु तयोः प्राह तच्छ्रुत्वा वचनं मृदु ॥ ५५॥
यदहं रूपसम्पन्नो वयसा च समन्वितः ।
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिति ॥ ५६॥
तस्माद्युवां करिष्यामि प्रीत्याहं सोमपायिनौ ।
मिषतो देवराजस्य सत्यमेतद्ब्रवीम्यहम् ॥ ५७॥
राज्ञस्तु वितते यज्ञे शर्यातेरमितद्युतेः ।
इत्याकर्ण्य वचो हृष्टौ तौ दिवं प्रतिजग्मतुः ॥ ५८॥
च्यवनस्तां गृहीत्वा तु जगामाश्रममण्डलम् ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां सप्तमस्कन्धे अश्विभ्यां च्यवनद्वारा
सोमपानाय प्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ ७.५॥
७.६ षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।
जनमेजय उवाच -
च्यवनेन कथं वैद्यौ तौ कृतौ सोमपायिनौ ।
वचनं च कथं सत्यं जातं तस्य महात्मनः ॥ १॥
मानुषस्य बलं कीदृग्देवराजबलं प्रति ।
निषिद्धौ भिषजौ तेन कृतौ तौ सोमपायिनौ ॥ २॥
धर्मनिष्ठ तदाश्चर्यं विस्तरेण वद प्रभो ।
चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा ॥ ३॥
व्यास उवाच -
निशामय महाराज चरितं परमाद्भुतम् ।
च्यवनस्य मखे तस्मिञ्छर्यातेर्भुवि भारत ॥ ४॥
सुकन्यां सुन्दरीं प्राप्य च्यवनः सुरसन्निभः ।
विजहार प्रसन्नात्मा देवकन्यामिवापरः ॥ ५॥
कदाचिदथ शर्यातिभार्या चिन्तातुरा भृशम् ।
पतिं प्राह वेपमाना वचनं रुदती प्रिया ॥ ६॥
राजन् पुत्री त्वया दत्ता मुनयेऽन्धाय कानने ।
मृता जीवति वा सा तु द्रष्टव्या सर्वथा त्वया ॥ ७॥
गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् ।
किं करोति सुकन्या सा प्राप्य नाथं तथाविधम् ॥ ८॥
पुत्रीदुःखेन राजर्षे दग्धास्मि सर्वथा हृदि ।
तामानय विशालाक्षीं तपःक्षामां मदन्तिके ॥ ९॥
पश्यामि सर्वथा पुत्रीं कृशाङ्गीं वल्कलावृताम् ।
अन्धं पतिं समासाद्य दुःखभाजं कृशोदरीम् ॥ १०॥
शर्यातिरुवाच -
गच्छामोऽद्य विशालाक्षि सुकन्यां द्रष्टुमादरात् ।
प्रियपुत्रीं वरारोहे मुनिं तं संशितव्रतम् ॥ ११॥
व्यास उवाच -
एवमुक्त्व तु शर्यातिः कामिनीं शोकसङ्कुलाम् ।
जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः ॥ १२॥
गत्वाऽऽश्रमसमीपे तु तमपश्यन्महीपतिः ।
नवयौवनसम्पन्नं देवपुत्रोपमं मुनिम् ॥ १३॥
तं विलोक्यामराकारं विस्मयं नृपतिर्गतः ।
किं कृतं कुत्सितं कर्म पुत्र्या लोकविगर्हितम् ॥ १४॥
निहतोऽसौ मुनिर्वृद्धस्त्वनयान्यः पतिः कृतः ।
कामपीडितया कामं प्रशान्तोऽप्यतिनिर्धनः ॥ १५॥
दुःसहयोऽयं पुष्पधन्वा विशेषेण च यौवने ।
कुले कलङ्कः सुमहाननया मानवे कृतः ॥ १६॥
धिक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता ।
सर्वपापैस्तु दुःखाय पुत्री भवति देहिनाम् ॥ १७॥
मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये ।
वृद्धायान्धाय या दत्ता पुत्री सर्वात्मना किल ॥ १८॥
कन्या योग्याय दातव्या पित्रा सर्वात्मना किल ।
तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया ॥ १९॥
हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् ।
स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः ॥ २०॥
मनुवंशस्तु विख्यातः सकलङ्कः कृतो मया ।
लोकापवादो बलवान्दुस्त्याज्या स्नेहशृङ्खला ॥ २१॥
किं करोमीति चिन्ताब्धौ यदा मग्नः स पार्थिवः ।
सुकन्यया तदा दैवाद्दृष्टश्चिन्ताकुलः पिता ॥ २२॥
सा दृष्ट्वा तं जगामाशु सुकन्या पितुरन्तिके ।
गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा ॥ २३॥
किं विचारयसे राजंश्चिन्ताव्याकुलिताननः ।
उपविष्टं मुनिं वीक्ष्य युवानमम्बुजेक्षणम् ॥ २४॥
एह्येहि पुरुषव्याघ्र प्रणमस्व पतिं मम ।
मा विषादं नृपश्रेष्ठ साम्प्रतं कुरु मानव ॥ २५॥
व्यास उवाच -
इति पुत्र्या वचं श्रुत्वा शर्यातिः क्रोधपीडितः ।
प्रोवाच वचनं राजा पुरःस्थां तनयां ततः ॥ २६॥
राजोवाच -
क्व मुनिश्च्यवनः पुत्रि वृद्धोऽन्धस्तापसोत्तमः ।
कोऽयं युवा मदोन्मत्तः सन्देहोऽत्र महान्मम ॥ २७॥
मुनिः किं निहतः पापे त्वया दुष्कृतकारिणि ।
नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि ॥ २८॥
सोऽहं चिन्तातुरस्तं न पश्याम्याश्रमसंस्थितम् ।
किं कृतं दुष्कृतं कर्म कुलटाचरितं किल ॥ २९॥
निमग्नोऽहं दुराचारे शोकाब्धौ त्वत्कृतेऽधुना ।
दृष्ट्वैनं पुरुषं दिव्यमदृष्ट्वा च्यवनं मुनिम् ॥ ३०॥
विहस्य तमुवाचाशु सा श्रुत्वा वचनं पितुः ।
गृहीत्वाऽऽनीय पितरं भर्तुरन्तिकमादरात् ॥ ३१॥
च्यवनोऽसौ मुनिस्तात जामाता ते न संशयः ।
अश्विभ्यामीदृशः कान्तः कृतः कमललोचनः ॥ ३२॥
यदृच्छयात्र सम्प्राप्तौ नासत्यावाश्रमे मम ।
ताभ्यां करुणया नूनं च्यवनस्तादृशः कृतः ॥ ३३॥
नाहं तव सुता तात तथा स्यां पापकारिणी ।
यथा त्वं मन्यसे राजन् विमूढो रूपसंशये ॥ ३४॥
प्रणम त्वं मुनिं राजन् भार्गवं च्यवनं पितः ।
आपृच्छ कारणं सर्वं कथियिष्यति विस्तरम् ॥ ३५॥
इति श्रुत्वा वचं पुत्र्या शर्यातिस्त्वरितस्तदा ।
प्रणनाम मुनिं तत्र गत्वा पप्रच्छ सादरम् ॥ ३६॥
राजोवाच -
कथयस्व स्ववृत्तान्तं भार्गवाशु यथोचितम् ।
नयने च कथं प्राप्ते क्व गता ते जरा पुनः ॥ ३७॥
संशयोऽयं महान्मेऽस्ति रूपं दृष्ट्वातिसुन्दरम् ।
वद विस्तरतो ब्रह्मन् श्रुत्वाहं सुखमाप्नुयाम् ॥ ३८॥
च्यवन उवाच -
नासत्यावत्र सम्प्राप्तौ देवानां भिषजावुभौ ।
उपकारः कृतस्ताभ्यां कृपया नृपसत्तम ॥ ३९॥
मया ताभ्यां वरो दत्त उपकारस्य हेतवे ।
करिष्यामि मखे राज्ञो भवन्तौ सोमपायिनौ ॥ ४०॥
एवं मया वयः प्राप्तं लोचने विमले तथा ।
स्वस्थो भव महाराज संविशस्वासने शुभे ॥ ४१॥
इत्युक्तः स तु विप्रेण सभार्यः पृथिवीपतिः ।
सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना ॥ ४२॥
अथैनं भार्गवं प्राह राजानं परिसान्त्वयन् ।
याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ॥ ४३॥
मया प्रतिश्रुतं ताभ्यां कर्तव्यौ सोमपौ युवाम् ।
तत्कर्तव्यं नृपश्रेष्ठ तव यज्ञेऽतिविस्तरे ॥ ४४॥
इन्द्रं निवारयिष्यामि क्रुद्धं तेजोबलेन वै ।
पाययिष्यामि राजेन्द्र सोमं सोममखे तव ॥ ४५॥
ततः परमसन्तुष्टः शर्यातिः पृथिवीपतिः ।
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ ४६॥
सम्मान्य च्यवनं राजा जगाम नगरं प्रति ।
सभार्यश्चातिसन्तुष्टः कुर्वन्वार्तां मुनेः किल ॥ ४७॥
प्रशस्तेहनि यज्ञीये सर्वकामसमृद्धिमान् ।
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ ४८॥
समानीय मुनीन्पूज्यान्वसिष्ठप्रमुखानसौ ।
भार्गवो याजयामास च्यवनः पृथिवीपतिम् ॥ ४९॥
वितते तु तथा यज्ञे देवाः सर्वे सवासवाः ।
आजग्मुश्चाश्विनौ तत्र सोमार्थमुपजग्मतुः ॥ ५०॥
इन्द्रस्तु शङ्कितस्तत्र वीक्ष्य तावश्विनावुभौ ।
पप्रच्छ च सुरान्सर्वान्किमेतौ समुपागतौ ॥ ५१॥
चिकित्सकौ न सोमार्हौ केनानीताविहेति च ।
नाब्रुवन्नमरास्तत्र राज्ञस्तु वितते मखे ॥ ५२॥
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।
शक्रस्तं वारयामास मा गृहाणैतयोर्ग्रहम् ॥ ५३॥
तमाह च्यवनस्तत्र कथमेतौ रवेः सुतौ ।
न ग्रहार्हौ च नासत्यौ ब्रूहि सत्यं शचीपते ॥ ५४॥
न सङ्करौ समुत्पन्नौ धर्मपत्नीसुतौ रवेः ।
केन दोषेण देवेन्द्र नार्हौ सोमं भिषग्वरौ ॥ ५५॥
निर्णयोऽत्र मखे शक्र कर्तव्यः सर्वदैवतैः ।
ग्राहयिष्यामहं सोमं कृतौ तौ सोमपौ मया ॥ ५६॥
प्रेरितोऽसौ मया राजा मखाय मघवन्किल ।
एतदर्थं करिष्यामि सत्यं मे वचनं विभो ॥ ५७॥
आभ्यामुपकृतः शक्र तथा दत्तं नवं वयः ।
तस्मात्प्रत्युपकारस्तु कर्तव्यः सर्वथा मया ॥ ५८॥
इन्द्र उवाच -
चिकित्सकौ कृतावेतौ नासत्यौ निन्दितौ सुरैः ।
उभावेतौ न सोमार्हौ मा गृहाणैतयोर्ग्रहम् ॥ ५९॥
च्यवन उवाच -
अहल्याजार संयच्छ कोपं चाद्य निरर्थकम् ।
वृत्रघ्न किं हि नासत्यौ न सोमार्हौ सुरात्मजौ ॥ ६०॥
एवं विवादे समुपस्थिते च
न कोऽपि वाचं तमुवाच भूप ।
ग्रहं तयोर्भार्गवतिग्मतेजाः
सङ्ग्राहयामास तपोबलेन ॥ ६१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां सप्तमस्कन्धे च्यवनाश्विनोः कृते
सोमपानाधिकारत्वचेष्टावर्णनं नाम षष्टोऽध्यायः ॥ ७.६॥
७.७ सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।
व्यास उवाच -
दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् ।
प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः ॥ १॥
मा ब्रह्मबन्धो मर्यादामिमां त्वं कर्त्तुमर्हसि ।
वधिष्यामि द्विषन्तं त्वां विश्वरूपमिवाऽपरम् ॥ २॥
च्यवन उवाच -
मावमंस्था महात्मानौ रूपद्रविणवर्चसा ।
यौ चक्रतुर्मां मघवन् वृन्दारकमिवापरम् ॥ ३॥
ऋते त्वां विबुधाश्चान्ये कथं वाददते ग्रहम् ।
अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ ॥ ४॥
इन्द्र उवाच -
भिषजौ नार्हतः कामं ग्रहं यज्ञे कथञ्चन ।
यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि साम्प्रतम् ॥ ५॥
व्यास उवाच ।
अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः ।
ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम् ॥ ६॥
सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया ।
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ ७॥
आभ्यमर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् ।
वज्रं तु प्रहरिष्यामि विश्वरूपमिवापरम् ॥ ८॥
वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः ।
जग्राह विधिवत्सोममश्विभ्यामतिमन्युमान् ॥ ९॥
इन्द्रोऽपि प्राक्षिपत्कोपाद्वज्रमस्मै स्वमायुधम् ।
पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम् ॥ १०॥
प्रेरितं चाशनिं प्रेक्ष्य च्यवनस्तपसा ततः ।
स्तम्भयामास वज्रं स शक्रस्यामिततेजसः ॥ ११॥
कृत्यया स महाबाहुरिन्द्रं हन्तुमिहोद्यतः ।
जुहावाग्नौ श्रुतं हव्यं मन्त्रेण मुनिसत्तमः ॥ १२॥
तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात् ।
प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः ॥ १३॥
मदो नाम महाघोरो भयदः प्राणिनामिह ।
शरीरे पर्वताकारस्तीक्ष्णदंष्ट्रो मयानकः ॥ १४॥
चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् ।
इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥ १५॥
बाहू पर्वतसङ्काशावायतौ क्रूरदर्शनौ ।
जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम् ॥ १६॥
ग्रीवा तु गिरिशृङ्गाभा कठिना भीषणा भृशम् ।
नखा व्याघ्रनखप्रख्याः केशाश्चातीवभीषणाः ॥ १७॥
शरीरं कज्जलाभं च तस्य चास्यं भयानकम् ।
नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके ॥ १८॥
हनुरेका स्थिता तस्य भूमावेका दिवं गता ।
एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः ॥ १९॥
तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा ।
इन्द्रोऽपि भयसन्त्रस्तो युद्धाय न मनो दधे ॥ २०॥
दैत्योऽपि वदने कामं वज्रमादाय संस्थितः ।
व्याप्तं नभो घोरदृष्टिर्ग्रसन्निव जगत्त्रयम् ॥ २१॥
स भक्ष्ययिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् ।
चक्रुशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः ॥ २२॥
इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् ।
न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः ॥ २३॥
वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् ।
सस्मार मनसा तत्र गुरुं समयकोविदम् ॥ २४॥
स्मरणादाजगामाशु बृहस्पतिरुदारधीः ।
गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत् ॥ २५॥
विचार्य मनसा कृत्यं तमुवाच शचीपतिम् ।
दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव ॥ २६॥
असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः ।
तपोबलमृषेः सम्यक् च्यवनस्य महाबलः ॥ २७॥
अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया ।
शरणं याहि देवेश च्यवनस्य महात्मनः ॥ २८॥
स निवारयिता नूनं कृत्यामात्मकृतां किल ।
न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित् ॥ २९॥
व्यास उवाच -
इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति ।
प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः ॥ ३०॥
क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् ।
प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम् ॥ ३१॥
सोमार्हावश्विनावेतावद्यप्रभृति भार्गव ।
भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥ ३२॥
मिथ्या ते नोद्यमो ह्येष भवत्येव तपोधन ।
जाने त्वमपि धर्मज्ञ मिथ्या नैव करिष्यसि ॥ ३३॥
सोमपावश्विनावेतौ त्वत्कृतौ च सदैवे हि ।
भविष्यतश्च शर्यातेः कीर्तिस्तु विपुला भवेत् ॥ ३४॥
मया यद्धि कृतं कर्म सर्वथा मुनिसत्तम ।
परीक्षार्थं तु विज्ञेयं तव वीर्यप्रकाशनम् ॥ ३५॥
प्रसादं कुरु मे ब्रह्मन् मदं संहर चोत्थितम् ।
कल्याणं सर्वदेवानां तथा भूयो विधीयताम् ॥ ३६॥
एवमुक्तस्तु शक्रेण च्यवनः परमार्थवित् ।
सञ्जहार तपः कोपं समुत्पन्नं विरोधजम् ॥ ३७॥
देवमाश्वास्य संविग्नं भार्गवस्तु मदं ततः ।
व्यभजत्स्त्रीषु पानेषु द्यूतेषु मृगयासु च ॥ ३८॥
मदं विभज्य देवेन्द्रमाश्वास्य चकितं भिया ।
संस्थाप्य च सुरान्सर्वान्मखं तस्य न्यवर्तयत् ॥ ३९॥
ततस्तु संस्कृतं सोमं वासवाय महात्मने ।
अश्विभ्यां सर्वधर्मात्मा पाययामास भार्गवः ॥ ४०॥
एवं तौ च्यवनेनार्यावश्विनौ रविपुत्रकौ ।
विहितौ सोमपौ राजन् सर्वथा तपसो बलात् ॥ ४१॥
सरस्तदपि विख्यातं जातं यूपविमण्डितम् ।
आश्रमस्तु मुनेः सम्यक् पृथिव्यां विश्रुतोऽभवत् ॥ ४२॥
शर्यातिरपि सन्तुष्टो ह्यभवत्तेन कर्मणा ।
यज्ञं समाप्य नगरे जगाम सचिवैर्वृतः ॥ ४३॥
राज्यं चकार धर्मज्ञो मनुपुत्रः प्रतापवान् ।
आनर्तस्तस्य पुत्रोऽभूदानर्ताद्रेवतोऽभवत् ॥ ४४॥
सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दमः ॥ ४५॥
तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ।
पुत्री च रेवती नाम्ना सुन्दरी शुभलक्षणा ॥ ४६॥
वरयोग्या यदा जाता तदा राजा च रेवतः ।
चिन्तयामास राजेन्द्रो राजपुत्रान्कुलोद्भवान् ॥ ४७॥
रैवतं नाम च गिरिमाश्रितः पृथिवीपतिः ।
चकार राज्यं बलवानानर्तेषु नराधिपः ॥ ४८॥
विचिन्त्य मनसा राजा कस्मै देया मया सुता ।
गत्वा पृच्छामि ब्रह्माणं सर्वज्ञं सुरपूजितम् ॥ ४९॥
इति सञ्चिन्त्य भूपालः सुतामादाय रेवतीम् ।
ब्रह्मलोकं जगामाशु प्रष्टुकामः पितामहम् ॥ ५०॥
यत्र देवाश्च यज्ञाश्च छन्दांसि पर्वतास्तथा ।
अब्धयः सिद्धगन्धर्वाः दिव्यरूपधराः स्थिताः ॥ ५१॥
ऋषयः सिद्धगन्धर्वाः पन्नगाश्चारणास्तथा ।
तस्थुः प्राञ्जलयः सर्वे स्तुवन्तश्च पुरातनाः ॥ ५२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां सप्तमस्कन्धे रेवतस्य रेवतीवरार्थं
ब्रह्मलोकगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ७.७॥
७.८ अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।
जनमेजय उवाच -
संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे ।
ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम् ॥ १॥
मया पूर्वं श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे ।
ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात् ॥ २॥
राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् ।
सत्यलोकेऽतिदुष्प्रापे भूर्लोकादिति संशयः ॥ ३॥
मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः ।
(मानुषेण तु देहेन ब्रह्मलोके गतिः कथं । )
स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः ॥ ४॥
एतन्मे संस्ययं विद्वंश्छेत्तुमर्हसि साम्प्रतम् ।
यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम् ॥ ५॥
व्यास उवाच -
मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः ।
इन्द्रलोको वह्निलोको या च संयमिनी पुरी ॥ ६॥
तथैव सत्यलोकश्च कैलासश्च तथा पुनः ।
वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते ॥ ७॥
यथार्जुनः शक्रलोके गतः पार्थो धनुर्धरः ।
पञ्चवर्षाणि कौन्तेयः स्थितस्तत्र सुरालये ॥ ८॥
मानुषेणैव देहेन वासवस्य च सन्निधौ ।
तथैवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल ॥ ९॥
स्वर्लोकगतयः पश्चाद्दैत्याश्चापि महाबलाः ।
जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः ॥ १०॥
महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट् ।
आगच्छन्तीं नृपो गङ्गामपश्यच्चातिसुन्दरीम् ॥ ११॥
वायुनाम्बरमस्यास्तु दैवादपहृतं नृप ।
किञ्चिन्नग्ना नृपेणाथ दृष्टा सा सुन्दरी तथा ॥ १२॥
स्मितं चकार कामार्तः सा च किञ्चिज्जहास वै ।
ब्रह्मणा तौ तदा दृष्टौ शप्तौ जातौ वसुन्धराम् ॥ १३॥
वैकुण्ठेऽपि सुराः सर्वे पीडिता दैत्यदानवैः ।
गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम् ॥ १४॥
सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम ।
गम्याः सर्वेऽपि लोकाः स्युर्मानवानां नराधिप ॥ १५॥
अवश्यं कृतपुण्यानां तापसानां नराधिप ।
पुण्यसद्भाव एवात्र गमने कारणं नृप ॥ १६॥
तथैव यजमानानां यज्ञेन भावितात्मनाम् ।
जनमेजय उवाच -
रेवतो रेवतीं कन्यां गृहीत्वा चारुलोचनाम् ॥ १७॥
ब्रह्मलोकं गतः पश्चात्किं कृतं तेने भूभुजा ।
ब्रह्मणा किं समादिष्टं कस्मै दत्ता सुता पुनः ॥ १८॥
तत्सर्वं विस्तराद्बह्मन् कथय त्वं ममाधुना ।
व्यास उवाच -
निशामय महीपाल राजा रेवतकः किल ॥ १९॥
पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा ।
आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम् ॥ २०॥
शृण्वन्नतृप्यद्धृष्टात्मा सभायां तु सकन्यकः ।
समाप्ते तत्र गान्धर्वे प्रणम्य परमेश्वरम् ॥ २१॥
दर्शयित्वा सुतां तस्मै स्वाभिप्रायं न्यवेदयत् ।
राजोवाच -
वरं कथय देवेश कन्येयं मम पुत्रिका ॥ २२॥
देया कस्मै मया ब्रह्मन् प्रष्टुं त्वां समुपागतः ।
बहवो राजपुत्रा मे वीक्षिताः कुलसम्भवाः ॥ २३॥
कस्मिंश्चिन्मे मनः कामं नोपतिष्ठति चञ्चलम् ।
तस्मात्त्वां देवदेवेश प्रष्टुमत्रागतोऽस्म्यहम् ॥ २३॥
तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम् ।
कुलीनं बलवन्तं च सर्वलक्षणसंयुतम् ॥ २५॥
दातारं धर्मशीलं च राजपुत्रं समादिश ।
व्यास उवाच -
तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा ॥ २६॥
तमुवाच हसन्वाक्यं दृष्ट्वा कालस्य पर्ययम् ।
ब्रह्मोवाच -
राजपुत्रास्त्वया राजन् वरा ये हृदये कृताः ॥ २७॥
ग्रस्ताः कालेन ते सर्वे सपितृपौत्रबान्धवाः ।
सप्तविंशतिमोऽद्यैव द्वापरस्तु प्रवर्तते ॥ २८॥
वंशजास्ते मृताः सर्वे पुरी दैत्यैर्विलुण्ठिता ।
सोमवंशोद्भवस्तत्र राजा राज्यं प्रशास्ति हि ॥ २९॥
उग्रसेन इति ख्यातो मथुराधिपतिः किल ।
ययातिवंशसम्भूतो राजा माथुरमण्डले ॥ ३०॥
उग्रसेनात्मजः कंसः सुरद्वेषी महाबलः ।
दैत्यांशः पितरं सोऽपि कारागारं न्यवेशयत् ॥ ३१॥
स्वयं राज्यं चकारासौ नृपाणां मदगर्वितः ।
मेदिनी चातिभारार्ता ब्रह्माणं शरणं गता ॥ ३२॥
दुष्टराजन्यसैन्यायां भारेणातिसमाकुला ।
अंशावतरणं तत्र गदितं सुरसत्तमैः ॥ ३३॥
वासुदेवः समुत्पन्नः कृष्णः कमललोचनः ।
देवक्यां देवरूपिण्यां योऽसौ नारायणो मुनिः ॥ ३४॥
तपश्चचार दुःसाध्यं धर्मपुत्रः सनातनः ।
गङ्गातीरे नरसखः पुण्ये बदरिकाश्रमे ॥ ३५॥
सोऽवतीर्णो यदुकुले वासुदेवोऽपि विश्रुतः ।
तेनासौ निहतः पापः कंसः कृष्णेन सत्तम ॥ ३६॥
उग्रसेनाय राज्यं वै दत्तं हत्वा खलं सुतम् ।
कंसस्य श्वशुरः पापो जरासन्धो महाबलः ॥ ३७॥
आगत्य मथुरां क्रोधाच्चकार सङ्गरं मुदा ।
कृष्णेनासौ जितः सङ्ख्ये जरासन्धो महाबलः ॥ ३८॥
प्रेषयामास युद्धाय सबलं यवनं ततः ।
श्रुत्वाऽऽयान्तं महाशूरं ससैन्यं यवनाधिपम् ॥ ३९॥
[कृष्णस्तु मथुरां त्यक्त्वा पुरीं द्वारावतीमगात् ।
प्रभग्नां तां पुरीं कृष्णः शिल्पिभिः सह सङ्गतैः ॥
कारयामास दुर्गाढ्यां हट्टशालाविमण्डिताम् ।
जीर्णोद्धारं पुरः कृत्वा वासुदेवः प्रतापवान् ।
उग्रसेनं च राजानं चकार वशवर्तिनम् ॥ ]
यादवान्स्थापयामास द्वारवत्यां यदूत्तमः ।
वासुदेवस्तु तत्राद्य वर्तते बान्धवैः सह ॥ ४०॥
तास्याग्रतः स विख्यातो बलदेवो हलायुधः ।
शेषांशो मुसली वीरो वरोऽस्तु तव सम्मतः ॥ ४१॥
सङ्कर्षणाय देह्याशु कन्यां कमललोचनाम् ।
रेवतीं बलभद्राय विवाहविधिना ततः ॥ ४२॥
दत्त्वा पुत्रीं नृपश्रेष्ठ गच्छ त्वं बदरिकाश्रमम् ।
तपस्तप्तुं सुरारामं पावनं कामदं नृणाम् ॥ ४३॥
व्यास उवाच -
इति राजा समादिष्टो ब्रह्मणा पद्मयोनिना ।
जगाम तरसा राजन् द्वारकां कन्ययान्वितः ॥ ४४॥
ददौ तां बलदेवाय कन्यां वै शुभलक्षणाम् ।
ततस्तप्त्वा तपस्तीव्रं नृपतिः कालपर्यये ॥ ४५॥
जगाम त्रिदशावासं त्यक्त्वा देहं सरित्तटे ।
राजोवाच -
भगवन्महदाश्चर्यं भवता समुदाहृतम् ॥ ४६॥
रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः ।
युगानां तु गतं तत्र शतमष्टोत्तरं किल ॥ ४७॥
कन्या वृद्धा न सञ्जाता राजा वातितरां नु किम् ।
एतावन्तं तथा कालमायुः पूर्णं तयोः कथम् ॥ ४८॥
व्यास उवाच -
न जरा क्षुपित्पासा वा न मृत्युर्न भयं पुनः ।
न तु ग्लानिः प्रभवति ब्रह्मलोके सदानघ ॥ ४९॥
मेरुं गतस्य शर्यातेः सन्तती राक्षसैर्हता ।
गताः कुशस्थलीं त्यक्त्वा भयभीता इतस्ततः ॥ ५०॥
मनोश्च क्षुवतः पुत्र उत्पन्नो वीर्यवत्तरः ।
इक्ष्वाकुरिति विख्यातः सूर्यवंशकरस्तु सः ॥ ५१॥
वंशार्थं तप आतिष्ठद्देवीं ध्यात्वा निरन्तरम् ।
नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम् ॥ ५२॥
तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् ।
विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः ॥ ५३॥
अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः ।
शकुनिप्रमुखाः पुत्रा पञ्चाशद्बलवत्तराः ॥ ५४॥
उत्तरापथदेशस्य रक्षितारः कृताः किल ।
दक्षिणस्यां तथा राजन्नादिष्टास्तेन ते सुताः ॥ ५५॥
चत्वारिंशत्तथाष्टौ च रक्षणार्थं महात्मना ।
अन्यौ द्वौ संस्थितौ पार्श्वे सेवार्थं तस्य भूपतेः ॥ ५६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे इक्ष्वाकुवंशवर्णनं नामाष्टमोऽध्यायः ॥ ७.८॥
७.९ नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।
व्यास उवाच -
कदाचिदष्टकाश्राद्धे विकुक्षिं पृथिवीपतिः ।
आज्ञापयदसम्मूढो मांसमानय सत्वरम् ॥ १॥
मेध्यं श्राद्धार्थमधुना वने गत्वा सूतादरात् ।
उत्युक्तोऽसौ तथेत्याशु जगाम वनमस्त्रभृत् ॥ २॥
गत्वा जघान बाणैः स वराहान्सूकरान्मृगान् ।
शशांश्चापि परिश्रान्तो बभूवाथ बुभूक्षितः ॥ ३॥
विस्मृता चाष्टका तस्य शशं चाददसौ वने ।
शेषं निवेदयामास पित्रे मांसमनुत्तमम् ॥ ४॥
प्रोक्षणाय समानीतं मांसं दृष्ट्वा गुरुस्तदा ।
अनर्हमिति तज्ज्ञात्वा चुकोप मुनिसत्तमः ॥ ५॥
भुक्तशेषं तु न श्राद्धे प्रोक्षणीयमिति स्थितिः ।
राज्ञे निवेदयामास वसिष्ठः पाकदूषणम् ॥ ६॥
पुत्रस्य कर्म तज्ज्ञात्वा भूपतिर्गुरुणोदितम् ।
चुकोप विधिलोपात्तं देशान्निःसारयत्ततः ॥ ७॥
शशाप इति विख्यातो नाम्ना जातो नृपात्मजः ।
गतो वने शशादस्तु पितृकोपादसम्भ्रमः ॥ ८॥
वन्येन वर्तयन्कालं नीतवान् धर्मतत्परः ।
पितर्युपरते राज्यं प्राप्तं तेन महात्मना ॥ ९॥
शशादस्त्वकरोद्राज्यमयोध्यायाः पतिः स्वयम् ।
यज्ञाननेकशः पूर्णांश्चकार सरयूतटे ॥ १०॥
शशादस्याभवत्पुत्रः ककुत्स्थ इति विश्रुतः ।
तस्यैव नामभेदाद्वै इन्द्रवाहः पुरञ्जयः ॥ ११॥
जनमेजय उवाच -
नामभेदः कथं जातो राजपुत्रस्य चानघ ।
कारणं ब्रूहि मे सर्वं कर्मणा येन चाभवत् ॥ १२॥
व्यास उवाच -
शशादे स्वर्गते राजा ककुत्स्थ इति चाभवत् ।
[राज्यं चकार धर्मज्ञः पितृपैतामहं बलात् ।]
एतस्मिन्नन्तरे देवा दैत्यैः सर्वे पराजिताः ॥ १३॥
जग्मुस्त्रिलोकाधिपतिं विष्णुं शरणमव्ययम् ।
तान्प्रोवाच महाविष्णुस्तदा देवान्सनातनः ॥ १४॥
विष्णुरुवाच -
पार्ष्णिग्राहं महीपालं प्रार्थयन्तु शशादजम् ।
स हनिष्यति वै दैत्यान्सङ्ग्रामे सुरसत्तमाः ॥ १५॥
आगमिष्यति धर्मात्मा साहाय्यार्थं धनुर्धरः ।
पराशक्तेः प्रसादेन सामर्थ्यं तस्य चातुलम् ॥ १६॥
हरेः सुवचनाद्देवा ययुः सर्वे सवासवाः ।
अयोध्यायां महाराज शशादतनयं प्रति ॥ १७॥
तानागतान् सुरान् राजा पूजयामास धर्मतः ।
पप्रच्छागमने राजा प्रयोजनमतन्द्रितः ॥ १८॥
राजोवाच -
धन्योऽहं पावितश्चास्मि जीवितं सफलं मम ।
यदागत्य गृहे देवा ददुश्च दर्शनं महत् ॥ १९॥
ब्रुवन्तु कृत्यं देवेशा दुःसाध्यमपि मानवैः ।
करिष्यामि महत्कार्यं सर्वथा भवतां महत् ॥ २०॥
देवा ऊचुः -
साहाय्यं कुरु राजेन्द्र सखा भव शचीपतेः ।
सङ्ग्रामे जय दैत्येन्द्रान्दुर्जयांस्त्रिदशैरपि ॥ २१॥
पराशक्तिप्रसादेन दुर्लभं नास्ति ते क्वचित् ।
विष्णुना प्रेरिताश्चैवमागतास्तव सन्निधौ ॥ २२॥
राजोवाच -
पार्ष्णिग्राहो भवाम्यद्य देवानां सुरसत्तमाः ।
इन्द्रो मे वाहनं तत्र भवेद्यदि सुराधिपः ॥ २३॥
सङ्ग्रामं तु करिष्यामि दैत्यैर्देवकृतेऽधुना ।
आरुह्येन्द्रं गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ २४॥
तदोचुर्वासवं देवाः कर्तव्यं कार्यमद्भुतम् ।
पत्रं भव नरेन्द्रस्य त्यक्त्वा लज्जां शचीपते ॥ २५॥
लज्जमानस्तदा शक्रः प्रेरितो हरिणा भृशम् ।
बभूव वृषभस्तूर्णं रुद्रस्येवापरो महान् ॥ २६॥
तमारुरोह राजासौ सङ्ग्रामगमनाय वै ।
स्थितः ककुदि येनास्य ककुत्स्थस्तेन चाभवत् ॥ २७॥
इन्द्रो वाहः कृतो येन तेन नाम्नेन्द्रवाहकः ।
पुरं जितं तु दैत्यानां तेनाभूच्च पुरञ्जयः ॥ २८॥
जित्वा दैत्यान्महाबाहुर्धनं तेषां प्रदत्तवान् ।
पप्रच्छ चैवं राजर्षेरिति सख्यं बभूव ह ॥ २९॥
ककुत्स्थश्चातिविख्यातो नृपतिस्तस्य वंशजाः ।
काकुत्स्था भुवि राजानो बभूवुर्बहुविश्रुताः ॥ ३०॥
ककुत्स्थस्याभवत्पुत्रो धर्मपत्न्यां महाबलः ।
अनेना विश्रुतस्तस्य पृथुः पुत्रश्च वीर्यवान् ॥ ३१॥
विष्णोरंशः स्मृतः साक्षात्पराशक्तिपदार्चकः ।
विश्वरन्धिस्तु विज्ञेयः पृथोः पुत्रो नराधिपः ॥ ३२॥
चन्द्रस्तस्य सुतः श्रीमान् राजा वंशकरः स्मृतः ।
तत्सुतो युवनाश्वस्तु तेजस्वी बलवत्तरः ॥ ३३॥
शावन्तो युवनाश्वस्य जज्ञे परमधार्मिकः ।
शावन्ती निर्मिता तेन पुरी शक्रपुरीसमा ॥ ३४॥
बृहदश्वस्तु पुत्रोऽभूच्छावन्तस्य महात्मनः ।
कुवलयाश्वः सुतस्तस्य बभूव पृथिवीपतिः ॥ ३५॥
धुन्धुर्नामा हतो दैत्यस्तेनासौ पृथिवीतले ।
धुन्धुमारेति विख्यातं नाम प्रापातिविश्रुतम् ॥ ३६॥
पुत्रस्तस्य दृढाश्वस्तु पालयामास मेदिनीम् ।
दृढाश्वस्य सुतः श्रीमान्हर्यश्व इति कीर्तितः ॥ ३७॥
निकुम्भस्तत्सुतः प्रोक्तो बभूव पृथिवीपतिः ।
बर्हणाश्वो निकुम्भस्य कुशाश्वस्तस्य वै सुतः ॥ ३८॥
प्रसेनजित्कृशाश्वस्य बलवान्सत्यविक्रमः ।
तस्य पुत्रो महाभागो यौवनाश्वेति विश्रुतः ॥ ३९॥
यौवनाश्वसुतः श्रीमान्मान्धातेति महीपतिः ।
अष्टोत्तरसहस्रं तु प्रासादा येन निर्मिताः ॥ ४०॥
भगवत्यास्तु तुष्ट्यर्थं महातीर्थेषु मानद ।
मातृगर्भे न जातोऽसावुत्पन्नो जनकोदरे ॥ ४१॥
निःसारितस्ततः पुत्रः कुक्षिं भित्त्वा पितुः पुनः ।
राजोवाच -
न श्रुतं न च दृष्टं वा भवता तदुदाहृतम् ॥ ४२॥
असम्भाव्यं महाभाग तस्य जन्म यथोदितम् ।
विस्तरेण वदस्वाद्य मान्धातुर्जन्मकारणम् ॥ ४३॥
राजोदरे यथोत्पन्नः पुत्रः सर्वाङ्गसुन्दरः ।
व्यास उवाच -
यौवनाश्वोऽनपत्योऽभूद्राजा परमधार्मिकः ॥ ४४॥
भार्याणां च शतं तस्य बभूव नृपतेर्नृप ।
राजा चिन्तापरः प्रायश्चिन्तयामास नित्यशः ॥ ४५॥
अपत्यार्थे यौवनाश्वो दुःखितस्तु वनं गतः ।
ऋषीणामाश्रमे पुण्ये निर्विण्णः स च पार्थिवः ॥ ४६॥
मुमोच दुःखितः श्वासांस्तापसानां च पश्यताम् ।
दृष्ट्वा तु दुःखितं विप्रा बभूवुश्च कृपालवः ॥ ४७॥
तमूचुर्ब्राह्मणा राजन्कस्माच्छोचसि पार्थिव ।
किं ते दुःखं महाराज ब्रूहि सत्यं मनोगतम् ॥ ४८॥
प्रतीकारं करिष्यामो दुःखस्य तव सर्वथा ।
यौवनाश्व उवाच -
राज्यं धनं सदश्वाश्च वर्तन्ते मुनयो मम ॥ ४९॥
भार्याणां च शतं शुद्धं वर्तते विशदप्रभम् ।
नारातिस्त्रिषु लोकेषु कोऽप्यस्ति बलवान्मम ॥ ५०॥
आज्ञाकरास्तु सामन्ता वर्तन्ते मन्त्रिणस्तथा ।
एकं सन्तानजं दुःखं नान्यत्पश्यामि तापसाः ॥ ५१॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्माच्छोचामि विप्रेन्द्राः सन्तानार्थं भृशं ततः ॥ ५२॥
वेदशास्त्रार्थतत्त्वज्ञास्तापसाश्च कृतश्रमाः ।
इष्टिं सन्तानकामस्य युक्तां ज्ञात्वा दिशन्तु मे ॥ ५३॥
कुर्वन्तु मम कार्यं वै कृपा चेदस्ति तापसाः ।
व्यास उवाच -
तच्छ्रुत्वा वचनं राज्ञः कृपया पूर्णमानसाः ॥ ५४॥
कारयामासुरव्यग्रास्तस्येष्टिमिन्द्रदेवताम् ।
कलशः स्थापितस्तत्र जलपूर्णस्तु वाडवैः ॥ ५५॥
मन्त्रितो वेदमन्त्रैश्च पुत्रार्थं तस्य भूपतेः ।
राजा तद्यज्ञसदनं प्रविष्टस्तृषितो निशि ॥ ५६॥
विप्रान्दृष्ट्वा शयानान्स पपौ मन्त्रजलं स्वयम् ।
भार्यार्थं संस्कृतं विप्रैर्मन्त्रितं विधिनोद्धृतम् ॥ ५७॥
पीतं राज्ञा तृषार्तेन तदज्ञानान्नृपोत्तम ।
व्युदकं कलशं दृष्ट्वा तदा विप्रा विशङ्किताः ॥ ५८॥
पप्रच्छुस्ते नृपं केन पीतं जलमिति द्विजाः ।
राज्ञा पीतं विदित्वा ते ज्ञात्वा दैवबलं महत् ॥ ५९॥
इष्टिं समापयामासुर्गतास्ते मुनयो गृहान् ।
गर्भं दधार नृपतिस्ततो मन्त्रबलादथ ॥ ६०॥
ततः काले स उत्पन्नः कुक्षिं भित्त्वाऽस्य दक्षिणाम् ।
पुत्रं निष्कासमायासुर्मन्त्रिणस्तस्य भूपतेः ॥ ६१॥
देवानां कृपया तत्र न ममार महीपतिः ।
कं धास्यति कुमारोऽयं मन्त्रिणश्चुक्रुशुर्भृशम् ॥ ६२॥
तदेन्द्रो देशिनीं प्रादान्मां धातेत्यवदद्वचः ।
सोऽभवद्बलवान् राजा मान्धाता पृथिवीपतिः ।
तदुत्पत्तिस्तु भूपाल कथिता तव विस्तरात् ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे मान्धातोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ ७.९॥
७.१० दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।
व्यास उवाच -
बभूव चक्रवर्ती स नृपतिः सत्यसङ्गरः ।
मान्धाता पृथिवीं सर्वामजयन्नृपतीश्वरः ॥ १॥
दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च ।
इन्द्रेणास्य कृतं नाम त्रसद्दस्युरिति स्फुटम् ॥ २॥
तस्य बिन्दुमती भार्या शशबिन्दोः सुताभवत् ।
पतिव्रता सुरूपा च सर्वलक्षणसंयुता ॥ ३॥
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप ।
पुरुकुत्सं सुविख्यातं मुचुकुन्दं तथापरम् ॥ ४॥
पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः ।
पितृभक्तिरतश्चाभूद्बृहदश्वस्तदात्मजः ॥ ५॥
हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित् ।
तस्यात्मजस्त्रिधन्वाभूदरुणस्तस्य चात्मजः ॥ ६॥
अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः ।
सोऽभूदिच्छाचरः कामी मन्दात्मा ह्यतिलोलुपः ॥ ७॥
स पापात्मा विप्रभार्यां हृतवान्काममोहितः ।
विवाहे तस्य विघ्नं स चकार नृपतेः सुतः ॥ ८॥
मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप ।
ऊचुर्भृशं सुदुःखार्ता हा हताःस्मेति चासकृत् ॥ ९॥
पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः ।
किं कृतं मम पुत्रेण भवतामशुभं द्विजाः ॥ १०॥
तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् ।
तदोचुस्त्वरुणं विप्रां कृताशीर्वचना भृशम् ॥ ११॥
ब्राह्मणा ऊचुः -
राजंस्तव सुतेनाद्य विवाहे प्रहृता किल ।
विवाहिता विप्रकन्या बलेन बलिनांवर ॥ १२॥
व्यास उवाच -
श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः ।
पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा ॥ १३॥
गच्छ दूरं सुमन्दात्मन्दुराचार गृहान्मम ।
न स्थातव्यं त्वया पाप विषये मम सर्वथा ॥ १४॥
कुपितं पितरं प्राह क्व गच्छामीति वै मुहुः ।
अरुणस्तमथोवाच श्वपाकैः सह वर्तय ॥ १५॥
श्वपचस्य कृतं कर्म द्विजदारापहारणम् ।
तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम् ॥ १६॥
नाहं पुत्रेण पुत्रार्थी त्वया च कुलपांसन ।
यथेष्टं व्रज दुष्टात्मन् कीर्तिनाशः कृतस्त्वया ॥ १७॥
स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः ।
निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ ॥ १८॥
सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते ।
धनुर्बाणधरः श्रीमान्कवची करुणालयः ॥ १९॥
यदा निष्कासितः पित्रा कुपितेन महात्मना ।
गुरुणाथ वसिष्ठेन प्रेरितोऽसौ महीपतिः ॥ २०॥
तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः ।
वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे ॥ २१॥
केनचित्कारणेनाथ पिता तस्य महीपतिः ।
पुत्रार्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गतः ॥ २२॥
न ववर्ष तदा तस्मिन्विषये पाकशासनः ।
समा द्वादश राजेन्द्र तेनाधर्मेण सर्वथा ॥ २३॥
विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप ।
संन्यस्य कौशिकीतीरे चचार विपुलं तपः ॥ २४॥
कातरा तत्र सञ्जाता भार्या वै कौशिकस्य ह ।
कुटुम्बभरणार्थाय दुःखिता वरवर्णिनी ॥ २५॥
बालकान्क्षुधयाक्रान्तान्रुदतः पश्यती भृशम् ।
याचमानांश्च नीवारान्कष्टमाप पतिव्रता ॥ २६॥
चिन्तयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान् ।
नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ॥ २७॥
न मे त्रातास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ ।
रुदन्ति बालकाः कामं धिङ्मे जीवनमद्य वै ॥ २८॥
धनहीनां च मां त्यक्त्वा तपस्तप्तुं गतः पतिः ।
न जानाति समर्थोऽपि दुःखितां धनवर्जिताम् ॥ २९॥
बालानां भरणं केन करोमि पतिना विना ।
मरिष्यन्ति सुताः सर्वे क्षुधया पीडिता भृशम् ॥ ३०॥
एकं सुतं तु विक्रीय द्रव्येण कियता पुनः ।
पालयामि सुतानन्यानेष मे विहितो विधिः ॥ ३१॥
सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये ।
कालस्य कलनायाहं विक्रीणामि तथात्मजम् ॥ ३२॥
हृदयं कठिनं कृत्वा सञ्चिन्त्य मनसा सती ।
सा दर्भरज्ज्वा बद्ध्वाथ गले पुत्रं विनिर्गता ॥ ३३॥
मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात् ॥ ३४॥
दृष्टा सत्यव्रतेनार्ता तापसी शोकसंयुता ।
पप्रच्छ नृपतिस्तां तु किं चिकीर्षसि शोभने ॥ ३५॥
रुदन्तं बालकं कण्ठे बद्ध्वा नयसि काधुना ।
किमर्थं चारुसर्वाङ्गि सत्यं ब्रूहि ममाग्रतः ॥ ३६॥
ऋषिपत्न्युवाच -
विश्वामित्रस्य भार्याहं पुत्रोऽयं मे नृपात्मज ।
विक्रेतुमौरसं कामं गमिष्ये विषमे सुतम् ॥ ३७।
अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तुं नृप क्वचित् ।
विक्रीणामि क्षुधार्तैनं शेषस्य भरणाय वै ॥ ३८॥
राजोवाच -
पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव ।
तावदेव पतिस्तेऽत्र वनाच्चैवागमिष्यति ॥ ३९॥
वृक्षे तवाश्रमाभ्याशे भक्ष्यं किञ्चिन्निरन्तरम् ।
बन्धयित्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ ४०॥
इत्ययुक्ता सा तदा तेन राज्ञा कौशिककामिनी ।
विबन्धं तनयं कृत्वा जगामाश्रममण्डलम् ॥ ४१॥
सोऽभवद् गालवो नाम गलबन्धान्महातपाः ।
सा तु स्वस्याश्रमे गत्वा मुमोद बालकैर्वृता ॥ ४२॥
सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः ।
विश्वामित्रस्य च मुनेः कलत्रं तद् बभार ह ॥ ४३॥
वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा ।
विश्वामित्रवनाभ्याशे मांसं वृक्षे बबन्ध ह ॥ ४४॥
ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदात्ततः ।
निर्वृत्तिं परमां प्राप प्राप्य भक्ष्यमनुत्तमम् ॥ ४५॥
अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः ।
गते तप्तुं नृपे तस्मिन्वसिष्ठः पर्यरक्षत ॥ ४६॥
सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद् बहिः ।
पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने ॥ ४७॥
सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः ।
वसिष्ठे चाधिकं मन्युं धारयामास नित्यदा ॥ ४८॥
त्यज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥ ४९॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
जानन्नपि स धर्मात्मा विप्रदारपरिग्रहे ॥ ५०॥
कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावे महीपतिः ।
वसिष्ठस्य च गां दोग्ध्रीमपश्यद्वनमध्यगाम् ॥ ५१॥
तां जघान क्षुधार्तस्तु क्रोधान्मोहाच्च दस्युवत् ।
वृक्षे बबन्ध तन्मांसं नीत्वा स्वयमभक्षयत् ॥ ५२॥
ऋषिपत्नी सुतान्सर्वान्भोजयमास तत्तदा ।
शङ्कमाना मृगस्येति न गोरिति च सुव्रता ॥ ५३॥
वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा क्रुद्धस्तमब्रवीत् ।
दुरात्मन् किं कृतं पापं धेनुघातात्पिशाचवत् ॥ ५४॥
एवं ते शङ्कवः क्रूराः पतन्तु त्वरितास्त्रयः ।
गोवधाद्दारहरणात्पितुः क्रोधात्तथा भृशम् ॥ ५५॥
त्रिशङ्कुरिति नाम्ना वै भुवि ख्यातो भविष्यसि ।
पिशाचरूपमात्मानं दर्शयन्सर्वदेहिनाम् ॥ ५६॥
व्यास उवाच -
एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः ।
चचार च तपस्तीव्रं तस्मिन्नेवाश्रमे स्थितः ॥ ५७॥
कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मन्त्रमनुत्तमम् ।
ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम् ॥ ५८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ ७.१०॥
७.११ एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।
जनमेजय उवाच -
वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः ।
कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते ॥ १॥
व्यास उवाच -
सत्यव्रतस्तथा शप्तः पिशाचत्वमवाप्तवान् ।
तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः ॥ २॥
कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् ।
होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः ॥ ३॥
भूमिदेवाः शृणुध्वं वै वचनं प्रणतस्य मे ।
ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह ॥ ४॥
जपस्य च दशांशेन होमः कार्यो विधानतः ।
भवद्भिः कार्यसिद्ध्यर्थं वेदविद्भिः कृपापरैः ॥ ५॥
सत्यव्रतोऽहं नृपतेः पुत्रो ब्रह्मविदांवराः ।
कार्यं मम विधातव्यं सर्वथा सुखहेतवे ॥ ६॥
तच्छ्रुत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेः सुतम् ।
शप्तस्त्वं गुरुणा प्राप्तं पिशाचत्वं त्वयाधुना ॥ ७॥
न यागार्होऽसि तस्मात्त्वं वेदेष्वनधिकारतः ।
पिशाचत्वमनुप्राप्तं सर्वलोकेषु गर्हितम् ॥ ८॥
व्यास उवाच -
तन्निशम्य वचस्तेषां राजा दुःखमवाप ह ।
धिग्जीवितमिदं मेऽद्य किं करोमि वने स्थितः ॥ ९॥
पित्रा चाहं परित्यक्तः शप्तश्च गुरुणा भृशम् ।
राज्याद्भ्रष्टः पिशाचत्वमनुप्राप्तः करोमि किम् ॥ १०॥
तदा पृथुतरां कृत्वा चितां काष्ठैर्नृपात्मजः ।
सस्मार चण्डिकां देवीं प्रवेशमनुचिन्तयन् ॥ ११॥
स्मृता देवीं महामायां चितां प्रज्वलितां पुरः ।
कृत्वा स्नात्वा प्रवेशार्थं स्थितः प्राञ्जलिरग्रतः ॥ १२॥
ज्ञात्वा भगवती तं तु मर्तुकामं महीपतिम् ।
आजगाम तदाऽऽकाशं प्रत्यक्षं तस्य चाग्रतः ॥ १३॥
दत्त्वाथ दर्शनं देवी तमुवाच नृपात्मजम् ।
सिंहारूढा महाराज मेघगम्भीरया गिरा ॥ १४।
देव्युवाच -
किं ते व्यवसितं साधो हुताशे मा तनुं त्यज ।
स्थिरो भव महाभाग पिता ते जरसान्वितः ॥ १५॥
राज्यं दत्त्वा वने तुभ्यं गन्तास्ति तपसे किल ।
विषादं त्यज हे वीर परश्वोऽहनि भूपते ॥ १६॥
नेतुं त्वामागमिष्यन्ति सचिवाश्व पितुस्तव ।
मत्प्रसादात्पिता च त्वामभिषिच्य नृपासने ॥ १७॥
जित्वा कामं ब्रह्मलोकं गमिष्येत्येष निश्चयः ।
व्यास उवाच -
इत्युक्त्वा तं तदा देवी तत्रैवान्तरधीयत ॥ १८॥
राजपुत्रो विरमितो मरणात्पावकात्ततः ।
अयोध्यायां तदाऽऽगत्य नारदेन महात्मना ॥ १९॥
वृत्तान्तः कथितः सर्वो राज्ञे सत्वरमादितः ।
श्रुत्वा राजाथ पुत्रस्य तं तथा मरणोद्यमम् ॥ २०॥
खेदमाधाय मनसि शुशोच बहुधा नृपः ।
सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः ॥ २१॥
ज्ञातं भवद्भिरत्युग्रं पुत्रस्य मम चेष्टितम् ।
त्यक्तो मया वने धीमान्पुत्रः सत्यव्रतो मम ॥ २२॥
आज्ञयासौ गतः सद्यो राज्यार्हः परमार्थवित् ।
स्थितस्तत्रैव विज्ञाने धनहीनः क्षमान्वितः ॥ २३॥
वसिष्ठेन तथा शप्तः पिशाचसदृशः कृतः ।
सोऽद्य दुःखेन सन्तप्तः प्रवेष्टुञ्च हुताशनम् ॥ २४॥
उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः ।
तस्माद् गच्छन्तु तं शीघ्रं ज्येष्ठपुत्रं महाबलम् ॥ २५॥
आश्वास्य वचनैरत्र तरसैवानयन्त्विह ।
अभिषिच्य सुतं राज्ये औरसं पालनक्षमम् ॥ २६॥
वनं यास्यामि शान्तोऽहं तपसे कृतनिश्चयः ।
इत्युक्त्वा मन्त्रिणः सर्वान्प्रेषयामास पार्थिवः ॥ २७॥
तस्यैवानयनार्थं हि प्रीतिप्रवणमानसः ।
ते गत्वा तं समाश्वास्य मन्त्रिणः पार्थिवात्मजम् ॥ २८॥
अयोध्यायां महात्मानं मानपूर्वं समानयन् ।
दृष्ट्वा सत्यव्रतं राजा दुर्बलं मलिनाम्बरम् ॥ २९॥
जटाजूटधरं क्रूरं चिन्तातुरमचिन्तयत् ।
किं कृतं निष्ठुरं कर्म मया पुत्रो विवासितः ॥ ३०॥
राज्यार्हश्चातिमेधावी जानता धर्मनिश्चयम् ।
इति सञ्चिन्त्य मनसा तमालिङ्य महीपतिः ॥ ३१॥
आसने स्वसमीपशे समाश्वास्योपवेशयत् ।
उपविष्टं सुतं राजा प्रेमपूर्वमुवाच ह ॥ ३२॥
प्रेमगद्गदया वाचा नीतिशास्त्रविशारदः ।
राजोवाच -
पुत्र धर्मे मतिः कार्या माननीया मुखोद्भवाः ॥ ३३॥
न्यायागतं धनं ग्राह्यं रक्षणीयाः सदा प्रजाः ।
नासत्यं क्वापि वक्तव्यं नामार्गे गमनं क्वचित् ॥ ३४॥
शिष्टप्रोक्तं प्रकर्तव्यं पूजनीयास्तपस्विनः ।
हन्तव्या दस्यवः क्रूरा इन्द्रियाणां तथा जयः ॥ ३५॥
कर्तव्यं कार्यसिद्ध्यर्थं राज्ञा पुत्र सदैव हि ।
मन्त्रस्तु सर्वथा गोप्यः कर्तव्यः सचिवैः सह ॥ ३६॥
नोपेक्ष्योऽल्पोऽपि कृतिना रिपुः सर्वात्मना सुत ।
न विश्वसेत्परासक्तं सचिवं च तथा नतम् ॥ ३७॥
चाराः सर्वत्र योक्तव्याः शत्रुमित्रेषु सर्वथा ।
धर्मे मतिः सदा कार्या दानं दद्याच्च नित्यशः ॥ ३८॥
शुष्कवादो न कर्तव्यो दुष्टसङ्गं च वर्जयेत् ।
यष्टव्या विविधा यज्ञाः पूजनीया महर्षयः ॥ ३९॥
न विश्वसेत्स्त्रियं क्वापि स्त्रैणं द्यूतरतं नरम् ।
अत्यादरो न कर्तव्यो मृगयायां कदाचन ॥ ४०॥
द्यूते मद्ये तथा गेये नूनं वारवधूषु च ।
स्वयं तद्विमुखो भूयात् प्रजास्तेभ्यश्च रक्षयेत् ॥ ४१॥
ब्राह्मे मुहूर्ते कर्तव्यमुत्थानं सर्वथा सदा ।
स्नानादिकं सर्वविधिं विधाय विधिवद्यथा ॥ ४२॥
पराशक्तेः परां पूजां भक्त्या कुर्यात्सुदीक्षितः ।
पुत्रैतज्जन्मसाफल्यं पराशक्तेः पदार्चनम् ॥ ४३॥
सकृत्कृत्वा महापूजां दैवीपादजलं पिबन् ।
न जातु जननीगर्भे गच्छेदिति विनिश्चयः ॥ ४४॥
सर्वं दृश्यं महादेवी द्रष्टा साक्षी च सैव हि ।
इति तद्भावभरितस्तिष्ठेन्निर्भयचेतसा ॥ ४५॥
कृत्वा नित्यविधिं सम्यग्गन्तव्यं सदसि द्विजान् ।
समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः ॥ ४६॥
सम्पूज्य ब्राह्मणान्पूज्यान्वेदवेदान्तपारगान् ।
गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा ॥ ४७॥
अविद्वान्ब्राह्मणः कोऽपि नैव पूज्यः कदाचन ।
आहारादधिकं नैव देयं मूर्खाय कर्हिचित् ॥ ४८॥
न वा लोभात्त्वया पुत्र कर्तव्यं धर्मलङ्घनम् ।
अतः परं न कर्तव्यं क्वचिद्विप्रावमाननम् ॥ ४९॥
ब्राह्मणा भूमिदेवाश्च माननीयाः प्रयत्नतः ।
कारणं क्षत्रियाणां च द्विजा एव न संशयः ॥ ५०॥
अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ५१॥
तस्माद्राज्ञा विशेषेण माननीया मुखोद्भवाः ।
दानेन विनयेनैव सर्वथा भूतिमिच्छता ॥ ५२॥
दण्डनीतिः सदा कार्या धर्मशास्त्रानुसारतः ।
कोशस्य सङ्ग्रहः कार्यो नूनं न्यायागतस्य ह ॥ ५३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
सत्यव्रताय राजनीत्युपदेशवर्णनं नामैकादशोऽध्यायः ॥ ७.११॥
७.१२ द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।
एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः ।
तथेति पितरं प्राह प्रेमगद्गदया गिरा ॥ १॥
विप्रानाहूय मन्त्रज्ञान्वेदशास्त्रविशारदान् ।
अभिषेकाय सम्भारान् कारयामास सत्वरम् ॥ २॥
सलिलं सर्वतीर्थानां समानाय्य विशाम्पतिः ।
प्रकृतीश्च समाहूय सामन्तान्भूपतींस्तथा ॥ ३॥
पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् ।
अभिषिच्य सुतं राज्ये त्रिशङ्कुं विधिवत्पिता ॥ ४॥
तृतीयमाश्रमं पुण्यं जग्राह भार्यया युतः ।
वने त्रिपथगाकूले चचार दुश्चरं तपः ॥ ५॥
काले प्राप्ते ययौ स्वर्गं पूजितस्त्रिदशैरपि ।
इन्द्रासनसमीपस्थो रराज रविवत्सदा ॥ ६॥
राजोवाच ।
पूर्वं भगवता प्रोक्तं कथायोगेन साम्प्रतम् ।
सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल ॥ ७॥
कुपितेने पिशाचत्वं प्रापितो गुरुणा ततः ।
कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो ॥ ८॥
न सिंहासनयोग्यो हि भवेच्छापसमन्वितः ।
मुनिना मोचितः शापात्केनान्येन च कर्मणा ॥ ९॥
एतन्मे ब्रूहि विप्रर्षे शापमोक्षणकारणम् ।
आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः ॥ १०॥
व्यास उवाच -
वसिष्ठेन च शप्तोऽसौ सद्यः पैशाचतां गतः ।
दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयङ्करः ॥ ११॥
यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह ।
तया प्रसन्नया राजन् दिव्यदेहः कृतः क्षणात् ॥ १२॥
पिशाचत्वं गतं तस्य पापं चैव क्षयं गतम् ।
विपाप्मा चातितेजस्वी सम्भूतस्तत्कृपामृतात् ॥ १३॥
वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः ।
पितापि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात् ॥ १४॥
राज्यं शशास धर्मात्मा मृते पितरि पार्थिवः ।
ईजे च विविधैर्यज्ञैर्देवदेवीं सनातनीम् ॥ १५॥
तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः ।
लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः ॥ १६॥
युवराजं सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः ।
मानुषेण शरीरेण स्वर्गं भोक्तुं मनो दधे ॥ १७॥
वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः ।
उवाच वचनं प्रीतः कृताञ्जलिपुटस्तदा ॥ १८॥
राजोवाच -
ब्रह्मपुत्र महाभाग सर्वमन्त्रविशारद ।
विज्ञप्तिं मे सुमनसा श्रोतुमर्हसि तापस ॥ १९॥
इच्छा मेऽद्य समुत्पन्ना स्वर्गलोकसुखाय च ।
अनेनैव शरीरेण भोगान्भोक्तुममानुषान् ॥ २०॥
अप्सरोभिश्च संवासः क्रीडितुं नन्दने वने ।
देवगन्धर्वगानं च श्रोतव्यं मधुरं किल ॥ २१॥
याजय त्वं मखेनाशु तादृशेन महामुने ।
यथानेन शरीरेण वसे लोकं त्रिविष्टपम् ॥ २२॥
समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना ।
प्रापयाशु मखं कृत्वा देवलोकं दुरासदम् ॥ २३॥
वसिष्ठ उवाच -
राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः ।
मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा ॥ २४॥
तस्माद् बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् ।
अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः ॥ २५॥
कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि ।
व्यास उवाच -
इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः ॥ २६॥
उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् ।
न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि ॥ २७॥
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् ।
तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः ॥ २८॥
शशाप भूपतिं चेति चाण्डालो भव दुर्मते ।
अनेन त्वं शरीरेण श्वपचो भव सत्वरम् ॥ २९॥
स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित ।
ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक ॥ ३०॥
न ते स्वर्गगतिः पाप मृतस्यापि कथञ्चन ।
व्यास उवाच -
इत्युक्तो गुरुणा राजंस्त्रिशङ्कुस्तत्क्षणादपि ॥ ३१॥
तत्र तेन शरीरेण बभूव श्वपचाकृतिः ।
कुण्डलेऽश्ममये वापि जाते तस्य च तत्क्षणात् ॥ ३२॥
देहे चन्दनगन्धश्च विगन्धो ह्यभवत्तदा ।
नीलवर्णेऽथ सञ्जाते दिव्ये पीताम्बरे तनौ ॥ ३३॥
राजवर्णोऽभवद्देहः शापात्तस्य महात्मनः ।
शक्त्युपासकरोषेण फलमेतदभून्नृप ॥ ३४॥
तस्माच्छ्रीशक्तिभक्तो हि नावमान्यः कदाचन ।
गायत्रीजपनिष्ठो हि वसिष्ठो मुनिसत्तमः ॥ ३५॥
दृष्ट्वा निन्द्यं निजं देहं राजा दुःखमवाप्तवान् ।
न जगाम गृहे दीनो वनमेवाभितो ययौ ॥ ३६॥
चिन्तयामास दुःखार्तास्त्रिशङ्कुः शोकविह्वलः ।
किं करोमि क्व गच्छामि देहो मेऽतीव निन्दितः ॥ ३७॥
कर्तव्यं नैव पश्यामि येन मे दुःखसङ्क्षयः ।
गृहे गच्छामि चेत्पुत्रः पीडितोऽद्य भविष्यति ॥ ३८॥
भार्यापि श्वपचं दृष्ट्वा नाङ्गीकारं करिष्यति ।
सचिवा नादरिष्यन्ति वीक्ष्य मामीदृशं पुनः ॥ ३९॥
ज्ञातयो बन्धुवर्गश्च सङ्गतो न भजिष्यति ।
सर्वैस्तक्तस्य मे नूनं जीवितान्मरणं वरम् ॥ ४०॥
विषं वा भक्षयित्वाद्य पतित्वा वा जलाशये ।
कृत्वा वा कण्ठपाशं च देहत्यागं करोम्यहम् ॥ ४१॥
अग्नौ वा ज्वलिते देहं जुहोमि विधिवद् बलात् ।
कृत्वा वानशनं प्राणांस्त्यजामि दूषितान्भृशम् ॥ ४२॥
आत्महत्या भवेन्नूनं पुनर्जन्मनि जन्मनि ।
श्वपचत्वं च शापश्च हत्यादोषाद्भवेदपि ॥ ४३॥
पुनर्विचार्य भूपालश्चेतसा समचिन्तयत् ।
आत्महत्या न कर्तव्या सर्वथैव मयाधुना ॥ ४४॥
भोक्तव्यं स्वकृतं कर्म देहेनानेन कानने ।
भोगेनास्य विपाकस्य भविता सर्वथा क्षयः ॥ ४५॥
प्रारब्धकर्मणां भोगादन्यथा न क्षयो भवेत् ।
तस्मान्मयात्र भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ४६॥
कुर्वन्पुण्याश्रमाभ्याशे तीर्थानां सेवनं तथा ।
स्मरणं चाम्बिकायास्तु साधूनां सेवनं तथा ॥ ४७॥
एवं कर्मक्षयं नूनं करिष्यामि वने वसन् ।
भाग्ययोगात्कदाचित्तु भवेत्साधुसमागमः ॥ ४८॥
इति सञ्चिन्त्य मनसा त्यक्त्वा स्वनगरं नृपः ।
गङ्गातीरे गतः कामं शोचंस्तत्रैव संस्थितः ॥ ४९॥
हरिश्चन्द्रस्तदा ज्ञात्वा पितुः शापस्य कारणम् ।
दुःखितः सचिवांस्तत्र प्रेषयामास पार्थिवः ॥ ५०॥
सचिवास्तत्र गत्वाऽऽशु तमूचुः प्रश्रयान्विताः ।
प्रणम्य श्वपचाकारं निःश्वसन्तं मुहुर्मुहुः ॥ ५१॥
राजन् पुत्रेण ते नूनं प्रेषितान्समुपागतान् ।
अवेहि सचिवांस्त्वं नो हरिश्चन्द्राज्ञया स्थितान् ॥ ५२॥
युवराजसुतः प्राह यत्तच्छृणु नराधिप ।
आनयध्वं नृपं यूयं सम्मान्य पितरं मम ॥ ५३॥
तस्माद्राजन् समागच्छ राज्यं प्रति गतव्यथः ।
सेवां सर्वे करिष्यन्ति सचिवाश्च प्रजास्तथा ॥ ५४॥
गुरुं प्रसादयिष्यामः स यथा तु दयेत वै ।
प्रसन्नोऽसौ महातेजा दुःखस्यान्तं करिष्यति ॥ ५५॥
इति पुत्रेण ते राजन् कथितं बहुधा किल ।
तस्माद् गमनमेवाशु रोचतां निजसद्मनि ॥ ५६॥
व्यास उवाच -
इति तेषां नृपः श्रुत्वा भाषितं श्वपचाकृतिः ।
स्वगृहं गमनायासौ न मतिं कृतवानतः ॥ ५७॥
तानुवाच तदा वाक्यं व्रजन्तु सचिवाः पुरम् ।
गत्वा पुरं महाभागा ब्रुवन्तु वचनाच्च मे ॥ ५८॥
नागमिष्याम्यहं पुत्र कुरु राज्यमतन्द्रितः ।
मानयन्ब्राह्मणान्देवान्यजन्यज्ञैरनेकशः ॥ ५९॥
नाहं श्वपचवेषेण गर्हितेन महात्मभिः ।
आगमिष्याम्ययोध्यायां सर्वे गच्छन्तु मा चिरम् ॥ ६०॥
पुत्रं सिंहासने स्थाप्य हरिश्चन्द्रं महाबलम् ।
कुर्वन्तु राज्यकर्माणि यूयं तत्र ममाज्ञया ॥ ६१॥
इत्यादिष्टास्ततस्ते तु रुरुदुश्चातुरा भृशम् ।
सचिवा निर्ययुस्तूर्णं नत्वा तं च वनाश्रमात् ॥ ६२॥
अयोध्यायामुपागत्य पुण्येऽह्नि विधिपूर्वकम् ।
अभिषेकं तदा चक्रुर्हरिश्चन्द्रस्य मूर्ध्नि ते ॥ ६३॥
अभिषिक्तस्तु तेजस्वी सचिवैश्च नृपाज्ञया ।
राज्यं चकार धर्मिष्ठः पितरं चिन्तयन्भृशम् ॥ ६४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे त्रिशङ्कूपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ ७.१२॥
७.१३ त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।
राजोवाच -
हरिश्चन्द्रः कृतो राजा सचिवैर्नृपशासनात् ।
त्रिशङ्कुस्तु कथं मुक्तस्तस्माच्चाण्डालदेहतः ॥ १॥
मृतो वा वनमध्ये तु गङ्गातीरे परिप्लुतः ।
गुरुणा वा कृपां कृत्वा शापात्तस्माद्विमोचितः ॥ २॥
एतद् वृत्तान्तमखिलं कथयस्व ममाग्रतः ।
चरितं तस्य नृपतेः श्रोतुकामोऽस्मि सर्वथा ॥ ३॥
व्यास उवाच -
अभिषिक्तं सुतं कृत्वा राजा सन्तुष्टमानसः ।
कालातिक्रमणं तत्र चकार चिन्तयञ्छिवाम् ॥ ४॥
एवं गच्छति काले तु तपस्तप्त्वा समाहितः ।
द्रष्टुं दारान्सुतादींश्च तदागात्कौशिको मुनिः ॥ ५॥
आगत्य स्वजनं दृष्ट्वा सुस्थितं मुदमाप्तवान् ।
भार्यां पप्रच्छ मेधावी स्थितामग्रे सपर्यया ॥ ६॥
दुर्भिक्षे तु कथं कालस्तया नीतः सुलोचने ।
अन्नं विना त्विमे बालाः पालिता केन तद्वद ॥ ७॥
अहं तपसि सन्नद्धो नागतः शृणु सुन्दरि ।
किं कृतं तु त्वया कान्ते विना द्रव्येण शोभने ॥ ८॥
मया चिन्ता कृता तत्र श्रुत्वा दुर्भिक्षमद्भुतम् ।
नागतोऽहं विचार्यैवं किं करिष्यामि निर्धनः ॥ ९॥
अहमप्यति वामोरु पीडितः क्षुधया वने ।
प्रविष्टश्चौरभावेन कुत्रचिच्छ्वपचालये ॥ १०॥
श्वपचं निद्रितं दृष्ट्वा क्षुधया पीडितो भृशम् ।
महानसं परिज्ञाय भक्ष्यार्थं समुपस्थितः ॥ ११॥
यदा भाण्डं समुद्घाट्य पक्वं श्वतनुजामिषम् ।
गृह्णामि भक्षणार्थाय तदा दृष्टस्तु तेन वै ॥ १२॥
पृष्टः कस्त्वं कथं प्राप्तो गृहे मे निशि सादरम् ।
ब्रूहि कार्यं किमर्थं त्वमुद्घाटयसि भाण्डकम् ॥ १३॥
इत्युक्तः श्वपचेनाहं क्षुधया पीडितो भृशम् ।
तमवोचं सुकेशान्ते कामं गद्गदया गिरा ॥ १४॥
ब्राह्मणोऽहं महाभाग तापसः क्षुधयार्दितः ।
चौरभावमनुप्राप्तो भक्ष्यं पश्यामि भाण्डके ॥ १५॥
चौरभावेन सम्प्राप्तोऽस्म्यतिथिस्ते महामते ।
क्षुधितोऽस्मि ददस्वाज्ञां मांसमद्मि सुसंस्कृतम् ॥ १६॥
विश्वामित्र उवाच -
श्वपचस्तु वचः श्रुत्वा मामुवाच सुनिश्चितम् ।
भक्षं मा कुरु वर्णाग्र्य जानीहि श्वपचालयम् ॥ १७॥
दुर्लभं खलु मानुष्यं तत्रापि च द्विजन्मता ।
द्विजत्वे ब्राह्मणत्वं च दुर्लभं वेत्सि किं न हि ॥ १८॥
दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता ।
अग्राह्या मनुना प्रोक्ताः कर्मणा सप्त चान्त्यजाः ॥ १९॥
त्याज्योऽहं कर्मणा विप्र श्वपचो नात्र संशयः ।
निवारयामि भक्ष्यात्त्वां न लोभेनाञ्जसा द्विज ॥ २०॥
वर्णसङ्करदोषोऽयं मा यातु त्वां द्विजोत्तम ।
विश्वामित्र उवाच ।
सत्यं वदसि धर्मज्ञ मतिस्ते विशदान्त्यज ॥ २१॥
तथाप्यापदि धर्मस्य सूक्ष्ममार्गं ब्रवीम्यहम् ।
देहस्य रक्षणं कार्यं सर्वथा यदि मानद ॥ २२॥
पापस्यान्ते पुनः कार्यं प्रायश्चित्तं विशुद्धये ।
दुर्गतिस्तु भवेत्पापादनापदि न चापदि ॥ २३॥
मरणात्क्षुधितस्याथ नरको नात्र संशयः ।
तस्मात्क्षुधापहरणं कर्तव्यं शुभमिच्छता ॥ २४॥
तेनाहं चौर्यधर्मेण देहं रक्षेऽप्यथान्त्यज ।
अवर्षणे च चौर्येण यत्पापं कथितं बुधैः ॥ २५॥
यो न वर्षति पर्जन्यस्तत्तु तस्मै भविष्यति ।
इत्युक्ते वचने कान्ते पर्जन्यः सहसापतत् ॥ २६॥
गगनाद्धस्तिहस्ताभिर्धाराभिरभिकाङ्क्षितः ।
मुदितोऽहं घनं वीक्ष्य वर्षन्तं विद्युता सह ॥ २७॥
तदाहं तद्गृहं त्यक्त्वा निःसृतः परया मुदा ।
कथय त्वं वरारोहे कालो नीतस्त्वया कथम् ॥ २८॥
कान्तारे परमः क्रूरः क्षयकृत्प्राणिनामिह ।
व्यास उवाच -
इति तस्य वचः श्रुत्वा पतिमाह प्रियंवदा ॥ २९॥
यथा शृणु मया नीतः कालः परमदारुणः ।
गते त्वयि मुनिश्रेष्ठ दुर्भिक्षं समुपागतम् ॥ ३०॥
अन्नार्थं पुत्रकाः सर्वे बभूवुश्चातिदुःखिताः ।
क्षुधितान्बालकान्वीक्ष्य नीवारार्थं वने वने ॥ ३१॥
भ्रान्ताहं चिन्तयाऽऽविष्टा किञ्चित्प्राप्तं फलं तदा ।
एवं च कतिचिन्मासा नीवारेणातिवाहिताः ॥ ३२॥
तदभावे मया कान्त चिन्तितं मनसा पुनः ।
न भिक्षा किल दुर्भिक्षे नीवारा नापि कानने ॥ ३३॥
न वृक्षेषु फलान्यासुर्न मूलानि धरातले ।
क्षुधया पीडिता बाला रुदन्ति भृशमातुराः ॥ ३४॥
किं करोमि क्व गच्छामि किं ब्रवीमि क्षुधार्तितान् ।
एवं विचिन्त्य मनसा निश्चयस्तु मया कृतः ॥ ३५॥
पुत्रमेकं ददाम्यद्य कस्मैचिद्धनिने किल ।
गृहीत्वा तस्य मौल्यं तु तेन द्रव्येण बालकान् ॥ ३६॥
पालयेऽहं क्षुधार्तांस्तु नान्योपायोऽस्ति पालने ।
इति सञ्चिन्त्य मनसा पुत्रोऽयं प्रहितो मया ॥ ३७॥
विक्रयार्थं महाभाग क्रन्दमानो भृशातुरः ।
क्रन्दमानं गृहीत्वैनं निर्गताहं गतत्रपा ॥ ३८॥
तदा सत्यव्रतो मार्गे मामुद्वीक्ष्य भृशातुराम् ।
पप्रच्छ स च राजर्षिः कस्माद्रोदिति बालकः ॥ ३९॥
तदाहं तमुवाचेदं वचनं मुनिसत्तम ।
विक्रयार्थं नीयतेऽसौ बालकोऽद्य मया नृप ॥ ४०॥
श्रुत्वा मे वचनं राजा दयार्द्रहृदयस्ततः ।
मामुवाच गृहं याहि गृहीत्वैनं कुमारकम् ॥ ४१॥
भोजनार्थे कुमाराणामामिषं विहितं तव ।
प्रापयिष्याम्यहं नित्यं यावन्मुनिसमागमः ॥ ४२॥
अहन्यहनि भूपालो वृक्षेऽस्मिन्मृगसूकरान् ।
विन्यस्य याति हत्वासौ प्रत्यहं दययान्वितः ॥ ४३॥
तेनैव बालकाः कान्त पालिता वृजिनार्णवात् ।
वसिष्ठेनाथ शप्ताऽसौ भूपतिर्मम कारणात् ॥ ४४॥
कस्मिंश्चिद्दिवसे मांसं न प्राप्तं तेन कानने ।
हता दोग्ध्री वसिष्ठस्य तेनासौ कुपितो मुनिः ॥ ४५॥
त्रिशङ्कुरिति भूपस्य कृतं नाम महात्मना ।
कुपितेन वधाद्धेतोश्चाण्डालश्च कृतो नृपः ॥ ४६॥
तेनाहं दुःखिता जाता तस्य दुःखेन कौशिक ।
श्वपचत्वमसौ प्राप्तो मत्कृते नृपनन्दनः ॥ ४७॥
येन केनाप्युपायेन भवता नृपतेः किल ।
तस्माद्रक्षा प्रकर्तव्या तपसा प्रबलेन ह ॥ ४८॥
व्यास उवाच -
इति भार्यावचः श्रुत्वा कौशिको मुनिसत्तमः ।
तामाह कामिनीं दीनां सान्त्वपूर्वमरिन्दम ॥ ४९॥
विश्वामित्र उवाच -
मोचयिष्यामि तं शापान्नृपं कमललोचने ।
उपकारः कृतो येन कान्ताराद्रक्षितासि वै ॥ ५०॥
विद्यातपोबलेनाहं करिष्ये दुःखसङ्क्षयम् ।
इत्याश्वास्य प्रियां तत्र कौशिकः परमार्थवित् ॥ ५१॥
चिन्तयामास नृपतेः कथं स्याद्दुःखनाशनम् ।
संविमृश्य मुनिस्तत्र जगाम यत्र पार्थिवः ॥ ५२॥
त्रिशङ्कुः पक्वणे दीनः संस्थितः श्वपचाकृतिः ।
आगच्छन्तं मुनिं दृष्ट्वा विस्मितोऽसौ नराधिपः ॥ ५३॥
दण्डवन्निपपातोर्व्यां पादयोस्तरसा मुनेः ।
गृहीत्वा तं करे भूपं पतितं कौशिकस्तदा ॥ ५४॥
उत्थाप्योवाच वचनं सान्त्वपूर्वं द्विजोत्तमः ।
मत्कृते त्वं महीपाल शप्तोऽसि मुनिना यतः ॥ ५५॥
वाञ्छितं ते करिष्यामि ब्रूहि किं करवाण्यहम् ।
राजोवाच -
मया सम्प्रार्थितः पूर्वं वसिष्ठो मखहेतवे ॥ ५६॥
मां याजय मुनिश्रेष्ठ करोमि मखमुत्तमम् ।
यथेष्टं कुरु विप्रेन्द्र यथा स्वर्गं व्रजाम्यहम् ॥ ५७॥
अनेनैव शरीरेण शक्रलोकं सुखालयम् ।
कोपं कृत्वा वसिष्ठोऽसौ मामाहेति सुदुर्मते ॥ ५८॥
मानुषेण हि देहेन स्वर्गवासः कुतस्तव ।
पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ ॥ ५९॥
अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् ।
तदा तेनैव शप्तोऽहं चाण्डालो भव पामर ॥ ६०॥
इत्येतत्कथितं सर्वं कारणं शापसम्भवम् ।
मम दुःखविनाशाय समर्थोऽसि मुनीश्वर ॥ ६१॥
इत्युक्त्वा विररमासौ राजा दुःखरुजार्दितः ।
कौशिकोऽपि निराकर्तुं शापं तस्य व्यचिन्तयत् ॥ ६२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.१३॥
७.१४ चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।
व्यास उवाच -
विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः ।
प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा ॥ १॥
मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः ।
नागताः सर्व एवैते वसिष्ठेन निवारिताः ॥ २॥
गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः ।
आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः ॥ ३॥
तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः ।
नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम ॥ ४॥
पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि ।
प्रापयामि महाराज वाञ्छितं ते करोम्यहम् ॥ ५॥
इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः ।
ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम् ॥ ६॥
दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् ।
यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः ॥ ७॥
पुण्येन मम राजेन्द्र बहुकालार्जितेन च ।
याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये ॥ ८॥
व्यास उवाच -
इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः ।
उत्पपात यथा पक्षी वेगवांस्तपसो बलात् ॥ ९॥
उत्पत्य गगने राजा गतः शक्रपुरीं यदा ।
दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक् ॥ १०॥
कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः ।
गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः ॥ ११॥
सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् ।
ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत् ॥ १२॥
श्वपच क्व समायासि देवलोके जुगुप्सितः ।
याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम् ॥ १३॥
इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन ।
निपपात तदा राजा क्षीणपुण्यो यथामरः ॥ १४॥
पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् ।
पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम् ॥ १५॥
तस्य तत्क्रन्दितं राजन् पतितः कौशिको मुनिः ।
श्रुत्वा तिष्ठेति होवाच पतन्तं वीक्ष्य भूपतिम् ॥ १६॥
वचनात्तस्य तत्रैव स्थितोऽसौ गगने नृपः ।
मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात् ॥ १७॥
विश्वामित्रोऽप्यपः स्पृष्ट्वा चकारेष्टिं सुविस्तराम् ।
विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम् ॥ १८॥
तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः ।
तत्राजगाम सहसा मुनिं प्रति तु गाधिजम् ॥ १९॥
किं ब्रह्मन् क्रियते साधो कस्मात्कोपसमाकुलः ।
अलं सृष्ट्या मुनिश्रेष्ठ ब्रूहि किं करवाणि ते ॥ २०॥
विश्वामित्र उवाच -
स्वं निवासं महीपालं च्युतं त्वद्भुवनाद् विभो ।
नयस्व प्रीतियोगेन त्रिशङ्कुं चातिदुःखितम् ॥ २१॥
व्यास उवाच -
तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशङ्कितः ।
तपोबलं विदित्वोग्रमोमित्योवाच वासवः ॥ २२॥
दिव्यदेहं नृपं कृत्वा विमानवरसंस्थितम् ।
आपृच्छ्य कौशिकं शक्रोऽगमन्निजपुरीं तदा ॥ २३॥
गते शक्रे तु वै स्वर्गं त्रिशङ्कुसहिते ततः ।
विश्वामित्रः सुखं प्राप्य स्वाश्रमे सुस्थिरोऽभवत् ॥ २४॥
हरिश्चन्द्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम् ।
पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात् ॥ २५॥
अयोध्याधिपतिः क्रीडां चकार सह भार्यया ।
रूपयौवनचातुर्ययुक्तया प्रीतिसंयुतः ॥ २६॥
अतीतकाले युवती न सा गर्भवती ह्यभूत् ।
तदा चिन्तातुरो राजा बभूवातीव दुःखितः ॥ २७॥
वसिष्टस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम् ।
अनपत्यत्वजां चिन्तां गुरवे समवेदयत् ॥ २८॥
दैवज्ञोऽसि भवान्कामं मन्त्रविद्याविशारदः ।
उपायं कुरु धर्मज्ञ सन्ततेर्मम मानद ॥ २९॥
अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम ।
कस्मादुपेक्षसे जानन् दुःखं मम च शक्तिमान् ॥ ३०॥
कलविङ्कास्त्विमे धन्या ये शिशुं लालयन्ति हि ।
मन्दभाग्योऽहमनिशं चिन्तयामि दिवानिशम् ॥ ३१॥
व्यास उवाच -
इत्याकर्ण्य मुनिस्तस्य निर्वेदमिश्रितं वचः ।
सञ्चिन्त्य मनसा सम्यक् तमुवाच विधेः सुतः ॥ ३२॥
वसिष्ठ उवाच -
सत्यं ब्रूहि महाराज संसारेऽस्मिन्न विद्यते ।
अनपत्यत्वजं दुःखं यत्तथा दुःखमद्भुतम् ॥ ३३॥
तस्मात्त्वमपि राजेन्द्र वरुणं यादसां पतिम् ।
समाराधय यत्नेन स ते कार्यं करिष्यति ॥ ३४॥
वरुणादधिको नास्ति देवः सन्तानदायकः ।
तमाराधय धर्मिष्ठ कार्यसिद्धिर्भविष्यति ॥ ३५॥
दैवं पुरुषकारश्च माननीयाविमौ नृभिः ।
उद्यमेन विना कार्यसिद्धिः सञ्जायते कथम् ॥ ३६॥
न्यायतस्तु नरैः कार्य उद्यमस्तत्त्वदर्शिभिः ।
कृते तस्मिन्भवेत्सिद्धिर्नान्यथा नृपसत्तम ॥ ३७॥
इति तस्य वचः श्रुत्वा गुरोरमिततेजसः ।
प्रणम्य निर्ययौ राजा तपसे कृतनिश्चयः ॥ ३८॥
गङ्गातीरे शुभे स्थाने कृतपद्मासनो नृपः ।
ध्यायन्पाशधरं चित्ते चचार दुश्चरं तपः ॥ ३९॥
एवं तपस्यतस्तस्य प्रचेता दृष्टिगोचरः ।
कृपयाभून्महाराज प्रसन्नमुखपङ्कजः ॥ ४०॥
हरिश्चन्द्रमुवाचेदं वचनं यादसां पतिः ।
वरं वरय धर्मज्ञ तुष्टोऽस्मि तपसा तव ॥ ४१॥
राजोवाच -
अनपत्योऽस्मि देवेश पुत्रं देहि सुखप्रदम् ।
ऋणत्रयापहारार्थमुद्यमोऽयं मया कृतः ॥ ४२॥
नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितस्य च ।
स्मितपूर्वं ततः पाशी तमाह पुराः स्थितम् ॥ ४३॥
वरुण उवाच -
पुत्रो यदि भवेद्राजन् गुणी मनसि वाञ्छितः ।
सिद्धे कार्ये ततः पश्चात्किं करिष्यसि मे प्रियम् ॥ ४४॥
यदि त्वं तेन पुत्रेण मां यजेथा विशङ्कितः ।
पशुबन्धेन तेनैव ददामि नृपते वरम् ॥ ४५॥
राजोवाच -
देव मे मास्तु वन्ध्यत्वं यजिष्येऽहं जलाधिप ।
पशुं कृत्वा सुतं पुत्रं सत्यमेतद्ब्रवीमि ते ॥ ४६॥
वन्ध्यत्वे परमं दुःखमसह्यं भुवि मानद ।
शोकाग्निशमनं नॄणां तस्माद्देहि सुतं शुभम् ॥ ४७॥
वरुण उवाच -
भविष्यति सुतः कामं राजन् गच्छ गृहाय वै ।
सत्यं तद्वचनं कार्यं यद्ब्रवीषि ममाग्रतः ॥ ४८॥
व्यास उवाच -
इत्युक्तो वरुणेनासौ हरिश्चन्द्रो गृहं ययौ ।
भार्यायै कथयामास वृत्तान्तं वरदानजम् ॥ ४९॥
तस्य भार्याशतं पूर्णं बभूवातिमनोहरम् ।
पट्टराज्ञी शुभा शैव्या धर्मपत्नी पतिव्रता ॥ ५०॥
काले गतेऽथ सा गर्भं दधार वरवर्णिनी ।
बभूव मुदितो राजा श्रुत्वा दोहदचेष्टितम् ॥ ५१॥
कारयामास विधिवत्संस्कारान्नृपतिस्तदा ।
मासेऽथ दशमे पूर्णे सुषुवे सा शुभे दिने ॥ ५२॥
ताराग्रहबलोपेते पुत्रं देवसुतोपमम् ।
पुत्रे जाते नृपः स्नात्वा ब्राह्मणैः परिवेष्टितः ॥ ५३॥
चकार जातकर्मादौ ददौ दानानि भूरिशः ।
राज्ञश्चातिप्रमोदोऽभूत्पुत्रजन्मसमुद्भवः ॥ ५४॥
बभूव परमोदारो धनधान्यसमन्वितः ।
विशेषदानसंयुक्तो गीतवादित्रसङ्कुलः ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ ७.१४॥
७.१५ पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।
व्यास उवाच -
प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे ।
आजगाम तदा पाशी विप्रवेषधरः शुभः ॥ १॥
स्वस्तीत्युक्त्वा नृपं प्राह वरुणोऽहं निशामय ।
पुत्रो जातस्तवाधीश यजानेन नृपाशु माम् ॥ २॥
सत्यं कुरु वचो राजन् यत्प्रोक्तं भवतः पुरा ।
वन्ध्यत्वं तु गतं तेऽद्य वरदानेन मे किल ॥ ३॥
इति तस्य वचः श्रुत्वा राजा चिन्तां चकार ह ।
कथं हन्मि सुतं जातं जलजेन समाननम् ॥ ४॥
लोकपालः समायातो विप्रवेषेण वीर्यवान् ।
न देवहेलनं कार्यं सर्वथा शुभमिच्छता ॥ ५॥
पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा ।
किं करोमि कथं मे स्यात्सुखं सन्ततिसम्भवम् ॥ ६॥
धैर्यमालम्ब्य भूपालस्तं नत्वा प्रतिपूज्य च ।
उवाच वचनं श्लक्ष्णं युक्तं विनयपूर्वकम् ॥ ७॥
राजोवाच -
देवदेव तवानुज्ञां करोमि करुणानिधे ।
वेदोक्तेन विधानेन मखं च बहुदक्षिणम् ॥ ८॥
पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता ।
मासेन शुध्येज्जननी दम्पती तत्र कारणम् ॥ ९॥
सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् ।
कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर ॥ १०॥
व्यास उवाच -
इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् ।
स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव ॥ ११॥
आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया ।
कृत्वौत्थानिकमाचारं पुत्रस्य नृपसत्तम ॥ १२॥
इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः ।
हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः ॥ १३॥
कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः ।
विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान् ॥ १४॥
राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् ।
नामास्य रोहितश्चेति चकार विधिपूर्वकम् ॥ १५॥
पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः ।
आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः ॥ १६॥
वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे ।
प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः ॥ १७॥
दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो ।
मखं करोमि वारीश विधिवद्वाञ्छितं तव ॥ १८॥
अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः ।
तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम् ॥ १९॥
व्यास उवाच -
इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ ।
हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे ॥ २०॥
पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् ।
आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन् ॥ २१॥
भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् ।
प्रणम्यासनसम्मानैः पूजयामास सादरम् ॥ २२॥
स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः ।
करोमि विधिवत्कामं मखं प्रबलदक्षिणम् ॥ २३॥
बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः ।
यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम् ॥ २४॥
तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् ।
कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल ॥ २५॥
तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः ।
प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन् ॥ २६॥
अपि ते सर्वसामग्री वर्तते नृपतेऽधुना ।
पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम् ॥ २७॥
क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि ।
तदाहं दारुणं शापं दास्ये कोपसमन्वितः ॥ २८॥
अद्य गच्छामि राजेन्द्र वचनात्तव मानद ।
न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव ॥ २९॥
इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् ।
राजा परमसन्तुष्टो ननन्द भवने तदा ॥ ३०॥
चूडाकरणकाले तु प्रवृत्ते परमोत्सवे ।
सम्प्राप्तस्तरसा पाशी भवनं नृपतेः पुनः ॥ ३१॥
यदाङ्के सुतमादाय राज्ञी नृपतिसन्निधौ ।
उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात् ॥ ३२॥
कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् ।
विप्ररूपधरः श्रीमान् प्रत्यक्ष इव पावकः ॥ ३३॥
नृपतिस्त्वं समालोक्य बभूवातीव विह्वलः ।
नमश्चकार तं भीत्या कृताञ्जलिपुटः पुरः ॥ ३४॥
विधिवत्पूजयित्वा तं राजोवाच विनीतवान् ।
स्वामिन् कार्यं करोम्यद्य मखस्य विधिपूर्वकम् ॥ ३५॥
वक्तव्यमस्ति तत्रापि शृणुष्वैकमना विभो ।
युक्तं चेन्मन्यसे स्वामिंस्तद् ब्रवीमि तवाग्रतः ॥ ३६॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः ॥ ३७॥
तस्मादयं सुतो मेऽद्य शुद्रवद्वर्तते शिशुः ।
उपनीतः क्रियार्हः स्यादिति वेदेषु निर्णयः ॥ ३८॥
राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम् ।
अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल ॥ ३९॥
दयसे यदि देवेश दीनं मां सेवकं तव ।
तदोपनीय कर्तास्मि पशुना यज्ञमुत्तमम् ॥ ४०॥
लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद ।
मन्यसे मद्वचः सत्यं तद् गच्छ भवनं विभो ॥ ४१॥
व्यास उवाच -
इति तस्य वचः श्रुत्वा दयावान् यादसां पतिः ।
ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः ॥ ४२॥
गतेऽथ वरुणो राजा बभूवातिमुदान्वितः ।
सुखं प्राप्य सुतस्यैवं राजा मुदमवाप ह ॥ ४३॥
चकार राजकार्याणि हरिश्चन्द्रस्तदा नृपः ।
कालेन व्रजता पुत्रो बभूव दशवार्षिकः ॥ ४४॥
तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः ।
चकार ब्राह्मणैः शिष्टैरन्वितः सचिवैस्तथा ॥ ४५॥
एकादशे सुतास्याब्दे व्रतबन्धविधौ नृपः ।
विदधे विधिवत्कार्यं चित्ते चिन्तातुरः पुनः ॥ ४६॥
वर्तमाने तथा कार्ये उपनीते कुमारके ।
आजगामाथ वरुणो विप्रवेषधरस्तदा ॥ ४७॥
तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः ।
कृताञ्जलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम् ॥ ४८॥
देव दत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः ।
प्रसादात्तव मे शोको गतो वन्ध्यापवादजः ॥ ४९॥
कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम् ।
समये शृणु धर्मज्ञ सत्यमद्य ब्रवीम्यहम् ॥ ५०॥
समावर्तनकर्मान्ते करिष्यामि तवेप्सितम् ।
ममोपरि दयां कृत्वा तावत्त्वं क्षन्तुमर्हसि ॥ ५१॥
वरुण उवाच -
प्रतारयसि मां राजन् पुत्रप्रेमाकुलो भृशम् ।
मुहुर्मुहुर्मतिं कृत्वा युक्तियुक्तां महामते ॥ ५२॥
गच्छाम्यद्य महाराज वचसा तव नोदितः ।
आगमिष्यामि समये समावर्तनकर्मणि ॥ ५३॥
इत्युक्त्वा प्रययौ पाशी तपापृच्छ्य विशाम्पते ।
राजा प्रमुदितः कार्यं चकार च यथोत्तरम् ॥ ५४॥
आगतं वरुणं दृष्ट्वा कुमारोऽतिविचक्षणः ।
यज्ञस्य समयं ज्ञात्वा तदा चिन्तातुरोऽभवत् ॥ ५५॥
शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः ।
ज्ञात्वात्मवधमायुष्मन् गमनाय मतिं दधौ ॥ ५६॥
निश्चयं परमं कृत्वा सम्मन्त्र्य सचिवात्मजैः ।
प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसौ ॥ ५७॥
गते पुत्रे नृपः कामं दुःखितोऽभूद् भृशं तदा ।
प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया ॥ ५८॥
एवं गतेऽथ कालेऽसौ वरुणस्तद्गृहं गतः ।
राजानं शोकसन्तप्तं कुरु यज्ञमिति ब्रुवन् ॥ ५९॥
राजा प्रणम्य तं प्राह देवदेव करोमि किम् ।
न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः ॥ ६०॥
सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च ।
अन्वेषितो मे दूतैस्तु न प्राप्तो यादसाम्पते ॥ ६१॥
आज्ञापय महाराज किं करोमि गते सुते ।
न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा ॥ ६२॥
व्यास उवाच -
इति भूपवचः श्रुत्वा प्रचेताः कुपितो भृशम् ।
शशाप च नृपं क्रोधाद्वञ्चितस्तु पुनः पुनः ॥ ६३॥
नृपतेऽहं त्वया यस्माद्वचसा च प्रवञ्चितः ।
तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुणः ॥ ६४॥
व्यास उवाच -
इति शप्तो महीपालः कुपितेन प्रचेतसा ।
पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु ॥ ६५॥
एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् ।
राजा प्राप्य महाव्याधिं बभूवातीव दुःखितः ॥ ६६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.१५॥
७.१६ षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।
व्यास उवाच -
गतेऽथ वरुणे राजा रोगेणातीव पीडितः ।
दुःखाद्दुःखं परं प्राप्य व्यथितोऽभूद् भृशं तदा ॥ १॥
कुमारोऽसौ वने श्रुत्वा पितरं रोगपीडितम् ।
गमनाय मतिं राजंश्चकार स्नेहयन्त्रितः ॥ २॥
संवत्सरे व्यतीते तु पितरं द्रष्टुमादरात् ।
गन्तुकामं तु तं ज्ञात्वा शक्रस्तत्राजगाम ह ॥ ३॥
वासवस्तु तदा रूपं कृत्वा विप्रस्य सत्वरः ।
वारयामास युक्त्या वै कुमारं गन्तुमुद्यतम् ॥ ४॥
इन्द्र उवाच -
राजपुत्र न जानासि राजनीतिं सुदुर्लभाम् ।
अतः करोषि मूढस्त्वं गमनाय मतिं वृथा ॥ ५॥
पिता तव महाभाग ब्राह्मणैर्वेदपारगैः ।
कारयिष्यति होमं ते ज्वलितेऽथ विभावसौ ॥ ६॥
आत्मा हि वल्लभस्तात सर्वेषां प्राणिनां खलु ।
तदर्थे वल्लभाः सन्ति पुत्रदारधनादयः ॥ ७॥
आत्मनो देहरक्षार्थं हत्वा त्वां वल्लभं सुतम् ।
हवनं कारयित्वासौ रोगमुक्तो भविष्यति ॥ ८॥
तस्मात्त्वया न गन्तव्यं राजपुत्र पितुर्गृहे ।
मृते पितरि गन्तव्यं राज्यार्थे सर्वथा पुनः ॥ ९॥
एवं निषेधितस्तत्र वासवेन नृपात्मजः ।
वनमध्ये स्थितः कामं पुनः संवत्सरं नृप ॥ १०॥
अत्यन्तं दुःखितं श्रुत्वा हरिश्चन्द्रं तदाऽऽत्मजः ।
गमनाय मतिं चक्रे मरणे कृतनिश्चयः ॥ ११॥
तुषाराड् द्विजरूपेण तत्रागत्य च रोहितम् ।
निवारयामास सुतं युक्तिवाक्यैः पुनः पुनः ॥ १२॥
हरिश्चन्द्रोऽतिदुःखार्तो वसिष्ठं स्वपुरोहितम् ।
पप्रच्छ रोगनाशाय तत्रोपायं सुनिश्चितम् ॥ १३॥
तमाह ब्रह्मणः पुत्रो यज्ञं कुरु नृपोत्तम ।
क्रयक्रीतेन पुत्रेण शापमोक्षो भविष्यति ॥ १४॥
पुत्रा दशविधां प्रोक्ता ब्राह्मणैर्वेदपारगैः ।
द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम ॥ १५॥
वरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति ।
लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः ॥ १६॥
एवं प्रमोदितो राजा वसिष्ठेन महामना ।
प्रधानं प्रेरयामास तदन्वेषणकाम्यया ॥ १७॥
अजीगर्तो द्विजः कश्चिद्विषये तस्य भूपतेः ।
तस्यासंश्च त्रयः पुत्रा निर्धनस्य विशेषतः ॥ १८॥
प्रधानेनाप्यसौ पृष्टः पुत्रार्थं दुर्बलो द्विजः ।
गवां शतं ददामीति देहि पुत्रं मखाय वै ॥ १९॥
शुनःपुच्छः शुनःशेपः शुनोलाङ्गूल इत्यमी ।
तेषामेकतमं देहि ददामि तु गवां शतम् ॥ २०॥
अजीगर्तस्तु तच्छ्रुत्वा क्षुधया पीडितो भृशम् ।
पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे ॥ २१॥
कार्याधिकारिणं ज्येष्ठं मत्वा नासावदादमुम् ।
कनिष्ठं नाप्यदान्माता ममैष इति वादिनी ॥ २२॥
मध्यमं च शुनःशेपं ददौ गवां शतेन च ।
आनिनाय पशुं चक्रे नरमेधे नराधिपः ॥ २३॥
रुदन्तं दुःखितं दीनं वेपमानं भृशातुरम् ।
यूपे बद्धं निरीक्ष्यामुं चुक्रुशुर्मुनयस्तदा ॥ २४॥
शामित्राय पशुं चक्रे नरमेधे नराधिपः ।
शमिता नाददे शस्त्रं तमालम्भयितुं शिशुम् ॥ २५॥
नाहं द्विजसुतं दीनं रुदन्तं करुणं भृशम् ।
हनिष्यामि स्वलोभार्थमित्युवाचाप्यसौ तदा ॥ २६॥
इत्युक्त्वा विररामासौ कर्मणो दुष्करादथ ।
राजा आभासदः प्राह किं कर्तव्यमिति द्विजाः ॥ २७॥
जातः किलकिलाशब्दो जनानां क्रोशतां तदा ।
क्रन्दमाने शुनःशेपे सभायां भृशमद्भुतम् ॥ २८॥
अजीगर्तस्तदोत्थाय तमुवाच नृपोत्तमम् ।
राजन् कार्यं करिष्यामि तवाहं सुस्थिरो भव ॥ २९॥
वेतनं द्विगुणं देहि हनिष्यामि पशुं किल ।
कर्तव्यं मखकार्यं वै मया तेऽद्य धनार्थिना ॥ ३०॥
दुःखितस्य धनार्थस्य सदासूया प्रसूयते ।
व्यास उवाच -
तच्छ्रुत्वा वचनं तस्य हरिश्चन्द्रो मुदान्वितः ॥ ३१॥
तमुवाच ददाम्यद्य गवां शतमनुत्तमम् ।
तदाकर्ण्य पिता तस्य पुत्रं हन्तुं समुद्यतः ॥ ३२॥
लोभेनाकुलचित्तोऽसौ शामित्रे कृतनिश्चयः ।
समुद्यतं च तं दृष्ट्वा जनाः सर्वे सभासदः ॥ ३३॥
चुक्रुशुर्भृशदुःखार्ता हाहेति जगदुर्वचः ।
पिशाचोऽयं महापापी क्रूरकर्मा द्विजाकृतिः ॥ ३४॥
यत्स्वयं स्वसुतं हन्तुमुद्यतः कुलपांसनः ।
धिक्चाण्डाल किमेतत्ते पापकर्म चिकीर्षितम् ॥ ३५॥
हत्वा सुतं धनं प्राप्य किं सुखं ते भविष्यति ।
आत्मा वै जायते पुत्र अङ्गाद्वै वेदभाषितम् ॥ ३६॥
तत्कथं पापबुद्धे त्वमात्मानं हन्तुमिच्छसि ।
एवं कोलाहले तत्र जाते कुशिकनन्दनः ॥ ३७॥
समीपं नृपतेर्गत्वा तमुवाच दयापरः ।
विश्वामित्र उवाच -
राजन्नमुं शुनःशेपं रुदन्तं भृशदुःखितम् ॥ ३८॥
क्रतुस्ते भविता पूर्णो रोगनाशश्च सर्वथा ।
दयासमं नास्ति पुण्यं पापं हिंसासमं नहि ॥ ३९॥
रागिणां रोचनार्थाय नोदनेयं विचारय ।
आत्मदेहस्य रक्षार्थं परदेहनिकृन्तनम् ॥ ४०॥
न कर्तव्यं महाराज सर्वतः शुभमिच्छता ।
दयया सर्वभूतेषु सन्तुष्टो येन केन च ॥ ४१॥
सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जगत्पतिः ।
आत्मवत्सर्वभूतेषु चिन्तनीयं नृपोत्तम ॥ ४२॥
जीवितव्यं प्रियं नूनं सर्वेषां सर्वदा किल ।
त्वमिच्छसि सुखं कर्तुं देहे हत्वा त्वमुं द्विजम् ॥ ४३॥
कथं नेच्छेदसौ देहं रक्षितुं स्वसुखास्पदम् ।
पूर्वजन्मकृतं वैरं नानेन सह ते नृप ॥ ४४॥
येनामुं हन्तुकामस्त्वं द्विजपुत्रं निरागसम् ।
यो यं हन्ति विना वैरं स्वकामः सततं पुनः ॥ ४५॥
हन्तारं हन्ति तं प्राप्य जननं जननान्तरे ।
जनकोऽस्य सुदुष्टात्मा येनासौ ते समर्पितः ॥ ४६॥
स्वात्मजो धनलोभेन पापाचारः सुदुर्मतिः ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ ४७॥
यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
देशमध्ये च यः कश्चित्पापकर्म समाचरेत् ॥ ४८॥
षष्ठांशस्तस्य पापस्य राजा भुङ्क्ते न संशयः ।
निषेधनीयो राज्ञासौ पापं कर्तुं समुद्यतः ॥ ४९॥
न निषिद्धस्त्वया कस्मात्पुत्रं विक्रेतुमुद्यतः ।
सूर्यवंशे समुत्पन्नस्त्रिशङ्कुतनयः शुभः ॥ ५०॥
आर्यस्त्वनार्यवत्कर्म कर्तुमिच्छसि पार्थिव ।
मोचनान्मुनिपुत्रस्य करणाद्वचनस्य मे ॥ ५१॥
तव देहे सुखं राजन् भविष्यत्यविचारणात् ।
पिता ते शापयोगेन चाण्डालत्वमुपागतः ॥ ५२॥
मयासौ तेन देहेन स्वर्लोकं प्रापितः किल ।
तेनैव प्रीतियोगेन कुरु मे वचनं नृप ॥ ५३॥
मुञ्चैनं बालकं दीनं रुदन्तं भृशमातुरम् ।
याचितोऽसि मया नूनं यज्ञेऽस्मिन् राजसूयके ॥ ५४॥
प्रार्थनाभङ्गजं दोषं कथं त्वं नावबुध्यसे ।
प्रार्थितं सर्वदा देयं मखेऽस्मिन्नृपसत्तम ॥ ५५॥
अन्यथा पापमेव स्यात्तव राजन्न संशयः ।
व्यास उवाच -
इति तस्य वचः श्रुत्वा कौशिकस्य नृपोतमः ॥ ५६॥
प्रत्युवाच महाराज कौशिकं मुनिसत्तमम् ।
जलोदरेण गाधेय दुःखितोऽहं भृशं मुने ॥ ५७॥
तस्मान्न मोचयाम्येनमन्यत्प्रार्थय कौशिक ।
न त्वया विग्रहः कार्यः कार्येऽस्मिन्मम सर्वथा ॥ ५८॥
तच्छ्रुत्वा वचनं राज्ञो विश्वामित्रोऽतिकोपनः ।
बभूव दुःखसन्तप्तो वीक्ष्य दीनं द्विजात्मजम् ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय
विश्वामित्रनिषेधवर्णनं नाम षोडशोऽध्यायः ॥ ७.१६॥
७.१७ सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।
व्यास उवाच -
रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः ।
शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम् ॥ १॥
मन्त्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन् ।
जपतस्तव कल्याणं भविष्यति ममाज्ञया ॥ २॥
विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाऽऽकुलः ।
मन्त्रं जजाप मनसा कौशिकोक्तं स्फुटाक्षरम् ॥ ३॥
जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः ।
प्रादुर्बभूव सहसा प्रसन्नो नृप बालके ॥ ४॥
दृष्ट्वा तमागतं सर्वे विस्मयं परमं गताः ।
तुष्टुवुर्वरुणं देवं मुदिता दर्शनेन ते ॥ ५॥
राजातिविस्मितः पादौ प्रणनाम रुजातुरः ।
बद्धाञ्जलिपुटो देवं तुष्टाव पुरतः स्थितम् ॥ ६॥
हरिश्चन्द्र उवाच -
देवदेव कृपासिन्धो पापात्माहं सुमन्दधीः ।
कृतापराधः कृपणः पावितः परमेष्ठिना ॥ ७॥
मया ते पुत्रकामेन दुःखसंस्थेन हेलनम् ।
कृतं क्षमाप्यं प्रभुणा कोऽपराधः सुदुर्मतेः ॥ ८॥
अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया ।
वञ्चितस्त्वं देवदेव भीतेन नरकाद्विभो ॥ ९॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
भीतोऽहं तेन वाक्येन तस्मात्ते हेलनं कृतम् ॥ १०॥
नाज्ञस्य दूषणं चिन्त्यं नूनं ज्ञानवता विभो ।
दुःखितोऽहं रुजाक्रान्तो वञ्चितः स्वसुतेन ह ॥ ११॥
न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो ।
वञ्चयित्वा वने भीतो मरणान्मां कृपानिधे ॥ १२॥
प्रययौ द्रविणं दत्वा गृहीतो द्विजबालकः ।
यज्ञोऽयं क्रीतपुत्रेण प्रारब्धस्तव तुष्टये ॥ १३॥
दर्शनं तव सम्प्राप्य गतं दुःखं ममाद्भुतम् ।
जलोदरकृतं सर्वं प्रसन्ने त्वयि साम्प्रतम् ॥ १४॥
व्यास उवाच -
इति तस्य वचः श्रुत्वा राज्ञो रोगातुरस्य च ।
दयावान्देवदेवेशः प्रत्युवाच नृपोत्तमम् ॥ १५॥
वरुण उवाच -
मुञ्च राजञ्छुनःशेपं स्तुवन्तं मां भृशातुरम् ।
यज्ञोऽयं परिपूर्णस्ते रोगमुक्तो भवात्मना ॥ १६॥
इत्युक्त्वा वरुणस्तूर्णं राजानं विरुजं तथा ।
चकार पश्यतां तत्र सदस्यानां सुसंस्थितम् ॥ १७॥
विमुक्तोऽसौ द्विजः पाशाद्वरुणेन महात्मना ।
जयशब्दस्ततस्तत्र सञ्जातो मखमण्डपे ॥ १८॥
राजा प्रमुदितः सद्यो रोगान्मुक्तः सुदारुणात् ।
यूपान्मुक्तः शुनःशेपो बभूवातीव संस्थितः ॥ १९॥
राजा त्विमं मखं पूर्णं चकार विनयान्वितः ।
शुनःशेपस्तदा सभ्यानित्युवाच कृताञ्जलिः ॥ २०॥
भो भोः सभ्या सुधर्मज्ञाः ब्रुवन्तु धर्मनिर्णयम् ।
वेदशास्त्रानुसारेण यथार्थवादिनः किल ॥ २१॥
पुत्रोऽहं कस्य सर्वज्ञाः पिता के कोऽग्रतः परम् ।
भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम् ॥ २२॥
इत्युक्ते वचने तत्र सभ्याः प्रोचुः परस्परम् ।
सभ्या ऊचूः -
अजीगर्तस्य पुत्रोऽयं कस्यान्यस्य भवेदसौ ॥ २३॥
अङ्गादङ्गात्समुद्भूतः पालितस्तेन भक्तितः ।
अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः ॥ २४॥
तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः ।
विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल ॥ २५॥
पुत्रोऽयं धनदातुश्च राज्ञस्तत्र न संशयः ।
अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै ॥ २६॥
अन्नदाता भयत्राता तथा विद्याप्रदश्च यः ।
तथा वित्तप्रदश्चैव पञ्चैते पितरः स्मृताः ॥ २७॥
तदा केचित्पितुः प्राहुः केचिद्राज्ञस्तथापरे ।
वरुणस्येति संवादे निर्णयं न ययुश्च ते ॥ २८॥
इत्थं सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् ।
सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः ॥ २९॥
शृणुध्वं भो महाभागा निर्णयं श्रुतिसम्मतम् ।
निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः ॥ ३०॥
सम्बन्धस्तु गतस्तस्य तदैव धनसङ्ग्रहात् ।
हरिश्चन्द्रस्य सञ्जातः पुत्रोऽसौ क्रीत एव च ॥ ३१॥
यूपे बद्धो यदा राज्ञा तदा तस्य न वै सुतः ।
वरुणस्तु स्तुतोऽनेन तेन तुष्टेन मोचितः ॥ ३२॥
तस्मान्नायं महाभागा ह्यसौ पुत्रः प्रचेतसः ।
यो यं स्तौति महामन्त्रैः सोऽपि तुष्टो ददाति च ॥ ३३॥
धनं प्राणान्पशून् राज्यं तथा मोक्षं किलेप्सितम् ।
कौशिकस्य सुतश्चायमरिष्टे येन रक्षितः ॥ ३४॥
मन्त्रं दत्त्वा महावीर्यं वरुणस्यातिसङ्कटे ।
व्यास उवाच -
श्रुत्वा वाक्यं वसिष्ठस्य बाढमूचुः सभासदः ॥ ३५॥
विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा ।
एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः ॥ ३६॥
शुनःशेपो जगामाशु तेनैव सह सत्वरः ।
वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम् ॥ ३७॥
ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा ।
राजापि रोगनिर्मुक्तो बभूवातिमुदान्वितः ॥ ३८॥
प्रजास्तु पालयामास सुप्रसन्नेन चेतसा ।
रोहिताख्यस्तु तच्छ्रुत्वा वृत्तान्तं वरुणस्य ह ॥ ३९॥
आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात् ।
दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम् ॥ ४०॥
मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः ।
दृष्ट्वा पितरमायान्तं प्रेमोद्रिक्तः सुसम्भ्रमः ॥ ४१॥
दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा ।
राजापि तं समुत्थाप्य परिरभ्य मुदान्वितः ॥ ४२॥
तमाघ्राय सुतं मूर्ध्नि पप्रच्छ कुशलं पुनः ।
उत्सङ्गे तं समारोप्य मुदितो मेदिनीपतिः ॥ ४३॥
उष्णैर्नेत्रजलैः शीर्षण्यभिषेकमथाकरोत् ।
राज्यं शशास तेनासौ पुत्रेणातिप्रियेण च ॥ ४४॥
वृत्तान्तं नरमेधस्य कथयामास विस्तरात् ।
राजसूयं क्रतुवरं चकार नृपसत्तमः ॥ ४५॥
वसिष्ठं पूजयित्वाथ होतारमकरोद्विभुः ।
समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः ॥ ४६॥
शक्रस्य सदनं रम्यं जगाम मुनिरादरात् ।
विश्वामित्रोऽपि तत्रैव वसिष्ठेन च सङ्गतः ॥ ४७॥
मिलित्वा तौ स्थितौ देवसदने मुनिसत्तम ।
विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम् ॥ ४८॥
वीक्ष्य विस्मयचित्तस्तं सभायां तु शचीपतेः ।
विश्वामित्र उवाच -
क्वेयं पूजा त्वया प्राप्ता महती मुनिसत्तम ॥ ४९॥
कृता केन महाभाग सत्यं ब्रूहि ममान्तिके ।
वसिष्ठ उवाच -
यजमानोऽस्ति मे राजा हरिश्चन्द्रः प्रतापवान् ॥ ५०॥
राजसूयः कृतस्तेन राज्ञा प्रवरदक्षिणः ।
नेदृशोऽस्ति नृपश्चान्यः सत्यवादी धृतव्रतः ॥ ५१॥
दाता च धर्मशीलश्च प्रजारञ्जनतत्परः ।
तस्य यज्ञे मया पूजा प्राप्ता कौशिकनन्दन ॥ ५२॥
[ किं पृच्छसि पुनः सत्यं ब्रवीम्यकृत्रिमं द्विज ]
हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ।
सत्यवादी तथा दाता शूरः परमधार्मिकः ॥ ५३॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा विश्वामित्रोऽतिकोपनः ।
बभूव क्रोधसंरक्तलोचनोऽप्यब्रवीच्च तम् ॥ ५४॥
विश्वामित्र उवाच ।
एवं स्तौषि नृपं मिथ्यावादिनं कपटप्रियम् ।
वञ्चितो वरुणो येन प्रतिश्रुत्य वरं पुनः ॥ ५५॥
मम जन्मार्जितं पुण्यं तपसः पठितस्य च ।
त्वदीयं वातितपसो ग्लहं कुरु महामते ॥ ५६॥
अहं चेत्तं नृपं सद्यो न करोम्यतिसंस्तुतम् ।
असत्यवादिनं काममदातारं महाखलम् ॥ ५७॥
आजन्मसञ्चितं सर्वं पुण्यं मम विनश्यतु ।
अन्यथा त्वत्कृतं सर्वं पुण्यं त्विति पणावहे ॥ ५८॥
ग्लहं कृत्वा ततस्तौ तु विवदन्तौ मुनी तदा ।
स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे वसिष्ठविश्वामित्रपणवर्णनं नाम सप्तदशोऽध्यायः ॥ ७.१७॥
७.१८ अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।
व्यास उवाच -
कदाचित्तु हरिश्चन्द्रो मृगयार्थं वनं ययौ ।
अपश्यद्रुदतीं बालां सुन्दरीं चारुलोचनाम् ॥ १॥
तामपृच्छन्महाराजः कामिनीं करुणापरः ।
पद्मपत्रविशालाक्षि किं रोदिषि वरानने ॥ २॥
केनासि पीडितात्यर्थं किं ते दुःखं वदाशु मे ।
का च त्वं विजने घोरे कस्ते भर्ता पिताथवा ॥ ३॥
न बाधते च राज्ये मे राक्षसोऽपि पराङ्गनाम् ।
तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते ॥ ४॥
ब्रूहि दुःखं वरारोहे स्वस्था भव कृशोदरि ।
विषये मम पापात्मा न तिष्ठति सुमध्यमे ॥ ५॥
इति तस्य वचः श्रुत्वा नारी तमब्रवीन्नृपम् ।
प्रमृज्याश्रूणि वदनाद्धरिश्चन्द्रं नृपोत्तमम् ॥ ६॥
नार्युवाच -
राजन् मां बाधतेऽत्यर्थं विश्वामित्रो महामुनिः ।
तपः करोति यद्घोरं मदर्थं कौशिको वने ॥ ७॥
तेनाहं दुःखिता राजन् विषये तव सुव्रत ।
विद्धि मां कमनां कान्तां पीडितां मुनिना भृशम् ॥ ८॥
राजोवाच -
स्वस्था भव विशालाक्षि न ते दुःखं भविष्यति ।
तमहं वारयिष्यामि मुनिं तापपरायणम् ॥ ९॥
इत्याश्वास्य स्त्रियं राजा तरसा मुनिसन्निधौ ।
नत्वा प्रणम्य शिरसा तमुवाच महीपतिः ॥ १०॥
स्वामिन्किं क्रियतेऽत्यर्थं तपसा देहपीडनम् ।
किमर्थं ते समारम्भो ब्रूहि सत्यं महामते ॥ ११॥
वाञ्छितं तव गाधेय करोमि सफलं किल ।
उत्तिष्ठोत्तिष्ठ तरसा तपसालमतः परम् ॥ १२॥
विषये मम सर्वज्ञ न कर्तव्यं सुदारुणम् ।
लोकपीडाकरं घोरं तपः केनापि कर्हिचित् ॥ १३॥
इत्थं निषिध्य तं राजा विश्वामित्रं गृहं ययौ ।
मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः ॥ १४॥
स गत्वा चिन्तयामास नृपकृत्यमसाम्प्रतम् ।
वसिष्ठस्य च संवादं तपसः प्रतिषेधनम् ॥ १५॥
कोपाविष्टेन मनसा प्रतीकारमथाकरोत् ।
विचिन्त्य बहुधा चित्ते दानवं घोरविग्रहम् ॥ १६॥
प्रेषयामास तद्देशं विधाय सूकराकृतिम् ।
सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम् ॥ १७॥
राज्ञश्चोपवने प्राप्तस्त्रासयन् रक्षकांस्तदा ।
मालतीनां च खण्डानि कदम्बानां तथैव च ॥ १८॥
यूथिकानां च वृन्दानि कम्पयंश्च मुहुर्मुहुः ।
दन्तेन विलिखन्भूमिं समुन्मूलयते द्रुमान् ॥ १९॥
चम्पकान्केतकीखण्डान्मल्लिकानां च पादपान् ।
करवीरानुशीरांश्च निचखान शुभान्मृदून् ॥ २०॥
मुचुकुन्दानशोकांश्च बकुलांस्तिलकांस्तथा ।
उन्मूल्य कदनं तत्र चकार सूकरो वने ॥ २१॥
वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः ।
हाहेति चुक्रुशुस्तत्र मालाकारा भृशातुराः ॥ २२॥
बाणैः सन्ताड्यमानोऽपि यदा त्रस्तो न वै मृगः ।
रक्षकान्पीडयामास कोलः कालसमद्युतिः ॥ २३॥
ते तदातिभयाक्रान्ता राजानं शरणं ययुः ।
तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः ॥ २४॥
तानागतान्समालोक्य भयार्तान्भूपतिस्तदा ।
पप्रच्छ किं भयं कस्मान्मां ब्रुवन्तु समागताः ॥ २५॥
नाहं बिभेमि देवेभ्यो राक्षसेभ्यश्च रक्षकाः ।
कस्माद्भयं समुत्पन्नं तद् ब्रुवन्तु ममाग्रतः ॥ २६॥
हन्मि चैकेन बाणेन तं शत्रुं दुर्भगं किल ।
यो मेऽरातिः समुत्पन्नो लोके पापमतिः खलः ॥ २७॥
देवो वा दानवो वापि तं निहन्मि शरैः शितैः ।
क्व तिष्ठति कियद्रूपः कियद्बलसमन्वितः ॥ २८॥
मालाकारा ऊचुः -
न देवो न च दैत्योऽस्ति न यक्षो न च किन्नरः ।
कश्चित्कोलो महाकायो राजंस्तिष्ठति कानने ॥ २९॥
पुष्पवृक्षानतिमृदून्दन्तेनोन्मूलयत्यसौ ।
विदीर्णं तद्वनं सर्वं सूकरेणातिरंहसा ॥ ३०॥
विशिखैस्ताडितोऽस्माभिर्दृषद्भिर्लकुटैस्तथा ।
न बिभेति महाराज हन्तुमस्मानुपाद्रवत् ॥ ३१॥
व्यास उवाच -
इत्याकर्ण्य वचस्तेषां राजा कोपसमाकुलः ।
अश्वमारुह्य तरसा जगामोपवनं प्रति ॥ ३२॥
सैन्येन महता युक्तो गजाश्वरथसंयुतः ।
पदातिवृन्दसहितः प्रययौ वनमुत्तमम् ॥ ३३॥
तत्रापश्यन्महाकोलं घुर्घुरन्तं भयानकम् ।
वनं भग्नं च संवीक्ष्य राजा क्रोधयुतोऽभवत् ॥ ३४॥
चापे बाणं समारोप्य विकृष्य च शरासनम् ।
तं हन्तुं सूकरं पापं तरसा समुपाक्रमत् ॥ ३५॥
समालोक्य च राजानं चापहस्तं रुषाकुलम् ।
सम्मुखोऽभ्यद्रवत्तूर्णं कुर्वञ्छब्दं सुदारुणम् ॥ ३६॥
तमायान्तं समालोक्य वराहं विकृताननम् ।
मुमोच विशिखं तस्मिन्हन्तुकामो महीपतिः ॥ ३७॥
वञ्चयित्वाथ तद्बाणं सूकरस्तरसा बलात् ।
निर्जगाम महावेगात्तमुल्लङ्घ्य नृपं तदा ॥ २८॥
गच्छन्तं तं समालोक्य राजा कोपसमन्वितः ।
मुमोच विशिखांस्तीक्ष्णांश्चापमाकृष्य यत्नतः ॥ ३९॥
क्षणं दृष्टिपथं राज्ञः क्षणं चादर्शनं गतः ।
कुर्वन्बहुविधारावं सूकरं समुपाद्रवत् ॥ ४०॥
हरिश्चन्द्रोऽतिकुपितो मृगस्यानुजगाम ह ।
अश्वेन वायुवेगेन विकृष्य च शरासनम् ॥ ४१॥
इतस्ततस्ततः सैन्यमगमच्च वनान्तरम् ।
एकाकी नृपतिः कोलं व्रजन्तं समुपाद्रवत् ॥ ४२॥
मध्याह्नसमये राजा सम्प्राप्तो विजने वने ।
तृषितः क्षुधितोऽत्यर्थं बभूव श्रान्तवाहनः ॥ ४३॥
सूकरोऽदर्शनं प्राप्तो राजा चिन्तातुरोऽभवत् ।
मार्गभ्रष्टोऽतिविपिने दारुणे दीनवत्स्थितः ॥ ४४॥
किं करोमि क्व गच्छामि न सहायोऽस्ति मे वने ।
अज्ञातस्वपथः कुत्र व्रजामीति व्यचिन्तयत् ॥ ४५॥
एवं चिन्तयतस्तत्र विपिने जनवर्जिते ।
राज्ञा चिन्तातुरोऽपश्यन्नदीं सुविमलोदकाम् ॥ ४६॥
वीक्ष्य तां मुदितो राजा पाययित्वा तुरङ्गकम् ।
अश्वादुत्तेर्य विमलं पपौ पानीयमुत्तमम् ॥ ४७॥
जलं पीत्वा नृपस्तत्र सुखमाप महीपतिः ।
इत्येष नगरं गन्तुं दिग्भ्रमेणातिमोहितः ॥ ४८॥
विश्वामित्रस्तु सम्प्राप्तो वृद्धब्राह्मणरूपधृक् ।
ननाम वीक्ष्य राजा तं प्रीतिपूर्वं द्विजोत्तमम् ॥ ४९॥
तमुवाच गाधिराजः प्रणमन्तं नृपोत्तमम् ।
स्वस्ति तेऽस्तु महाराज किमर्थमिह चागतः ॥ ५०॥
एकाकी विजने राजन् किं चिकीर्षितमत्र ते ।
ब्रूहि सर्वं स्थिरो भूत्वा कारणं नृपसत्तम ॥ ५१॥
राजोवाच -
सूकरोऽतिमहाकायो बलवान्पुष्पकाननम् ।
समुपेत्य ममर्दाशु कोमलान्पुष्पपादपान् ॥ ५२॥
तं निवारयितुं दुष्टं करे कृत्वा च कार्मुकम् ।
ससैन्योऽहं स्वनगरान्निर्गतो मुनिसत्तम ॥ ५३॥
गतोऽसौ दृक्पथात्पापो मायावी क्वापि वेगवान् ।
पृष्ठतोऽहमपि प्राप्तः सैन्यं क्वापि गतं मम ॥ ५४॥
क्षुधितस्तृषितश्चाहं सैन्यभ्रष्टस्त्विहागतः ।
न जाने पुरमार्गं च तथा सैन्यगतिं मुने ॥ ५५॥
पन्थानं दर्शय विभो व्रजामि नगरं प्रति ।
ममात्र भाग्ययोगेन प्राप्तस्त्वं विजने वने ॥ ५६॥
अयोध्यादिपतिश्चाहं हरिश्चन्द्रोऽतिविश्रुतः ।
राजसूयस्य कर्ता च वाञ्छितार्थप्रदः सदा ॥ ५७॥
धनेच्छा यदि ते ब्रह्मन् यज्ञार्थं द्विजसत्तम ।
आगन्तव्यमयोध्यायां दास्यामि विपुलं धनम् ॥ ५८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनं नामाष्टादशोऽध्यायः ॥ ७.१८॥
७.१९ एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।
व्यास उवाच -
इति तस्य वचः श्रुत्वा भूपतेः कौशिको मुनिः ।
प्रहस्य प्रत्युवाचेदं हरिश्चन्द्रं तथा नृप ॥ १॥
राजंस्तीर्थमिदं पुण्यं पावनं पापनाशनम् ।
स्नानं कुरु महाभाग पितॄणां तर्पणं तथा ॥ २॥
कालः शुभतमोऽस्तीह तीर्थे स्नात्वा विशाम्पते ।
दानं ददस्व शक्त्यात्र पुण्यतीर्थेऽतिपावने ॥ ३॥
प्राप्य तीर्थं महापुण्यमस्नात्वा यस्तु गच्छति ।
स भवेदात्महा भूय इति स्वायम्भुवोऽब्रवीत् ॥ ४॥
तस्मात्तीर्थवरे राजन् कुरु पुण्यं स्वशक्तितः ।
दर्शयिष्यामि मार्गं ते गन्तासि नगरं ततः ॥ ५॥
आगमिष्यामहं मार्गदर्शनार्थं तवानघ ।
त्वया सहाद्य काकुत्स्थ तव दानेन तोषितः ॥ ६॥
तच्छ्रुत्वा वचनं राजा मुनेः कपटमण्डितम् ।
वासांस्युत्तार्य विधिवत्स्नातुमभ्याययौ नदीम् ॥ ७॥
बन्धयित्वा हयं वृक्षे मुनिवाक्येन मोहितः ।
अवश्यम्भावियोगेन तद्वशस्तु तदाभवत् ॥ ८॥
राजा स्नानविधिं कृत्वा सन्तर्प्य पितृदेवताः ।
विश्वामित्रमुवाचेदं स्वामिन् दानं ददामि ते ॥ ९॥
यदिच्छसि महाभाग तत्ते दास्यामि साम्प्रतम् ।
गावो भूमिर्हिरण्यं च गजाश्वरथवाहनम् ॥ १०॥
नादेयं मे किमप्यस्ति कृतमेतद् व्रतं पुरा ।
राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि ॥ ११॥
तस्मात्त्वमिह सम्प्ताप्तस्तीर्थेऽस्मिन्प्रवरे मुने ।
यत्तेऽस्ति वाञ्छितं ब्रूहि ददामि तव वाञ्छितम् ॥ १२॥
विश्वामित्र उवाच -
मया पूर्वं श्रुता राजन् कीर्तिस्ते विपुला भुवि ।
वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले ॥ १३॥
हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः ।
तादृशो नृपतिर्दाता न भूतो न भविष्यति ॥ १४॥
पृथिव्यां परमोदारस्त्रिशङ्कुतनयो यथा ।
अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिवः ॥ १५॥
पुत्रस्य च महाभाग तदर्थं देहि मे धनम् ।
राजोवाच -
विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव ॥ १६॥
यदिच्छसि धनं कामं दाता तस्यास्मि निश्चितम् ।
व्यास उवाच -
इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः ॥ १७॥
उद्भाव्य मायां गान्धर्वीं पार्थिवायाप्यदर्शयत् ।
कुमारः सुकामारश्च कन्या च दशवार्षिकी ॥ १८॥
एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम ।
राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः ॥ १९॥
भविष्यति तवाद्यैव विप्रपुत्रविवाहतः ।
तच्छ्रुत्वा वचनं राजा मायया तस्य मोहितः ॥ २०॥
तथेति च प्रतिज्ञाय नोवाचाल्पं वचस्तथा ।
तेन दर्शितमार्गोऽसौ नगरं प्रति जग्मिवान् ॥ २१॥
विश्वामित्रोऽपि राजानं वञ्चयित्वाऽऽश्रमं ययौ ।
कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम् ॥ २२॥
वेदीमध्ये नृपाद्य त्वं देहि दानं यथेप्सितम् ।
राजोवाच -
किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल ॥ २३॥
अदेयमपि संसरे यशःकामोऽस्मि साम्प्रतम् ।
व्यर्थं हि जीवितं तस्य विभवं प्राप्य येन वै ॥ २४॥
नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् ।
विश्वामित्र उवाच -
राज्यं देहि महाराज वराय सपरिच्छदम् ॥ २५॥
गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने ।
व्यास उवाच -
मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः ॥ २६॥
दत्तमित्युक्तवान् राज्यमविचार्य यदृच्छया ।
गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः ॥ २७॥
दक्षिणां देहि राजेन्द्र दानयोग्यां महामते ।
दक्षिणारहितं दानं निष्फलं मनुरब्रवीत् ॥ २८॥
तस्माद्दानफलाय त्वं यथोक्तां देहि दक्षिणाम् ।
इत्युक्तस्तु तदा राजा तमुवाचातिविस्मितः ॥ २९॥
ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना ।
दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम् ॥ ३०॥
दानपूर्त्यै प्रदास्यामि स्वस्थो भव तपोधन ।
विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम् ॥ ३१॥
हेमभारद्वयं सार्धं दक्षिणां देहि साम्प्रतम् ।
दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः ॥ ३२॥
तदैव सैनिकास्तस्य वीक्षमाणाः समागताः ।
दृष्ट्वा महीपतिं व्यग्रं तुष्टुवुस्ते मुदान्विताः ॥ ३३॥
व्यास उवाच -
श्रुत्वा तेषां वचो राजा नोक्त्वा किञ्चिच्छुभाशुभम् ।
चिन्तयन्स्वकृतं कर्म ययावन्तःपुरे ततः ॥ ३४॥
किं मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम् ।
वञ्चितोऽहं द्विजेनात्र वने पाटच्चरैरिव ॥ ३५॥
राज्यं सोपस्करं तस्मै मया सर्वं प्रतिश्रुतम् ।
भारद्वयं सुवर्णस्य सार्धं च दक्षिणा पुनः ॥ ३६॥
किं करोमि मतिर्भ्रष्टा न ज्ञातं कपटं मुनेः ।
प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना ॥ ३७॥
न जाने दैवकार्यं वै हा दैव किं भविष्यति ।
इति चिन्तापरो राजा गृहं प्राप्तोऽतिविह्वलः ॥ ३८॥
पतिं चिन्तापरं दृष्त्वा राज्ञी पप्रच्छ कारणम् ।
किं प्रभो विमना भासि का चिन्ता ब्रूहि साम्प्रतम् ॥ ३९॥
वनात्पुत्रः समायातो राजसूयः कृतः पुरा ।
कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद ॥ ४०॥
नारातिर्विद्यते क्वापि बलवान्दुर्बलोऽपि वा ।
वरुणोऽपि सुसन्तुष्टः कृतकृत्योऽसि भूतले ॥ ४१॥
चिन्तया क्षीयते देहो नास्ति चिन्तासमा मृतिः ।
त्यज्यतां नृपशार्दूल स्वस्थो भव विचक्षण ॥ ४२॥
तन्निशम्य प्रियावाक्यं प्रीतिपूर्वं नराधिपः ।
प्रोवाच किञ्चिच्चिन्तायाः कारणं च शुभाशुभम् ॥ ४३॥
भोजनं न चकाराऽसौ चिन्ताविष्टस्तथा नृपः ।
सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः ॥ ४४॥
प्रातरुत्थाय चिन्तार्तो यावत्सन्ध्यादिकाः क्रियाः ।
करोति नृपतिस्तावद्विश्वामित्रः समागतः ॥ ४५॥
क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः ।
आगत्योवाच राजानं प्रणमन्तं पुनः पुनः ॥ ४६॥
विश्वामित्र उवाच -
राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् ।
सुवर्णं स्पृश राजेन्द्र सत्यवाग्भव साम्प्रतम् ॥ ४७॥
हरिश्चन्द्र उवाच -
स्वामिन् राज्यं तवेदं मे मया दत्तं किलाधुना ।
त्यक्त्वान्यत्र गमिष्यामि मा चिन्ता कुरु कौशिक ॥ ४८॥
सर्वस्वं मम ते ब्रह्मन् गृहीतं विधिवद्विभो ।
सुवर्णदक्षिणां दातुमशक्तोऽस्म्यधुना द्विज ॥ ४९॥
दानं ददामि ते तावद्यावन्मे स्याद्धनागमः ।
पुनश्चेत्कालयोगेन तदा दास्यामि दक्षिणाम् ॥ ५०॥
इत्युक्त्वा नृपतिः प्राह पुत्रं भार्यां च माधवीम् ।
राज्यमस्मै प्रदत्तं वै मया वेद्यां सुविस्तरम् ॥ ५१॥
हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् ।
त्यक्त्वा त्रीणि शरीराणि सर्वं चास्मै समर्पितम् ॥ ५२॥
त्यक्त्वायोध्यां गमिष्यामि कुत्रचिद्वनगह्वरे
गृह्णात्विदं मुनिः सम्यग्राज्यं सर्वसमृद्धिमत् ॥ ५३॥
इत्याभाष्य सुतं भार्यां हरिश्चन्द्रः स्वमन्दिरात् ।
विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम् ॥ ५४॥
व्रजन्तं भूपतिं वीक्ष्य भार्यापुत्रावुभावपि ।
चिन्तातुरौ सुदीनास्यौ जग्मतुः पृष्ठतस्तदा ॥ ५५॥
हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा ।
चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः ॥ ५६॥
हा राजन् किं कृतं कर्म कुतः क्लेशः समागतः ।
वञ्चितोऽसि महाराज विधिनापण्डितेन ह ॥ ५७॥
सर्वे वर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम् ।
विलोक्य भार्यया सार्धं पुत्रेण च महात्मना ॥ ५८॥
निनिन्दुर्ब्राह्मणं तं तु दुराचारं पुरौकसः ।
धूर्तोऽयमिति भाषन्तो दुःखार्ता ब्राह्मणादयः ॥ ५९॥
निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम् ।
गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः ॥ ६०॥
दक्षिणायाः सुवर्णं मे दत्त्वा गच्छ नराधिप ।
नाहं दास्यामि वा ब्रूहि मया त्यक्तं सुवर्णकम् ॥ ६१॥
राज्यं गृहाण वा सर्वं लोभश्चेद्धृति वर्तते ।
दत्तं चेन्मन्यसे राजन् देहि यत्तत्प्रतिश्रुतम् ॥ ६२॥
एवं ब्रुवन्तं गाधेयं हरिश्चन्द्रो महीपतिः ।
प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत् ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनं नामैकोनविंशोऽध्यायः ॥ ७.१९॥
७.२० विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।
हरिश्चन्द्र उवाच -
अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् ।
प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत ॥ १॥
सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः ।
राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु ॥ २॥
कथं करोमि नाकारं स्वामिन्दत्त्वा यदृच्छया ।
अवश्यमेव दातव्यमृणं ते द्विजसत्तम ॥ ३॥
स्वस्थो भव प्रदास्यामि सुवर्णं मनसेप्सितम् ।
कञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम् ॥ ४॥
विश्वामित्र उवाच -
कुतस्ते भविता राजन् धनप्राप्तिरतः परम् ।
गतं राज्यं तथा कोशो बलं चैवार्थसाधनम् ॥ ५॥
वृथाशा ते महीपाल धनार्थे किं करोम्यहम् ।
निर्धनं त्वां च लोभेन पीडयामि कथं नृप ॥ ६॥
तस्मात्कथय भूपाल न दास्यामीति साम्प्रतम् ।
त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम् ॥ ७॥
यथेष्टं व्रज राजेन्द्र भार्यापुत्रसमन्वितः ।
सुवर्णं नास्ति किं तुभ्यं ददामीति वदाधुना ॥ ८॥
गच्छन्वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः ।
प्रत्युवाच मुनिं ब्रह्मन् धैर्यं कुरु ददाम्यहम् ॥ ९॥
मम देहोऽस्ति भार्यायाः पुरस्य च ह्यनामयः ।
क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज ॥ १०॥
ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो ।
दासभावं गमिष्यामि सदारोऽहं सपुत्रकः ॥ ११॥
गृहाण काञ्चनं पूर्णं सार्धं भारद्वयं मुने ।
मौल्येन दत्त्वा सर्वान्नः सन्तुष्टो भव भूधर ॥ १२॥
इति ब्रुवञ्जगामाथ सह पत्न्या सुतान्वितः ।
उमया कान्तया सार्धं यत्रास्ते शङ्करः स्वयम् ॥ १३॥
तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् ।
उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम् ॥ १४॥
ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् ।
देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम् ॥ १५॥
प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् ।
नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः ॥ १६॥
जगाम पद्भ्यां दुःखार्तः सह पत्न्या समाकुलः ।
पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा ॥ १७॥
ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् ।
तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ॥ १८॥
प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् ।
इमे प्राणाः सुतश्चायं प्रिया पत्नी मुने मम ॥ १९॥
येन ते कृत्यमस्त्याशु गृहाणाद्य द्विजोत्तम ।
यच्चान्यत्कार्यमस्माभिस्तन्ममाख्यातुमर्हसि ॥ २०॥
विश्वामित्र उवाच -
पूर्णः स मासो भद्रं ते दीयतां मम दक्षिणा ।
पूर्वं तस्य निमित्तं हि स्मर्यते स्ववचो यदि ॥ २१॥
राजोवाच -
ब्रह्मन्नाद्यापि सम्पूर्णो मासो ज्ञानतपोबल ।
तिष्ठत्येकदिनार्धं यत्तप्रतीक्षस्व नापरम् ॥ २२॥
विश्वामित्र उवाच -
एवमस्तु महाराज आगमिष्याम्यहं पुनः ।
शापं तव प्रदास्यामि न चेदद्य प्रयच्छसि ॥ २३॥
इत्युक्त्वाथ ययौ विप्रो राजा चाचिन्तयत्तदा ।
कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता ॥ २४॥
कुतः पुष्टानि मित्राणि कुत्रार्थः साम्प्रतं मम ।
प्रतिग्रहः प्रदुष्टो मे तत्र याञ्चा कथं भवेत् ॥ २५॥
राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् ।
यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम् ॥ २६॥
ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः ।
अथवा प्रेततां यास्ये वर एवात्मविक्रयः ॥ २७॥
सूत उवाच -
राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् ।
प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥ २८॥
त्यज चिन्तां महाराज स्वधर्ममनुपालय ।
प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः ॥ २९॥
नातः परतरं धर्मं वदन्ति पुरुषस्य च ।
यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम् ॥ ३०॥
अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः ।
भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत् ॥ ३१॥
सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् ।
तारणायानृतं तद्वत्पातनायाकृतात्मनाम् ॥ ३२॥
शताश्वमेधानादृत्य राजसूयं च पार्थिवः ।
कृत्वा राजा सकृत्स्वर्गादसत्यवचनाच्च्युतः ॥ ३३॥
राजोवाच -
वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः ।
उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि ॥ ३४॥
पत्न्युवाच -
राजन् माभूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः ।
तन्मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम् ॥ ३५॥
व्यास उवाच -
एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः ।
प्रतिलभ्य च संज्ञां वै विललापातिदुःखितः ॥ ३६॥
महद्दुखःमिदं भद्रे यत्त्वमेवं ब्रवीषि मे ।
किं तव स्मितसंल्लापा मम पापस्य विस्मृताः ॥ ३७॥
हा हा त्वया कथं योग्यं वक्तुमेतच्छुचिस्मिते ।
दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि ॥ ३८॥
इत्युक्त्वा नृपतिश्रेष्ठो न धीरो दारविक्रये ।
निपपात महीपृष्ठे मूर्च्छयातिपरिप्लुतः ॥ ३९॥
शयानं भुवि तं दृष्ट्वा मूर्च्छयापि महीपतिम् ।
उवाचेदं सुकरुणं राजपुत्री सुदुःखिता ॥ ४०॥
हा महाराज कस्येदमपध्यानादुपागतम् ।
यस्त्वं निपतितो भूमौ रङ्कवच्छरणोचितः ॥ ४१॥
येनैव कोटिशो वित्तं विप्राणामपवर्जितम् ।
स एव पृथिवीनाथो भुवि स्वपिति मे पतिः ॥ ४२॥
हा कष्टं किं तवानेन कृतं दैव महीक्षिता ।
यदिन्द्रोपेन्द्रतुल्योऽयं नीतः पापामिमां दशाम् ॥ ४३॥
इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह ।
भर्तुर्दुःखमहाभारेणासह्येनातिपीडिता ॥ ४४॥
शिशुर्दृष्ट्वा क्षुधाविष्टः प्राह वाक्यं सुदुःखितः ।
तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम् ॥ ४५॥
क्षुन्मे बलवती जाता जिह्वाग्रे मेऽतिशुष्यति ॥ ४६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम विंशोऽध्यायः ॥ ७.२०॥
७.२१ एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।
एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः ।
अन्तकेन समः क्रुद्धो धनं स्वं याचितुं हृदा ॥ १॥
तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्च्छितः ।
स वारिणा तमभ्युक्ष्य राजानमिदमब्रवीत् ॥ २॥
उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् ।
ऋणं धारयतां दुःखमहन्यहनि वर्धते ॥ ३॥
आप्यायमानः स तदा हिमशीतेन वारिणा ।
अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ॥ ४॥
पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः
समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः ॥ ५॥
विश्वामित्र उवाच -
दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे ।
सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ॥ ६॥
सत्ये प्रोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः ।
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥ ७॥
अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते ।
अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम् ॥ ८॥
मदीयां दक्षिणां राजन्न दास्यति भवान्यदि ।
अस्ताचलगते ह्यर्के शप्स्यामि त्वामतो ध्रुवम् ॥ ९॥
इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः ।
दुःखीभूतोऽवनौ निःस्वो नृशंसमुनिनार्दितः ॥ १०॥
सूत उवाच -
एतस्मिन्नन्तरे तत्र ब्राह्मणो वेदपारगः ।
ब्राह्मणैर्बहुभिः सार्धं निर्ययौ स्वगृहाद् बहिः ॥ ११॥
ततो राज्ञी तु तं दृष्ट्वा आयान्तं तापसं स्थितम् ।
उवाच वाक्यं राजानं धर्मार्थसहितं तदा ॥ १२॥
त्रयाणामपि वर्णानां पिता ब्राह्मण उच्यते ।
पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः ॥ १३॥
तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः ।
राजोवाच -
नाहं प्रतिग्रहं काङ्क्षे क्षत्रियोऽहं सुमध्यमे ॥ १४॥
याचनं खलु विप्राणां क्षत्रियाणां न विद्यते ।
गुरुर्हि विप्रो वर्णानां पूजनीयोऽस्ति सर्वदा ॥ १५॥
तस्माद् गुरुर्न याच्यः स्यात्क्षत्रियाणां विशेषतः ।
यजनाध्ययनं दानं क्षत्रियस्य विधीयते ॥ १६॥
शरणागतानामभयं प्रजानां प्रतिपालनम् ।
न चाप्येवं तु वक्तव्यं देहीति कृपणं वचः ॥ १७॥
ददामीत्येव मे देवि हृदये निहितं वचः ।
अर्जितं कुत्रचिद् द्रव्यं ब्राह्मणाय ददाम्यहम् ॥ १८॥
पत्न्युवाच -
कालः समविषमकरः परिभवसम्मानमानदः कालः ।
कालः करोति पुरुषं दातारं याचितारं च ॥ १९॥
विप्रेण विदुषा राजा क्रुद्धेनातिबलीयसा ।
राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम् ॥ २०॥
राजोवाच -
असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता ।
न तु मानं परित्यज्य देहि देहीति भाषितम् ॥ २१॥
क्षत्रियोऽहं महाभागे न याचे किञ्चिदप्यहम् ।
ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम् ॥ २२॥
पत्न्युवाच -
यदि ते हि महाराज याचितुं न क्षमं मनः ।
अहं तु न्यायतो दत्ता देवैरपि सवासवैः ॥ २३॥
अहं शास्या च पत्या च रक्ष्या चैव महाद्युते ।
मन्मौल्यं सङ्गृहीत्वाथ गुर्वर्थं सम्प्रदीयताम् ॥ २४॥
एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः ।
कष्टं कष्टमिति प्रोच्य विललापातिदुःखितः ॥ २५॥
भार्या च भूयः प्राहेदं क्रियतां वचनं मम ।
विप्रशापाग्निदग्धत्वान्नीचत्वमुपयास्यसि ॥ २६॥
न द्युतहेतोर्न च मद्यहेतो-
र्न राज्यहेतोर्न च भोगहेतोः ।
ददस्व गुर्वर्थमतो मया त्वं
सत्यव्रतत्वं सफलं कुरुष्व ॥ २७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम एकविंशोऽध्यायः ॥ ७.२१॥
७.२२ द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।
व्यास उवाच -
स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः ।
प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ १॥
नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् ।
यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ २॥
एवमुक्त्वा ततो राजा गत्वा नगरमातुरः ।
अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः ।
बाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् ।
भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ॥ ४॥
कस्यचिद्यदि कार्यं स्याद्दास्या प्राणेष्टया मम ।
स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥ ५॥
तेऽब्रुवन्पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः ।
राजोवाच -
किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥ ६॥
राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् ।
व्यास उवाच -
तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक् ॥ ७॥
वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत ।
समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ ८॥
अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया ।
गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे ॥ ९॥
अहं गृह्णामि दासीं तु कति दास्यामि ते धनम् ।
एवमुक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः ॥ १०॥
विदीर्णं तु मनो दुःखान्न चैनं किञ्चिदब्रवीत् ।
विप्र उवाच -
कर्मणश्च वयोरूपशीलानां तव योषितः ॥ ११॥
अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् ।
धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च ॥ १२॥
द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ।
कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्बुदम् ॥ १३॥
इत्याकर्ण वचस्तस्य हरिश्चन्द्रो महीपतिः ।
दुःखेन महताऽऽविष्टो न चैनं किञ्चिदब्रवीत् ॥ १४॥
ततः स विप्रो नृपतेः पुरतो वल्कलोपरि ।
धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत् ॥ १५॥
राज्ञ्युवाच -
मुञ्च मुञ्चार्य मां सद्यो यावत्पश्याम्यहं सुतम् ।
दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति ॥ १६॥
पश्येह पुत्र मामेवं मातरं दास्यतां गताम् ।
मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाधुना ॥ १७॥
ततः स बालः सहसा दृष्ट्वाऽऽकृष्टां तु मातरम् ।
समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥ १८॥
हस्ते वस्त्रं समाकर्षन् काकपक्षधरः स्खलन् ।
तमागतं द्विजः क्रोधाद् बालमप्याहनत्तदा ॥ १९॥
वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् ।
राज्ञ्युवाच -
प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम् ॥ २०॥
क्रीतापि नाहं भविता विनैनं कार्यसाधिका ।
इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥ २१॥
ब्राह्मण उवाच -
गृह्यतां वित्तमेतत्ते दीयतां मम बालकः ।
स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥ २२॥
शतं सहस्रं लक्षं च कोटिमौल्यं तथापरैः ।
द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥ २३॥
कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम् ।
सूत उवाच -
तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥ २४॥
प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् ।
प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥ २५॥
प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता ।
बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥ २६॥
यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि ।
तेन पुण्येन मे भर्ता हरिश्चन्द्रोऽस्तु वै पुनः ॥ २७॥
पादयोः पतितां दृष्ट्वा प्राणेभ्योऽपि गरीयसीम् ।
हाहेति च वदन् राजा विललापाकुलेन्द्रियः ॥ २८॥
वियुक्तेयं कथं जाता सत्यशीलगुणान्विता ।
वृक्षच्छायापि वृक्षं तं न जहाति कदाचन ॥ २९॥
एवं भार्यां वदित्वाथ सुसम्बद्धं परस्परम् ।
पुत्रं च तमुवाचेदं मां त्वं हित्वा क्व यास्यसि ॥ ३०॥
कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् ।
राज्यत्यागे न मे दुःखं वनवासे न मे द्विज ॥ ३१॥
यत्पुत्रेण वियोगो मे एवमाह स भूपतिः ।
सद्भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि ॥ ३२॥
मया त्यक्तासि कल्याणि दुःखेन विनियोजिता ।
इक्ष्वाकुवंशसम्भूतं सर्वराज्यसुखोचितम् ॥ ३३॥
मामीदृशां पतिं प्राप्य दासीभावं गता ह्यसि ।
ईदृशे मज्जमानं मां सुमहच्छोकसागरे ॥ ३४॥
को मामुद्धरते देवि पौराणाख्यानविस्तरैः ।
सूत उवाच -
पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः ॥ ३५॥
घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे ।
नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः ॥ ३६॥
विललापातिदुःखार्तो निःश्वस्योष्णं पुनः पुनः ।
यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथ्ग्जनाः ॥ ३७॥
दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता ।
सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ॥ ३८॥
सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् ।
हा प्रिये हा शिशो वत्स ममानार्यस्य दुर्नयः ॥ ३९॥
दैवाधीनदशां प्राप्तो न मृतोऽस्मि तथापि धिक् ।
व्यास उवाच -
एवं विलपितो राज्ञोऽग्रे विप्रोऽन्तरधीयत ॥ ४०॥
वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः ।
अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः ॥ ४१॥
सशिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः क्रूरदर्शनः ।
विश्वामित्र उवाच-
या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा ॥ ४२॥
तां ददस्व महाबाहो यदि सत्यं पुरस्कृतम् ।
हरिश्चन्द्र उवाच -
नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम् ॥ ४३॥
राजसूयस्य यागस्य या मयोक्ता पुरानघ ।
विश्वामित्र उवाच -
कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते ॥ ४४॥
एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् ।
राजोवाच -
किमनेन महाभाग कथितेन तवानघ ॥ ४५॥
शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत ।
ऋषिरुवाच -
अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे ॥ ४६॥
द्रव्यस्यागमनं राजन् कथयस्व यथातथम् ।
राजोवाच -
मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः ।
निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसङ्ख्यया ।
विप्रैकादशकोट्यस्त्वं सुवर्णस्य गृहाण मे ॥ ४८॥
सूत उवाच -
तद्वित्तं स्वप्लमालक्ष्य दारविक्रयसम्भवम् ।
शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥ ४९॥
ऋषिरुवाच -
राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा ।
अन्यदुत्पादय क्षिप्रं सम्पूर्णा येन सा भवेत् ॥ ५०॥
क्षत्रबन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् ।
मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम् ॥ ५१॥
तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च ।
मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च ॥ ५२॥
राजोवाच -
अन्यद्दास्यामि भगवन् कालः कश्चित्प्रतीक्ष्यताम् ।
अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥ ५३॥
विश्वामित्र उवाच -
चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप ।
एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनं नाम द्वाविंशोऽध्यायः ॥ ७.२२॥
७.२३ त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।
व्यास उवाच -
तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः ।
तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥ १॥
विश्वामित्रे गते राजा ततः शोकमुपागतः ।
श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः ॥ २॥
वित्तक्रीतेन यस्यार्तिर्मया प्रेतेन गच्छति ।
स ब्रवीतु त्वरायुक्तो यामे तिष्ठति भास्करः ॥ ३॥
अथाजगाम त्वरितो धर्मश्चाण्डालरूपधृक् ।
दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी ॥ ४॥
कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः ।
हस्तजर्जरयष्टिश्च शवमाल्यैरलङ्कृतः ॥ ५॥
चाण्डाल उवाच -
अहं गृह्णामि दासत्वे भृत्यार्थः सुमहान्मम ।
क्षिप्रमाचक्ष्व मौल्यं किमेतत्ते सम्प्रदीयते ॥ ६॥
व्यास उवाच -
तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिर्घृणम् ।
वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः ॥ ७॥
चाण्डाल उवाच -
चाण्डालोऽहमिह ख्यातः प्रवीरेति नृपोत्तम ।
शासने सर्वदा तिष्ठ मृतचैलापहारकः ॥ ८॥
एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् ।
ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम ॥ ९॥
उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः ।
अधमस्याधमश्चैव इति प्राहुर्मनीषिणः ॥ १०॥
चाण्डाल उवाच ।
एवमेव त्वया धर्मः कथितो नृपसत्तम ।
अविचार्य त्वया राजन्नधुनोक्तं ममाग्रतः ॥ ११॥
विचारयित्वा यो ब्रूते सोऽभीष्टं लभते नरः ।
सामान्यमेव तत्प्रोक्तमविचार्य त्वयानघ ॥ १२॥
यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः ।
हरिश्चन्द्र उवाच -
असत्यान्नरके गच्छेत्सद्यः क्रूरे नराधमः ॥ १३॥
ततश्चाण्डालता साध्वी न वरा मे ह्यसत्यता ।
व्यास उवाच -
तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ॥ १४॥
क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् ।
चाण्डालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः ॥ १५॥
कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा ।
राजोवाच -
भगवन्सूर्यवंशोत्थमात्मानं वेद्मि कौशिक ॥ १६॥
कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः ।
विश्वामित्र उवाच -
यदि चाण्डालवित्तं त्वमात्मविक्रयजं मम ॥ १७॥
न प्रदास्यसि चेत्तर्हि शप्स्यामि त्वामसंशयम् ।
चाण्डालादथवा विप्राद्देहि मे दक्षिणाधनम् ॥ १८॥
विना चाण्डालमधुना नान्यः कश्चिद्धनप्रदः ।
धनेनाहं विना राजन्न यास्यामि न संशयः ॥ १९॥
इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप ।
दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे ॥ २०॥
व्यास उवाच -
हरिश्चन्द्रस्ततो राजा मृत्ववच्छ्रितजीवितः ।
प्रसीदेति वदन्पादौ ऋषेर्जग्राह विह्वलः ॥ २१॥
हरिश्चन्द्र उवाच -
दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्च विशेषतः ।
प्रसादं कुरु विप्रर्षे कष्टश्चाण्डालसङ्करः ॥ २२॥
भवेयं वित्तशेषेण तव कर्मकरो वशः ।
तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः ॥ २३॥
विश्वामित्र उवाच -
एवमस्तु महाराज ममैव भव किङ्करः ।
किन्तु मद्वचनं कार्यं सर्वदैव नराधिप ॥ २४॥
व्यास उवाच -
एवमुक्तेऽथ वचने राजा हर्षसमन्वितः ।
अमन्यत पुनर्जातमात्मानं प्राह कौशिकम् ॥ २५॥
तवादेशं करिष्यामि सदैवाहं न संशयः ।
आदेशय द्विजश्रेष्ठ किं करोमि तवानघ ॥ २६॥
विश्वामित्र उवाच -
चाण्डालागच्छ मद्दासमौल्यं किं मे प्रयच्छसि ।
गृहाण दासं मौल्येन मया दत्तं तवाधुना ॥ २७॥
नास्ति दासेन मे कार्यं वित्ताशा वर्तते मम ।
व्यास उवाच -
एवमुक्ते तदा तेन स्वपचो हृष्टमानसः ॥ २८॥
आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत ।
चाण्डाल उवाच -
दशयोजनविस्तीर्णे प्रयागस्य च मण्डले ॥ २९॥
भूमिं रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम ।
अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया ॥ ३०॥
व्यास उवाच -
ततो रत्नसहस्राणि सुवर्णमणिमौक्तिकैः ।
चाण्डालेन प्रदत्तानि जग्राह द्विजसत्तमः ॥ ३१॥
हरिश्चन्द्रस्तथा राजा निर्विकारमुखोऽभवत् ।
अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः ॥ ३२॥
तत्तदेव मया कार्यं यदयं कारयिष्यति ।
अथान्तरिक्षे सहसा वागुवाचाशरीरिणी ॥ ३३॥
अनृणोऽसि महाभाग दत्ता सा दक्षिणा त्वया ।
ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि ॥ ३४॥
साधु साध्विति तं देवाः प्रोचुः सेन्द्रा महौजसः ।
हर्षेण महताऽऽविष्टो राजा कौशिकमब्रवीत् ॥ ३५॥
राजोवाच -
त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते ।
यदर्थं मोचितोऽहं ते क्षणाच्चैवानृणीकृतः ॥ ३६॥
किं करोमि महाबाहो श्रेयो मे वचनं तव ।
एवमुक्ते तु वचने नृपं मुनिरभाषत ॥ ३७॥
विश्वामित्र उवाच -
चाण्डालवचनं कार्यमद्यप्रभृति ते नृप ।
स्वस्ति तेऽस्विति तं प्रोच्य तदादाय धनं ययौ ॥ ३८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ७.२३॥
७.२४ चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।
शौनक उवाच -
ततः किमकरोद्राजा चाण्दालस्य गृहे गतः ।
तद् ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे ॥ १॥
सूत उवाच -
विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः ।
विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥ २॥
असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा ।
दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् ॥ ३॥
इष्टबन्धुवियोगार्तमानीय निजपक्कणे ।
निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः ॥ ४॥
निगडस्थस्ततो राजा वसंश्चाण्डालपक्कणे ।
अन्नपाने परित्यज्य सदा वै तदशोचयत् ॥ ५॥
तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः ।
मां स्मरन्त्यसुखाविष्टा मोक्षयिष्यति नौ नृपः ॥ ६॥
उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् ।
रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति ॥ ७॥
तातपार्श्वं व्रजामीति रुदन्तं बालकं पुनः ।
तात तातेति भाषन्तं तथा सम्बोधयिष्यति ॥ ८॥
न सा मां मृगशावाक्षी वेत्ति चाण्डालतां गतम् ।
राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥ ९॥
ततश्चाण्डालता चेयमहो दुःखपरम्परा ।
एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम् ॥ १०॥
निनाय दिवसान् राजा चतुरो विधिपीडितः ।
अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः ॥ ११॥
चाण्डालेनानुशिष्टश्च मृतचैलापहारणे ।
क्रुद्धेन परुषैर्वाक्यैर्निर्भत्स्य च पुनः पुनः ॥ १२॥
काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् ।
तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित् ॥ १३॥
इमं च जर्जरं दण्डं गृहीत्वा याहि मा चिरम् ।
वीरबाहोरयं दण्ड इति घोषस्व सर्वतः ॥ १४॥
सूत उवाच -
कस्मिंश्चिदथ काले तु मृतचैलापहारकः ।
हरिश्चन्द्रोऽभवद्राजा श्मशाने दद्वशानुगः ॥ १५॥
चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा ।
राजा तेन समादिष्टो जगाम शवमन्दिरम् ॥ १६॥
पुर्यास्तु दक्षिणे देशे विद्यमानं भयानकम् ।
शवमाल्यसमाकीर्णं दुर्गन्धं बहुधूमकम् ॥ १७॥
श्मशानं घोरसन्नादं शिवाशतसमाकुलम् ।
गृद्ध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम् ॥ १८॥
अस्थिसङ्घातसङ्कीर्णं महादुर्गन्धसङ्कुलम् ।
अर्धदग्धशवास्यानि विकसद्दन्तपङ्क्तिभिः ॥ १९॥
हसन्तीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः ।
नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥ २०॥
हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे ।
हाप्यते भागिनेयार्ह हा मातुल पितामह ॥ २१॥
मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव ।
इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम् ॥ २२॥
ज्वलन्मांसवसामेदच्छूमिति ध्वनिसङ्कुलम् ।
अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥ २३॥
कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् ।
स राजा तत्र सम्प्राप्तो दुःखादेवमशोचत ॥ २४॥
हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् ।
हा प्रिय पुत्र मे बाल मां त्यक्त्वा मन्दभाग्यकम् ॥ २५॥
ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः ।
विना धर्मं मनुष्याणां जायते न शुभं क्वचित् ॥ २६॥
यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि ।
इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः ॥ २७॥
मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् ।
लकुटाकारकल्पश्च धावंश्चापि ततस्ततः ॥ २८॥
अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाग्रतः ।
इदं मम इदं राज्ञ इदं चाण्डालकस्य च ॥ २९॥
इत्येवं चिन्तयन् राजा व्यवस्थां दुस्तरां गतः ।
जीर्णैकपटसुग्रन्थिकृतकन्थापरिग्रहः ॥ ३०॥
चिताभस्मरजोलिप्तमुखबाहूदराङ्घ्रिकः ।
नानामेदोवसामज्जालिप्तपाण्यङ्गुलिः श्वसन् ॥ ३१॥
नानाशवौदनकृतक्षुन्निवृत्तिपरायणः ।
तदीयमाल्यसंश्लेषकृतमस्तकमण्डलः ॥ ३२॥
न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहुः ।
एवं द्वादश मासास्तु नीता वर्षशतोपमाः ॥ ३३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे हरिश्चन्द्रचिन्तावर्णनं नाम चतुर्विंशोऽध्यायः ॥ ७.२४॥
७.२५ पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।
सूत उवाच -
एकदा तु गतो रन्तुं बालकैः सहितो बहिः ।
वाराणस्या नातिदूरे रोहिताख्यः कुमारकः ॥ १॥
क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपचक्रमे ।
कोमलानल्पमूलांश्च साग्राञ्छक्त्यनुसारतः ॥ २॥
आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः ।
सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम् ॥ ३॥
पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् ।
मस्तके भारकं कृत्वा खिद्यमानः पदे पदे ॥ ४॥
उदकस्थानमासाद्य तदा बालस्तृषान्वितः ।
भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः ॥ ५॥
कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् ।
वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे ॥ ६॥
विश्वामित्राज्ञया तावत्कृष्णसर्पो भयावहः ।
महाविषो महाघोरो वल्मीकान्निर्गतस्तदा ॥ ७॥
तेनासौ बालको दष्टस्तदैव च पपात ह ।
रोहिताख्यं मृतं दृष्ट्वा ययुर्बाला द्विजालयम् ॥ ८॥
त्वरिता भयसंविग्नाः प्रोचुस्तन्मातुरग्रतः ।
हे विप्रदासि ते पुत्रः क्रीडां कर्तुं बहिर्गतः ॥ ९॥
अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः ।
इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा ॥ १०॥
पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा ।
अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिञ्चत ॥ ११॥
मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् ।
ब्राह्मण उवाच -
अलक्ष्मीकारकं निन्द्यं जानती त्वं निशामुखे ॥ १२॥
रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम् ।
ब्राह्मणेनैवमुक्ता सा न किञ्चिद्वाक्यमब्रवीत् ॥ १३॥
रुरोद करुणं दीना पुत्रशोकेन पीडिता ।
अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्धजा ॥ १४॥
अथ तां कुपितो विप्रो राजपत्नीमभाषत ।
धिक्त्वां दुष्टे क्रयं गृह्य मम कार्यं विलुम्पसि ॥ १५॥
अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् ।
एवं निर्भर्त्सिता तेन क्रूरवाक्यैः पुनः पुनः ॥ १६॥
रुदिता कारणं प्राह विप्रं गद्गदया गिरा ।
स्वामिन् मम सुतो बालः सर्पदष्टो मृतो बहिः ॥ १७॥
अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् ।
दुर्लभं दर्शनं तेन सञ्जातं मम सुव्रत ॥ १८॥
इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह ।
पुनस्तां कुपितो विप्रो राजपत्नीमभाषत ॥ १९॥
ब्राह्मण उवाच -
शठे दुष्टसमाचारे किं न जानासि पातकम् ।
यः स्वामिवेतनं गृह्य तस्य कार्यं विलुम्पति ॥ २०॥
नरके पच्यते सोऽथ महारौरवपूर्वके ।
उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत् ॥ २१॥
किमनेनाथवा कार्यं धर्मसङ्कीर्तनेन मे ।
यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः ॥ २२॥
तद्वाक्यं निष्फलं तस्मिन्भवेद् बीजमिवोषरे ।
एहि ते विद्यते किञ्चित्परलोकभयं यदि ॥ २३॥
एवमुक्ताथ सा विप्रं वेपमानाब्रवीद्वचः ।
कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव ॥ २४॥
प्रस्थापय मुहूर्तं मां यावद् द्रक्ष्यामि बालकम् ।
एवमुक्त्वाथ सा मूर्ध्ना निपत्य द्विजपादयोः ॥ २५॥
रुरोद करुणं बाला पुत्रशोकेन पीडिता ।
अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः ॥ २६॥
विप्र उवाच -
किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे ।
किं न जानासि मे क्रोधं कशाघातफलप्रदम् ॥ २७॥
एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह ।
अर्धरात्रो गतस्तस्याः पादाभ्यङ्गादिकर्मणा ॥ २८॥
ब्राह्मणेनाथ सा प्रोक्ता पुत्रपार्श्वं व्रजाधुना ।
तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम् ॥ २९॥
न लुप्येत यथा प्रातर्गृहकर्म ममेति च ।
ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम ह ॥ ३०॥
दृष्ट्वा मृतं निजं पुत्रं भृशं शोकेन पीडिता ।
यूथभ्रष्टा कुरङ्गीव विवत्सा सौरभी यथा ॥ ३१॥
वाराणस्या बहिर्गत्वा क्षणाद् दृष्ट्वा निजं सुतम् ।
शयानं रङ्कवद्भूमौ काष्ठदर्भतृणोपरि ॥ ३२॥
विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम् ।
एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाधुना ॥ ३३॥
आयास्यभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः ।
गत्वा स्खलत्पदा तस्य पपातोपरि मूर्छिता ॥ ३४॥
पुनः सा चेतनां प्राप्य दोर्भ्यामालिङ्ग्य बालकम् ।
तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा ॥ ३५॥
कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च ।
हा बाल हा शिशो वत्स हा कुमारक सुन्दर ॥ ३६॥
हा राजन् क्व गतोऽसि त्वं पश्येमं बालकं निजम् ।
प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम् ॥ ३७॥
तथापश्यन्मुखं तस्य भूयो जीवितशङ्कया ।
निर्जीववदनं ज्ञात्वा मूर्छिता निपपात ह ॥ ३८॥
हस्तेन वदनं गृह्य पुनरेवमभाषत ।
शयनं त्यज हे बाल शीघ्रं जागृहि भीषणम् ॥ ३९॥
निशार्धं वर्धते चेदं शिवाशतनिनादितम् ।
भूतप्रेतपिशाचादिडाकिनीयूथनादितम् ॥ ४०॥
मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः ।
सूत उवाच -
एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह ॥ ४१॥
हा शिशो बाल हा वत्स रोहिताख्य कुमारक ।
रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि ॥ ४२॥
तवाहं जननी वत्स किं न जानासि पश्य माम् ।
देशत्यागाद्राज्यनाशात्पुत्र भर्त्रा स्वविक्रयात् ॥ ४३॥
यद्दासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् ।
ते जन्मसमये विप्रैरादिष्टं यत्त्वनागतम् ॥ ४४॥
दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः ।
शौर्यदानरतिः सत्त्वो गुरुदेवद्विजार्चकः ॥ ४५॥
मातापित्रोस्तु प्रियकृत्सत्यवादी जितेन्द्रियः ।
इत्यादि सकलं जातमसत्यमधुना सुत ॥ ४६॥
चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः ।
तव पाणितले पुत्र कलशश्चामरं तथा ॥ ४७॥
लक्षणानि तथान्यानि त्वद्धस्ते यानि सन्ति च ।
तानि सर्वाणि मोघानि सञ्जातान्यधुना सुत ॥ ४८॥
हा राजन्पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः ।
क्व ते सिंहासनं छत्रं क्व ते खड्गः क्व तद्धनम् ॥ ४९॥
क्व सायोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः ।
सर्वमेतत्तथा पुत्र मां त्यक्त्वा क्व गतोऽसि रे ॥ ५०॥
हा कान्त हा नृपागच्छ पश्येमं स्वसुतं प्रियम् ।
येन ते रिङ्गता वक्षः कुङ्कुमेनावलेपितम् ॥ ५१॥
स्वशरीररजःपङ्कैर्विशालं मलिनीकृतम् ।
येन ते बालभावेन मृगनाभिविलेपितः ॥ ५२॥
भ्रंशितो भालतिलकस्तवाङ्कस्थेन भूपते ।
यस्य वक्त्रं मृदा लिप्तं स्नेहाद्वै चुम्बितं मया ॥ ५३॥
तन्मुखं मक्षिकालिङ्ग्यं पश्ये कीटैर्विदूषितम् ।
हा राजन् पश्य तं पुत्रं भुविस्थं रङ्कवन्मृतम् ॥ ५४॥
हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे ।
तस्य कर्मफलस्येह न पारमुपलक्षये ॥ ५५॥
हा पुत्र हा शिशो वत्स का कुमारक सुन्दर ।
एवं तस्या विलापं ते श्रुत्वा नगरपालकाः ॥ ५६॥
जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः ।
जना ऊचुः -
का त्वं बालस्य कस्यायं पतिस्ते कुत्र तिष्ठति ॥ ५७॥
एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि ।
एवमुक्ताथ सा तन्वी न किञ्चिद्वाक्यमब्रवीत् ॥ ५८॥
भूयोऽपि पृष्टा सा तूष्णीं स्तब्धीभूता बभूव ह ।
विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना ॥ ५९॥
अथ ते शङ्कितास्तस्यां रोमाञ्चिततनूरुहाः ।
सन्त्रस्ताः प्राहुरन्योन्यमुद्धृतायुधपाणयः ॥ ६०॥
नूनं स्त्री न भवत्येषा यतः किञ्चिन्न भाषते ।
तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी ॥ ६१॥
शुभा चेत्तर्हि किं ह्यत्र निशार्धे तिष्ठते बहिः ।
भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः ॥ ६२॥
इत्युक्त्वा तैर्गृहिता सा गाढं केशेषु सत्वरम् ।
भुजयोरपरैश्चैव कैश्चापि गलके तथा ॥ ६३॥
खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः ।
आकृष्य पक्कणे नीता चाण्डालाय समर्पिता ॥ ६४॥
हे चाण्डाल बहिर्दृष्टा ह्यस्माभिर्बालघातिनी ।
वध्यतां वध्यतामेष शीघ्रं नीत्वा बहिःस्थले ॥ ६५॥
चाण्डालः प्राह तां दृष्ट्वा ज्ञातेयं लोकविश्रुता ।
न दृष्टपूर्वा केनापि लोकडिम्भान्यनेकधा ॥ ६६॥
भक्षितान्यनया भूरि भवद्भिः पुण्यमार्जितम् ।
ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम् ॥ ६७॥
द्विजस्त्रीबालगोघाती स्वर्णस्तेयी च यो नरः ।
अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः ॥ ६८॥
महाजनविरोधी च तस्य पुण्यप्रदो वधः ।
द्विजस्यापि स्त्रियो वापि न दोषो विद्यते वधे ॥ ६९॥
अस्या वधश्च मे योग्य इत्युक्त्वा गाडबन्धनैः ।
बद्ध्वा केशेष्वथाकृष्य रज्जुभिस्तामताडयत् ॥ ७०॥
हरिश्चन्द्रमथोवाच वाचा परुषया तदा ।
रे दास वध्यतामेषा दुष्टात्मा मा विचारय ॥ ७१॥
तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा ।
वेपमानोऽथ चाण्डालं प्राह स्त्रीवधशङ्कितः ॥ ७२॥
न शक्तोऽहमिदं कर्तुं प्रेष्यं देहि ममापरम् ।
असाध्यमपि यत्कर्म तत्करिष्ये त्वयोदितम् ॥ ७३॥
श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् ।
मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः ॥ ७४॥
बालानामेव भयदा नेयं रक्ष्या कदाचन ।
तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत् ॥ ७५॥
स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन ।
स्त्रीवधे कीर्तितः पापं मुनिभिर्धर्मतत्परैः ॥ ७६॥
पुरुषो यः स्त्रियं हन्याज्ज्ञानतोऽज्ञानतोऽपि वा ।
नरके पच्यते सोऽथ महारौरवपूर्वके ॥ ७७॥
चाण्डाल उवाच -
मा वदासिं गृहाणैनं तीक्ष्णं विद्युत्समप्रभम् ।
यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत् ॥ ७८॥
तस्य हिंसा कृतं नूनं बहुपुण्यप्रदा भवेत् ।
भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया ॥ ७९॥
तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति ।
राजोवाच -
चाण्डालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम् ॥ ८०॥
आजन्मतस्ततो यत्नं न कुर्यां स्त्रीवधे तव ।
चाण्डाल उवाच -
स्वामिकार्यं विना दुष्ट किं कार्यं विद्यतेऽपरम् ॥ ८१॥
गृहीत्वा वेतनं मेऽद्य कस्मात्कार्यं विलुम्पसि ।
यः स्वामिवेतनं गृह्य स्वामिकार्यं विलुम्पति ॥ ८२॥
नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि ।
राजोवाच -
चाण्डालनाथ मे देहि प्राप्यमन्यत्सुदारुणम् ॥ ८३॥
स्वशत्रुं ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् ।
घातयित्वा तु तं शत्रुं तव दास्यामि मेदिनीम् ॥ ८४॥
देव देवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् ।
देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः ॥ ८५॥
एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः ।
चाण्डालः कुपितः प्राह वेपमानं महीपतिम् ॥ ८६॥
चाण्डाल उवाच -
(नैतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्)
चाण्डालदासतां कृत्वा सुराणां भाषसे वचः ।
दास किं बहुना नूनं शृणु मे गदतो वचः ॥ ८७॥
निर्लज्ज तव चेदस्ति किञ्चित्पापभयं हृदि ।
किमर्थं दासतां यातश्चाण्डालस्य तु वेश्मनि ॥ ८८॥
गृहाणैनं ततः खड्गमस्याश्छिन्धि शिरोऽम्बुजम् ।
एवमुक्त्वाथ चाण्डालो राज्ञे खड्गं न्यवेदयत् ॥ ८९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ७.२५॥
७.२६ षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।
सूत उवाच -
ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः ।
अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥ १॥
शिरस्ते छेदयिष्यामि हन्तुं शक्नोति चेत्करः ।
एवमुक्त्वा समुद्यम्य खड्गं हन्तुं गतो नृपः ॥ २॥
न जानाति नृपः पत्नीं सा न जानाति भूपतिम् ।
अब्रवीद् भृशदुःखार्ता स्वमृत्युमभिकाङ्क्षति ॥ ३॥
स्त्र्युवाच -
चाण्डाल शृणु मे वाक्यं किञ्चित्त्वं यदि मन्यसे ।
मृतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात् ॥ ४॥
तं दहामि हतं यावदानयित्वा तवान्तिकम् ।
तावत्प्रतीक्ष्यतां पश्चादसिना घातयस्व माम् ॥ ५॥
तेनाथ बाढमित्युक्त्वा प्रेषिता बालकं प्रति ।
सा जगामातिदुःखार्ता विपलन्ती सुदारुणम् ॥ ६॥
भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् ।
हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः ॥ ७॥
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ।
श्मशानभूमिमागत्य बालं स्थाप्याविशद्भुवि ॥ ८॥
(राजन्नद्य स्वबालं तं पश्यसीह महीतले ।
रममाणं स्वसखिभिर्दष्टं दुष्टाहिना मृतम् ॥)
तस्या विलापशब्दं तमाकर्ण्य स नराधिपः ।
शवसन्निधिमागत्य वस्त्रमस्याक्षिपत्तदा ॥ ९॥
तां तथा रुदतीं भार्यां नाभिजानाति भूमिपः ।
चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम् ॥ १०॥
सापि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् ।
नाभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम् ॥ ११॥
भूमौ निपतितं बालं दृष्ट्वाशीविषपीडितम् ।
नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः ॥ १२॥
अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् ।
दर्पणप्रतिमोत्तुङ्गकपोलयुगशोभितम् ॥ १३॥
नीलान्केशान्कुञ्चिताग्रान् सान्द्रान्दीर्घांस्तरङ्गिणः ।
राजीवसदृशे नेत्रे ओष्ठौ बिम्बफलोपमौ ॥ १४॥
विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः ।
विशालपादो गम्भीरःसूक्ष्माङ्गुल्यवनीधरः ॥ १५॥
मृणालपादो गम्भीरनाभिरुद्धतकन्धरः ।
अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ॥ १६॥
जातो नीतः कृतान्तेन कालपाशाद्दुरात्मना ।
सूत उवाच -
एवं दृष्ट्वाथ तं बालं मातुरङ्के प्रसारितम् ॥ १७॥
स्मृतिमभ्यागतो राजा हाहेत्यश्रूण्यपातयत् ।
सोऽप्युवाच च वत्सो मे दशामेतामुपागतः ॥ १८॥
नीतो यदि च घोरेण कृतान्तेनात्मनो वशम् ।
विचारयित्वा राजासौ हरिश्चन्द्रस्तथा स्थितः ॥ १९॥
ततो राज्ञी महादुःखावेशादिदमभाषत ।
राज्ञ्युवाच -
हा वत्स कस्य पापस्य त्वपध्यानादिदं महत् ॥ २०॥
दुःखमापतितं घोरं तद्रूपं नोपलभ्यते ।
हा नाथ राजन् भवता मामपास्य सुदुःखिताम् ॥ २१॥
कस्मिन्संस्थीयते स्थाने विश्रब्धं केन हेतुना ।
राज्यनाशं सुहृत्त्यागो भार्यातनयविक्रयः ॥ २२॥
हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया ।
इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा ॥ २३॥
प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् ।
कष्टं ममैव पत्नीयं बालकश्चापि मे सुतः ॥ २४॥
ज्ञात्वा पपात सन्तप्तो मूर्च्छामतिजगाम ह ।
सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ॥ २५॥
मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले ।
चेतनां प्राप्य राजेन्द्रो राजपत्नी च तौ समम् ॥ २६॥
विलेपतुः सुसन्तप्तौ शोकभारेण पीडितौ ।
राजोवाच -
हा वत्स सुकुमारं ते वदनं कुञ्चितालकम् ॥ २७॥
पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते ।
तात तातेति मधुरं ब्रुवाणं स्वयमागतम् ॥ २८॥
उपगुह्य कदा वक्ष्ये वत्सवत्सेति सौहृदात् ।
कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ॥ २९॥
ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति ।
न वालं मम सम्भूतं मनो हृदयनन्दन ॥ ३०॥
(मयासि पितृमान्पित्रा विक्रीतो येन वस्तुवत् ।)
गतं राज्यमशेषं मे सबान्धवधनं महत् ।
(हीनदैवान्नृशंसेन दृष्टो मे तनयस्ततः ।)
अहं महाहिदष्टस्य पुत्रस्याननपङ्कजम् ॥ ३१॥
निरीक्षन्नद्य घोरेण विषेणाधिकृतोऽधुना ।
एवमुक्त्वा तमादाय बालकं बाष्पगद्गदः ॥ ३२॥
परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह ।
ततस्तं पतितं दृष्ट्वा शैव्या चैवमचिन्तयत् ॥ ३३॥
अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते ।
विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥ ३४॥
तथास्य नासिका तुङ्गा तिलपुष्पोपमा शुभा ।
दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥ ३५॥
श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः ।
विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम् ॥ ३६॥
प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता ।
वीक्षती सा तदापतन्मूर्च्छया धरणीतले ॥ ३७॥
प्राप्य चेतश्च शनकैः सा गद्गदमभाषत ।
धिक्त्वां दैव ह्यकरुण निर्मर्याद जुगुप्सित ॥ ३८॥
येनायममरप्रख्यो नीतो राजा श्वपाकताम् ।
राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम् ॥ ३९॥
प्रापयित्वापि येनाद्य चाण्डालोऽयं कृतो नृपः ।
नाद्य पश्यामि ते छत्रं सिंहासनमथापि वा ॥ ४०॥
चामरव्यजने वापि कोऽयं विधिविपर्ययः ।
यस्यास्य व्रजतः पूर्वं राजानो भृत्यतां गताः ॥ ४१॥
स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् ।
सोऽयं कपालसंलग्ने घटीपटनिरन्तरे ॥ ४२॥
मृतनिर्माल्यसूत्रान्तर्लग्नकेशसुदारुणे ।
वसानिष्पन्दसंशुष्कमहापटलमण्डिते ॥ ४३॥
भस्माङ्गारार्धदग्धास्थिमज्जासङ्घट्टभीषणे ।
गृध्रगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे ॥ ४४॥
चिताधूमायतपटे नीलीकृतदिगन्तरे ।
कुणपास्वादनमुदा सम्प्रकृष्टनिशाचरे ॥ ४५॥
चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः ।
एवमुक्त्वाथ संश्लिष्य कण्ठे राज्ञो नृपात्मजा ॥ ४६॥
कष्टं शोकसमाविष्टा विललापार्तया गिरा ।
राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ॥ ४७॥
तत्कथ्यतां महाभाग मनो वै मुह्यते मम ।
यद्येतदेव धर्मज्ञ नास्ति धर्मे सहायता ॥ ४८॥
तथैव विप्रदेवादिपूजने सत्यपालने ।
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ॥ ४९॥
यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः ।
सूत उवाच -
इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्गदः ॥ ५०॥
कथयामास तन्वङ्ग्यै यथा प्राप्तः श्वपाकताम् ।
रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता ॥ ५१॥
स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् ।
श्रुत्वा राजा तथा वाक्यं निपपात महीतले ॥ ५२॥
मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः ।
हरिश्चन्द्रमथो प्राह शैव्या गद्गदया गिरा ॥ ५३॥
कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम ।
स्वामिद्रोहो न तेऽस्त्वद्य मासत्यो भव भूपते ॥ ५४॥
मासत्यं तव राजेन्द्र परद्रोहस्तु पातकम् ।
एतदाकर्ण्य राजा तु पपात भुवि मूर्च्छितः ॥ ५५॥
क्षणेन चेतनां प्राप्य विललापातिदुःखितः ।
राजोवाच -
कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम् ॥ ५६॥
यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् ।
पत्न्युवाच -
मया च पूजिता गौरी देवा विप्रास्तथैव च ॥ ५७॥
भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो ।
श्रुत्वा राजा तदा वाक्यं निपपात महीतले ॥ ५८॥
मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् ।
राजोवाच -
प्रिये न रोचते दीर्घं कालं क्लेशं मयाशितुम् ॥ ५९॥
नात्मायत्तोऽहं तन्वङ्गि पश्य मे मन्दभाग्यताम् ।
चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ॥ ६०॥
चाण्डालदासतां यास्ये पुनरप्यन्यजन्मनि ।
नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम् ॥ ६१॥
तापं प्राप्स्यामि सम्प्राप्य महारौरवरौरवे ।
मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम् ॥ ६३॥
एकोऽपि बालको योऽयमासीद्वंशकरः सुतः ।
मम दैवानुयोगेन मृतो सोऽपि बलीयसा ॥ ६३॥
कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः ।
तथापि दुःखबाहुल्यात्त्यक्ष्यामि तु निजां तनुम् ॥ ६४॥
त्रैलोक्ये नास्ति तद्दुःखं नासिपत्रवने तथा ।
वैतरण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवे ॥ ६५॥
सोऽहं सुतशरीरेण दीप्यमाने हुताशने ।
निपतिष्यामि तन्वङ्गि क्षन्तव्यं तन्ममाधुना ॥ ६६॥
न वक्तव्य त्वया किञ्चिदतः कमललोचने ।
मम वाक्यं च तन्वङ्गि निबोधाहतमानसा ॥ ६७॥
अनुज्ञाताथ गच्छ त्वं विप्रवेश्म शुचिस्मिते ।
यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥ ६८॥
सङ्गमः परलोके मे निजपुत्रेण चेत्त्वया ।
इहलोके कुतस्त्वेतद्भविष्यति समीप्सितम् ॥ ६९॥
यन्मया हसता किञ्चिद्रहसि त्वां शुचिस्मिते ।
अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः ॥ ७०॥
राजपत्नीति गर्वेण नावज्ञेयः स मे द्विजः ।
सर्वयत्नेन तोष्यं स्यात्स्वामी दैवतवच्छुभे ॥ ७१॥
राज्ञ्युवाच ।
अहमप्यत्र राजर्षे निपतिष्ये हुताशने ।
दुःखभारासहा देव सह यास्यामि वै त्वया ॥ ७२॥
त्वया सह मम श्रेयो गमनं नान्यथा भवेत् ।
सह स्वर्गं च नरकं त्वया भोक्ष्यामि मानद ।
श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥ ७३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनं नाम षड्विंशोऽध्यायः ॥ ७.२६॥
७.२७ सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।
सूत उवाच -
ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् ।
भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा ॥ १॥
चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम् ।
पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम् ॥ २॥
रक्ताम्बरपरीधानां करुणारससागरम् ।
नानायुधधरामम्बां जगत्पालनतत्पराम् ॥ ३॥
तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः ।
धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः ॥ ४॥
आगत्य सर्वे प्रोचुस्ते राजञ्छ्रुणु महाप्रभो ।
अहं पितामहः साक्षाद्धर्मश्च भवगान्स्वयम् ॥ ५॥
साध्याः सविश्वे मरुतो लोकपालाः सचारणाः ।
नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ ॥ ६॥
एते चान्येऽथ बहवो विश्वामित्रस्तथैव च ।
विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति धर्मतः ॥ ७॥
विश्वामित्रः स तेऽभीष्टमाहर्तुं सम्यगिच्छति ।
धर्म उवाच -
मा राजन् साहसं कार्षीर्धर्मोऽहं त्वामुपागतः ॥ ८॥
तितिक्षादमसत्त्वाद्यैस्त्वद्गुणैः परितोषितः ।
इन्द्र उवाच -
हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम् ॥ ९॥
त्वयाद्य भार्यापुत्रेण जिता लोकाः सनातनाः ।
आरोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः ॥ १०॥
सुदुष्प्रापं नरैरन्यैर्जितमात्मीयकर्मभिः ।
सूत उवाच -
ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ॥ ११॥
इन्द्रः प्रासृजदाकाशाच्चितामध्यगते शिशौ ।
पुष्पवृष्टिश्च महती दुन्दुभिस्वन एव च ॥ १२॥
समुत्तस्थौ मृतः पुत्रो राज्ञस्तस्य महात्मनः ।
सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः ॥ १३॥
ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा ।
सभार्यः स्वश्रिया युक्तो दिव्यमालाम्बरावृतः ॥ १४॥
बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत ॥ १५॥
सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् ।
समारोह महाभाग निजानां कर्मणां फलम् ॥ १६॥
हरिश्चन्द्र उवाच -
देवराजाननुज्ञातः स्वामिना श्वपचेन हि ।
अकृत्वा निष्कृतिं तस्य नारोक्ष्ये वै सुरालयम् ॥ १७॥
धर्म उवाच -
तवैवं भाविनं क्लेशमवगम्यात्ममायया ।
आत्मा श्वपचतां नीतो दर्शितं तच्च पक्कणम् ॥ १८॥
इन्द्र उवाच -
प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि ।
तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥ १९॥
हरिश्चन्द्र उवाच -
देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे ।
मच्छोकमग्नमनसः कौसले नगरे नराः ॥ २०॥
तिष्ठन्ति तानपास्यैवं कथं यास्याम्यहं दिवम् ।
ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा ॥ २१॥
तुल्यमेभिर्महत्पापं भक्तत्यागादुदाहृतम् ।
भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम् ॥ २२॥
तैर्विना न प्रयास्यामि तस्माच्छक्र दिवं व्रज ।
यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर ॥ २३॥
ततोऽहमपि यास्यामि नरकं वापि तैः सह ।
इन्द्र उवाच -
बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप ॥ २४॥
कथं सङ्घातभोज्यं त्वं भूप स्वर्गमभीप्ससि ।
हरिश्चन्द्र उवाच -
भुङ्क्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेध्रुवम् ॥ २५॥
यजते च महायज्ञैः कर्म पूर्तं करोति च ।
तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ॥ २६॥
उपदादान्न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया ।
तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् ॥ २७॥
दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः ।
बहुकालोपभोज्यं च फलं यन्मम कर्मगम् ॥ २८॥
तदस्तु दिनमप्येकं तैः समं त्वप्रसादतः ।
सूत उवाच -
एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ॥ २९॥
प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः ।
गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम् ॥ ३०॥
हरिश्चन्द्रस्य निकटे प्रोवाच विबुधाधिपः ।
आगच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम् ॥ ३१॥
धर्मप्रसादात्सम्प्राप्तं सर्वैर्युष्माभिरेव तु ।
हरिश्चन्द्रोऽपि तान्सर्वाञ्जनान्नगरवासिनः ॥ ३२॥
प्राह राजा धर्मपरो दिवमारुह्यतामिति ।
सूत उवाच -
तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः ॥ ३३॥
ये संसारेषु निर्विण्णास्ते धुरं स्वसुतेषु वै ।
कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः ॥ ३४॥
विमानवरमारूढाः सर्वे भास्वरविग्रहाः ।
तदा सम्भूतहर्षास्ते हरिश्चन्द्रश्च पार्थिवः ॥ ३५॥
राज्येऽभिषिच्य तनयं रोहिताख्यं महामनाः ।
अयोध्याख्ये पुरे रम्ये हृष्टपुष्टजनान्विते ॥ ३६॥
तनयं सुहृदश्चापि प्रतिपूज्याभिनन्द्य च ।
पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम् ॥ ३७॥
सम्प्राप्य कीर्तिमतुलां विमाने स महीपतिः ।
आसाञ्चक्रे कामगमे क्षुद्रघण्टाविराजिते ॥ ३८॥
ततस्तर्हि समालोक्य श्लोकमन्त्रं तदा जगौ ।
दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित् ॥ ३९॥
शुक्र उवाच -
अहो तितिक्षामाहात्म्यमहो दानफलं महत् ।
यदागतो हरिश्चन्द्रो महेन्द्रस्य सलोकताम् ॥ ४०॥
सूत उवाच -
एतत्ते सर्वमाख्यानं हरिश्चन्द्रस्य चेष्टितम् ।
यः शृणोति च दुःखार्तः स सुखं लभतेऽन्वहम् ॥ ४१॥
स्वर्गार्थी प्राप्नुयात् स्वर्गं सुतार्थी सुतमाप्नुयात् ।
भार्यार्थी प्राप्नुयाद्भार्यां राज्यार्थीं राज्यमाप्नुयात् ॥ ४२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे हरिश्चन्द्राख्यानश्रवणफलवर्णनं नाम सप्तविंशोऽध्यायः ॥ ७.२७॥
७.२८ अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।
जनमेजय उवाच -
विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् ।
शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥ १॥
शताक्षी सा कुतो जाता देवी भगवती शिवा ।
तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥ २॥
को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः ।
पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते ॥ ३॥
व्यास उवाच -
शृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् ।
तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते ॥ ४॥
दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः ।
हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥ ५॥
देवानां तु बलं वेदो नाशे तस्य सुरा अपि
नङ्क्ष्यन्त्येव न सन्देहो विधेयं तावदेव तत् ॥ ६॥
विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये ।
ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ॥ ७॥
सहस्रवर्षपर्यन्तं चकार परमं तपः ।
तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः ॥ ८॥
ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः ।
ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः ॥ ९॥
समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः ।
वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥ १०॥
तवाद्य तपसा तुष्टो वरदेशोऽहमागतः ।
श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः ॥ ११॥
पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर ।
त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि ॥ १२॥
विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर ।
बलं च देहि येन स्याद्देवानां च पराजयः ॥ १३॥
इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् ।
जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः ॥ १४॥
ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः ।
स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः ॥ १५॥
विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् ।
किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् ॥ १६॥
वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् ।
इति भूमौ महानर्थे जाते परमदारुणे ॥ १७॥
निर्जराः सजरा जाता हविर्भागाद्यभावतः ।
रुरोध स तदा दैत्यो नगरीममरावतीम् ॥ १८॥
अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च ।
पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित् ॥ १९॥
निलयं गिरिदुर्गेषु रत्नसानुगुहासु च ।
संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम् ॥ २०॥
अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप ।
वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥ २१॥
कूपवापीतडागाश्च सरितः शुष्कतां गताः ।
अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥ २२॥
मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा ।
गृहे गृहे मनुष्याणामभवच्छवसङ्ग्रहः ॥ २३॥
अनर्थे त्वेवमुद्भूते ब्राह्मणाः शान्तचेतसः ।
गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम् ॥ २४॥
समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् ।
निराहारास्तदासक्तास्तामेव शरणं ययुः ॥ २५॥
दयां कुरु महेशानि पामरेषु जनेषु हि ।
सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके ॥ २६॥
कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि ।
त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः ॥ २७॥
नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः ।
यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि ॥ २८॥
समुद्धर महेशानि सङ्कटात्परमोत्थितात् ।
जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके ॥ २९॥
प्रसीद त्वं महेशानि प्रसीद जगदम्बिके ।
अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥ ३०॥
नमः कूटस्थरूपायै चिद्रूपायै नमो नमः ।
नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥ ३१॥
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।
तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥ ३२॥
इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी ।
अनन्ताक्षिमयं रूपं दर्शयामास पार्वती ॥ ३३॥
नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् ।
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥ ३४॥
बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् ।
शाकादीन्फलसंयुक्ताननन्तरससंयुतान् ॥ ३५॥
क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः ।
सर्वसौन्दर्यसारं तद्रूपं लावण्यशोभितम् ॥ ३६॥
कोटिसूर्यप्रतीकाशं करुणारससागरम् ।
दर्शयित्वा जगद्धात्री सानन्तनयनोद्भवा ॥ ३७॥
मोचयामास लोकेषु वारिधारां सहस्रशः ।
नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलैः ॥ ३८॥
दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती ।
तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥ ३९॥
नदीनदप्रवाहास्तैर्जलैः समभवन्नृप ।
निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः ॥ ४०॥
मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः ।
नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥ ४१॥
स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः ।
भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि ॥ ४२॥
नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः ।
अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥ ४३॥
त्वया यतो धृतं देवि शताक्षी त्वं ततो भव ।
क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः ॥ ४४॥
कृपां कुरु महेशानि वेदानप्याहराम्बिके ।
व्यास उवाच -
इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान् ॥ ४५॥
स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा ।
नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥ ४६॥
काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ ।
शाकम्भरीति नामापि तद्दिनात्समभून्नृप ॥ ४७॥
ततः कोलाहले जाते दूतवाक्येन बोधितः ।
ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥ ४८॥
सहस्राक्षौहिणीयुक्तः शरान्मुञ्चंस्त्वरान्वितः ।
रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा ॥ ४९॥
तथा विप्रगणं चैव रोधयामास सर्वतः ।
ततः किलकिला शब्दः समभूद्देवमण्डले ॥ ५०॥
त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः ।
ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥ ५१॥
चकार रक्षणार्थाय स्वयं तस्माद् बहिः स्थिता ।
ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः ॥ ५२॥
शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् ।
परस्परशरोद्घर्षसमुद्भूताग्निसुप्रभम् ॥ ५३॥
कठोरज्याटणत्कारबधिरीकृतदिक्तटम् ।
ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥ ५४॥
कालिका तारिणी बाला त्रिपुरा भैरवी रमा ।
बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी ॥ ५५॥
कामाक्षी तुलजा देवी जम्भिनी मोहिनी तथा ।
छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥ ५६॥
द्वात्रिंशच्छक्तयश्चान्याश्चतुष्षष्टिमिताः पराः ।
असङ्ख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः ॥ ५७॥
मृदङ्गशङ्खवीणादिनादितं सङ्गरस्थलम् ।
शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥ ५८॥
अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः ।
शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥ ५९॥
महद्युद्धं समभवद्यत्राभूद्रक्तवाहिनी ।
अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः ॥ ६०॥
तत एकादशे प्राप्ते दिने परमदारुणे ।
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ॥ ६१॥
कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः ।
संरम्भेणैव महता शक्तीः सर्वा विजित्य च ॥ ६२॥
महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् ।
ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥ ६३॥
प्रहरद्वयपर्यन्तं हृदयत्रासकारकम् ।
ततः पञ्चदशात्युग्रबाणान्देवी मुमोच ह ॥ ६४॥
चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् ।
द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥ ६५॥
पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका ।
ततो वमन् स रुधिरं ममार पुर ईशितुः ॥ ६६॥
तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह ।
हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥ ६७॥
ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदम्बिकाम् ।
पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥ ६८॥
देवा ऊचुः ।
जगद्भ्रमविवर्तैककारणे परमेश्वरि ।
नमः शाकम्भरि शिवे नमस्ते शतलोचने ॥ ६९॥
सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि ।
नमो मायेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥ ७०॥
चेतसा निर्विकल्पेन यां ध्यायन्ति मुनीश्वराः ।
प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥ ७१॥
अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् ।
ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥ ७२॥
कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः ।
सदयां परमेशानीं शताक्षीं मातरं विना ॥ ७३॥
व्यास उवाच -
इति स्तुता सुरैर्देवी ब्रह्मविष्ण्वादिभिर्वरैः ।
पूजिता विविधैर्द्रव्यैः सन्तुष्टाभूच्च तत्क्षणे ॥ ७४॥
प्रसन्ना सा तदा देवी वेदानाहृत्य सा ददौ ।
ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी ॥ ७५॥
ममेयं तनुरुत्कृष्टा पालनीया विशेषतः ।
यया विनानर्थ एष जातो दृष्टोऽधुनैव हि ॥ ७६॥
पूज्याहं सर्वदा सेव्या युष्माभिः सर्वदैव हि ।
नातः परतरं किञ्चित्कल्याणायोपदिश्यते ॥ ७७॥
पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् ।
तेन तुष्टा भविष्यामि हरिष्यामि तथापदः ॥ ७८॥
दुर्गमासुरहन्त्रीत्वाद्दुर्गेति मम नाम यः ।
गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥ ७९॥
किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः ।
संसेव्याहं सदा देवाः सर्वैरपि सुरासुरैः ॥ ८०॥
इत्युक्त्वान्तर्हिता देवी देवानां चैव पश्यताम् ।
सन्तोषं जनयन्त्येवं सच्चिदनन्दरूपिणी ॥ ८१॥
एतत्ते सर्वमाख्यातं रहस्यं परमं महत् ।
गोपनीयं प्रयत्नेन सर्वकल्याणकारकम् ॥ ८२॥
य इमं शृणुयान्नित्यमध्यायं भक्तितत्परः ।
सर्वान्कामानवाप्नोति देवीलोके महीयते ॥ ८३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे शताक्षीचरित्रवर्णनं नामाष्टाविंशोऽध्यायः ॥ ७.२८॥
७.२९ एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।
व्यास उवाच -
इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् ।
सोमवंशोद्भवानां च वर्णनीयं मया कियत् ॥ १॥
पराशक्तिप्रसादेन महत्त्वं प्रतिपेदिरे ।
राजन् सुनिश्चितं विद्धि पराशक्तिप्रसादतः ॥ २॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं पराशक्त्यंशसम्भवम् ॥ ३॥
एते चान्ये च राजानः पराशक्तेरुपासकाः ।
संसारतरुमूलस्य कुठारा अभवन्नृप ॥ ४॥
तस्मात्सर्वप्रयत्नेन संसेव्या भुवनेश्वरी ।
पलालमिव धान्यार्थी त्यजेदन्यमशेषतः ॥ ५॥
आमथ्य वेददुग्धाब्धिं प्राप्तं रत्नं मया नृप ।
पराशक्तिपदाम्भोजं कृतकृत्योऽस्म्यहं ततः ॥ ६॥
पञ्चब्रह्मासनारूढा नास्त्यन्या कापि देवता ।
तत एव महादेव्या पञ्चब्रह्मासनं कृतम् ॥ ७॥
पञ्चभ्यस्त्वधिकं वस्तु वेदेऽव्यक्तमितीर्यते ।
यस्मिन्नोतं च प्रोतं च सैव श्रीभुवनेश्वरी ॥ ८॥
तामविज्ञाय राजेन्द्र नैव मुक्तो भवेन्नरः ।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ ९॥
तदा शिवामविज्ञाय दुःखस्यान्तो भविष्यति ।
अत एव श्रुतौ प्राहुः श्वेताश्वतरशाखिनः ॥ १०॥
ते ध्यानयोगानुगता अपश्य-
न्देवात्मशक्तिं स्वगुणैर्निगूढाम् ॥ ११॥
तस्मात् सर्वप्रयत्नेन जन्मसाफल्यहेतवे ।
लज्जया वा भयेनापि भक्त्या वा प्रेमयुक्तया ।
सर्वसङ्गं परित्यज्य मनो हृदि निरुध्य च ॥ १२॥
तन्निष्ठस्तत्परो भूयादिति वेदान्तडिण्डिमः ।
येन केन मिषेणापि स्वपंस्तिष्ठन्व्रजन्नपि ॥ १३॥
कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात् ।
तस्मात्सर्वप्रयत्नेन भज राजन् महेश्वरीम् ॥ १४॥
विराड्रूपां सूत्ररूपां तथान्तर्यामिरूपिणीम् ।
सोपानक्रमतः पूर्वं ततः शुद्धे तु चेतसि ॥ १५॥
सच्चिदानन्दलक्ष्यार्थरूपां तां ब्रह्मरूपिणीम् ।
आराधय परां शक्तिं प्रपञ्चोल्लासवर्जिताम् ॥ १६॥
तस्यां चित्तलयो यः स तस्या आराधनं स्मृतम् ।
राजन् राज्ञां पराशक्तिभक्तानां चरितं मया ॥ १७॥
धार्मिकाणां सूर्यसोमवंशजानां मनस्विनाम् ।
पावनं कीर्तिदं धर्मबुद्धिदं सद्गतिप्रदम् ॥ १८॥
कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि ।
जनमेजय उवाच -
गौरीलक्ष्मीसरस्वत्यो दत्ताः पूर्वं पराम्बया ॥ १९॥
हराय हरये तद्वन्नाभिपद्मोद्भवाय च ।
तुषाराद्रेश्च दक्षस्य गौरी कन्येति विश्रुतम् ॥ २०॥
क्षीरोदधेश्च कन्येति महालक्ष्मीरिति स्मृतम् ।
मूलदेव्युद्भवानां च कथं कन्यात्वमन्ययोः ॥ २१॥
असम्भाव्यमिदं भाति संशयोऽत्र महामुने ।
छिन्धि ज्ञानासिना तं त्वं संशयच्छेदतत्परः ॥ २२॥
व्यास उवाच -
शृणु राजन् प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
देवीभक्तस्य ते किञ्चिदवाच्यं न हि विद्यते ॥ २३॥
देवीत्रयं यदा देवत्रयायादात्पराम्बिका ।
तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे ॥ २४॥
कस्मिंश्चित्समये राजन् दैत्या हालाहलाभिधाः ।
महापराक्रमा जातास्त्रैलोक्यं तैर्जितं क्षणात् ॥ २५॥
ब्रह्मणो वरदानेन दर्पिता रजताचलम् ।
रुरुधुर्निजसेनाभिस्तथा वैकुण्ठमेव च ॥ २६॥
कामारिः कैटभारिश्च युद्धोद्योगं च चक्रतुः ।
षष्टिवर्षसहस्राणामभूद्युद्धं महोत्कटम् ॥ २७॥
हाहाकारो महानासीद्देवदानवसेनयोः ।
महताथ प्रयत्नेन ताभ्यां ते दानवा हताः ॥ २८॥
स्वस्वस्थानेषु गत्वा तावभिमानं च चक्रतुः ।
स्वशक्त्योर्निकटे राजन् यद्वशादेव ते हताः ॥ २९॥
अभिमानं तयोर्ज्ञात्वा छलहास्यं च चक्रतुः ।
महालक्ष्मीश्च गौरी च हास्यं दृष्ट्वा तयोस्तु तौ ॥ ३०॥
देवावतीव सङ्कृद्धौ मोहितावादिमायया ।
दुरुत्तरं च ददतुरवमानपुरःसरम् ॥ ३१॥
ततस्ते देवते तस्मिन्क्षणे त्यक्त्वा तु तौ पुनः ।
अन्तर्हिते चाभवतां हाहाकारस्तदा ह्यभूत् ॥ ३२॥
निस्तेजस्कौ च निःशक्ती विक्षिप्तौ च विचेतनौ ।
अवमानात्तयोः शक्त्योर्जातौ हरिहरौ तदा ॥ ३३॥
ब्रह्मा चिन्तातुरो जातः किमेतत्समुपस्थितम् ।
प्रधानौ देवतामध्ये कथं कार्याक्षमावमू ॥ ३४॥
अकाण्डे किं निमित्तेन सङ्कटं समुपस्थितम् ।
प्रलयो भविता किं वा जगतोऽस्य निरागसः ॥ ३५॥
निमित्तं नैव जानेऽहं कथं कार्या प्रतिक्रिया ।
इति चिन्तातुरोऽत्यर्थं दध्यौ मीलितलोचनः ॥ ३६॥
पराशक्तिप्रकोपात्तु जातमेतदिति स्म ह ।
जानंस्तदा सावधानः पद्मजोऽभून्नृपोत्तम ॥ ३७॥
ततस्तयोश्च यत्कार्यं स्वयमेवाऽकरोत्तदा ।
स्वशक्तेश्च प्रभावेण कियत्कालं तपोनिधिः ॥ ३८॥
ततस्तयोस्तु स्वस्त्यर्थं मन्वादीन्स्वसुतानथ ।
आह्वयामास धर्मात्मा सनकादींश्च सत्वरः ॥ ३९॥
उवाच वचनं तेभ्यः सन्नतेभ्यस्तपोनिधिः ।
कार्यासक्तोऽहमधुना तपः कर्तुं न च क्षमः ॥ ४०॥
पराशक्तेस्तु तोषार्थं जगद्भारयुतोऽस्म्यहम् ।
शिवविष्णू च विक्षिप्तौ पराशक्तिप्रकोपतः ॥ ४१॥
तस्मात्तां परमां शक्तिं यूयं सन्तोषयन्त्वथ ।
अत्यद्भुतं तपः कृत्वा भक्त्या परमया युताः ॥ ४२॥
यथा तौ पूर्ववृत्तौ च स्यात शक्तियुतावपि ।
तथा कुरुत मत्पुत्रा यशोवृद्धिर्भवेद्धि वः ॥ ४३॥
कुले यस्य भवेज्जन्म तयोः शक्त्योस्तु तत्कुलम् ।
पावयेज्जगतीं सर्वां कृतकृत्यं स्वयं भवेत् ॥ ४४॥
व्यास उवाच -
पितामहवचः श्रुत्वा गताः सर्वे वनान्तरे ।
रिराधयिषवः सर्वे दक्षाद्या विमलान्तराः ॥ ४५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां सप्तमस्कन्धे भगवतीं समाराधयिषूणां
देवानां तपःकरणवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ७.२९॥
७.३० त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।
व्यास उवाच -
ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः ।
मायाबीजजपासक्तास्तपश्चेरुः समाहिताः ॥ १॥
ध्यायतां परमां शक्तिं लक्षवर्षाण्यभून्नृप ।
ततः प्रसन्ना देवी सा प्रत्यक्ष्यं दर्शनं ददौ ॥ २॥
पाशाङ्कुशवराभीतिचतुर्बाहुस्त्रिलोचना ।
करुणारससम्पूर्णा सच्चिदानन्दरूपिणी ॥ ३॥
दृष्ट्वा तां सर्वजननीं तुष्टुवुर्मुनयोऽमलाः ।
नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये ॥ ४॥
नमस्तेजसरूपायै सूत्रात्मवपुषे नमः ।
यस्मिन्सर्वे लिङ्गदेहा ओतप्रोता व्यवस्थिताः ॥ ५॥
नमः प्राज्ञस्वरूपायै नमोऽव्याकृतमूर्तये ।
नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये ॥ ६॥
नमस्ते सर्वरूपायै सर्वलक्ष्यात्ममूर्तये ।
इति स्तुत्वा जगद्धात्रीं भक्तिगद्गदया गिरा ॥ ७॥
प्रणेमुश्चरणाम्भोजं दक्षाद्या मुनयोऽमलाः ।
ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी ॥ ८॥
वरं ब्रूत महाभागा वरदाहं सदा मता ।
तस्यास्तु वचनं श्रुत्वा हरविष्ण्वोस्तनोः शमम् ॥ ९॥
तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम ।
दक्षोऽथ पुनरप्याह जन्म देवि कुले मम ॥ १०॥
भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति ।
जपं ध्यानं तथा पूजां स्थानानि विविधानि च ॥ ११॥
वद मे परमेशानि स्वमुखेनैव केवलम् ।
देव्युवाच -
मच्छक्त्योरवमानाच्च जातावस्था तयोर्द्वयोः ॥ १२॥
नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन ।
अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः ॥ १३॥
भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे ।
जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया ॥ १४॥
मायाबीजं हि मन्त्रो मे मुख्यः प्रियकरः सदा ।
ध्यानं विराट्स्वरूपं मेऽथवा त्वत्पुरतः स्थितम् ॥ १५॥
सच्चिदानन्दरूपं वा स्थानं सर्वं जगन्मम ।
युष्माभिः सर्वदा चाहं पूज्या ध्येया च सर्वदा ॥ १६॥
व्यास उवाच -
इत्युक्त्वान्तर्दधे देवी मणिद्वीपाधिवासिनी ।
दक्षाद्या मुनयः सर्वे ब्रह्माणं पुनराययुः ॥ १७॥
ब्रह्मणे सर्ववृतान्तं कथयामासुरादरात् ।
हरो हरिश्च स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप ॥ १८॥
जातौ पराम्बाकृपया गर्वेण रहितौ तदा ।
कदाचितदथ काले तु महः शाक्तमवातरत् ॥ १९॥
दक्षदेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत् ।
देवाः प्रमुदिताः सर्वे पुष्पवृष्टिं च चक्रिरे ॥ २०॥
नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप ।
मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम् ॥ २१॥
सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः ।
मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम् ॥ २२॥
तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः ।
ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत् ॥ २३॥
सा पुनर्ज्वलने दग्धा दैवयोगान्मनोर्नृप ।
जनमेजय उवाच -
अनर्थकरमेतत्ते श्रावितं वचनं मुने ॥ २४॥
एतादृशं महद्वस्तु कथं दग्धं हुताशने ।
यन्नामस्मरणान्नृणां संसाराग्निभयं न हि ॥ २५॥
केन कर्मविपाकेन मनोर्दग्धं तदेव हि ।
व्यास उवाच -
शृणु राजन् पुरा वृत्तं सतीदायस्य कारणम् ॥ २६॥
कदाचिदथ दुर्वासा गतो जाम्बूनदेश्वरीम् ।
ददर्श देवीं तत्रासौ मायाबीजं जजाप सः ॥ २७॥
ततः प्रसन्ना देवेशी निजकण्ठगतां स्रजम् ।
भ्रमद्भ्रमरसंसक्तां मकरन्दमदाकुलाम् ॥ २८॥
ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः ।
ततो निर्गत्य तरसा व्योममार्गेण तापसः ॥ २९॥
आजगाम स यत्रास्ते दक्षः साक्षात्सतीपिता ।
सन्दर्शनार्थमम्बाया ननाम च सतीपदे ॥ ३०॥
पृष्टो दक्षेण स मुनिर्माला कस्यास्त्यलौकिकी ।
कथं लब्धा त्वया नाथ दुर्लभा भुवि मानवैः ॥ ३१॥
तच्छ्रुत्वा वचनं तस्य प्रोवाचाश्रुयुतेक्षणः ।
देव्याः प्रसादमतुलं प्रेमगद्गदितान्तरः ॥ ३२॥
प्रार्थयामास तां मालां तं मुनिं स सतीपिता ।
अदेयं शक्तिभक्ताय नास्ति त्रैलोक्यमण्डले ॥ ३३॥
इति बुद्ध्या तु तां मालां मनवे स समर्पयत् ।
गृहीता शिरसा माला मनुना निजमन्दिरे ॥ ३४॥
स्थापिता शयनं यत्र दम्पत्योरतिसुन्दरम् ।
पशुकर्मरतो रात्रौ मालागन्धेन मोदितः ॥ ३५॥
अभवत्स महीपालस्तेन पापेन शङ्करे ।
शिवे द्वेषमतिर्जातो देव्यां सत्यां तथा नृप ॥ ३६॥
राजंस्तेनापराधेन तज्जन्यो देह एव च ।
सत्या योगाग्निना दग्धः सतीधर्मदिदृक्षया ॥ ३७॥
पुनश्च हिमवत्पृष्ठे प्रादुरासीत्तु तन्महः ।
जनमेजय उवाच -
दह्यमाने सतीदेहे जाते किमकरोच्छिवः ॥ ३८॥
प्राणाधिका सती तस्य तद्वियोगेन कातरः ।
व्यास उवाच -
ततः परं तु यज्जातां मया वक्तुं न शक्यते ॥ ३९॥
त्रैलोक्यप्रलयो जातः शिवकोपाग्निना नृप ।
वीरभद्रः समुत्पन्नो भद्रकालीगणान्वितः ॥ ४०॥
त्रैलोक्यनाशनोद्युक्तो वीरभद्रो यदाभवत् ।
ब्रह्मादयस्तदा देवाः शङ्करं शरणं ययुः ॥ ४१॥
जाते सर्वस्वनाशेऽपि करुणानिधिरीश्वरः ।
अभयं दत्तवांस्तेभ्यो बस्तवक्त्रेण तं मनुम् ॥ ४२॥
अजीवयन्महात्मासौ ततः खिन्नो महेश्वरः ।
यज्ञवाटमुपागम्य रुरोद भृशदुःखितः ॥ ४३॥
अपश्यत्तां सतीं वह्नौ दह्यमानां तु चित्कलाम् ।
स्कन्धेऽप्यारोपयामास हा सतीति वदन्मुहुः ॥ ४४॥
बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः ।
तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम् ॥ ४५॥
विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः ।
चिच्छेदावयवान्सत्यास्तत्तत्स्थानेषु तेऽपतन् ॥ ४६॥
तत्तत्स्थानेषु तत्रासीन्नानामूर्तिधरो हरः ।
उवाच च ततो देवान्स्थानेष्वेतेषु ये शिवाम् ॥ ४७॥
भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् ।
नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका ॥ ४८॥
स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्मिणः ।
तेषां मन्त्राः प्रसिद्ध्यन्ति मायाबीजं विशेषतः ॥ ४९॥
इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः ।
कालं निन्ये नृपश्रेष्ठ जपध्यानसमाधिभिः ॥ ५०॥
जनमेजय उवाच -
कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ ।
कति सङ्ख्यानि नामानि कानि तेषां च मे वद ॥ ५१॥
तत्र स्थितानां देवीनां नामानि च कृपाकर ।
कृतार्थोऽहं भवे येन तद्वदाशु महामुने ॥ ५२॥
व्यास उवाच -
शृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् ।
येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥ ५३॥
येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः ।
भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥ ५४॥
वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी ।
क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥ ५५॥
प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने ।
मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥ ५६॥
विश्वकामा भगवती विश्वकामप्रपूरणी ।
गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥ ५७॥
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।
गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥ ५८॥
एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि ।
विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे ॥ ५९॥
केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी ।
मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ ६०॥
स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्रिका ।
श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥ ६१॥
वराहशैले तु जया कमला कमलालये ।
रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा ॥ ६२॥
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।
महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ ६३॥
मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका ।
गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥ ६४॥
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।
विपाशायाममोघाक्षी पाडला पुण्ड्रवर्धने ॥ ६५॥
नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी ।
विपुले विपुला देवी कल्याणी मलयाचले ॥ ६६॥
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ।
रमणा रामतीर्थे तु यमुनायां मृगावती ॥ ६७॥
कोटवी कोटतीर्थे तु सुगन्धा माधवे वने ।
गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥ ६८॥
शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ ६९॥
देवकी मथुरायां तु पाताले परमेश्वरी ।
चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ ७०॥
करवीरे महालक्षीरुमा देवी विनायके ।
आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ ७१॥
अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते ।
माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥ ७२॥
छगलण्डे प्रचण्डा तु चण्डीकामरकण्टके ।
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ ७३॥
देवमाता सरस्वत्यां पारावारा तटे स्मृता ।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ ७४॥
सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी ।
उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥ ७५॥
माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे ।
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ ७६॥
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।
भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा ॥ ७७॥
कपालमोचने शुद्धिर्माता कामावरोहणे ।
शङ्खोद्धारे धारा नाम धृतिः पिण्डारके तथा ॥ ७८॥
कला तु चन्द्रभागायामच्छोदे शिवधारिणी ।
वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ ७९॥
औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥ ८०॥
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ।
गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ ८१॥
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।
सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ ८२॥
अरुन्धती सतीनां तु रामासु च तिलोत्तमा ।
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ ८३॥
इमान्यष्ट शतानि स्युः पीठानि जनमेजय ।
तत्सङ्ख्याकास्तदीशान्यो देव्यश्च परिकीर्तिताः ॥ ८४॥
सतीदेव्यङ्गभूतानि पीठानि कथितानि च ।
अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥ ८५॥
यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् ।
सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत् ॥ ८६॥
एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः ।
सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च ॥ ८७॥
कुर्याच्च महतीं पूजां भगवत्या विधानतः ।
क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः ॥ ८८॥
कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय ।
भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः ॥ ८९॥
सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप ।
तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो ॥ ९०॥
देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते ।
प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत् ॥ ९१॥
यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः ।
मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ ९२॥
पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् ।
वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः ॥ ९३॥
य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः ।
सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे ॥ ९४॥
वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा ।
अन्ते लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥ ९५॥
नामाष्टशतजापेन बहवः सिद्धतां गताः ।
यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति ॥ ९६॥
ग्रहमारीभयादीनि तत्र नैव भवन्ति हि ।
सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः ॥ ९७॥
न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः ।
कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः ॥ ९८॥
नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः ।
सर्वथा पूज्यते देवैः किं पुनर्मनुजोत्तमैः ॥ ९९॥
श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् ।
तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ॥ १००॥
इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च ।
सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः ॥ १०१॥
पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः ।
रहस्यातिरहस्यं च किं भूयः श्रोतुमिच्छसि ॥ १०२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
सप्तमस्कन्धे देवीपीठवर्णनं नाम त्रिंशोऽध्यायः ॥ ७.३०॥
७.३१ एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।
जनमेजय उवाच ।
धराधराधीशमौलावाविरासीत्परं महः ।
यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे ॥ १॥
को विरज्येत मतिमान् पिबञ्छक्तिकथामृतम् ।
सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत् ॥ २॥
व्यास उवाच ।
धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः ।
भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते ॥ ३॥
शृणु राजन्पुरा वृत्तं सतीदेहेऽग्निभर्जिते ।
भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत् ॥ ४॥
प्रपञ्चभानरहितः समाधिगतमानसः ।
ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान् ॥ ५॥
सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् ।
शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम् ॥ ६॥
आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे ।
उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः ॥ ७॥
सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् ।
ग्रहाणां देवतानां च वैपरीत्येन वर्तनम् ॥ ८॥
अधिभूताधिदैवानां सत्यभावान्नृपाभवन् ।
अथाऽस्मिन्नेव काले तु तारकाख्यो महसुरः ॥ ९॥
ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः ।
शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति ॥ १०॥
इति कल्पितमृत्युः स देवदेवैर्महासुरः ।
शिवौरससुताभावाज्जगर्ज च ननन्द च ॥ ११॥
तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः ।
शिवौरससुताभावाच्चिन्तामापुर्दुरत्ययाम् ॥ १२॥
नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भवः ।
अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति ॥ १३॥
इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले ।
शशंसुर्हरिमेकान्ते स चोपायं जगाद ह ॥ १४॥
कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा ।
जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी ॥ १५॥
अस्माकमनया देव तदुपेक्षास्ति नान्यथा ।
शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय च ॥ १६॥
लालने ताडने मातुर्नाकारुण्यं यथार्भके ।
तद्वदेव जगन्मातुर्नियन्त्र्या गुणदोषयोः ॥ १७॥
अपराधो भवत्येव तनयस्य पदे पदे ।
कोऽपरः सहते लोके केवलं मातरं विना ॥ १८॥
तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् ।
निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति ॥ १९॥
इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया ।
संयुतो निर्जगामाशु देवैः सह सुराधिपः ॥ २०॥
आजगाम महाशैलं हिमवन्तं नगाधिपम् ।
अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः ॥ २१॥
अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे ।
तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप ॥ २२॥
केचित्समाधिनिष्णाताः केचिन्नामपरायणाः ।
केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः ॥ २३॥
मन्त्रपारायणपराः केचित्कृच्छ्रादिकारिणः ।
अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः ॥ २४॥
हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः ।
इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय ॥ २५॥
अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने ।
प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम् ॥ २६॥
चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ २७॥
विद्युत्कोटिसमानाभमरुणं तत्परं महः ।
नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत् ॥ २८॥
आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् ।
न च स्त्रीरूपमथवा न पुंरूपमथोभयम् ॥ २९॥
दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते ।
पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः ॥ ३०॥
तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् ।
अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम् ॥ ३१॥
उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् ।
रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम् ॥ ३२॥
कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् ।
अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम् ॥ ३३॥
तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् ।
नितम्बबिम्बसुभगां रोमराजिविराजिताम् ॥ ३४॥
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् ।
कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम् ॥ ३५॥
अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् ।
रक्तारविन्दनयनामुन्नसां मधुराधराम् ॥ ३६॥
कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् ।
रत्नसम्भिन्नमुकुटां चन्द्ररेखावतंसिनीम् ॥ ३७॥
मल्लिकामालतीमालाकेशपाशविराजिताम् ।
काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम् ॥ ३८॥
पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् ।
रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम् ॥ ३९॥
सर्वशृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् ।
सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम् ॥ ४०॥
प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् ।
अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः ॥ ४१॥
दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः ।
वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः ॥ ४२॥
कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः ।
प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम् ॥ ४३॥
देवा ऊचुः ।
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ४४॥
तामग्निवर्णां तपसा ज्वलन्तीं
वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणमहं प्रपद्ये
सुतरसि तरसे नमः ॥ ४५॥
देवीं वाचमजनयन्त देवा-
स्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना
धेनुर्वागस्मानुपसुष्टुतैतु ॥ ४६॥
कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ४७॥
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥ ४८॥
नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये ।
नमोऽव्याकृतरूपिण्यै नमः श्रीब्रह्ममूर्तये ॥ ४९॥
यदज्ञानाज्जगद्भाति रज्जुसर्पस्रगादिवत् ।
यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम् ॥ ५०॥
नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् ।
अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम् ॥ ५१॥
पञ्चकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम् ।
नुमस्त्वम्पदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम् ॥ ५२॥
नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये ।
नानामन्त्रात्मिकायै ते करुणायै नमो नमः ॥ ५३॥
इति स्तुता तदा देवैर्मणिद्वीपाधिवासिनी ।
प्राह वाचा मधुरया मत्तकोकिलनिःस्वना ॥ ५४॥
श्रीदेव्युवाच ।
वदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः ।
वरदाहं सदा भक्तकामकल्पद्रुमास्मि च ॥ ५५॥
तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् ।
समुद्धरामि मद्भक्तान्दुःखसंसारसागरात् ॥ ५६॥
इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः ।
इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः ॥ ५७॥
निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् ।
देवा ऊचुः ।
नाज्ञातं किञ्चिदप्यत्र भवत्यास्ति जगत्त्रये ॥ ५८॥
सर्वज्ञया सर्वसाक्षिरूपिण्या परमेश्वरि ।
तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम् ॥ ५९॥
शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणा शिवे ।
शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि ॥ ६०॥
सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः ।
एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके ॥ ६१॥
सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला ।
प्रार्थनीयमिदं मुख्यमपरं देहहेतवे ॥ ६२॥
इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी ।
मम शक्तिस्तु या गौरी भविष्यति हिमालये ॥ ६३॥
शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति ।
भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात् ॥ ६४॥
हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः ।
ततस्तस्य गृहे जन्म मम प्रियकरं मतम् ॥ ६५॥
व्यास उवाच ।
हिमालयोऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः ।
बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचोऽब्रवीत् ॥ ६६॥
महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि ।
नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी ॥ ६७॥
असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे ।
अश्वमेधादिपुण्यैर्वा पुण्यैर्वा तत्समाधिजैः ॥ ६८॥
अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् ।
अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति ॥ ६९॥
यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः ।
सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि ॥ ७०॥
न जानेऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् ।
एतादृशानां वासाय येषां वंशेऽस्ति मादृशः ॥ ७१॥
इदं यथा च दत्तं मे कृपया प्रेमपूर्णया ।
सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा ॥ ७२॥
योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् ।
वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥ ७३॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा ।
वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥ ७४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हिमालयगृहे
पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनं नामैकत्रिंशोऽध्यायः ॥ ७.३१॥
७.३२ द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।
श्रीदेव्युवाच ।
शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम ।
यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ १॥
अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप ।
तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ २॥
अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् ।
तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ॥ ३॥
न सती सा नासती सा नोभयात्मा विरोधतः ।
एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा ॥ ४॥
पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः ।
चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ ५॥
तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे ।
अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ ६॥
स्वशक्तेश्च समायोगादहं बीजात्मतां गता ।
स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥ ७॥
चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते ।
प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ ८॥
केचित्तां तप इत्याहुस्तमः केचिज्जडं परे ।
ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ ९॥
विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः ।
अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ १०॥
एवं नानाविधानि स्युर्नामानि निगमादिषु ।
तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥ ११॥
चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् ।
स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ १२॥
अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् ।
कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ १३॥
प्रकाशमानमन्येषां भासकं विद्धि पर्वत ।
अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥ १४॥
जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः ।
संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ १५॥
यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा ।
अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ १६॥
अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः ।
आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ १७॥
मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् ।
सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ १८॥
अपरिच्छिन्नताप्येवमत एव मता मम ।
तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ १९॥
ज्ञानस्य जडशेषत्वं न दृष्टं न च सम्भवि ।
चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ २०॥
तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा ।
सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ २१॥
स पुनः कामकर्मादियुक्तया स्वीयमायया ।
पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः ॥ २२॥
अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते ।
अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ २३॥
एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् ।
अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ २४॥
प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् ।
तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ २५॥
सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् ।
ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ २६॥
तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः ।
भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥ २७॥
जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा ।
शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ २८॥
शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः ।
शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ २९॥
शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा ।
तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ ३०॥
सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः ।
अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ ३१॥
यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः ।
ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ ३२॥
पञ्चसङ्ख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते ।
पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद् द्विधा ॥ ३३॥
एकैकं भागमेकस्य चतुर्धा विभजेद् गिरे ।
स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ ३४॥
तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः ।
पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ ३५॥
ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः ।
अन्तःकरणमेकं स्याद् वृत्तिभेदाच्चतुर्विधम् ॥ ३६॥
यदा तु सङ्कल्पविकल्पकृत्यं
तदा भवेत्तन्मन इत्यभिख्यम् ।
स्याद् बुद्धिसंज्ञं च यदा प्रवेत्ति
सुनिश्चितं संशयहीनरूपम् ॥ ३७॥
अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् ।
अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥ ३८॥
तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च ।
प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा ॥ ३९॥
हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः ।
कण्ठदेशेऽप्युदानः स्याद् व्यानः सर्वशरीरगः ॥ ४०॥
ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ।
प्राणादिपञ्चकं चैव धिया च सहितं मनः ॥ ४१॥
एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते ।
तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता ॥ ४२॥
सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता ।
स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ ४३॥
तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः ।
स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥ ४४॥
सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः ।
अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप ॥ ४५॥
तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः ।
द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ ४६॥
देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः ।
प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ॥ ४७॥
स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः ।
एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ ४८॥
प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः ।
स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ ४९॥
करोति विविधं विश्वं नानाभोगाश्रयं पुनः ।
मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां देव्या व्यष्टिसमष्टिरूपवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ७.३२॥
७.३३ त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।
देव्युवाच ।
मन्मायाशक्तिसङ्क्लृप्तं जगत्सर्वं चराचरम् ।
सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः ॥ १॥
व्यवहारदृशा सेयं विद्या मायेति विश्रुता ।
तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ २॥
साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् ।
मायाकर्मादिसहिता गिरे प्राणपुरःसरा ॥ ३॥
लोकान्तरगतिर्नोचेत्कथं स्यादिति हेतुना ।
यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ ४॥
उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा ।
उच्चनीचादिवस्तूनि भासयन्भास्करः सदा ॥ ५॥
न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न ।
मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ ६॥
वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः ।
अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ ७॥
जीवेश्वरविभागश्च कल्पितो माययैव तु ।
घटाकाशमहाकाशविभागः कल्पितो यथा ॥ ८॥
तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ।
यथा जीवबहूत्वं च माययैव न च स्वतः ॥ ९॥
तथेश्वरबहुत्वं च मायया न स्वभावतः ।
देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ १०॥
अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ।
गुणानां वासनाभेदभेदिता या धराधर ॥ ११॥
माया सा परभेदस्य हेतुर्नान्यः कदाचन ।
मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ १२॥
ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च ।
ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी ॥ १३॥
सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् ।
पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः ॥ १४॥
व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः ।
स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ १५॥
यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ १६॥
न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् ।
यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ १७॥
रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि ।
तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ १८॥
अधिष्ठानातिरेकेण कल्पितं तन्न भासते ।
तस्मान्मत्सत्तयैवैतत्सत्तावान्नान्यथा भवेत् ॥ १९॥
हिमालय उवाच ।
यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् ।
तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ २०॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः ।
ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ २१॥
अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा ।
अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ २२॥
अपश्यंस्ते महादेव्या विराड्रूपं परात्परम् ।
द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ॥ २३॥
दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः ।
विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ २४॥
नभस्तलं नाभिसरो ज्योतिश्चक्रमुरःस्थलम् ।
महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम् ॥ २५॥
तपोलोको रराटिस्तु सत्यलोकादधः स्थितः ।
इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ २६॥
नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतो बुधैः ।
मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ २७॥
ब्रह्मस्थानं भ्रूविजृम्भोऽप्यापस्तालुः प्र्कीर्तिताः ।
रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ २८॥
दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता ।
सर्गस्त्वपाङ्गमोक्षः स्याद् व्रीडोर्ध्वोष्ठो महेशितुः ॥ २९॥
लोभः स्यादधरोष्ठोऽस्याधर्ममार्गस्तु पृष्ठभूः ।
प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ ३०॥
कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः ।
नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः ॥ ३१॥
कौमारयौवनजरा वयोऽस्य गतिरुत्तमा ।
बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो ॥ ३२॥
राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः ।
विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम् ॥ ३३॥
अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः ।
अतलादिमहालोकाः कट्यधोभागतां गताः ॥ ३४॥
एतादृशं महारूपं ददृशुः सुरपुङ्गवाः ।
ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ ३५॥
दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः ।
नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ ३६॥
सहस्रशीर्षनयनं सहस्रचरणं तथा ।
कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ ३७॥
भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् ।
ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ ३८॥
विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् ।
स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ ३९॥
अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः ।
बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान् ॥ ४०॥
अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् ।
प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ ४१॥
बाष्पगद्गदया वाचा स्तोतुं समुपचक्रिरे ।
देवा ऊचुः ।
अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ ४२॥
कोपं संहर देवेशि सभया रूपदर्शनात् ।
का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह ॥ ४३॥
स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः ।
तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ ४४॥
नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके ।
सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ ४५॥
यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः ।
यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ ४६॥
यस्माच्च देवाः सम्भूताः साध्याः पक्षिण एव च ।
पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ ४७॥
प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा ।
ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ ४८॥
सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च ।
होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ ४९॥
यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च ।
यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ ५०॥
यस्माद्यज्ञः समुद्भूतो दीक्षा यूपश्च दक्षिणाः ।
ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ ५१॥
नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः ।
अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ ५२॥
उपसंहर देवेशि रूपमेतदलौकिकम् ।
तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ ५३॥
व्यास उवाच ।
इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा ।
संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ ५४॥
पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् ।
करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ ५५॥
दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः ।
शान्तचित्ताः प्रणेमुस्ते हर्षगद्गदनिःस्वनाः ॥ ५६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ७.३३॥
७.३४ चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।
श्री देव्युवाच ।
क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् ।
तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १॥
न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया ।
रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ २॥
प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् ।
उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ ३॥
क्रियाः करोति विविधा धर्माधर्मैकहेतवः ।
नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ ४॥
पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा ।
नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ ५॥
घटीयन्त्रवदेतस्य न विरामः कदापि हि ।
अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ ६॥
तस्मादज्ञाननाशाय यतेत नियतं नरः ।
एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ ७॥
पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च ।
अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ ८॥
न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे ।
प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ ९॥
अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि ।
ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ १०॥
तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः ।
कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ ११॥
ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः ।
सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ १२॥
इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् ।
ज्ञानाधृद्ग्रन्थिभेदः स्याद्धृद्ग्रन्थौ कर्मसम्भवः ॥ १३॥
यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः ।
तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ १४॥
तस्मात् सर्वाणि कर्माणि वैदिकानि महामते ।
चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ १५॥
शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः ।
तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ १६॥
तदन्ते चैव संन्यस्य संश्रयेद् गुरुमात्मवान् ।
श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ १७॥
वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः ।
तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ १८॥
तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् ।
ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ १९॥
पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः ।
तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः ॥ २०॥
त्वं पदस्य च वाच्यार्थो जीव एव न संशयः ।
उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ २१॥
वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह ।
लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ २२॥
चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः ।
तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ २३॥
देवदत्तः स एवायमितिवल्लक्षणा स्मृता ।
स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ २४॥
पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः ।
भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ २५॥
मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः ।
सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ २६॥
ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् ।
मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ २७॥
अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः ।
द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ २८॥
अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः ।
देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ २९॥
उपाधिविलये जाते केवलात्मावशिष्यते ।
देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ ३०॥
पञ्चकोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते ।
नेतिनेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ ३१॥
न जायते म्रियते तत्कदाचि-
न्नायं भूत्वा न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ ३२॥
हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ३३॥
अणोरणीयान्महतो महीया-
नात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
धातुः प्रसादान्महिमानमस्य ॥ ३४॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३५॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ३६॥
यस्त्वविद्वान्भवति चामनस्कश्च सदाशुचिः ।
न तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ ३७॥
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ३८॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ ३९॥
इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना ।
भावयेन्मामात्मरूपां निदिध्यासनतोऽपि च ॥ ४०॥
योगवृत्तेः पुरा स्वस्मिन्भावयेदक्षरत्रयम् ।
देवीप्रणवसंज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ ४१॥
हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः ।
ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम् ॥ ४२॥
एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् ।
समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ ४३॥
समाधिकालात्पूर्वं तु भावयित्वैवमादृतः ।
ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ ४४॥
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ।
निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ ४५॥
भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले ।
हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ ४६॥
रकारं तैजसं देवमीकारे प्रविलापयेत् ।
ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ ४७॥
वाच्यवाचकताहीनं द्वैतभावविवर्जितम् ।
अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ ४८॥
इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः ।
मद्रूप एव भवति द्वयोरप्येकता यतः ॥ ४९॥
योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् ।
अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ७.३४॥
७.३५ पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।
हिमालय उवाच ।
योगं वद महेशानि साङ्गं संवित्प्रदायकम् ।
कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ १॥
श्रीदेव्युवाच ।
न योगो नभसः पृष्ठे न भूमौ न रसातले ।
ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ २॥
तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ ।
कामक्रोधौ लोभमोहौ मदमात्सर्यसंज्ञकौ ॥ ३॥
योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः ।
यमं नियममासनप्राणायामौ ततः परम् ॥ ४॥
प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ ५॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ ६॥
तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ७॥
दशैते नियमाः प्रोक्ता मया पर्वतनायक ।
पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ ८॥
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् ।
ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ ९॥
अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः ।
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ १०॥
जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे ।
ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ११॥
सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् ।
वृषणाधः पादपार्ष्णी पार्ष्णिभ्यां परिबन्धयेत् ॥ १२॥
भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् ।
उर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥ १३॥
करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् ।
एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ १४॥
ऋजुकायो विशेद्योगी वीरासनमितीरितम् ।
इडयाऽऽकर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ १५॥
धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया ।
सुषुम्नामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः ॥ १६॥
नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः ।
प्राणायाममिमं प्राहूर्योगशास्त्रविशारदाः ॥ १७॥
भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् ।
मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ १८॥
जपध्यानादिभिः सार्धं सगर्भं तं विदुर्बुधाः ।
तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ १९॥
क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः ।
मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ॥ २०॥
उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते ।
इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ २१॥
बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते ।
अङ्गुष्ठगुल्फजानूरुमूलाधोलिङ्गनाभिषु ॥ २२॥
हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि ।
भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ २३॥
धारणं प्राणमरुतो धारणेति निगद्यते ।
समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ २४॥
आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते ।
समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ २५॥
समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ।
इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम् ॥ २६॥
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग ।
चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ २७॥
तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः ।
तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ २८॥
प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्ररूपिणी ।
इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी ॥ २९॥
शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा ।
दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा ॥ ३०॥
सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी ।
तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ ३१॥
मध्ये स्वयम्भूलिङ्गं तु कोटिसूर्यसमप्रभम् ।
तदूर्ध्वं मायाबीजं तु हरात्माबिन्दुनादकम् ॥ ३२॥
तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा ।
देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ ३३॥
तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ ३४॥
तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् ।
बादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ ३५॥
मूलमाधारषट्कोणं मूलाधारं ततो विदुः ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ ३६॥
तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् ।
मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ ३७॥
मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते ।
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ ३८॥
विष्णुनाधिष्ठितं पद्मं विष्ण्वालोकनकारणम् ।
तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥ ३९॥
कादिठान्तदलैरर्कपत्रैश्च समधिष्ठितम् ।
तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ ४०॥
शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते ।
अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ ४१॥
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।
तदूर्ध्वं तु विशुद्धाख्यं दलं षोडशपङ्कजम् ॥ ४२॥
स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् ।
विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ४३॥
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् ।
आज्ञाचक्रं तदूर्ध्वं तु आत्मनाधिष्ठितं परम् ॥ ४४॥
आज्ञासङ्क्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् ।
द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ ४५॥
कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः ।
एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ ४६॥
सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् ।
इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥ ४७॥
आदौ पूरकयोगेनाप्याधारे योजयेन्मनः ।
गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत् ॥ ४८॥
लिङ्गभेदक्रमेणैव बिन्दुचक्रं च प्रापयेत् ।
शम्भुना तां परां शक्तिमेकीभूतां विचिन्तयेत् ॥ ४९॥
तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् ।
पाययित्वा तु तां शक्तिं मायाख्यां योगसिद्धिदाम् ॥ ५०॥
षड्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ।
आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥ ५१॥
एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् ।
पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ॥ ५२॥
जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् ।
ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ ५३॥
ते गुणाः साधकवरे भवन्त्येव न चान्यथा ।
इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ ५४॥
इदानीं धारणाख्यं तु शृणुष्वावहितो मम ।
दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ ५५॥
तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् ।
अथवा समलं चेतो यदि क्षिप्रं न सिद्ध्यति ॥ ५६॥
तदावयवयोगेन योगी योगान्समभ्यसेत् ।
मदीयहस्तपादादावङ्गे तु मधुरे नग ॥ ५७॥
चित्तं संस्थापयेन्मन्त्री स्थानस्थानजयात्पुनः ।
विशुद्धचित्तः सर्वस्मिन्रूपे संस्थापयेन्मनः ॥ ५८॥
यावन्मनो लयं याति देव्यां संविदि पर्वत ।
तावदिष्टमनुं मन्त्री जपहोमैः समभ्यसेत् ॥ ५९॥
मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते ।
न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ ६०॥
द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् ।
तमः परिवृते गेहे घटो दीपेन दृश्यते ॥ ६१॥
एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः ।
इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मयाऽधुना ॥ ६२॥
गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां मन्त्रसिद्धिसाधनवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ७.३५॥
७.३६ षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।
देव्युवाच ।
इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् ।
भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ १॥
आविः सन्निहितं गुहाचरं नाम महत्पदम् ।
अत्रैतत्सर्वमर्पितमेजत्प्राणमिषच्च यत् ॥ २॥
एतज्जानथ सदसद्वरेण्यं
परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ।
यदर्चिमद्यदणुभ्योऽणु च
यस्मिंल्लोका निहिता लोकिनश्च ॥ ३॥
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ ४॥
धनुर्गृहीत्वौपनिषदं महास्त्रं
शरं ह्युपासानिशितं सन्धयीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ ५॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ६॥
यस्मिन् द्यौश्च पृथिवी चान्तरिक्ष-
मोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथात्मानं
अन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ७॥
अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषोऽन्तश्चरते बहुधा जायमानः ॥ ८॥
ओमित्येवं ध्यायथात्मानं
स्वस्ति वः पाराय तमसः परस्तात् ।
दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ ९॥
मनोमयः प्राणशरीरनेता
प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा
आनन्दरूपममृतं यद्विभाति ॥ १०॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ११॥
हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १२॥
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ १३॥
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म
पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम् ॥ १४॥
एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ १५॥
द्वितीयाद्वै भयं राजंस्तदभावाद् बिभेति न ।
न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ १६॥
अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत ।
मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ १७॥
नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् ।
वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे ॥ १८॥
मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् ।
कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ १९॥
विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः ।
ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम ॥ २०॥
कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि ।
इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ २१॥
शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ २२॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
येनोपदिष्टा विद्येयं स एव परमेश्वरः ॥ २३॥
यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी ।
पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ २४॥
पितृजातं जन्म नष्टं नेत्थं जातं कदाचन ।
तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ २५॥
तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ २६॥
तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग ।
कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ २७॥
अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः ।
इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥ २८॥
अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा ।
अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ ॥ २९॥
पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा ।
इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप ।
लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर ॥ ३०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां ब्रह्मविद्योपदेशवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ७.३६॥
७.३७ सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।
हिमालय उवाच ।
स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि ।
जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ १॥
देव्युवाच ।
मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप ।
कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ २॥
त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा ।
सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ ३॥
गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता ।
परपीडां समुद्दिश्य दम्भं कृत्वा पुरःसरम् ॥ ४॥
मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी ।
परपीडादिरहितः स्वकल्याणार्थमेव च ॥ ५॥
नित्यं सकामो हृदयं यशोऽर्थी भोगलोलुपः ।
तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ ६॥
भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः ।
तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ ७॥
परमेशार्पणं कर्म पापसङ्क्षालनाय च ।
वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ ८॥
इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः ।
करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी ॥ ९॥
परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् ।
पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते ॥ १०॥
अधुना परभक्तिं तु प्रोच्यमानां निबोध मे ।
मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ ११॥
कल्याणगुणरत्नानामाकरायां मयि स्थिरम् ।
चेतसो वर्तनं चैव तैलधारासमं सदा ॥ १२॥
हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि ।
सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा ॥ १३॥
मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् ।
सेव्यसेवकताभावात्तत्र मोक्षं न वाञ्छति ॥ १४॥
परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः ।
स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ १५॥
मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः ।
यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ १६॥
चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः ।
सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा ॥ १७॥
नमते यजते चैवाप्याचाण्डालान्तमीश्वर ।
न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ १८॥
मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा ।
मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ १९॥
मायि प्रेमाकुलमती रोमाञ्चिततनुः सदा ।
प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः ॥ २०॥
अनन्येनैव भावेन पूजयेद्यो नगाधिप ।
मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ २१॥
व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि ।
नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ २२॥
मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा ।
जायते यस्य नियतं स्वभावादेव भूधर ॥ २३॥
उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति ।
अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ २४॥
प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् ।
न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ २५॥
इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता ।
यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ २६॥
इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः ।
तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ २७॥
भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् ।
वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ २८॥
भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग ।
न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ २९॥
तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति ।
तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ ३०॥
तेन मुक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा ।
इहैव यस्य ज्ञानं स्याद्धृद्गतप्रत्यगात्मनः ॥ ३१॥
मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न ।
ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ ३२॥
कण्ठचामीकरसममज्ञानात्तु तिरोहितम् ।
ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ ३३॥
विदिताविदितादन्यन्नगोत्तम वपुर्मम ।
यथादर्शे तथात्मनि यथा जले तथा पितृलोके ॥ ३४॥
छायातपौ यथा स्वच्छौ विविक्तौ तद्वदेव हि ।
मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम् ॥ ३५॥
यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् ।
ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम् ॥ ३६॥
शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः ।
करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ ३७॥
अनेकजन्मभी राजंज्ञानं स्यान्नैकजन्मना ।
ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ ३८॥
नोचेन्महान् विनाशः स्याज्जन्मैतद्दुर्लभं पुनः ।
तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभा ॥ ३९॥
शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च ।
तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ ४०॥
तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा ।
अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ ४१॥
साधने सफलेऽप्येवं जायमानेऽपि यो नरः ।
ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ ४२॥
तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् ।
पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ ४३॥
घृतमिव पयसि निगूढं
भूते भूते च वसति विज्ञानम् ।
सततं मन्थयितव्यं
मनसा मन्थानभूतेन ॥ ४४॥
ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तडिण्डिमः ।
सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ ४५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां भक्तिमहिमावर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ७.३७॥
७.३८ अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।
हिमालय उवाच ।
कति स्थानानि देवेशि द्रष्टव्यानि महीतले ।
मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ १॥
व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि ।
तत्सर्वं वद मे मातः कृतकृत्यो यतो नरः ॥ २॥
श्रीदेव्युवाच ।
सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः ।
उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ ३॥
तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते ।
शृणुष्वावहितो भूत्वा नगराज वचो मम ॥ ४॥
कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता ।
मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ ५॥
तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च ।
हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च ॥ ६॥
शाकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् ।
श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ ७॥
विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् ।
अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥ ८॥
भीमादेव्याः परं स्थानं विमलास्थानमेव च ।
श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव ॥ ९॥
नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके ।
जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ १०॥
गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् ।
मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदम्बरे ॥ ११॥
वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् ।
एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ १२॥
महालसा परं स्थानं योगेश्वर्यास्तथैव च ।
तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ १३॥
वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् ।
श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ १४॥
श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् ।
भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ १५॥
नातः परतरं स्थानं क्वचिदस्ति धरातले ।
प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ १६॥
तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः ।
पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ १७॥
तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः ।
नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ १८॥
गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् ।
अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी ॥ १९॥
नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी ।
पुरुहूता पुष्कराक्षे आषाढौ च रतिस्तथा ॥ २०॥
चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी ।
भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ २१॥
चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता ।
जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ २२॥
शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे ।
केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ २३॥
भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता ।
स्थाणुप्रिया कुरुक्षेत्रे स्वायम्भुव्यपि नाकुले ॥ २४॥
कनखले भवेदुग्रा विश्वेशा विमलेश्वरे ।
अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ २५॥
भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः ।
भवानी शाङ्करी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ २६॥
अविमुक्ते विशालाक्षी महाभागा महालये ।
गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ २७॥
उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसंज्ञके ।
कमलालये तु कमला प्रचण्डा छगलण्डके ॥ २८॥
कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी ।
मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः ॥ २९॥
शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे ।
ज्ञानिनां हृदयाम्भोजे हृल्लेखा परमेश्वरी ॥ ३०॥
प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च ।
तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ ३१॥
तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् ।
अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ ३२॥
अतस्तत्र वसेन्नित्यं देवीभक्तिपरायणः ।
तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ ३३॥
ध्यायंस्तच्चरणाम्भोजं मुक्तो भवति बन्धनात् ।
इमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ ३४॥
भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् ।
श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ ३५॥
मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ।
अधुना कथयिष्यामि व्रतानि तव सुव्रत ॥ ३६॥
नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः ।
व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम् ॥ ३७॥
आर्द्रानन्दकरं नाम्ना तृतीयाया व्रतं च यत् ।
शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी ॥ ३८॥
भौमवारव्रतं चैव प्रदोषव्रतमेव च ।
यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे ॥ ३९॥
नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे ।
तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम् ॥ ४०॥
प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् ।
सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ ४१॥
तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् ।
नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम ॥ ४२॥
एवमन्यान्यपि विभो नित्यनैमित्तिकानि च ।
व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ ४३॥
प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः ।
उत्सवानपि कुर्वीत दोलोत्सवसुखान्विभो ॥ ४४॥
शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् ।
रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ ४५॥
पवित्रोत्सवमेवापि श्रावणे प्रीतिकारकम् ।
मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ ४६॥
मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः ।
कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ ४७॥
वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः ।
य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ ४८॥
स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा ।
सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् ।
नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ४९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां महोत्सवव्रतस्थानवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ७.३८॥
७.३९ एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।
हिमालय उवाच ।
देवदेवि महेशानि करुणासागरेऽम्बिके ।
ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ १॥
श्रीदेव्युवाच ।
वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् ।
अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुङ्गव ॥ २॥
द्विविधा मम पूजा स्याद् बाह्या चाभ्यन्तरापि च ।
बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ ३॥
वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर ।
वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः ॥ ४॥
तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् ।
इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ ५॥
करोति यो नरो मूढः स पतत्येव सर्वथा ।
तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ ६॥
यन्मे साक्षात्परं रूपं दृष्ट्वानसि भूधर ।
अनन्तशीर्षनयनमनन्तचरणं महत् ॥ ७॥
सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् ।
तदेव पूजयेन्नित्यं नमेद् ध्यायेत्स्मरेदपि ॥ ८॥
इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग ।
शान्तः समाहितमना दम्भाहङ्कारवर्जितः ॥ ९॥
तत्परो भव तद्याजी तदेव शरणं व्रज ।
तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ १०॥
अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः ।
यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ ११॥
इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् ।
मत्परा ये मदासक्तचित्ता भक्तवरा मताः ॥ १२॥
प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु ।
ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ १३॥
प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः ।
धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ १४॥
श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः ।
अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ १५॥
सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः ।
अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ १६॥
स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः ।
मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते ॥ १७॥
क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् ।
धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः ॥ १८॥
अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः ।
अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ १९॥
तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् ।
राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ २०॥
सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः ।
मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ २१॥
मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ २२॥
अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् ।
देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ २३॥
ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा ।
सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्भवेत् ॥ २४॥
यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् ।
राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ २५॥
ब्राह्मणैर्न च सम्भाष्याः पङ्क्तिग्राह्या न च द्विजैः ।
अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ २६॥
श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः ।
वामं कापालकं चैव कौलकं भैरवागमः ॥ २७॥
शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः ।
दक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः ॥ २८॥
दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः ।
तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ २९॥
शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च ।
गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ ३०॥
तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् ।
वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित् ॥ ३१॥
सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् ।
वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ ३२॥
तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् ।
धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ ३३॥
सर्वैषणाः परित्यज्य मामेव शरणं गताः ।
सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ ३४॥
मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः ।
संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ ३५॥
उपासन्ते सदा भक्त्या योगमैश्वरसंज्ञितम् ।
तेषां नित्याभियुक्तानामहमज्ञानजं तमः ॥ ३६॥
ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः ।
इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ ३७॥
स्वरूपमुक्तं सङ्क्षेपाद् द्वितीयाया अथो ब्रुवे ।
मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ ३८॥
जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे ।
तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम् ॥ ३९॥
सगुणां करुणापूर्णां तरुणीमरुणारुणाम् ।
सौन्दर्यसारसीमां तां सर्वावयवसुन्दरीम् ॥ ४०॥
शृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् ।
प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम् ॥ ४१॥
पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् ।
पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ ४२॥
यावदान्तरपूजायामधिकारो भवेन्न हि ।
तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ ४३॥
आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः ।
संविदेव परं रूपमुपाधिरहितं मम ॥ ४४॥
अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् ।
संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ ४५॥
अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् ।
भावयेन्निर्मनस्केन योगयुक्तेन चेतसा ॥ ४६॥
अतः परं बाह्यपूजाविस्तारः कथ्यते मया ।
सावधानेन मनसा शृणु पर्वतसत्तम ॥ ४७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ७.३९॥
अध्याय एकोणचाळिसावा समाप्त
७.४० चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।
श्री देव्युवाच ।
प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् ।
कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ १॥
सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् ।
नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ २॥
प्रकाशमानां प्रथमे प्रयाणे
प्रतिप्रयाणेऽप्यमृतायमानाम् ।
अन्तः पदव्यामनुसञ्चरन्ती-
मानन्दरूपामबलां प्रपद्ये ॥ ३॥
ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् ।
मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत् ॥ ४॥
अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः ।
होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ ५॥
भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च ।
हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ ६॥
मूलाधारे हकारं च हृदये च रकारकम् ।
भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ ७॥
तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् ।
कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ ८॥
ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते ।
हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ ९॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ १०॥
पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि ।
अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा ॥ ११॥
ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा ।
ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ १२॥
जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् ।
पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ १३॥
जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः ।
दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ १४॥
तदनुज्ञां समादाय बाह्यपीठे ततः परम् ।
हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम् ॥ १५॥
आवाहयेत्ततः पीठे प्राणस्थापनविद्यया ।
असनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ १६॥
स्नानं वासोद्वयं चैव भूषणानि च सर्वशः ।
गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ १७॥
यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् ।
प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ १८॥
मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः ।
तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ १९॥
पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् ।
गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ २०॥
नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः ।
तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ २१॥
कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो ।
देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ २२॥
महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः ।
क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ २३॥
पुलकाङ्कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः ।
नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ २४॥
वेदपारायणैश्चैव पुराणैः सकलैरपि ।
प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ २५॥
निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् ।
नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ २६॥
बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् ।
नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ २७॥
सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत ।
हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ २८॥
हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता ।
तस्माद्धृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ २९॥
गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् ।
य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ ३०॥
न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि ।
देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा ॥ ३१॥
ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् ।
इति ते कथितं राजन् महादेव्याः प्रपूजनम् ॥ ३२॥
विमृश्यैतदशेषेणाप्यधिकारानुरूपतः ।
कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि ॥ ३३॥
इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् ।
नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ ३४॥
एतत्प्रकाशनं मातुरुद्घाटनमुरोजयोः ।
तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ ३५॥
देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि ।
सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ ३६॥
श्राद्धकाले पठेदेतद्ब्राह्मणानां समीपतः ।
तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ ३७॥
व्यास उवाच ।
इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत ।
देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ ३८॥
ततो हिमालये जज्ञे देवी हैमवती तु सा ।
या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ ३९॥
ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः ।
समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ ४०॥
तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् ।
तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ ४१॥
वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमोऽभवत् ।
इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम् ॥ ४२॥
गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् ।
न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ ४३॥
गीता रहस्यभूतेयं गोपनीया प्रयत्नतः ।
सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ ।
पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ४४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे
देवीगीतायां बाह्यपूजाविधिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ७.४०॥
॥ इति श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide