मुद्गलपुराणं खण्डः ३ महोदरचरितम्
॥ मुद्गलपुराणं खण्डः ३॥
॥ अथ श्रीमुद्गलपुराणे तृतीयः खण्डः प्रारभ्यते ॥
(Page खं. ३ अ. १ पान १)
३.१ रविवालखिल्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
सूत सर्वार्थतत्त्वज्ञ तारितोऽहं त्वया द्विज ।
गणेशचरितं पुण्यं श्रावितं परमाद्भुतम् ॥ १॥
एकदन्तस्य माहात्म्यं श्रुतं त्वत्तो द्विजोत्तम ।
यथा नरः सुधापानात् न तृप्तोऽहं तथाऽभवम् ॥ २॥
महोदरस्य माहात्म्यमधुना वद विस्तरात् ।
कीदृशोऽयं गणेशस्तु कति तस्यावतारकाः ॥ ३॥
कुरुक्षेत्रं महत्तस्य कस्माद्भूमौ समागतः ।
इत्यादि सर्वमत्यन्तं माहात्म्यं वद तस्य मे ॥ ४॥
सूत उवाच ।
शृणु शौनक विपेन्द्र धन्योऽस्यत्र न संशयः ।
विवर्धयसि ढुण्ढेस्त्वं रहस्यं परमाद्भुतम् ॥ ५॥
अतोऽहं हर्षितः सर्वं कथयिष्यामि विस्तरात् ।
महोदरस्य माहात्म्यं यथा व्यासाच्छ्रुतं मया ॥ ६॥
दक्षेणाऽपि तथा पृष्टं यथा त्वं मां प्रपृच्छसि ।
मुद्गलेन यथा प्रोक्तं तथैव त्वां ब्रवीम्यहम् ॥ ७॥
दक्ष उवाच ।
त्वया मुद्गल योगीन्द्र तारितोऽहं विशेषतः ।
मङ्गलायतनां पूर्णां कथां वदसि मानद ॥ ८॥
अधुना वद मे ब्रह्मन् महोदरचरित्रकम् ।
विस्तरेण महाभाग भवबन्धविमोचनम् ॥ ९॥
मुद्गल उवाच ।
धन्योऽसि दक्ष येन त्वं गणेशामृतसत्कथाम् ।
भावयुक्तश्च पिबसि सङ्क्षेपेण ब्रवीमि ते ॥ १०॥
महोदरस्य माहात्म्यं विस्तरेणैव वर्णितुम् ।
भुवनेष्वर्हति च कः सर्वसिद्धिप्रदायकम् ॥ ११॥
एवमेव पुरा पृष्टो वालखिल्यैर्महात्मभिः ।
सूर्यस्तानब्रवीद्यच्च तदेव शृणु यत्नतः ॥ १२॥
दक्ष उवाच ।
कथं स वालखिल्यैश्व पृष्टो भानुर्महायशाः ।
तत्सर्वं विस्तरेणैव वक्तुमर्हसि मुद्गल ॥ १३॥
मुद्गल उवाच ।
रथस्थं भास्करं नित्यं महर्षय उपासते ।
वालखिल्या महाभागा भक्तियुक्तेन चेतसा ॥ १४॥
तत्र सूर्यं गणेशस्य कीर्तने निरतं मुदा ।
दृष्ट्वा पप्रच्छुरादित्यं विस्मिता वालखिल्यकाः ॥ १५॥
भानो त्वं ब्रह्मरूपश्च वेदेषु प्रतिपादितः ।
एक एवाद्वितीयाख्योऽमृतात्मा नात्र संशयः ॥ १६॥
त्वदीयभजनेनैव सिद्धाः परमयोगिनः ।
विष्णुमुख्याः सुरेशाना भवन्ति विविधा जनाः ॥ १७॥
कर्मणां मूलरूपेण सगुणस्त्वं विभासि वै ।
ज्ञानरूपेण सर्वत्र निर्गुणोऽसि दिवाकर ॥ १८॥
त्वत्तः परतरं नास्ति वेदादिषु विशेषतः ।
तदपि त्वं विशेषेण भजसे गणनायकम् ॥ १९॥
कोऽसौ गणेशनामा वै तं कथं भजसे वद ।
मोहयुक्ता वयं जातास्तव दृष्ट्वा चिकीर्षितम् ॥ २०॥
अतो नस्तेजसा नाथ वद तत्त्वं यथातथम् ।
कस्माद्भ्रामयसे सर्वान् गणेशस्तवनेन वै ॥ २१॥
मुद्गल उवाच ।
इति पृष्टो महातेजाः सूर्य आत्मा शरीरिणाम् ।
जगाद सकलं तेभ्यस्तच्छृणु त्वं प्रजापते ॥ २२॥
सूर्य उवाच ।
वालखिल्या महाभागाः शृणुध्वं सर्वसम्मताः ।
चरितं गणनाथस्य भविष्यथ च योगिनः ॥ २३॥
अहमात्मा च वेदेषु कथितो नात्र संशयः ।
तत्र ज्ञानं वो वदामि भ्रमनाशकरं महत् ॥ २४॥
असत्यं ब्रह्म यत् प्रोक्तं तत्राहं जीवधारकः ।
एक एवाद्वितीयश्च सत्यरूपो महर्षयः ॥ २५॥
(Page खं. ३ अ. २ पान २)
वेदादिभावभिन्नेष्वात्माकारेण व्यवस्थितः ।
सत्यासत्य इति द्वन्द्वं ज्ञातव्यं विबुधोत्तमैः ॥ २६॥
तयोरभेदभावे यत् समरूपं परात्परम् ।
आनन्द उभयानन्दाद्ब्रह्म यद्विष्णुरुच्यते ॥ २७॥
समानन्दात्तुरीयं यद्ब्रह्माव्यक्तस्वरूपकम् ।
सर्वेषां नेति कर्ताऽसौ शङ्करश्च प्रकथ्यते ॥ २८॥
चतुर्णां योगकर्ताऽसौ स्वानन्दः परिकीर्तितः ।
सर्वसंयोगरूपं तद्ब्रह्म वेदेषु कथ्यते ॥ २९॥
स्वपदान्न परो योगः संयोगात्मक उच्यते ।
स एव गणनाथश्च मायायुक्तः प्रकथ्यते ॥ ३०॥
मायया सर्वभावेषु संयोगाभेदतः स्वयम् ।
तिष्ठति ब्रह्म विप्रेशास्तेन तन्मायया युतम् ॥ ३१॥
अयोगश्च परः प्रोक्तः संयोगान्नात्र संशयः ।
निर्मायिकमिदं ब्रह्म वेदे चैव हि कथ्यते ॥ ३२॥
तत्र केषां न संयोगस्तस्य केष्वपि नो भवेत् ।
अयोगस्तेन नामाऽभूदभिन्नोऽपि महर्षयः ॥ ३३॥
संयोगायोगयोर्योगे गणेशो योगवाचकः ।
शान्तिदो ब्रह्मभावेषु ब्रह्मणस्पतिरुच्यते ॥ ३४॥
सर्वेषां ब्रह्मणां विप्राः पतिस्तेन प्रकीर्तितः ।
गणेशस्तं सदा भक्तियुक्तोऽहं प्रभजामि हि ॥ ३५॥
गणः समूहरूपश्च धातुरुक्तो मनीषिभिः ।
बाह्यान्तरादियोगे वै समूहो जायते द्विजाः ॥ ३६॥
तेनाऽयं गणराजोऽभूद्ब्रह्मरूपा गणा मताः ।
तेषां स्वामी न सन्देहस्तं भजेऽहं विशेषतः ॥ ३७॥
आत्माकारं च यद्ब्रह्म तदेवैकगणात्मकम् ।
सोऽहं स्वामिनमत्यन्तं भजे भक्तिपरिप्लुतः ॥ ३८॥
मुद्गल उवाच ।
सूर्यस्य वचनं श्रुत्वा वालखिल्या महर्षयः ।
ऊचुस्तं विस्मिताः सर्वे प्रबद्धकरसम्पुटाः ॥ ३९॥
वालखिल्या ऊचुः ।
रवे गणेशमाहात्म्यं विस्तराद्वद योगदम् ।
येन तत्त्वार्थविज्ञाने भवामस्तस्य कौशलाः ॥ ४०॥
रविरुवाच ।
शृणुध्वं मुनयः सर्वे कथां सकलसिद्धिदाम् ।
ब्रह्मणा कथिता मे या सर्वपापप्रणाशिनी ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते रविवालखिल्यप्रश्नवर्णनं नाम प्रथमोऽध्यायः ॥ ३.१
३.२ सूर्यसञ्जीवनदानं नाम द्वितीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
वालखिल्या ऊचुः ।
वद सूर्य विशेषेण ब्रह्मणा कथितं महत् ।
गणेशस्य चरित्रं ते श्रवणे लालसा प्रभो ॥ १॥
सूर्य उवाच ।
पुराऽहमात्मरूपे च संस्थितः सर्वलोकगः ।
गणेशध्यानसन्निष्ठो योगीन्द्राणां गुरुः स्वयम् ॥ २॥
ब्रह्मणा सृष्टमत्यन्तं त्रैलोक्यं सचराचरम् ।
कश्यपस्तत्र मुख्यो वै प्रजापतिसमोऽभवत् ॥ ३॥
तेन मे वै तपस्तप्तं वर्षाणामयुतं द्विजाः ।
आकृष्णेनेति मन्त्रेण ध्याननिष्ठो बभूव ह ॥ ४॥
ततस्तं वरदाताऽहं गतस्तस्याश्रमे पुरा ।
स मां दृष्ट्वा नमस्कृत्याऽपूजयद्भक्तिसंयुतः ॥ ५॥
ततस्तुष्टाव मां विप्रः प्रबद्धकरसम्पुटः ।
वरदं सर्वभावेन भक्तिनम्रात्मकन्धरः ॥ ६॥
कश्यप उवाच ।
नमस्ते जगदाधार आत्मने परमात्मने ।
सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः ॥ ७॥
भेदाभेदविहीनाय नानाभेदधराय ते ।
अनाकाराय देवाय शाश्वताय नमो नमः ॥ ८॥
अमेयशक्तये तुभ्यं कर्माधाराय भानवे ।
सर्वकर्ममयायैव त्रिरूपाय नमो नमः ॥ ९॥
अमृताय सदा ब्रह्मनिष्ठाय त्वन्तरात्मने ।
अर्यम्णे रवये चैव हरिदश्वाय ते नमः ॥ १०॥
आदिमध्यान्तहीनाय तदाधाराय ते नमः ।
अनन्तविभवायैव तेजोराशे नमो नमः ॥ ११॥
दीननाथाय सर्वाय दिनानां पतये नमः ।
नमो हन्त्रे स्वभक्तानां पालकाय नमो नमः ॥ १२॥
भुक्तिमुक्तिप्रदायैव नानाखेलकराय च ।
नमो नमः परेशाय पुरुषाय दिवस्पते ॥ १३॥
एकस्मै चाद्वितीयाय मायाधाराय मायिने ।
संज्ञापते नमस्तुभ्यं रक्ष मां शरणागतम् ॥ १४॥
आत्माकारं च सर्वत्र किं स्तौमि त्वां दिवाकरम् ।
समर्था नाभवन् वेदा अतस्त्वां प्रणमामहे ॥ १५॥
देहि मे परमेशान भक्तिं ते चरणाम्बुजे ।
अन्यं वरं ययाचेऽहं त्वं मे पुत्रो भव प्रभो ॥ १६॥
सूर्य उवाच ।
एवं वदन्तमानन्दयुक्तं मुनिवरं द्विजाः ।
अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनम् ॥ १७॥
तव पुत्रो भविष्यामि द्वादशादित्यरूपवान् ।
मदीया भक्तिरुग्रा ते भविष्यति महामुने ॥ १८॥
यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् ।
भवामि स्मरणेनाऽहं प्रत्यक्षस्ते पुरो मुने ॥ १९॥
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
भुक्तिं मुक्तिं प्रदास्यामि मुने स्तोत्रेण तोषितः ॥ २०॥
एवमुक्त्वा वालखिल्याः सौरलोके गतोऽभवम् ।
अन्तर्धाय स्वमात्मानं सोऽपि सम्मुदितोऽभवत् ॥ २१॥
अदित्यापि तथा तप्तं तपो मे परमाद्भुतम् ।
तयाऽपीदं च विप्रेन्द्रा याचितं तन्मया कृतम् ॥ २२॥
अहं पुत्रस्य भावेन कश्यपाज्जठरे गतः ।
अदित्याश्च सुकाले सा सुषुवे मां महर्षयः ॥ २३॥
जातकर्मादिकं सर्वं चकार मुनिसत्तमः ।
काले मौञ्ज्यादिकं कर्म वेदाध्ययनमादिशत् ॥ २४॥
तथा तताप पुत्र्यर्थं विश्वकर्मा तपो द्विजाः ।
संज्ञाऽग्रे भविता पुत्री कर्मरूपा सुसिद्धिदा ॥ २५॥
तया तस्मै वरो दत्तः साऽपि पुत्री बभूव ह ।
मह्यं ततस्तेन भावेन दत्ता विश्वकर्मणा ॥ २६॥
अहं च ब्रह्मणा तत्राभिषिक्तो ज्योतिषां तथा ।
ग्रहाणां कर्मणां राज्ये ततोऽहं मुदितोऽभवम् ॥ २७॥
सदाधारमिदं सर्वं त्रैलोक्यं सचराचरम् ।
वृष्ट्यादिना तथा काले तत्करोमि स्म तर्पितम् ॥ २८॥
कर्मणां फलदाताऽहं कर्माधारः प्रकीर्तितः ।
वेदे सर्वजनानामन्तरात्मा जगदात्मनाम् ॥ २९॥
ततो बहौ गते कालेऽभवं मनसि गर्वितः ।
निराधारोऽहमेको वै मदाधारमिदं बभौ ॥ ३०॥
कश्यपस्य सुतोऽहं वै जातस्तत्र मया द्विजाः ।
(Page खं. ३ अ. २ पान ४)
गणेशाराधनं किञ्चिन्न कृतं कर्मधारिणा ॥ ३१॥
एवं क्रमेण तत्राऽपि बहुः कालो गतोऽभवत् ।
ततोऽकस्माच्च मे विघ्नः समुत्पन्नः सुदारुणः ॥ ३२॥
माली सुमालिको दैत्यौ तेपतुस्तप उत्तमम् ।
दिव्यवर्षसहस्राणि शिवः सन्तोषितोऽभवत् ॥ ३३॥
वरं ददौ स ताभ्यां यद्याचितं तादृशं परम् ।
सूर्यतेजःसमं दिव्यं विमानं प्रापतुस्तदा ॥ ३४॥
ताभ्यां विमाननिष्ठाभ्यां जितं सर्वं चराचरम् ।
राज्यं तौ चक्रतुर्दैत्यौ त्रिलोकस्य महर्षयः ॥ ३५॥
ततो बहौ गते काले धर्षयन्तौ च मां द्विजाः ।
विमाने संस्थितौ दैत्यौ जग्मतुर्दिवि भानुवत् ॥ ३६॥
विमानतेजसा सर्वं व्याप्तं त्र्यैलोक्यमण्डलम् ।
रात्रिलोपं च सर्वत्र चक्रतुः परमाद्भुतौ ॥ ३७॥
अहमस्तङ्गतो दैत्यौ विमाने तत्र संस्थितौ ।
उदये समनुप्राप्तौ ततश्च दिवसोऽभवत् ॥ ३८॥
एवं मां तौ निरर्थं वै चक्रतुर्दैत्यपुङ्गवौ ।
अर्कतेजःसमानेन विमानेन महौजसौ ॥ ३९॥
अहं सङ्क्षुभितोऽत्यन्तं जातस्तदपि भो द्विजाः ।
असहे वरदानस्य बलं ज्ञात्वा विशेषतः ॥ ४०॥
एवं सप्त गतास्तत्र दिवसास्तदपि द्विजाः ।
न समे संस्थितौ दैत्यौ लोकाः सर्वे सुविस्मताः ॥ ४१॥
कर्मलोपश्च सर्वत्र भ्रमाज्जातो महर्षयः ।
तेजसा दग्धरूपा वै पृथ्वी जाता तथा जनाः ॥ ४२॥
ततोऽहं क्षुभितोऽत्यन्तं गर्वयुक्तः स्वतेजसा ।
ज्वालयामि विमानं स्म दैत्यौ भूमौ मुमूर्च्छतुः ॥ ४३॥
दग्धौ तेजःसमूहेन मदीयेन ततः शिवः ।
आययौ सहसा क्रुद्धः स्मृतस्ताभ्यां विशेषतः ॥ ४४॥
त्रिशूलेन मदीयं वै शिरश्छिन्नं शिवेन च ।
पतितोऽहं ततः काश्यां लुलितः स मृतोऽभवम् ॥ ४५॥
ततः सर्वं जगत् क्षुब्धं सूर्यहीनतया द्विजाः ।
तद् दृष्ट्वा परमाश्चर्यं ययुस्तत्र महर्षयः ॥ ४६॥
देवाः सर्वे भयोद्विग्ना विष्णुब्रह्मादयो ययुः ।
शङ्करं सान्त्वयामासुर्नानायत्नैः सुरर्षयः ॥ ४७॥
ततः शिवं समूचुस्ते किं कृतं वृषभध्वज ।
सूर्यं हत्वा सदात्मानं जगद्धारयसे कथम् ॥ ४८॥
त्वं कालरूपभावेन तमोयुक्तः सदाशिव ।
अकाले विश्वसंहारे वर्तसे किं महेश्वर ॥ ४९॥
तेषां वचनमाकर्ण्य शङ्करः शोकसंयुतः ।
जगाद तान् महादेवान् दैवेनेदं सुकारितम् ॥ ५०॥
निमित्तमात्रं भावेन मां कृत्वा च सुरर्षयः ।
विघ्नराजेन विघ्नोऽयं दारुणः सम्प्रकाशितः ॥ ५१॥
मह्यं पुरा गणेशानो वरदाता बभूव ह ।
स्मृतमात्रस्तवाग्रेऽहं साक्षाद्वै सम्भवामि च ॥ ५२॥
अतोऽहं शरणं तं च गमिष्याम्यधुना विभुम् ।
जीवयिष्यामि भानुं तं तेजसा गणपस्य च ॥ ५३॥
इत्युक्त्वा तं हृदि ध्यात्वा मनसाऽपूजयच्च सः ।
अयाचत विशेषेण जीवनाय रवेरपि ॥ ५४॥
जगज्जीवनदाताऽयं सूर्यः स्वामिन् मया हतः ।
(Page खं. ३ अ. ३ पान ५)
तं जीवय गणेशान नोचेद्देहं त्यजाम्यहम् ॥ ५५॥
इति प्रार्थयमानं तं ज्ञात्वा शम्भुं गजाननः ।
आत्मनामात्मरूपः स जीवयामास तं रविम् ॥ ५६॥
उत्थितं कश्यपस्यैवं पुत्रं दृष्ट्वा सुरर्षयः ।
हर्षितास्तं जयेति स्म गजानन जगुर्मुदा ॥ ५७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते सूर्यसञ्जीवनदानं नाम द्वितीयोऽध्यायः ॥ ३.२
३.३ सूर्यवरप्रदानं नाम तृतीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
सूर्य उवाच ।
ततो लोलार्कनामाऽहं काश्यां जातो महर्षयः ।
विस्मितो मानसेऽत्यन्तं किमाधारमिदं भवेत् ॥ १॥
अहमात्मा च सर्वेषामात्मनो मरणं कथम् ।
मृते मयि जगत् सर्वं केन जीवयुतं कृतम् ॥ २॥
अहं च जीवितः केन नाहमात्मा शरीरिणाम् ।
मोहयुक्ततया व्यर्थं गर्विष्ठः सम्भवामि वै ॥ ३॥
अतोऽहं काननं यास्ये त्यक्त्वा सर्वं विशेषतः ।
यदाधारं भवेद्विश्वं तं भजिष्यामि नित्यदा ॥ ४॥
निःसृतोऽहं गृहं त्यक्त्वा तत्र मां विधिरब्रवीत् ।
सान्त्वयित्वा स वेदानां वाक्यैः परमतत्त्ववित् ॥ ५॥
शृणु सूर्य रहस्यं यत् सर्वेभ्यः शान्तिदायकम् ।
भवितासि ततः शान्तः किमर्थं श्राम्यते मुधा ॥ ६॥
त्वमात्मा सर्वभूतानामात्माधारमिदं स्मृतम् ।
आत्मनो मरणं नास्ति ब्रह्मवेदे वदन्ति भोः ॥ ७॥
ब्रह्मणां पतिरूपेण संस्थितो गणनायकः ।
तस्मान्नानाविधानीह ब्रह्माणि प्रोद्भवन्ति वै ॥ ८॥
कश्यपात्मज सर्वत्र योगेन च स तिष्ठति ।
तस्मिन् स्थिते कथं विश्वं तन्नश्यति वदस्व माम् ॥ ९॥
त्वं कश्यपस्य पुत्रत्वं प्राप्तश्च वरदानतः ।
तत्राज्ञानावृतत्वेन पूजितो न गणाधिपः ॥ १०॥
तेन विघ्नः समुत्पन्नो विपरीतमयः परः ।
आत्मनो मरणं पश्य तव प्राप्तं भजस्व तम् ॥ ११॥
तेन सर्वं शुभं पूर्णं भविष्यति रवे पुनः ।
योगशान्तिधरस्त्वं वै गाणपत्यो भविष्यसि ॥ १२॥
अर्यमोवाच ।
इति श्रुत्वा विधेर्वाक्यं विस्मितोऽहं वदामि तत् ।
ज्ञानार्थं गणराजस्य शृणुध्वं मे विचेष्टितम् ॥ १३॥
अहो ब्रह्मंस्त्वया स्वामिन् बोधितोऽहं विशेषतः ।
संशयं तत्र जातं मे छेदयस्व पितामह ॥ १४॥
योगशान्तिधरः पूर्णो गणेशः परिकीर्तितः ।
करोति स कथं विघ्नं विकारीव वदस्व मे ॥ १५॥
ब्रह्मोवाच ।
शृणु सूर्य महाप्राज्ञ वचः संशयनाशकम् ।
गणेशभक्तस्त्वं येन भविताऽसि महाप्रभो ॥ १६॥
योगशान्तिमयः पूर्णो गणेशश्चैव निश्चितम् ।
तेन नानाविधं विश्वं रचितं ब्रह्म मानद ॥ १७॥
तत्र मायामयो मोहः सर्वत्र भ्रान्तिदायकः ।
तेन भ्रान्तिसमायुक्ते जगद्ब्रह्म बभूवतुः ॥ १८॥
तयोर्मोहविनाशार्थं योगमार्गं गजाननः ।
(Page खं. ३ अ. ३ पान ६)
चकार सर्वशान्तेभ्यः शान्तिदं योगसेवया ॥ १९॥
तत्र तस्य कलांशा ये ब्रह्माकाराः शिवादयः ।
ब्रह्मभावेन गर्वेणाऽभवन् स्वब्रह्मणि स्थिताः ॥ २०॥
तेभ्यः शान्तिप्रदानार्थं विघ्नदाता गजाननः ।
भवते तेन ते सर्वे गर्वहीना भवन्ति वै ॥ २१॥
गर्वहीनस्वभावेन योगमिच्छन्ति शाश्वतम् ।
मूलभूतं च सर्वेषां जगतां ब्रह्मणां रवे ॥ २२॥
साधयित्वा महायोगं शान्तिरूपा भवन्ति ते ।
तत्र विघ्नहरो ढुण्ढिस्तेषां भवति सर्वदा ॥ २३॥
ततो विघ्नेश्वरं देवं भजन्ते शान्तिधारकाः ।
योगशान्तिमयं पूर्णं भक्तिभावसमन्विताः ॥ २४॥
एतदर्थं गणेशानः कुरुते विघ्नमुत्तमम् ।
देवर्षीणां च साधूनां दुष्टानां नैव तादृशम् ॥ २५॥
ब्रह्मणो गिरमाकर्ण्य प्रसन्नः सविता पुनः ।
विधिं जगाद योगार्थं सर्वज्ञं भक्तिसंयुतः ॥ २६॥
सूर्य उवाच ।
वद ब्रह्मन् गणेशस्य प्राप्त्यर्थं योगमुत्तमम् ।
साधयित्वा गणेशोऽहं भविष्यामि विधे यतः ॥ २७॥
ब्रह्मोवाच ।
सम्यक् पृष्टं त्वया वत्स त्वं जानासि विशेषतः ।
अपि तत् कश्यपाज्जातः सर्वं तेन सुविस्मृतम् ॥ २८॥
अधुना शृणु सर्वं त्वं गाणेशं ज्ञानमुत्तमम् ।
साधयित्वा गणेशानः कालेन प्रभविष्यसि ॥ २९॥
मायाशक्तिरसद्रूपा भेदाकारा महामते ।
जानीहि तत्र सर्वात्मा त्वं च सद्रूप उच्यसे ॥ ३०॥
तयोः स्रष्टा सदानन्दो विष्णुः साम्यप्रधारकः ।
त्रिभिर्हीनः शिवो व्यक्तस्त्रिभिर्जानीहि संयुतः ॥ ३१॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः ।
स्वानन्दान्न परब्रह्म संयोगात्मकमुच्यते ॥ ३२॥
स एव गणराजस्तु मायाखेलक उच्यते ।
संयोगाभेदभावेन जगति ब्रह्मणि स्थितः ॥ ३३॥
अयोगे मायया हीनो गणेशो ब्रह्मवाचकः ।
सर्वसंयोगहीनश्चासमाधिसुखदायकः ॥ ३४॥
संयोगायोगयोर्योगे गणेशः शान्तिवाचकः ।
योगशान्तिप्रदः सोऽपि शान्तीनां शान्तिरुच्यते ॥ ३५॥
मनोवाणीमयं सर्वं गकाराक्षरवाचकम् ।
मनोवाणीविहीनं यत् तत् जानीहि णकारजम् ॥ ३६॥
तयोः स्वामी गणेशानो ब्रह्मणां ब्रह्म उच्यते ।
सामवेदे रवे पश्य तं भजस्व विधानतः ॥ ३७॥
द्विविधा तस्य माया वै सिद्धिर्बुद्धिश्च कथ्यते ।
ताभ्यां युक्तः खेलति स नानार्थे गणनायकः ॥ ३८॥
चित्तं पञ्चविधं पुत्र बुद्धिरूपं न संशयः ।
उच्यते सिद्धिरैश्वर्यं भोगभेदाय पञ्चसु ॥ ३९॥
तयोर्बिम्बिस्वरूपं यज्जहि तद् योगसेवया ।
शान्तियोगधरः पुत्र भविष्यसि न संशयः ॥ ४०॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् ।
तस्मै सूर्याय पूर्णं स विधियुक्तं पितामहः ॥ ४१॥
विधिं प्रणम्य च वनं ययौ भानुः सुशोभनम् ।
तताप तप उग्रं स निराहारपरायणः ॥ ४२॥
जजाप हृदि सन्ध्याय गणेशं मन्त्रमुत्तमम् ।
एवं वर्षसहस्रेण प्रसन्नोऽभूद्गजाननः ॥ ४३॥
तं ययौ भक्तिभावेन सुप्रीतः सूर्यमादरात् ।
स्वगणैः सेवितः साक्षाद्बोधयामास विघ्नपः ॥ ४४॥
(Page खं. ३ अ. ३ पान ७)
गणेश उवाच ।
भो सूर्य वृणु मत्तस्त्वं वरान्नानाविधान् परान् ।
तान् दास्यामि महाभाग तपसा तोषितस्त्वया ॥ ४५॥
श्रुत्वा गणेशवाणीं स सविता बोधसंयुतः ।
दृष्ट्वा गणपतिं भक्त्या समुत्तस्थौ भ्रमान्वितः ॥ ४६॥
तं प्रणम्यापूजयत् स यथाविधि गजाननम् ।
तुष्टाव सुमना भानुः पुरो बद्धाञ्जलिः स्थितः ॥ ४७॥
भानुरुवाच ।
नमस्ते विघ्ननाथाय विघ्नकर्त्रे दुरात्मनाम् ।
भक्तानां विघ्नहर्त्रे ते गणेशाय नमो नमः ॥ ४८॥
चतुर्बाहुधरायैव मूषकवाहनाय ते ।
नागयज्ञोपवीताय नाभिशेषाय ते नमः ॥ ४९॥
महोदराय देवाय सिद्धिबुद्धियुताय ते ।
शूर्पकर्णाय सर्वाय चैकदन्ताय वै नमः ॥ ५०॥
गजवक्त्रधरायैव भालचन्द्राय ते नमः ।
चिन्तामणिधरायैव हृदये ते नमो नमः ॥ ५१॥
रक्ताम्बराय रक्ताय नानाभूषणशालिने ।
अमेयाय नमस्तुभ्यं नानालीलाकराय च ॥ ५२॥
अनाधाराय सर्वेषामाधाराय च ते नमः ।
स्वानन्दवासिने तुभ्यमिक्षुसागरखेलिने ॥ ५३॥
हेरम्बाय नमस्तुभ्यं लम्बोदर नमो नमः ।
जगतां ब्रह्मणां पात्रे ब्रह्माधीशाय ते नमः ॥ ५४॥
निराकाराय सर्वेश पालकाय नमो नमः ।
साकाराय च भो ढुण्ढे ताभ्यां योगाय ते नमः ॥ ५५॥
योगशान्तिप्रदात्रे ते योगशान्तिमयाय च ।
योगिभ्यो योगदात्रे ते योगेशाय नमो नमः ॥ ५६॥
एवं स्तुवति सूर्ये च भक्तिरससमन्विते ।
अकस्माद्बाष्पकण्ठः स सरोमाञ्चो बभूव ह ॥ ५७॥
पुलकाङ्कितदेहं तं दृष्ट्वा खिन्नमिव स्थितम् ।
जगाद गणनाथो वै सूर्यं भक्तिरसप्लुतम् ॥ ५८॥
गणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
भुक्तिमुक्तिप्रदं भानो मम प्रीतिविवर्धनम् ॥ ५९॥
यद्यदिच्छसि तत्तद्वै सफलं प्रभविष्यति ।
पठतां शृण्वतां चैव सदानन्दप्रवर्धनम् ॥ ६०॥
त्वं तु मत्तो वरान् ब्रूहि तान् दास्यामि न संशयः ।
तपसा भावितोऽत्यन्तं भृशं स्तोत्रेण तोषितः ॥ ६१॥
एवमुक्तो गणेशेन भानुर्भक्तिपरायणः ।
उवाच तं गणाधीशं हर्षनिर्भरमानसः ॥ ६२॥
सूर्य उवाच ।
तुष्टोऽसि गणनाथ त्वं यदि दास्यसि मे वरम् ।
तदा भक्तिं दृढां ते वै देहि नाथ नमोऽस्तु ते ॥ ६३॥
अन्यं यदा स्मरामि त्वां तदा दर्शय रूपकम् ।
यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो ॥ ६४॥
ओमित्युक्त्वा गणेशानस्तत्रैवान्तरधीयत ।
सूर्यः खिन्न इवातिष्ठत्तत्रैवं वालखिल्यकाः ॥ ६५॥
ततस्तेन गणेशस्य स्थापिता मूर्तिरादरात् ।
ब्राह्मणैः सह भानुस्तां पूजयामास भक्तितः ॥ ६६॥
ततः स्वगृहमागत्य मूर्तिं कृत्वाऽहमादरात् ।
पूजयामि सदा देवं गणेशानं भजामि तम् ॥ ६७॥
एतत् सर्वं मदीयं वश्चेष्टितं कथितं द्विजाः ।
वालखिल्या महाभागाः किं भूयः श्रोतुमिच्छथ ॥ ६८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते सूर्यवरप्रदानं नाम तृतीयोऽध्यायः ॥ ३.३
(Page खं. ३ अ. ४ पान ८)
३.४ कामचरितं नाम चतुर्थोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
श्रुत्वा सूर्यचरित्रं ते गणेशभक्तिसंयुतम् ।
हृष्टास्तं वालखिल्या वै पप्रच्छुः पुनरादरात् ॥ १॥
वालखिल्या ऊचुः ।
भानो त्वया महच्चित्रं कथितं चेष्टितं प्रभो ।
तव वाक्यामृतेनैव सन्तृप्ता भृशमुत्तमम् ॥ २॥
अधुना ब्रूहि देवेश मोहपाशनिकृन्तनम् ।
गणेशचरितं येन मोहहीना भवन्ति च ॥ ३॥
अहो मोहस्य माहात्म्यं येन सञ्छादितो महान् ।
गणेशस्तेन सम्भ्रान्ता न विदुस्तं गजाननम् ॥ ४॥
मुद्गल उवाच ।
एवं पृष्टो महातेजा भानुस्तैः स महर्षिभिः ।
उवाच तान् प्रहृष्टात्मा गाणपत्यो महायशाः ॥ ५॥
भानुरुवाच ।
अत्र वः कथयिष्यामि इतिहासं पुराभवम् ।
मोहासुरचरित्रं यद्गणेशज्ञानसंयुतम् ॥ ६॥
कदाचित्तारको नाम दैत्योऽभूद्दारुणः खलः ।
ब्रह्मणो वरदानेन त्रैलोक्याधिपतिः स्वयम् ॥ ७॥
सर्वदेवगणास्तेन मुनयश्च प्रपीडिताः ।
वनेषु भयसन्त्रस्ता अवसन् दुःखभागिनः ॥ ८॥
ततो बहुगते काले देवाः सर्षिगणाः पुरा ।
शिवस्य ध्यानसंयुक्ताः शरणं पार्वतीं ययुः ॥ ९॥
शिववीर्यभवो देवः सेनाधीशो हनिष्यति ।
तारकं नात्र सन्देहो ज्ञात्वा तां तुष्टुवुः पराम् ॥ १०॥
महादेवो वने गत्वा तपसे संस्थितोऽभवत् ।
तत्र देवगणैर्युक्ता पार्वती तं ययौ द्विजाः ॥ ११॥
दृष्ट्वा ध्यानस्थितं शम्भुं मोहार्थं तस्य सा सती ।
भिल्लीवेषं चकारैव ययौ तं शङ्कराश्रमम् ॥ १२॥
इतस्ततश्च बभ्राम भिल्लीरूपा गुणाधिका ।
पुष्पाणां ग्रहणे सक्ता महामोहप्रवर्धिनी ॥ १३॥
एतस्मिन्नन्तरे तत्र त्यक्त्वा ध्यानं शिवः स्थितः ।
तेन दृष्टा महाभागा रूपयौवनशालिनी ॥ १४॥
तां दृष्ट्वा सहसा शम्भुर्मोहितो मायया भृशम् ।
आदिमायां ययौ तत्र कामविह्वलमानसः ॥ १५॥
हावभावयुतां भिल्लीं दृष्ट्वा परममोहितः ।
तां धर्तुं स मनश्चक्रे तज्ज्ञात्वा साऽपलायत ॥ १६॥
पृष्ठलग्नः स्वयं साक्षाच्छङ्करो विह्वलो भृशम् ।
ततः सा यत्र तत्राऽस्य समीपे विचचार ह ॥ १७॥
एवं मुहूर्तमात्रं वै नग्नः शम्भुर्महर्षयः ।
बभ्राम तां प्रधर्तुं तु साऽस्य नो हस्तगाऽभवत् ॥ १८॥
ततो वीर्यं पपातास्य शिवस्य परमाद्भुतम् ।
भिल्ली सान्तर्दधे विप्राः शिवः शान्तो बभूव ह ॥ १९॥
तस्माच्छिवस्य वीर्याद्वै सम्भूतः पुरुषो महान् ।
मोहरूपो महोग्रः स चतुर्बाहुधरो बभौ ॥ २०॥
वनेऽभूत् संस्थितस्तत्रैकाकी तेजस्विनां वरः ।
चारुरूपो महामानी सर्वावयवसंयुतः ॥ २१॥
स तु कन्दफलादीनि भक्षयामास यत्नतः ।
इतस्ततश्च बभ्राम गतो नानावनेषु वै ॥ २२॥
शिवस्तत्र समासीनो बभूव भृशदुःखितः ।
ध्यानेन सकलं ज्ञात्वा देवीकृतविचेष्टितम् ॥ २३॥
ततो क्रोधसमायुक्तः कामं सद्यो ददाह सः ।
स्वस्थानं प्रययौ शम्भुः पार्वतीं तां ददर्श ह ॥ २४॥
देवकार्यार्थमत्यन्तं पार्वत्या प्रार्थितः प्रभुः ।
कामं सस्मार शम्भुस्तं पुरोऽनङ्गं ददर्श सः ॥ २५॥
(Page खं. ३ अ. ४ पान ९)
प्रणिपत्य महेशानं स्तुत्वा रुद्रं महायशाः ।
अवदद्देहसंयुक्तं मां कुरुष्व महेश्वर ॥ २६॥
कामस्य वचनं श्रुत्वा ददौ तस्मै सदाशिवः ।
एकाक्षरं गणेशस्य मन्त्रं तं विधिसंयुतम् ॥ २७॥
जगाद शङ्करः काममनेनाराधय प्रभुम् ।
गणेशं तेन तेऽभीष्टं भविष्यति न संशयः ॥ २८॥
नाशिकं स समागत्य सस्त्रीकश्च तताप ह ।
तपो गणपतिं ध्यायन् जपन् मन्त्रपरायणः ॥ २९॥
गतेषु वर्षसाहस्रेषु ययौ गणनायकः ।
तं कामं बोधयामास वरं वृणु हृदीप्सितम् ॥ ३०॥
दृष्ट्वा कामो गणेशानमुत्थाय प्रणतोऽभवत् ।
तुष्टाव तं गणेशानं भक्तिनम्रात्मकन्धरः ॥ ३१॥
काम उवाच ।
गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे ।
दन्ताभयधरायैव मूषकध्वज ते नमः ॥ ३२॥
गजवक्त्राय देवाय शूर्पकर्णाय वै नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३३॥
सर्वाकाराय सर्वाय स्थूलसूक्ष्मादिभेदिने ।
गुणेशाय गुणानां ते चालकाय नमो नमः ॥ ३४॥
देहदेहिमयायैव प्रकृतेर्लयरूपिणे ।
विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥ ३५॥
रजसा सृष्टिकर्त्रे ते सत्वतः पालकाय च ।
तमसा सर्वसंहर्त्रे कर्माकाराय ते नमः ॥ ३६॥
जगद्रूपाय वै तुभ्यं स्थावराय चराय च ।
अनाकाराय हेरम्बाय ब्रह्मपतये नमः ॥ ३७॥
वेदाद्यगम्यरूपाय योगेभ्यो योगदायक ।
किं स्तौमि त्वां गणाधीश अल्पज्ञोऽहं नमोस्तु ते ॥ ३८॥
अधुना मे वरं देहि गजानन दृढां पराम् ।
भक्तिं ते मे सुदेहं वै मां कुरुष्व महोदर ॥ ३९॥
एवमुक्त्वा नतोऽभूत् सस्त्रीकः कामः स तं द्विजाः ।
ततस्तं प्रत्युवाचाथ गणेशो भक्तवत्सलः ॥ ४०॥
गणेश उवाच ।
मदीया भक्तिरुग्रा वै भविष्यति रतेः पते ।
शिवदग्धश्च ते देहस्तथा कर्तुं न शक्यते ॥ ४१॥
मदीयवरदानेन शिवः सर्वार्थवानभूत् ।
अतस्त्वां भिन्नदेहं वै हितायाऽहं करोमि ते ॥ ४२॥
यौवनं स्त्री च पुष्पाणि सुवासानि महामते ।
गानं मधुरसश्चैव मृदुलाण्डजशब्दकः ॥ ४३॥
उद्यानानि वसन्तश्च सुवासाश्चन्दनादयः ।
सङ्गो विषयसक्तानां नराणां गुह्यदर्शनम् ॥ ४४॥
वायुर्मृदुः सुवासश्च वस्त्राण्यपि नवानि वै ।
भूषणादिकमेवं ते देहा नाना कृता मया ॥ ४५॥
तैर्युतः शङ्करादींश्च जेष्यसि त्वं पुरा यथा ।
मनोभूः स्मृतिभूरेवं त्वन्नामानि भवन्तु वै ॥ ४६॥
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
दग्धमूले प्ररोहाणां कारकं प्रभविष्यति ॥ ४७॥
एवं गणेशवाक्यं स श्रुत्वा कामस्तमब्रवीत् ।
हितं सर्वं त्वया मे यत् कृतं नाथ विशेषतः ॥ ४८॥
तथापि पूर्ववद्देहं देहि ढुण्ढे नमोऽस्तु ते ।
दग्धोऽहं शङ्करेणैवानङ्गं रक्षस्व विघ्नप ॥ ४९॥
मुद्गल उवाच ।
कामस्य वचनं श्रुत्वा भक्तिभावेन यन्त्रितः ।
गणेशस्तमथोवाच तपसा तोषितं भृशम् ॥ ५०॥
गणेश उवाच ।
त्वया त्वघटितं प्रोक्तं तथापि त्वत्सुभक्तितः ।
सन्तुष्टोऽहं प्रियं सर्वं करिष्यामि मनोभव ॥ ५१॥
यादवेषु स्वयं विष्णुः कृष्णो नाम्ना भविष्यति ।
लक्ष्मीर्वेषेण रुक्मिण्यास्तयोः पुत्रो भविष्यसि ॥ ५२॥
प्रद्युम्न इति विख्यातः सर्वमान्यः सुदेहभृत् ।
इयं ते वल्लभा तत्र भार्या देवी भविष्यति ॥ ५३॥
इत्युक्त्वा तं गणेशानः स्वानन्दस्थो बभूव ह ।
जगाम कामः सस्त्रीको पुनः क्षेत्रे मयूरके ॥ ५४॥
तत्र यात्राविधानेन पूजयामास विघ्नपम् ।
वासार्थं गणनाथस्य तपस्तत्र चकार सः ॥ ५५॥
वर्षेणैकेन सन्तुष्टस्तं ययौ विघ्ननायकः ।
पूजितश्च स्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥ ५६॥
जगाद कामस्तं देवं गणपं भक्तिसंयुतः ।
ज्ञात्वा नश्वररूपं यद्देहादिकमनुत्तमम् ॥ ५७॥
काम उवाच ।
भूस्वानन्दमिदं क्षेत्रं तत्र वासं करोम्यहम् ।
स्थानं देहि गणाधीश तव सेवार्थमेव मे ॥ ५८॥
अत्रैव मरणेऽनाथ ब्रह्मभूतत्वमादरात् ।
ददासि त्वं गणेशान अतो मां पालय प्रभो ॥ ५९॥
ततस्तं गणनाथः सः तथेति प्रत्युवाच ह ।
शक्तिं पश्चिमद्वारस्थां तदोवाच च विघ्नपः ॥ ६०॥
त्वदीये वामभागे वै दक्षिणाङ्गे जगन्मयि ।
रतिं कामं कुरुष्व त्वं क्षेत्रेऽस्मिन् वासकारणात् ॥ ६१॥
तथेति तत्र सस्त्रीकः कृतः कामः स मायया ।
उवास क्षेत्रे सेवार्थं मयूरे गणपस्य सः ॥ ६२॥
तदादि सर्वमान्योऽयं कामो जातो महर्षयः ।
त्रैलोक्यविजयी सर्वं मोहयामास निर्भयः ॥ ६३॥
एतत् कामस्य यश्चित्रं चरित्रं संशृणोति वै ।
पठेद्वा तस्य नैवं स्यात् काममोहः कदाचन ॥ ६४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते कामचरितं नाम चतुर्थोऽध्यायः ॥ ३.४
३.५ स्कन्दमाहात्म्यं नाम पञ्चमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ततः कामसमायुक्तः शङ्करोऽभूत्तया सह ।
पार्वत्या पुत्रकामार्थं रेमे हर्षसमन्वितः ॥ १॥
ततस्तस्य महेशस्य क्रीडतः प्रगतानि वै ।
वर्षाणि हि सहस्राणां षष्टिर्देवर्षिसत्तमाः ॥ २॥
महामायायुतः शम्भुर्न बुबोध दिवानिशम् ।
ततस्तस्य महेशस्य रतिभङ्गार्थमागताः ॥ ३॥
देवास्तैः प्रेषितो वह्निर्द्विजरूपधरो ययौ ।
भिक्षां देहि जगादासौ तच्छ्रुत्वा तौ समुत्थितौ ॥ ४॥
पपात भूतले वीर्यं शिवस्यैवोत्थितस्य च ।
तदेव पार्वती विप्रा ददौ वै भिक्षुकाय च ॥ ५॥
शिववीर्यं ततस्तेन प्राशितं दहनेन वै ।
अभवद्दाहसंयुक्तो गङ्गायामक्षिपत् स तत् ॥ ६॥
कार्तिकस्नानकार्यार्थं कृत्तिकाभिर्महाद्भुतम् ।
षड्भिः समागताभिस्तत् पीतमाचमनेन वै ॥ ७॥
स्नात्वा स्वस्वगृहे ताश्च गताः सद्यः समुज्ज्वलाः ।
(Page खं. ३ अ. ५ पान ११)
पतिभिः परवीर्येण युक्ताः सन्त्याजिता ययुः ॥ ८॥
शरस्तम्बे महद्वीर्यं त्यक्त्वा स्नात्वा पुनर्गृहम् ।
ययुस्तत्र समुत्पन्नः षण्मुखो बालको बभौ ॥ ९॥
स दृष्टो गच्छता तत्र नारदेन शिशुः पुरः ।
ज्ञात्वा ध्यानेन कैलासे गतोऽभून् मुनिसत्तमः ॥ १०॥
तत्र शक्त्यै स वृत्तान्तं कथयित्वा महामुनिः ।
यदृच्छाविचरन् यातः पार्वती बालमाययौ ॥ ११॥
चकार बालमागृह्य स्तनपानं यशस्विनी ।
वह्निगङ्गाकृत्तिकाद्या मातरस्तस्य तं ययुः ॥ १२॥
शिवेन मातरः सर्वाः सत्कृताः स्वगृहं ययुः ।
ब्रह्मेशाद्यैस्ततो देवैर्मुनिभिः सोऽभिषेकितः ॥ १३॥
देवसेनापतित्वे स प्रययौ सेनया सह ।
प्रार्थितस्तारकस्यैव नाशाय बलवान् स्वयम् ॥ १४॥
स्कन्दस्य तारकस्यैव युद्धं परमदारुणम् ।
सञ्जातं च ततः स्कन्दो भृशं शक्त्या जघान तम् ॥ १५॥
सम्मूर्च्छितो महादैत्यः पुनः संज्ञायुतोऽभवत् ।
ताडयामास तं स्कन्दं गदया क्रोधसंयुतः ॥ १६॥
पतितं वीक्ष्य ते देवाः पलायनमकुर्वत ।
गृहीत्वा कार्तिकेयं तं दैत्यः स्वस्थानमाययौ ॥ १७॥
तत ओषधिभिर्देवैः सावधानः कृतोऽभवत् ।
स्कन्दः परमदुःखार्तः शङ्करं शरणं ययौ ॥ १८॥
जयोपायं वद ब्रह्मन् शिवशान्तिप्रदं तथा ।
सर्वार्थसाधकं पूर्णं तं भजामि विशेषतः ॥ १९॥
ततश्च शम्भुना तस्मै गणेशस्य षडक्षरः ।
मन्त्रो दत्तो विशाखाय ज्ञानं सङ्कथितं परम् ॥ २०॥
शम्भुरुवाच ।
शृणु स्कन्द महायोगं येन शान्तो भविष्यसि ।
चित्ते चिन्तामणिं ज्ञात्वा शान्ता जाता वयं पुरा ॥ २१॥
यद्यच्चित्तेन वै पुत्र लभ्यते तत्प्रणश्वरम् ।
भवेज्जानीहि चित्तं ब्रह्माकारं योगसेवया ॥ २२॥
अन्तर्बाह्यादिभेदा ये ते सर्वे चित्तसम्भवाः ।
ओङ्कारोऽर्थसमायुक्तश्चित्तरूपो न संशयः ॥ २३॥
स्वकोत्थानं बभौ ब्रह्म परोत्थानकमेव च ।
चित्तरूपं विजानीहि बुद्ध्या मोहप्रदं कृतम् ॥ २४॥
स्वानन्दश्च निवृत्तिश्च चित्तरूपे न संशयः ।
बहुनाऽत्र किमुक्तेन चित्तं सर्वात्मकं बभौ ॥ २५॥
ब्रह्माकारं च जानीहि जगदाकारकं तथा ।
चित्तं पञ्चविधं पुत्र जहि तद् योगसेवया ॥ २६॥
चित्ते यद्बिम्बितं ब्रह्म भवति भ्रमसंयुतम् ।
बिम्बभावं परित्यज्य भव चिन्तामणिः सुत ॥ २७॥
चित्तं त्यक्त्वा महाभाग त्वन्न भिन्नो भविष्यसि ।
एतदेव परं ज्ञानं शान्तिरूपं वदन्ति च ॥ २८॥
रविरुवाच ।
शिवस्य वचनं श्रुत्वा तं प्रणम्य ययौ वनम् ।
कार्तिकेयः स विघ्नेशं ध्यायंश्च विधिपूर्वकम् ॥ २९॥
षडक्षरविधानेन पूजति स्म निरन्तरम् ।
मन्त्रं जजाप वै स्कन्दस्तताप तप उत्तमम् ॥ ३०॥
वायुभक्षः सदा भूत्वा जपध्यानपरायणः ।
दण्डकारण्यदेशे स गजाननमतोषयत् ॥ ३१॥
ततो वर्षसहस्रेण शान्तियोगमवाप ह ।
कार्तिकेयः स विघ्नेशमभजत्तदपि द्विजाः ॥ ३२॥
ततस्तुष्टो गणेशानो ययौ तं भक्तमुत्तमम् ।
तं दृष्ट्वा प्रणनामाथ पूजयन् भक्तिसंयुतः ॥ ३३॥
(Page खं. ३ अ. ५ पान १२)
ततस्तुष्टाव विघ्नेशं कार्तिकेयो महाद्युतिः ।
कृत्वा करपुटं विप्राः स्वानुभावपरायणः ॥ ३४॥
स्कन्द उवाच ।
नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ ३५॥
वामाङ्गे भ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।
भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ ३६॥
माया सिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः ।
तयोर्योगे गणेशान त्वं स्थितोऽसि नमोस्तु ते ॥ ३७॥
जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे गणेशाननामा तुभ्यं नमो नमः ॥ ३८॥
चतुर्विधं जगत् सर्वं ब्रह्म तन्त्रं सदात्मकम् ।
हस्ताश्चत्वार एवं ते चतुर्भुज नमो नमः ॥ ३९॥
स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।
तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ४०॥
द्वन्द्वं चरसि भक्तानां हृदि तेषां व्यवस्थितः ।
चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ४१॥
जगति ब्रह्मणि स्थित्वा भोगान् भुङ्क्षे सुयोगगः ।
जगद्भिर्ब्रह्मभिस्ते तच्चेष्टितं ज्ञायते न च ॥ ४२॥
चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
मूषको मूषकारुढ हेरम्बाय नमो नमः ॥ ४३॥
किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ ४४॥
इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।
वरं वृणु महाभाग चेद्धि दास्यामि दुर्लभम् ॥ ४५॥
त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥ ४६॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रयन्त्रितः ।
पठते शृण्वते नित्यं कार्तिकेय विशेषतः ॥ ४७॥
एवं गणेशवाक्यं वै श्रुत्वा हर्षसमन्वितः ।
जगाद गणपं वाक्यं कार्तिकेयः स योगवित् ॥ ४८॥
स्कन्द उवाच ।
किं वृणोमि गणेशान सर्वं भ्रान्तिमयं विभो ।
अतस्त्वदीयभक्तिं मे सुदृढां देहि विघ्नप ॥ ४९॥
जगाद गणराजः स ततस्तं भक्तवत्सलः ।
मदीया भक्तिरुग्रा ते भविष्यति सदाऽनघ ॥ ५०॥
तारकाद्यान् महादैत्यान् त्वमेव च हनिष्यसि ।
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ५१॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो भक्तमुत्तमम् ।
कार्तिकेयोऽभवत्तत्र संस्थितो गणपं स्मरन् ॥ ५२॥
ब्राह्मणैः स्थापयामास मूर्तिं गणपतेः पराम् ।
लक्षं विनायकं नाम्ना स चकार द्विजेरितः ॥ ५३॥
तस्य दर्शनमात्रेण वाञ्छितं लभते नरः ।
तत्रैव मरणे प्राप्ते ब्रह्मभूतः स जायते ॥ ५४॥
ततो जगाम स्वगृहं कार्तिकेयः प्रतापवान् ।
देवैः सह जघानाऽसौ तारकासुरमुल्बणम् ॥ ५५॥
हत्वा तारकदैत्यं स गणेशक्षेत्रगोऽभवत् ।
तत्र विघ्नेशमत्यन्तं भजते नित्यमादरात् ॥ ५६॥
इति स्कन्दस्य माहात्म्यं कथितं सर्वदं परम् ।
पठते शृण्वते वाऽपि ब्रह्मभूयकरं भवेत् ॥ ५७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते स्कन्दमाहात्म्यं नाम पञ्चमोऽध्यायः ॥ ३.५
(Page खं. ३ अ. ६ पान १३)
३.६ मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः
॥ श्रीगणेशाय नमः ॥
वालखिल्या ऊचुः ।
श्रुतं सर्वं महाभाग भानो ब्रह्मप्रदायकम् ।
तथापि न वयं तृप्ता भवामोऽमृतपानवत् ॥ १॥
अधुना ब्रूहि माहात्म्यं मोहस्य जगदीश्वर ।
शिववीर्यात् समुत्पन्नः किं चकार रवे वद ॥ २॥
मुद्गल उवाच ।
मुनीनां वचनं श्रुत्वा तान् जगाद महामतिः ।
सूर्यः सर्वान्तरात्मा च मोहस्य चरितं विधे ॥ ३॥
सूर्य उवाच ।
शिववीर्यात् समुत्पन्नो मोहः परमशोभनः ।
जगाम शरणं तत्र काव्यं वेदविदांवरम् ॥ ४॥
तं प्रणम्य जगदासौ वृत्तान्तं सर्वमञ्जसा ।
स्वस्योत्पत्तिस्वरूपं यद्विनीतात्मा विशेषतः ॥ ५॥
कथयित्वा पुनः प्राह स्वामिन् मां शाधि शिष्यकम् ।
त्वदधीनं विनाथं वै कार्यं वद महामुने ॥ ६॥
इति तस्य वचः श्रुत्वा शुक्रो दयासमन्वितः ।
उपवीतादिकं सर्वं कारयामास दैत्यपैः ॥ ७॥
जृम्भाय पुत्रभावेन ददौ तं मोहमुल्बणम् ।
तत्र वेदादिकं तेनाधीतं सर्वं महर्षयः ॥ ८॥
प्रमादासुरनामा वै तस्मै पुत्रीं ददौ स्वकाम् ।
रूपलावण्यसंयुक्तां नाम्ना च मदिरां द्विजाः ॥ ९॥
मोहो नत्वा स्वतातं सङ्गृह्य शुक्रान् महामनुम् ।
सूर्यस्य सवने गत्वा तताप परमं तपः ॥ १०॥
ऊर्ध्वदृष्टिं बबन्धाऽसौ सूर्यं ध्यायन् स मण्डले ।
मन्त्रं जजाप भावेन निराहारपरायणः ॥ ११॥
दिव्यवर्षसहस्रेण प्रसन्नोऽभूद्दिवाकरः ।
तं ययौ वरदानार्थं स्वभक्तं भक्तिभावितः ॥ १२॥
अस्थित्वचासमायुक्तं मोहं दृष्ट्वार्यमा प्रभुः ।
विस्मितोऽभून् महद्धैर्यं दैत्यस्य परमाद्भुतम् ॥ १३॥
बोधयामास तं शीघ्रं रविर्देववरः स्वयम् ।
वरं ब्रूहि महामोह प्रसन्नोऽहं ददामि ते ॥ १४॥
श्रुत्वा मदीयवाक्यं स प्रबुद्धो सुरनायकः ।
पुरतो मां स्थितं वीक्ष्य प्रणनाम कृताञ्जलिः ॥ १५॥
उत्थाय पूजयामास परैर्नानोपचारकैः ।
कृताञ्जलिः पुनर्नत्वा स तुष्टाव महर्षयः ॥ १६॥
मोहासुर उवाच ।
नमः सूर्याय तपतां श्रेष्ठ ते सर्वरूपिणे ।
भानवे भास्करायैव रवये ते नमो नमः ॥ १७॥
कर्मणां फलदात्रे ते कर्ममूलधराय च ।
कर्माकाराय देवाय स्वात्मने ते नमो नमः ॥ १८॥
नानाभेदधरायैव नानाभेदविवर्जित ।
सदामृतस्वरूपाय परमात्मन्नमोऽस्तु ते ॥ १९॥
अनन्तापाररूपाय जगज्जीवनमूर्तये ।
सत्याय सत्यपात्रे ते दिवाकर नमोऽस्तु ते ॥ २०॥
त्रयीबोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक ।
सर्वाहङ्कारमूलाय सदाहङ्कारनाशिने ॥ २१॥
ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः ।
अनादये महेशाय परेशाय नमो नमः ॥ २२॥
वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक ।
मायाधाराय मायायाश्चालकाय नमो नमः ॥ २३॥
किं स्तौमि त्वां दिवानाथ आत्माकारधरं प्रभो ।
तथापि ज्ञानप्रामाण्यात् संस्तुतोऽसि नमाम्यहम् ॥ २४॥
यदि तुष्टोऽसि देवेश वरं दातुं समागतः ।
तदा मे मरणं स्वामिन्न भवेन्मां तथा कुरु ॥ २५॥
नामरूपधरं सर्वं तस्मान् मृत्युर्न मे भवेत् ।
(Page खं. ३ अ. ६ पान १४)
राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥ २६॥
आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो ।
सर्वातिगां च मे देहि सङ्ग्रामे विजयं तथा ॥ २७॥
यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् ।
त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥ २८॥
एवमुक्त्वा महादेवं भास्करं प्रणनाम सः ।
उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥ २९॥
ततः स सविता तत्र विस्मितस्तमुवाच ह ।
त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥ ३०॥
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
सर्वकामप्रदं चैव भविष्यति सुशृण्वते ॥ ३१॥
इत्युक्त्वान्तर्दधे देवः सविता स्वस्थलं ययौ ।
दैत्योऽपि हर्षितोभूत्वा स्वगृहं प्रजगाम ह ॥ ३२॥
मातरं पितरं तत्र प्रणनाम महासुरः ।
सुहृदो मानयामास यथा सम्बन्धपूर्वकम् ॥ ३३॥
ततः शुक्रं जगामाऽसौ तं प्रणम्य महासुरः ।
मोहः सङ्कथयामास वृत्तान्तं तस्य सन्निधौ ॥ ३४॥
उपचारैः प्रपूज्याऽसौ प्रणम्य स्वगृहं पुनः ।
आययौ हर्षसंयुक्तो नगरं निर्ममे ततः ॥ ३५॥
विषयावासकं नाम मुनिस्तस्य चकार वै ।
शुक्रः परमतेजस्वी तत्र वासं चकार सः ॥ ३६॥
असुरादय एवं वै वृत्तान्तं यत्र तत्र ते ।
श्रुत्वा समागतास्तस्य नगरे चक्रिरे स्थितिम् ॥ ३७॥
चातुर्वर्ण्यसमायुक्तं नगरं शुशुभे द्विजाः ।
सर्वातिगं चानुपमं पृथिव्यां पूर्णभोगदम् ॥ ३८॥
ततो दैत्यगणाः सर्वे श्रेष्ठास्तत्र समागताः ।
शुक्रेण प्रेरितास्तं ते प्रणेमुर्भावसंयुताः ॥ ३९॥
प्रचण्डश्चैव चण्डश्च महाकालश्च वीर्यवान् ।
कालान्तकादयश्चान्ये बहवो दैत्यनायकाः ॥ ४०॥
मिलिता दैत्यसंयुक्तास्तदाज्ञावशवर्तिनः ।
भूत्वा ते नगरे तस्य समीपे संस्थिता बभुः ॥ ४१॥
ततो द्विजैः स्वयं काव्यस्तं चकार महर्षयः ।
दैत्याधिपं स सिषेच तदर्थं राज्यसम्पदि ॥ ४२॥
ततस्ते मुदिताः सर्वे दैत्याः स्वस्वस्थलं ययुः ।
मुख्यास्तत्र स्थिता विप्राः सेवार्थं लालसायुताः ॥ ४३॥
एवं मोहासुरः श्रेष्ठोऽसुराणां नायकोऽभवत् ।
तमाश्रित्य महादैत्या हर्षिता अचरन् धराम् ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते मोहासुरराज्याभिषेको नाम षष्ठोऽध्यायः ॥ ३.६
(Page खं. ३ अ. ७ पान १५)
३.७ मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
रविरुवाच ।
मदिरायां सुताः पञ्च तस्माद्दैत्यान् महाबलाः ।
तेजस्विनश्च पित्रा ते बभूवुः समशीलकाः ॥ १॥
उग्रः क्रूरश्च मेधावी शोचनो हरणस्तथा ।
पञ्चैते शास्त्रसम्पन्ना रेजुस्तन्नगरे द्विजाः ॥ २॥
ततः किञ्चिद्गते काले राजा मोहासुरो द्विजाः ।
आह्वयामास दैत्येशान् सकलान् स्वनरैर्महान् ॥ ३॥
समागतानुवाचाऽथ वचनं हितकारकम् ।
दैत्येशान्नीतिसंयुक्तं सुखदं प्रीतिवर्धनम् ॥ ४॥
मोहासुर उवाच ।
भो भो दैत्याधिपाः सर्वे प्रचण्डाद्या वचो हितम् ।
शृणुध्वं सकलं विश्वं जयेयमधुना किल ॥ ५॥
यदि स्वमानसे दैत्या हितं भवति चेत्तदा ।
सर्वेषां भवतां कार्यं कुर्वेऽहं नात्र संशयः ॥ ६॥
शुक्रेण पालिता यूयं तथाऽहमसुरेश्वराः ।
अजेयाः प्रभविष्यामो रवेश्च वरदानतः ॥ ७॥
ततस्ते तं नमस्कृत्य सञ्जगुर्हर्षसंयुताः ।
महात्मानं महाभागं तपस्तेजःसमन्वितम् ॥ ८॥
दैत्येशा ऊचुः ।
सम्यग्विचारिताः स्वामिंस्तृप्ता वाक्यामृतेन ते ।
जेष्यामः सकलान् लोकांस्त्वदाज्ञावशगा वयम् ॥ ९॥
न ते पराक्रमे तुल्यो विश्वस्मिन् विद्यते प्रभो ।
अतो विष्णुमुखान् देवान् जेष्यामोऽन्यांश्च साम्प्रतम् ॥ १०॥
रविरुवाच ।
इति मोहासुरस्तेषां वचः श्रुत्वा प्रतापवान् ।
आज्ञापयच्च दैत्येशान् मुदा भवत दंशिताः ॥ ११॥
ते सर्वे युद्धमार्गज्ञा ययुस्तस्य प्रसन्निधौ ।
नानाशस्त्रधरा भूत्वा यममत्तुमिवोद्यताः ॥ १२॥
तान् दृष्ट्वा हर्षितो दैत्यो वीर्यवांश्च महासुरः ।
रथसंस्थः स्वयं दैत्यैर्निर्जगाम स दंशितः ॥ १३॥
चतुरङ्गचमूमध्ये रराज रथसंस्थितः ।
कालरुद्र इवाध्यक्षः सर्वेभ्यो भयदायकः ॥ १४॥
स्वयं शुक्रेण संयुक्तः पृथिवीजयनोद्यतः ।
असुरैः सहितः पूर्वं बभ्राम वसुधातले ॥ १५॥
अपारा तस्य सेना सा छादयामास वै धराम् ।
चलनोत्थरजस्केन च्छादितो भास्करोऽभवत् ॥ १६॥
कालरूपैर्महादैत्यैः प्रयोद्धुं भूमिमण्डले ।
कः समर्थो भवेद्विप्रा जितं तैः स्वेन तेजसा ॥ १७॥
सप्तद्वीपवतीं पृथ्वीं जित्वा तेऽसुरसत्तमाः ।
ययुः सर्वे जयार्थाय देवान् विष्णुपुरोगमान् ॥ १८॥
देवाः सर्वे समाश्रुत्य ससैन्यं चागतं द्विजाः ।
मोहासुरं भयोद्विग्ना इन्द्रं ते शरणं ययुः ॥ १९॥
इन्द्रेण सहिताः सर्वे ब्रह्माणं प्रययुस्ततः ।
तेन सार्धं च कैलासे शङ्करं शरणं ययुः ॥ २०॥
शङ्करेण युता देवा वैकुण्ठे केशवं ययुः ।
केशवेन युताः सर्वे भास्करं प्रययुस्ततः ॥ २१॥
भास्करस्तानुवाचाऽथ भययुक्तान् सुरेश्वरान् ।
निःश्वस्य भयसंयुक्तो वचनं हितकारकम् ॥ २२॥
भास्कर उवाच ।
मदीयवरदानेन समर्थो दैत्यपुङ्गवः ।
मोहासुरश्च देवेन्द्रास्तं जेतुं कः क्षमो भवेत् ॥ २३॥
कर्मणां फलमुग्रं यच्च्यवते केनचिन्न तत् ।
अतो वयं वनेष्वद्य वसामो भयसंयुताः ॥ २४॥
त्यक्त्वा राज्यादिकं सर्वं देहं रक्षामहे वयम् ।
पुण्यान्ते तस्य मृत्युर्वै भविष्यति न संशयः ॥ २५॥
(Page खं. ३ अ. ७ पान १६)
अन्यथा दैत्यभूपेन्द्रो मोहदैत्यः प्रतापवान् ।
हनिष्यति स देवेन्द्रं तस्मात् कुर्वन्तु मे वचः ॥ २६॥
एवं मदीयं वाक्यं वै श्रुत्वा प्राह बृहस्पतिः ।
सर्वनीतिविशेषज्ञो देवाचार्यो महायशाः ॥ २७॥
बृहस्पतिरुवाच ।
शृणुध्वं देवराजानो वचनं हितकारकम् ।
भानुना भाषितं वाक्यं तन्नो भवति वै हितम् ॥ २८॥
ततः सर्वेऽब्रुवन् देवाः साधु साधु त्वयेरितम् ।
भानुना च गुरोर्वाक्यं करिष्यामो वयं तथा ॥ २९॥
एवं निश्चित्य देवेन्द्रा देवैः सर्वे ययुर्वनम् ।
गुहासु पर्वतोद्देशे संस्थिता भयसंयुताः ॥ ३०॥
मोहासुरोऽसुरैः सर्वैर्देवानां नगरेषु च ।
आययौ तत्र देवेन्द्रान् स नापश्यत् सुहर्षितः ॥ ३१॥
तेषु दैत्यान् समास्थाप्य स्वयमैन्द्रपदे स्थितः ।
दैत्यैः संसेव्यमानश्च बुभुजे भोगमुत्तमम् ॥ ३२॥
गन्धर्वाप्सरसस्तस्य सेवां चक्रुर्भयाकुलाः ।
स्वर्लोकवासिनो नाना तथैव च महर्षयः ॥ ३३॥
ततोऽगाद्दैत्यपैः सर्वैः सत्यलोकं महाबलः ।
मोहासुरो द्विजास्तत्र न ददर्श पितामहम् ॥ ३४॥
शून्यं नगरमेवं तत् दृष्ट्वा हर्षसमन्वितः ।
ययौ वैकुण्ठमुग्रोऽसावदर्शत्तत्र तादृशम् ॥ ३५॥
ततः कैलासमागत्य शङ्करेण विवर्जितम् ।
पुरं वीक्ष्य ययौ सोऽपि सौरलोकं महासुरः ॥ ३६॥
तत्रादित्यविहीनं च शक्तिलोकं तथा ययौ ।
दृष्ट्वा शक्तिविहीनं तं मुमुदे दैत्यनायकम् ॥ ३७॥
ततो दैत्येन्द्रमुख्योऽसौ स्वसुतान् बलगर्वितान् ।
स्थापयामास देवानां नगरेषु विशेषतः ॥ ३८॥
कैलासेऽधिपतिं चक्रे ह्युग्रं पुत्रं महासुरः ।
विकुण्ठाधिपतिं तद्वत् क्रूरं दैत्यसमन्वितम् ॥ ३९॥
सौरलोकाधिपं मेधाविनं चक्रे च गर्वितम् ।
शक्तिलोके तथा सोऽपि शोचनं युद्धलालसम् ॥ ४०॥
सत्यलोकेऽधिपं चक्रे हरणं सर्वहारकम् ।
प्रचण्डमुख्यकान् चक्रे इन्द्रलोकादिकाधिपान् ॥ ४१॥
कालान्तकश्च पातालदेशेषु प्रेषितस्ततः ।
मोहासुरेण नागेन्द्रं ययौ शेषं स सैनिकः ॥ ४२॥
कालान्तकं दैत्यराजमागतं च हि नागराट् ।
विनयेन ययौ तं स साम चक्रे सुरेण वै ॥ ४३॥
एवं जिगाय ब्रह्माण्डं स उग्रो दैत्यनायकः ।
मोहासुरो महावीर्यो मुमुदे दैत्यपैर्द्विजाः ॥ ४४॥
ततः स्वनगरे दैत्यो ययौ सर्वैः समन्वितः ।
विषयावासके तत्र पुरे स शुशुभे ततः ॥ ४५॥
तत्रस्थः प्रशशासाऽसौ ब्रह्माण्डं लोकसङ्कुलम् ।
राज्यं चकार दैत्येन्द्रो दैत्येन्द्रेश्च समन्वितः ॥ ४६॥
भोगान् स बुभुजे नाना ह्यतुलान् विषयप्रियः ।
दैत्यैः सह प्रगर्वेण कृतकृत्यममन्यत ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः ॥ ३.७
(Page खं. ३ अ. ८ पान १७)
३.८ देवर्षिवरप्रदानं नामाष्टमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
रविरुवाच ।
ततोऽतिगर्वितो मोहासुरो दैत्यः प्रतापवान् ।
देवानां जीवघातार्थं प्रयत्नं स चकार ह ॥ १॥
तदर्थं प्रेषयामास दैत्यान् परमदारुणान् ।
कर्ममार्गस्य ते सर्वे चक्रुः खण्डनमादरात् ॥ २॥
स्वल्पकालेन भो विप्राः कर्महीनं महीतलम् ।
कृतं दैत्यैश्च सर्वत्र त्रासिताः कर्मकारकाः ॥ ३॥
वर्णाश्रमविहीनं तैः कृतं सर्वत्र भूतलम् ।
धर्ममूलं तथा नष्टं बभूव क्रमतः किल ॥ ४॥
न स्वाहा न स्वधा कुत्र प्रबभूव महर्षयः ।
मोहासुरस्य मूर्तिं ते स्थापयामासुरादरात् ॥ ५॥
दैत्यपास्तत्र लोकैर्वा पूजां सर्वत्र सम्मताम् ।
कारयामासुरुग्रैश्च दण्डैः सन्ताड्य मानवान् ॥ ६॥
ततो मुनिगणाः सर्वे भ्रष्टा जाता विशेषतः ।
मृताः केचित्तथाऽरण्ये गताः परमदारुणे ॥ ७॥
तत्र ते भयसंयुक्ताः क्रियां चक्रुर्महर्षयः ।
एवं धर्मस्य विच्छेदः कृतस्तेन सुरारिणा ॥ ८॥
ततो देवगणाः सर्वे भययुक्ता विशेषतः ।
उपोषणसमायुक्ता विचारं चक्रिरे द्विजाः ॥ ९॥
मिलिता मुनिभिः सार्धं मोहासुरविनाशने ।
न प्रापुर्देवविप्रेन्द्रा उपायं सुखदं परम् ॥ १०॥
ततस्तानर्यमा प्राह शृणुध्वं सुरसत्तमाः ।
मुनयश्च महाभागा वचो मे हितकारकम् ॥ ११॥
नामरूपधरं सर्वं तस्मान् मृत्युर्न वै भवेत् ।
मोहासुरस्य देवेन्द्रास्तत्रोपायं वदाम्यहम् ॥ १२॥
गणेश्वरस्य हस्तेन दैत्योऽयं प्रमरिष्यति ।
स्वयं योगमयः प्रोक्तस्तस्मात्तं प्रभजामहे ॥ १३॥
स एव निजलोकस्थो निजबोधेन दैत्यपम् ।
हनिष्यति न सन्देहः स्तूयतां स सुरेश्वराः ॥ १४॥
सूर्यस्य वचनं श्रुत्वा देवा हर्षसमन्विताः ।
विष्ण्वाद्याश्च पुनस्तं ते जगुर्वचनमुत्तमम् ॥ १५॥
देवा ऊचुः ।
सम्यगुक्तं त्वया भानो बुद्ध्या त्वमधिको मतः ।
सर्वेभ्यो जीवदाता भो जातोऽस्यत्र न संशयः ॥ १६॥
ततो देवाश्च विप्राश्च तपसा गणनायकम् ।
आराधयन् प्रयत्नेन विघ्नवारणकारणम् ॥ १७॥
एकाक्षरविधानेनापूजयंस्तं निरन्तरम् ।
अजपन् मन्त्रमाद्यं तु ध्यायन्तो गणपं हृदि ॥ १८॥
नानातपःसमायुक्ता उपोषणपरायणाः ।
ऋषयो देवदेवेशा विघ्नेश्वरमतोषयन् ॥ १९॥
वर्षाणां शतकेष्वेवं गतेषु गणनायकः ।
आययौ तान् वरं दातुं भृशं भावेन तोषितः ॥ २०॥
सौम्यतेजोयुतश्चैवाखुगः पूर्णो गजाननः ।
चतुर्बाहुर्दयापूर्णो महोदरविराजितः ॥ २१॥
एकदन्तो विशालाक्षः शूर्पकर्णधरः प्रभुः ।
सिद्धिबुद्धिसमायुक्तो नाभिशेषविराजितः ॥ २२॥
चिन्तामणिं गले बद्ध्वा नागयज्ञोपवीतवान् ।
एवं समाययौ देवो देवर्षीणां पुरो विभुः ॥ २३॥
तं दृष्ट्वा देवविप्रास्ते हर्षिता भक्तिसंयुताः ।
प्रणेमुः पूजयामासुर्यथाशास्त्रविधानतः ॥ २४॥
ततस्तं तुष्टुवुः सर्वे कृताञ्जलय आदरात् ।
तद्दर्शनमहोत्साहा यथामतय भो द्विजाः ॥ २५॥
देवर्षय ऊचुः ।
नमस्ते गणनाथाय महोदरस्वरूपिणे ।
अनाथाय च नाथाय सर्वेषां ते नमो नमः ॥ २६॥
(Page खं. ३ अ. ८ पान १८)
अनादिसिद्धिनाथाय बुद्धिनाथाय ढुण्ढये ।
हेरम्बाय स्वभक्तेभ्यः सर्वदाय नमो नमः ॥ २७॥
चतुर्बाहुधरायैव शूर्पकर्णाय ते नमः ।
लम्बोदराय विघ्नेश विघ्नवारण ते नमः ॥ २८॥
गजाननाय देवायाऽखुवाहाय महात्मने ।
शेषनाभिस्थितायैवैकदन्ताय नमो नमः ॥ २९॥
महागणपते तुभ्यं सर्वकारणकारण ।
भक्तवाञ्छाविधातानां हराय तु नमो नमः ॥ ३०॥
मायाश्रयाय मायायाधारकाय महाभुज ।
अभक्तकामदहनरूपाय च नमो नमः ॥ ३१॥
योगानां पतये तुभ्यं योगदात्रेऽव्ययाय ते ।
स्वानन्दवासिने चैव योगाकाराय ते नमः ॥ ३२॥
सर्वेषां जठरेषु त्वं स्थित्वा भोगान् करोषि वै ।
भोक्ता त्वदुदरे वै न कोऽपि तेन महोदरः ॥ ३३॥
देहदेहिसमायोगे बोधब्रह्मणि संस्थितम् ।
को जानाति च तं देवं सोऽपि दर्शनतां गतः ॥ ३४॥
भक्तवत्सलभावेन प्रकटस्त्वं समागतः ।
वयं तेन कृतार्थाश्च देवदेवेश निश्चितम् ॥ ३५॥
वयं धन्या यतो दृष्टः सर्वोदरविलासकृत् ।
महोदरः प्रसन्नात्मा साक्षाद्ब्रह्मपतिः प्रभुः ॥ ३६॥
किं स्तौमि त्वां गणाधीश वेदादीनां तथोदरे ।
संस्थितं प्रणमामस्तं योगगम्यं सनातनम् ॥ ३७॥
रविरुवाच ।
एवं स्तुतिं समाकर्ण्य प्रणयेन सुतोषितः ।
जगाद तान् गणेशानो भक्तिभावनियन्त्रितः ॥ ३८॥
महोदर उवाच ।
वृणुध्वं सर्वदेवेशा मुनयश्च यथेप्सितम् ।
दास्यामि सकलं तद्वो भक्त्या स्तोत्रेण तोषितः ॥ ३९॥
भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् ।
पठतां शृण्वतां देवाः सर्वसिद्धिप्रदायकम् ॥ ४०॥
इति तस्य वचः श्रुत्वा देवा मुनिगणैः सह ।
हर्षयुक्ताः प्रणम्यैनं जगुस्ते तं गणेश्वरम् ॥ ४१॥
देवर्षय ऊचुः ।
यदि प्रसन्नतां यातो देवदेवेश विघ्नप ।
तदा ते पादपद्मे नो भक्तिं देहि विशेषतः ॥ ४२॥
मोहासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् ।
मुनयः कर्महीनाश्च जहि तं गर्वसंयुतम् ॥ ४३॥
ब्रह्माण्डं विजितं तेन तत्र लोकाः सुदुःखिताः ।
कृतास्तान् सुखदाता वै भव स्वामिन्नमोऽस्तु ते ॥ ४४॥
तेषां वचनमाकर्ण्य तानुवाच तथेति ह ।
महोदरः प्रसन्नात्मा भक्तवत्सलभावतः ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते देवर्षिवरप्रदानं नामाष्टमोऽध्यायः ॥ ३.८
(Page खं. ३ अ. ९ पान १९)
३.९ मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
रविरुवाच ।
ततो महोदरः क्रोधसमायुक्तः प्रतापवान् ।
परश्वादि स्वायुधानि दधानो प्रबभौ द्विजाः ॥ १॥
मूषकोपरि संस्थाय देवर्षिगणसंयुतः ।
मोहासुरं निहन्तुं स ययौ तन्नगरे प्रभुः ॥ २॥
एतस्मिन्नन्तरे तत्र समासीनो महासुरः ।
मोहो दैत्याधिपैः सर्वैर्वेष्टितः प्रबभौ द्विजाः ॥ ३॥
अकस्मान्नारदो दैत्यं ययौ गानपरायणः ।
तं दृष्ट्वा प्रणनामाऽथ मोहः सर्वसमन्वितः ॥ ४॥
समासीनं महादैत्यः पप्रच्छ विनयान्वितः ।
वद चित्रं मुने किञ्चित् भ्रमसि त्वं च सर्वगः ॥ ५॥
दैत्यस्य वचनं श्रुत्वा नारदस्तमुवाच ह ।
हर्षयुक्तः कथां पुण्यां दैत्यस्य विषरूपिणीम् ॥ ६॥
नारद उवाच ।
मोहासुर महाभाग शृणु मे वचनं हितम् ।
चित्रं वदामि यद् दृष्टं भावपूर्वेण चेतसा ॥ ७॥
देवैः सम्प्रार्थितो देवो मुनिभिर्वनसंस्थितैः ।
महोदरवधार्थाय तव दैत्यपतेऽधुना ॥ ८॥
स देवो मूषकारूढो वधार्थं ते समागतः ।
दशयोजनदूरस्थो बभूवासुर चाधुना ॥ ९॥
इत्युक्त्वा नारदस्तं स मौनभावपरायणः ।
बभूव दैत्यराजस्तु भयोद्विग्नस्तदाऽभवत् ॥ १०॥
नियम्य दुःखमुग्रं स उवाच नारदं पुनः ।
मोहासुरो भयोद्विग्नो हृदयेन विदूयता ॥ ११॥
मोहासुर उवाच ।
शृणु नारद मे वाक्यं न मृत्युर्मे प्रवर्तते ।
नामरूपात्मकेभ्यश्च किं करिष्यति देवपः ॥ १२॥
महोदरात्मको नाम रूपधारी समागतः ।
स देवं तं हनिष्यामि नात्र कार्या विचारणा ॥ १३॥
तस्य दैत्याधिपस्यैतद्वचनं नारदो मुनिः ।
श्रुत्वोवाच महायोगी मोहासुरं विचारतः ॥ १४॥
शृणु मोहासुर त्वं मे वचनं हितकारकम् ।
महोदरो नरो नैव न देवो न च राक्षसः ॥ १५॥
नामरूपविहीनं यद्ब्रह्म वेदेषु कथ्यते ।
नामरूपमयं पूर्णं स एवायं समागतः ॥ १६॥
हनिष्यति यदा क्रुद्धस्त्वां तस्माच्छरणं व्रज ।
महोदरं महाभागं तेन त्वं सुखमेष्यसि ॥ १७॥
ततस्तं दैत्यराजः स जगाद भयसङ्कुलः ।
वद नारद योगज्ञ भ्रमनाशाय मे वचः ॥ १८॥
नामरूपविहीनोऽयं कथ्यसे च महोदरः ।
समागतः कथं देही नामरूपसमन्वितः ॥ १९॥
नामरूपमयं ब्रह्म नामरूपविवर्जितम् ।
सर्वत्रयोगभावेन तिष्ठत्यत्र न संशयः ॥ २०॥
स्वपरभ्रान्तिजो मोहो न कदा तत्र वर्तते ।
देवदैत्यादिभेदेषु समभावयुतं सदा ॥ २१॥
अयं महोदरश्चैव देवपक्षविवर्धनः ।
दैत्यानां प्रवधार्थाय किमर्थं कुरुते मतिम् ॥ २२॥
विपरीतमिदं विप्र वचनं ते च साम्प्रतम् ।
भासते पश्य योगीन्द्र नुद मे संशयं प्रभो ॥ २३॥
महोदरस्य मामन्यत् ब्रह्मर्षे वद चेष्टितम् ।
किंरूपः किंस्वभावश्च कस्यांशः किम्पराक्रमः ॥ २४॥
कुत्र वासकरः सोऽपि कीदृशं ब्रह्म तस्य यत् ।
एतत् सर्वं सुविस्तार्य ज्ञानं मे करुणानिधे ॥ २५॥
भानुरुवाच ।
एवं पृष्टो महायोगी गाणपत्यः प्रतापवान् ।
मोहासुरं यथापूर्वं तं जगाद महासुरम् ॥ २६॥
(Page खं. ३ अ. ९ पान २०)
नारद उवाच ।
मोहासुर महाभाग मतिस्ते योगिसम्मता ।
योगरूपं त्वया पृष्टं तेनाऽहं तोषितो भृशम् ॥ २७॥
अतस्त्वां सकलं दैत्य कथयामि विशेषतः ।
शृणुष्वैकमना ढुण्ढेश्चेष्टितं योगदं परम् ॥ २८॥
नामरूपमयं विद्धि जगत्सर्वं चतुर्विधम् ।
नामरूपविहीनं यद्देहिरूपं जगद्धितम् ॥ २९॥
तयोर्योगे च दैत्येन्द्र बोधः सर्वत्र सम्मतः ।
ब्रह्म यद्वेदवादेषु कथ्यते विद्धि चेतसा ॥ ३०॥
तदेव नामरूपादियुक्तं भवति सर्वदा ।
तदेव नामरूपादि हीनं भवति सर्वदा ॥ ३१॥
तद्ब्रह्म पूर्णभावेन संस्थितं योगवाचकम् ।
दैत्यपुङ्गव जानीहि तदेवाऽसौ महोदरः ॥ ३२॥
देहदेहिकृतो भोगः स्वस्वस्वानन्ददः परः ।
सर्वत्रगः स उदरे भुक्तभोगश्च कथ्यते ॥ ३३॥
उदरेन कृतो भोगो यदि बाह्यपरायणैः ।
तदा ते मरणैर्युक्ता भवन्ति स्वल्पकालतः ॥ ३४॥
स्वस्वानन्दमयो भोगो भुज्यते सर्वभावतः ।
सर्वैर्ब्रह्मभिरत्यन्तं जगद्भिश्चैव निश्चितम् ॥ ३५॥
भिन्नभोगश्च विश्वस्मिन्नात्मनि ह्यमृतात्मकः ।
एकभावमयो भोगो भोगयुक्तानुभौ मतौ ॥ ३६॥
देहेषु जठरं भिन्नं जठरं मतमात्मनि ।
एकभावात्मकं दैत्य जानीहि योगसेवया ॥ ३७॥
यदि भोगविहीनौ तौ विश्वात्मानौ महामते ।
विशेषतो यत्नवन्तौ किमर्थं वै बभूवतुः ॥ ३८॥
नामरूपधरं विश्वं जातं भोगार्थमेव च ।
नामरूपविहीनं यद्देही जातस्तदर्थतः ॥ ३९॥
नास्ति भोगस्य चेच्छा चेत् किमर्थं द्विविधं भवेत् ।
अतो जानीहि दैत्येन्द्र भोगयुक्तौ विशेषतः ॥ ४०॥
विश्वात्मनोश्च संस्थोऽयं जठरे गणनायकः ।
महोदराख्या सञ्जाता तेन तस्य महात्मनः ॥ ४१॥
द्विविधस्य च दैत्येन्द्र जठरं स्वल्पवाचकम् ।
स्वस्वभोगपरत्वाद्वै विचारय महामते ॥ ४२॥
सकलानां विशेषेणोदरेषु स सदा स्थितः ।
महोदरश्च तेनाऽयं कथितो वेदवादिभिः ॥ ४३॥
विश्वं देहमयं तस्य मस्तकं चात्मवाचकम् ।
तयोर्योगे गणेशोऽयं कथ्यते स गजाननः ॥ ४४॥
जायते सकलं यस्मादन्ते गच्छति यत्र च ।
दैत्यनायक जानीहि गजरूपं तदेव वै ॥ ४५॥
विश्वात्मानौ च संसृष्टौ ताभ्यां ज्ञानार्थमेव सः ।
तपसाऽऽराधितो देवो देहधारी बभूव ह ॥ ४६॥
न तस्य प्राकृतो देहः सर्ववत्पश्य दैत्यप ।
भुक्तिमुक्त्यर्थमेवं स स्वेच्छया देहभोगवत् ॥ ४७॥
स्वसंवेद्येन योगेन लभ्यते गणनायकः ।
तदेव नगरं तस्मात्तस्य जानीहि सर्वगम् ॥ ४८॥
सिद्धिर्भ्रान्तिप्रदा माया ततो भ्रमति वै जनः ।
बुद्धिर्भ्रान्तिधरा प्रोक्ता चित्तरूपा विशेषतः ॥ ४९॥
चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं भ्रमात्मकम् ।
त्यक्त्वा शान्तिमवाप्नोति योगीशो योगसेवया ॥ ५०॥
तस्मात्सिद्धेश्च बुद्धेश्च स्वामी प्रोक्तो महोदरः ।
तं भजस्व महादैत्य नोचेत्त्वां स हनिष्यति ॥ ५१॥
सुरासुरमयं तेन सृष्टं विश्वं विशेषतः ।
स्वस्वधर्मसमायुक्तं तेन खेलति विघ्नपः ॥ ५२॥
देवा दैत्यविनाशार्थं यतन्ते स्म यदा प्रभो ।
(Page खं. ३ अ. १० पान २१)
तदा दैत्याय भवति सिद्धीशः सिद्धिदायकः ॥ ५३॥
देहधारी स्वयं भूत्वा वरदो भवति प्रभुः ।
असुरेभ्यो न सन्देहस्तं जानीहि महोदरम् ॥ ५४॥
दैत्या देवविनाशार्थं यतन्ते सर्वभावतः ।
तदा देहधरश्चाऽयं हन्ति दैत्यान्न संशयः ॥ ५५॥
देवाः सङ्ख्यायुता वेदे वर्तन्ते दैत्यनायक ।
वृद्धिक्षयविहीनत्वाद् हन्ति तान्न विशेषतः ॥ ५६॥
दैत्या अपाररूपाश्च वृद्धिक्षययुता मताः ।
तस्मात्तान् हन्ति वेगेन गणेशो ब्रह्मनायकः ॥ ५७॥
स्वस्वधर्मरता एते यदा खलु सुरासुराः ।
तदा तिष्ठत्ययं योगरूपश्च जठरे विभुः ॥ ५८॥
सर्वं ते कथितं दैत्य ब्रह्मभूतोऽयमुच्यते ।
तस्यांशैः सर्वमुत्पन्नं जगद्ब्रह्म च कथ्यते ॥ ५९॥
तस्मात्तं शरणं गच्छ यदि जीवितुमिच्छसि ।
भोगार्थं दैत्यराज त्वं मोक्षार्थं लालसा यदि ॥ ६०॥
एवमुक्वान्तर्दधेऽसौ नारदः करुणानिधिः ।
गणेशगानसंयुक्तो वीणावादे प्रलालसः ॥ ६१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः ॥ ३.९
३.१० मोहासुरशान्तिवर्णनं नाम दशमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
रविरुवाच ।
गते मुनौ महाभागा मोहो जातः सुहर्षितः ।
विचारमकरोच्चित्ते नारदोक्तविचारवित् ॥ १॥
एकान्ते संस्थितो दैत्यो गणेशध्यानतत्परः ।
महोदरस्य माहात्म्यं ज्ञात्वा मनसि हर्षितः ॥ २॥
स शुक्रमुपसङ्गम्याकथयत् प्रकथानकम् ।
नारदोक्तं च काव्येन तेनैवं बोधितो द्विजाः ॥ ३॥
ततः स्वगृहमागत्य गणेशे मोहितोऽभवत् ।
मोहासुरश्च मोहेन वर्जितः प्रबभौ स्वयम् ॥ ४॥
एतस्मिन्नन्तरे तत्र विष्णुः स्वयमुपाययौ ।
प्रेषितो गणराजेन सामार्थं दैत्यसन्निधौ ॥ ५॥
केशवं मानयामास मोहासुरः प्रतापवान् ।
अपूजयन् महादैत्यो निवेश्य शुभ आसने ॥ ६॥
पप्रच्छ तं महाविष्णुं किमर्थं त्वमिहागतः ।
वद विष्णो महाभाग कारणं ते करोम्यहम् ॥ ७॥
विष्णुरुवाच ।
महोदरः समायातो धर्मरक्षणतत्परः ।
देवैश्च मुनिभिः सार्धं तेनाऽहं प्रेषितोऽसुर ॥ ८॥
सामार्थं ते महाभागाऽसि धन्यो दैत्यनायक ।
मित्रभावं त्वया सार्धं स इच्छति महोदरः ॥ ९॥
देहदेहिमयं ब्रह्म तदेव गणनायकः ।
महोदरः समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥ १०॥
सर्वेषामुदरे स्थित्वा भोगान् सर्वान् भुनक्ति सः ।
महोदरश्च तेनाऽसौ वयं स्वल्पोदराः स्मृताः ॥ ११॥
नगरस्य पुरो राजन् दशयोजनदूरगः ।
संस्थितो देवविप्राद्यैः संस्तुतः प्रबभौ विभुः ॥ १२॥
स उवाच तदेवाऽहं कथयामि शृणुष्व तत् ।
वचनं सर्वभावज्ञ सर्वेभ्यः सुखदायकम् ॥ १३॥
(Page खं. ३ अ. १० पान २२)
विरुद्धं त्यज दैत्येन्द्र तिष्ठ स्थाने स्वके सुखम् ।
देवा हविर्भुजः सन्तु ब्राह्मणाः कर्मकारकाः ॥ १४॥
तिष्ठन्तु लोका वर्णाश्रमयुता दुःखवर्जिताः ।
एतत् कुरु महादैत्य नोचेद्युद्ध्यस्व दैत्यपैः ॥ १५॥
एतत्ते कथितं वाक्यं गणेशेन विशेषतः ।
तत् कुरुष्व महाभाग भव मित्रं महात्मनः ॥ १६॥
रविरुवाच ।
श्रुत्वा विष्णुवचो रम्यं तमुवाच महाबलः ।
मोहासुरः प्रसन्नात्मा सर्वेषां मोहकारकम् ॥ १७॥
मोहासुर उवाच ।
सम्यग् ब्रवीषि विष्णो त्वं मदीयहितकारकम् ।
करिष्यामि तथा देवं मानयिष्ये महोदरम् ॥ १८॥
एवमुक्त्वा स दैत्येन्द्रानाह्वयामास सत्वरम् ।
समागतानुवाचाथ विष्णुना कथितं वचः ॥ १९॥
मोहासुरस्य वाक्यं तच्छ्रुत्वा ते दैत्यसत्तमाः ।
क्रोधयुक्ताश्च पातालं विविशुर्भयसङ्कुलाः ॥ २०॥
शुक्रेण सहितो मोहासुरो दैत्यः प्रतापवान् ।
विष्णुना च तथा विप्रा गणेशं शरणं ययौ ॥ २१॥
समागत्य स दैत्येन्द्रो ननाम स महोदरम् ।
भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥ २२॥
पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः ।
कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥ २३॥
मोहासुर उवाच ।
नमस्ते ब्रह्मरूपाय महोदर सुरूपिणे ।
सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय ते ॥ २४॥
मूषकारूढदेवाय त्रिनेत्राय नमो नमः ।
चतुर्भुजाय देवानां पतये ते नमो नमः ॥ २५॥
अनादये च सर्वेषामादिरूपाय ते नमः ।
विनायकाय हेरम्ब दीनपालाय वै नमः ॥ २६॥
गणेशाय निजानन्दपतये ब्रह्मनायक ।
सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥ २७॥
ब्रह्मभ्यो ब्रह्मदात्रे वै योगशान्तिमयाय च ।
योगिनां पतये तुभ्यं योगिभ्यो योगदायक ॥ २८॥
सिद्धिबुद्धिपते नाथ एकदन्ताय ते नमः ।
शूर्पकर्णाय शूराय वीराय च नमो नमः ॥ २९॥
सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३०॥
मायाविने च मायाया आधाराय नमो नमः ।
मायिभ्यो मायया चैव भ्रान्तिदाय नमो नमः ॥ ३१॥
किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सहाङ्गकाः ।
शान्तिं प्राप्तास्तथापि त्वं संस्तुतोऽसि दयापरः ॥ ३२॥
धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च ।
धन्यं वपुश्च देवेश येन दृष्टं पदाम्बुजम् ॥ ३३॥
इत्युक्त्वा प्रणनामाथ तमुवाच महोदरः ।
भक्तं भावयुतं दृष्ट्वा वचः परमशोभनम् ॥ ३४॥
महोदर उवाच ।
मोहासुर वृणुष्व त्वं वरं यं मनसीप्सितम् ।
दास्यामि भक्तिमोहेन मोहितोऽहं त्वयाऽधुना ॥ ३५॥
त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
शरणागतमेवं त्वां हन्मि नो भक्तिसंयुतम् ॥ ३६॥
मदीयं स्तोत्रमेतद्वै सर्वदं यत्त्वया कृतम् ।
भविष्यति जनायैव पठते शृण्वतेऽसुर ॥ ३७॥
मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् ।
धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥ ३८॥
(Page खं. ३ अ. ११ पान २३)
रविरुवाच ।
एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः ।
मोहासुर उवाचाऽथ निबद्धकरसम्पुटः ॥ ३९॥
मोहासुर उवाच ।
महोदर नमस्तुभ्यं यदि दास्यसि मे वरम् ।
तदा ते पादपद्मे वै भक्तिं देहि दृढां प्रभो ॥ ४०॥
त्वदीयभक्तमित्रत्वं स्थानं भक्ष्यादिकं तथा ।
देहि मे देवदेवेश तत्र स्थास्यामि निश्चलः ॥ ४१॥
मोहासुरस्य तद्वाक्यं श्रुत्वा तं प्रत्युवाच ह ।
महोदरः प्रसन्नात्मा भक्तिभावेन तोषितः ॥ ४२॥
महोदर उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महामते ।
मदीयभक्तमित्रत्वं प्राप्स्यसि त्वं न संशयः ॥ ४३॥
कर्मज्ञानादिभावेषु मदीयं पूजनं न हि ।
स्मरणं तत्र दैत्य त्वं भोगभोक्ता भविष्यसि ॥ ४४॥
स्वस्थाने तिष्ठ दैत्येन्द्र स्वधर्मस्थितमादरात् ।
नरं मोहविहीनं च तं कुरुष्व भजस्व माम् ॥ ४५॥
तथेति गणपं मोहासुरो नत्वा प्रतापवान् ।
स्वस्थाने संस्थितो गत्वा शान्तियुक्तो बभूव ह ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते मोहासुरशान्तिवर्णनं नाम दशमोऽध्यायः ॥ ३.१०
३.११ महोदरांऽतर्धानं नामैकादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
रविरुवाच ।
गते मोहासुरे तत्र शान्तरूपे सुरेश्वराः ।
सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥ १॥
पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः ।
तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥ २॥
सुरर्षय ऊचुः ।
अमेयमायामितविक्रमाय निरञ्जनायाऽथ गणेश्वराय ।
अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥ ३॥
मनोवचोहीनतया स्थिताय मनोवचोयुक्तगजाननाय ।
अयोगसंयोगमयाय ढुण्ढे नमो नमस्तेऽस्तु महोदराय ॥ ४॥
विदेहरूपाय च बोधकाय तथाहि सोऽहम्पदभोगकाय ।
सदा सुबिन्द्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥ ५॥
गुणेशरूपाय सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते ।
हरीश ब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥ ६॥
शुभाशुभाकारधराय भूम्ने शुभाशुभादौ च सुपूजिताय ।
शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥ ७॥
कर्त्रे सुपात्रे हरणाय कालप्रकाशरूपाय च भानवे ते ।
क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥ ८॥
यमाय चन्द्राय च वायवे वै कुबेररूपाय पुरन्दराय ।
शिवाय वन्ह्यात्मकनैरृताय नमो नमस्तेऽस्तु महोदराय ॥ ९॥
अनन्तरूपाय जलेशकाय प्रजापते रूपधराय पाशिन् ।
दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥ १०॥
सुरासुराणां च समाय नित्यं सुरासुराकारधराय धात्रे ।
(Page खं. ३ अ. ११ पान २४)
पिशाचगन्धर्वमयाय यक्ष नमो नमस्तेऽस्तु महोदराय ॥ ११॥
धरास्वरूपाय जलप्रकाश जलस्वरूपाय च तेजसे ते ।
वाताय चाकाशमयाय धाम्ने नमो नमस्तेऽस्तु महोदराय ॥ १२॥
अनादिमध्यान्तविहारकाय सदादिमध्यान्तमयाय चित्रम् ।
तत्त्वप्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥ १३॥
नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय ।
वैश्याय शूद्राय तथांऽतिमाय नमो नमस्तेऽस्तु महोदराय ॥ १४॥
गुरोरधीनाय गृहस्थरूपवनस्थितायाऽथ परिव्रजाय ।
वर्णाश्रमैर्हीनमयाय योगिन् नमो नमस्तेऽस्तु महोदराय ॥ १५॥
वृक्षादिवीरुत्तृणसंस्थिताय धराधराकारमयाय देव ।
पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥ १६॥
रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय ।
चराचराकारमयाय नाग नमो नमस्तेऽस्तु महोदराय ॥ १७॥
वराङ्कुशाद्यैश्च सुचिह्नितायोन्दुरुध्वजायाऽऽखुसुवाहनाय ।
त्रिनेत्रधाराय च शूर्पकर्ण नमो नमस्तेऽस्तु महोदराय ॥ १८॥
स्वानन्दलोकाधिप देवदेव सुसिद्धिबुद्धिप्रभवे परात्मन् ।
सदैकदन्ताय चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥ १९॥
महोदरायादिसुपूजिताय सुवस्त्रसम्भूषणभूषिताय ।
प्रमोदमोदादिगणैः स्तुताय नमो नमस्तेऽस्तु महोदराय ॥ २०॥
सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकञ्जपाणे ।
गणेश हेरम्ब च भक्तपोष नमो नमस्तेऽस्तु महोदराय ॥ २१॥
प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण ।
विकारहीनाय सुबोधदाय नमो नमस्तेऽस्तु महोदराय ॥ २२॥
अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन ।
तेषु त्वमेवं सुखभोगकारिन् नमो नमस्तेऽस्तु महोदराय ॥ २३॥
भानुरुवाच ।
एवं संस्तुवतां तेषां सुरर्षीणां महर्षयः ।
समुत्पन्नो भक्तिरसस्तेन ते ननृतुः पुरः ॥ २४॥
साश्रुनेत्रान् स रोमाञ्चान् रुद्धकण्ठान् विशेषतः ।
तानुवाच स्वयं देवो भक्तान् वै भक्तवत्सलः ॥ २५॥
गणेश उवाच ।
वरान् वृणुत देवेशा देवा मुनिगणास्तथा ।
भक्त्या स्तोत्रेण तुष्टोऽहं दास्यामि मनसीप्सितान् ॥ २६॥
गणेशवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
तं प्रणम्य महात्मानं द्विजा ऊचुर्महोदरम् ॥ २७॥
देवर्षय ऊचुः ।
यदि तुष्टोऽसि देवेश तदा ते भक्तिमुत्तमाम् ।
देहि नो गणनाथ त्वं तया तृप्ताः स्म साम्प्रतम् ॥ २८॥
त्वया शान्तिधरो दुष्टः कृतो मोहासुरः प्रभो ।
तेन सर्वं जगत् पूर्णं वरैश्चापि प्रपालितम् ॥ २९॥
अधुना तापसंहीनाः कृता गणपते वयम् ।
त्वं नाथोऽसि जगन्नाथ अनाथानां करोषि तत् ॥ ३०॥
एवमुक्त्वा गणेशानं प्रणेमुस्ते सुरर्षयः ।
तथेति तानुवाचैव गणेशोंऽतर्दधे द्विजाः ॥ ३१॥
देवाश्च मुनयः सर्वे स्वस्वस्थानं ययुस्ततः ।
स्वस्वधर्मरता लोका बभूवुर्विगतज्वराः ॥ ३२॥
एवं मोहासुरं विप्राः शान्तिरूपधरं प्रभुः ।
चकार गणनाथो वै मोहहीनं जगत्तथा ॥ ३३॥
(Page खं. ३ अ. १२ पान २५)
महोदरस्य तस्यैवावतारा विविधाः स्मृताः ।
चरित्रमखिलं तेषां गदितुं न प्रशक्यते ॥ ३४॥
रामः सीतावियोगार्तः शरणं तं महोदरम् ।
ययौ तेन स शान्तोऽभूत् ससीतो भजने रतः ॥ ३५॥
दक्षिणस्यां दिशि प्रान्ते स्थापितोऽसौ महोदरः ।
देवर्षिभिश्च भो विप्राः स्थानं तद्भुवि पप्रथे ॥ ३६॥
इदं महोदरस्यैव चरितं मोहनाशनम् ।
मोहशान्तिप्रदं पूर्णं कथितं वो मया द्विजाः ॥ ३७॥
यः पठेच्छृणुयाद्यश्च तस्मै शान्तिप्रदायकम् ।
भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः ॥ ३८॥
मोहेन मोहिता विप्रा मां वदन्ति परात्परम् ।
स्वल्पयोगधरास्ते ये ज्ञातव्याश्च न संशयः ॥ ३९॥
एतद्वः कथितं सर्वं मदीयं सुचरित्रकम् ।
गणेशभक्तिसंयुक्तं तस्मात्तं प्रभजाम्यहम् ॥ ४०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते महोदरांऽतर्धानं नामैकादशोऽध्यायः ॥ ३.११
३.१२ नरनारायणविष्णुसंवादो नाम द्वादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
सूर्येण कथितं चित्रं महोदरकथानकम् ।
श्रुत्वा विस्मयसंयुक्ता बभूवुर्वालखिल्यकाः ॥ १॥
मानसे धारयामासुर्गणेशोऽयं सुशान्तिदः ।
योगरूपो न सन्देहो भानुना बोधिता वयम् ॥ २॥
हर्षयुक्ताः पुनस्तं ते वालखिल्याः प्रजापते ।
महोदरस्य पप्रच्छुश्चेष्टितं तस्य शान्तिदम् ॥ ३॥
वालखिल्या ऊचुः ।
धन्योऽसि च रवे त्वं वै योगशान्तिप्रकाशकः ।
वयं बोधेन संयुक्ता संशयो न त्वया कृतः ॥ ४॥
धन्यं जन्म गणेशस्य कथां तस्य महाप्रभोः ।
श्रुत्वा मनसि सन्तुष्टा भवामस्त्वदनुग्रहात् ॥ ५॥
सर्वज्ञोऽसि महाभाग साक्षाद्गणपतिः स्वयम् ।
आत्माकारेण सूर्यस्त्वं तन्न चित्रं किमप्युत ॥ ६॥
अधुना ब्रूहि देवेश रामो गणपतिं कथम् ।
अभजद्भक्तिसंयुक्तः शान्तिरूपो बभूव ह ॥ ७॥
धन्यास्ते पुरुषा लोके गणेशस्य कथां रवे ।
पृच्छन्ति प्रपठन्त्यन्ये शृण्वते योगशान्तिदाम् ॥ ८॥
मुद्गल उवाच ।
इति पृष्टो महातेजा वालखिल्यैः प्रजापते ।
रविस्तान् हर्षितो भूत्वा भो जगाद शृणुष्व तत् ॥ ९॥
रविरुवाच ।
अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् ।
नारायणस्य संवादं मार्कण्डेयस्य सिद्धिदम् ॥ १०॥
मृकण्डाच्च समुत्पन्नो मार्कण्डेयो महामुनिः ।
कृतोपवीतको भूत्वा तताप परमं तपः ॥ ११॥
ब्रह्मचर्यसमायुक्तो वेदशास्त्रज्ञसत्तमः ।
नित्यं जजाप गायत्रीं मोक्षेप्सुः स विशेषतः ॥ १२॥
अयुते प्रगते विप्रा वर्षाणां च तदाऽऽश्रमे ।
आययौ शङ्करस्तत्र पार्वत्या गणसंवृतः ॥ १३॥
ध्याने विष्णुं समाधृत्वा संस्थितो न बुबोध तम् ।
(Page खं. ३ अ. १२ पान २६)
समागतं महेशानं शिवश्चित्रं तदाऽकरोत् ॥ १४॥
योगमायाबलेनाऽसौ हृदि तस्य गतः शिवः ।
लोपयामास विष्णुं तं हृदि संस्थं मुनेः किल ॥ १५॥
हृदये शङ्करं दृष्ट्वा विस्मितोऽसौ महामुनिः ।
त्यक्त्वा ध्यानं बहिर्वीक्ष्य शङ्करं प्रणनाम सः ॥ १६॥
अथर्वशिरसा शम्भुं स्तुत्वा हर्षसमन्वितः ।
पुनः पुनर्महेशानं प्रणम्य पुरतः स्थितः ॥ १७॥
तमुवाच महादेवो वरं वृणु हृदीप्सितम् ।
दास्यामि तपसा तुष्टो गायत्र्याश्च जपेन ते ॥ १८॥
गायत्री वेदमाता वै पिता ओङ्कार उच्यते ।
ओङ्काराच्च वयं जाता जानीहि तापसोत्तम ॥ १९॥
अतो जपेन गायत्र्याः सन्तुष्टोऽहं न संशयः ।
स्तुत्या गम्भीरया विप्र दास्यामि हृदि वाञ्छितम् ॥ २०॥
शिवस्य वचनं श्रुत्वा तं जगाद महामुनिः ।
भक्तिं देहि त्वदीयां मे मुक्तिं संसारसागरात् ॥ २१॥
ततस्तं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।
शिवः सन्तोषदः पूर्णः स्वभक्तेभ्यो विशेषतः ॥ २२॥
शिव उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महामुने ।
मुक्तिश्च शाश्वती पूर्णा पुराणाचार्यता तथा ॥ २३॥
आयुश्च सप्तकल्पाख्यं भविष्यति महामुने ।
यद्यदिच्छसि तत्तत्ते सफलं नात्र संशयः ॥ २४॥
एवमुक्त्वान्तर्दधे सशक्तिकोऽसौ शिवः स्वयम् ।
मार्कण्डेयश्च सङ्खिन्नः संस्थितोऽभून् महर्षयः ॥ २५॥
प्रकीर्तिता मन्त्रशक्तिर्गायत्री रूपधारिणी ।
देवता शम्भुरूपा च कल्पिताऽभून् महात्मना ॥ २६॥
शैवमार्गेण शम्भुं सोऽभजच्चानन्यचेतसा ।
कालात्मकं महेशानं मोहहीनं विशेषवित् ॥ २७॥
तत्र तेन समाख्यातं पुराणं सर्वसिद्धिदम् ।
मार्कण्डेयं शिवस्यैव शक्तेर्माहात्म्यसंयुतम् ॥ २८॥
ततो बहुगते काले नरनारायणावुभौ ।
आश्रमे तस्य देवर्षेर्जग्मतुः परमेश्वरौ ॥ २९॥
वालखिल्या ऊचुः ।
वद भानो महाभाग चरित्रं च तयोः शुभम् ।
परमेश्वरसंज्ञौ तौ भवतः कथमादरात् ॥ ३०॥
भानुरुवाच ।
मम पुत्रश्च धर्मात्मा धर्मः सर्वसमानगः ।
तेन विष्णोस्तपस्तप्तं कीर्त्या सह महर्षयः ॥ ३१॥
गते वर्षशते पूर्णे विष्णुश्च वरदोऽभवत् ।
ताभ्यां पुत्रस्त्वमेवं नौ भव सोऽपि तथाऽकरोत् ॥ ३२॥
नरनारायणावेवं तयोः पुत्रौ बभूवतुः ।
नरो जीवमयः प्रोक्तो परो नारायणः शिवः ॥ ३३॥
तयोर्योगे च यद्ब्रह्म वैष्णवं कथ्यते बुधैः ।
अतस्तौ प्रसमाख्यातौ मया वः परमेश्वरौ ॥ ३४॥
धर्मस्याज्ञां गृहीत्वा वै निमिषारण्यगौ द्विजाः ।
भवतः स्म ततो देवौ तेपाते परमं तपः ॥ ३५॥
समाययौ तत्र साक्षात् स्वयं विष्णुर्यदृच्छया ।
तं दृष्टा सन्नतौ तुष्टुवतुर्देवौ च केशवम् ॥ ३६॥
नानास्तोत्रैः प्रसाद्यैनं नेमतुर्भक्तितत्परौ ।
तावुवाच महाविष्णुरिच्छथः किं महामुनी ॥ ३७॥
ततस्तौ केशवं चैवोचतुः परमधार्मिकौ ।
वद योगं महाभाग सर्वशान्तिकरं परम् ॥ ३८॥
एवमुक्तो महायोगी तावुवाच प्रहर्षितः ।
(Page खं. ३ अ. १३ पान २७)
योगं शान्तिप्रदं पूर्णं गाणपत्यप्रियः सदा ॥ ३९॥
विष्णुरुवाच ।
चित्तं पञ्चविधं प्रोक्तं तदैश्वर्यं च यत् स्मृतम् ।
मायारूपं तदेवाशु त्यक्त्वा योगं समाप्स्यथः ॥ ४०॥
यद्यच्चित्तेन सम्प्राप्तं तत्तद्योगेन मानदौ ।
योगरूपं प्रकर्तव्यं तदाकारसमाधिना ॥ ४१॥
यद्यच्चित्तेन न ज्ञातं तत्तन्निर्वृत्तिवाचकम् ।
तदेव योगरूपं वै कर्तव्यं योगसेवया ॥ ४२॥
चित्ते चिन्तामणिर्नित्यं तिष्ठेद्वै चित्तचालकः ।
भजतं तं महाभागौ तेन शान्तिमवाप्स्यथः ॥ ४३॥
मायामोहयुतं चित्तं नानाभावेषु लालसम् ।
मायाहीनं सदा चित्तं शान्तिरूपं भविष्यति ॥ ४४॥
चित्तमिच्छति धर्मं वै तथार्थं काममादरात् ।
मोक्षं च ब्रह्मभूतत्वं भ्रमयुक्तं न संशयः ॥ ४५॥
अहं चिन्तामणिः साक्षान्न मे भिन्नं प्रविद्यते ।
तदिच्छेयं भ्रामयति किमर्थं मां भ्रमात्मिका ॥ ४६॥
अनेन योगमार्गेण चित्तं त्यक्त्वा महामुनी ।
शान्तियोगस्वरूपौ वै संशयो न भविष्यथः ॥ ४७॥
एवमुक्त्वांऽतर्दधेऽसौ विष्णुर्वैकुण्ठगोऽभवत् ।
नरनारायणौ तत्र योगयुक्तौ बभूवतुः ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते नरनारायणविष्णुसंवादो नाम द्वादशोऽध्यायः ॥ ३.१२
३.१३ नरनारायणमार्कण्डेयसमागमो नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
वालखिल्या ऊचुः ।
वद भानो महायोगिन्नरनारायणावृषी ।
किं चक्रतुस्ततः सर्वं ब्रह्मभूतौ विशेषतः ॥ १॥
रविरुवाच ।
स्वाश्रमे तौ स्थितौ देवौ नरनारायणावृषी ।
विष्णुना कथितो योगः साधयामासतुः परम् ॥ २॥
क्रमेण शान्तिमापन्नौ गाणपत्यौ बभूवतुः ।
गणपस्य महामन्त्रं शिवात् सङ्गृह्य जेपतुः ॥ ३॥
चतुरक्षरकं मन्त्रं हेरम्बस्य विशेषतः ।
मूर्तिं रत्नमयीं कृत्वा पूजयेतां महामुनी ॥ ४॥
हेरम्बस्य हृदि ध्यानं चक्रतुः परमादृतौ ।
शान्तिं प्राप्तौ ततो विप्रा न मुञ्चन्तौ गजाननम् ॥ ५॥
एवं वर्षशते पूर्णे तयोराश्रमगोऽभवत् ।
हेरम्बः सिंहगो भूत्वा नागयज्ञोपवीतवान् ॥ ६॥
चतुर्बाहुधरश्चैव त्रिनेत्रो भूषणैर्वरैः ।
भूषितः सिद्धिबुद्धिभ्यां युतो लम्बोदरः प्रभुः ॥ ७॥
नानापुष्पमयीं मालां त्रिशूलं मुद्गरं तथा ।
अङ्कुशं च करैर्विप्रा दधानस्तेजसा युतः ॥ ८॥
एतादृशं च हेरम्बं दृष्ट्वा तौ मुनिसत्तमौ ।
प्रणेमतुर्दण्डवत्तु पादयोस्तस्य योगिनौ ॥ ९॥
हेरम्बं तत उत्थायापूजयेतां यथाविधि ।
पुनस्तुष्टुवतुस्तत्र तौ प्रणम्य गजाननम् ॥ १०॥
नरनारायणावूचतुः ।
नमस्ते गणनाथाय भक्तसंरक्षकाय ते ।
भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः ॥ ११॥
अनाथानां विशेषेण नाथाय गजवक्त्रिणे ।
(Page खं. ३ अ. १३ पान २८)
चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते ॥ १२॥
ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे ।
भेदहीनाय देवाय नमश्चिन्तामणे नमः ॥ १३॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे ।
योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥ १४॥
सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने ।
सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥ १५॥
ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायक ।
सुखशान्तिधरायैव नाभिशेषाय ते नमः ॥ १६॥
पूर्णाय पूर्णनाथाय पूर्णानन्दाय ते नमः ।
योगमायाप्रचालाय खेलकाय नमो नमः ॥ १७॥
अनादये नमस्तुभ्यमादिमध्यान्तमूर्तये ।
स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः ॥ १८॥
गताभिमानिनां नाथस्त्वमेवात्र न संशयः ।
तेन हेरम्बनामाऽसि विनायक नमोऽस्तु ते ॥ १९॥
किं स्तुवस्त्वां गणाधीश योगाभेदमयं परम् ।
अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो ॥ २०॥
एवमुक्त्वा नतौ तत्र नरनारायणावृषी ।
तावुत्थाप्य गणेशान उवाच घननिस्वनः ॥ २१॥
हेरम्ब उवाच ।
वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियन्त्रितः ।
महाभागावादिमुनी योगमार्गप्रकाशकौ ॥ २२॥
भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदं तथा ॥ २३॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम् ॥ २४॥
भानुरुवाच ।
हेरम्बवचनं श्रुत्वा हर्षितौ मुनिपुङ्गवौ ।
कृताञ्जलिपुटौ चोभावूचतुस्तं गजाननम् ॥ २५॥
यदि प्रसन्नभावेन वरं दास्यसि विघ्नप ।
तदा ते भक्तिमुग्रां नौ देहि चाव्यभिचारिणीम् ॥ २६॥
तथेति गणनाथस्तौ जगाद भक्तिभावितः ।
अन्तर्धानं चकाराऽसौ स्वानन्दस्थो बभूव ह ॥ २७॥
ततस्तौ नित्यमत्यन्तं गणेशभजने रतौ ।
हेरम्बेति सदा मन्त्रं वाण्या प्रोचतुरादरात् ॥ २८॥
ततो बहुगते काले मार्कण्डेयाश्रमे द्विजाः ।
जग्मतुर्ज्ञानदानार्थं करुणायुक्तमानसौ ॥ २९॥
नरनारायणौ दृष्ट्वा मार्कण्डेयो महामुनिः ।
प्रणनाम स साष्टाङ्गं पूजयन् भक्तिसंयुतः ॥ ३०॥
पूजयित्वा स्वयं तत्र पादसंवाहने स्थितः ।
उवाच तौ विनीतात्मा मार्कण्डेयो महामुनिः ॥ ३१॥
मार्कण्डेय उवाच ।
धन्यं मे जन्म विद्या च तपो ज्ञानादिकं तथा ।
धन्यौ मे जनकौ चैव युवयोः पाददर्शनात् ॥ ३२॥
एवं नानाविधैर्वाक्यैः संस्तुतौ मुनिपुङ्गवौ ।
ऊचतुस्तं विनीतं तौ भक्तिभावेन तोषितौ ॥ ३३॥
नरनारायणावूचतुः ।
मार्कण्डेय वृणुष्व त्वं वरं स्वमनसीप्सितम् ।
तवातिथ्यकृतेनैव सन्तुष्टौ नात्र संशयः ॥ ३४॥
तयोर्वचनमाकर्ण्य मार्कण्डेयः प्रतापवान् ।
प्रणम्य तावुवाचाऽथ भक्तिनम्रात्मकन्धरः ॥ ३५॥
मार्कण्डेय उवाच ।
ज्ञानं शान्तिप्रदं पूर्णं वदतं मुनिसत्तमौ ।
तेन तृप्तो भविष्यामि शान्तियोगपरायणः ॥ ३६॥
दर्शयेथां महामायां तां ज्ञात्वा सन्त्यजाम्यहम् ।
(Page खं. ३ अ. १४ पान २९)
भक्तिरेव गुरोः पादे दीयतां मे वरस्त्वयम् ॥ ३७॥
रविरुवाच ।
तथेति तं महात्मानावूचतुर्ज्ञानमुत्तमम् ।
शान्तियोगप्रदं पूर्णं गाणेशं मुनिपुङ्गवौ ॥ ३८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते नरनारायणमार्कण्डेयसमागमो नाम त्रयोदशोऽध्यायः ॥ ३.१३
३.१४ मायावर्णनं नाम चतुर्दशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
ज्ञानं शान्तिप्रदं पूर्णं शृणु त्वं मुनिसत्तम ।
तपसा ब्रह्मचर्येण सिद्धोऽस्यत्र न संशयः ॥ १॥
शिवेन रामचन्द्राय कथितं योगदायकम् ।
तेन शान्तिसमायुक्तो बभूवे लक्ष्मणाग्रजः ॥ २॥
राज्यसङ्गसमायुक्तस्तेनाभूत्तच्च विस्मृतम् ।
पुनर्वसिष्ठवाक्येन तज्ज्ञानं समपद्यत ॥ ३॥
मार्कण्डेय उवाच ।
कोऽसौ रामो महाभागः कस्मिन् वंशे समुद्भवः ।
कस्य पुत्रश्च तत्सर्वं वदतं मां महामुनी ॥ ४॥
रविरुवाच ।
एवं पृष्टौ महात्मानौ मार्कण्डेयेन धीमता ।
ऊचतुः परमप्रीतौ चेष्टितं राघवस्य च ॥ ५॥
नरनारायणावूचतुः ।
मरीचिर्ब्रह्मणः पुत्रस्तस्माज्जातश्च कश्यपः ।
अदित्यां कश्यपाज्जज्ञे सूर्य आत्मा शरीरिणाम् ॥ ६॥
सूर्याच्च मनुनामा यो वैवस्वत इति श्रुतः ।
तस्य मन्वन्तरं प्रोक्तं सप्तमं भूमिमण्डले ॥ ७॥
ब्रह्मणो दिवसः प्रोक्तो मुनिभिः कालवादिभिः ।
चतुयुर्गसहस्राख्यस्तावती रात्रिरुच्यते ॥ ८॥
एकस्मिन् दिवसे विप्र मनवश्च चतुर्दश ।
भवन्ति स्वस्वकालेन प्रेरिताः क्षत्रकर्मणि ॥ ९॥
एकसप्ततिरेषैवाधिका किञ्चिन् महामुने ।
मन्वन्तरं चतुर्णां च युगानां वै प्रकथ्यते ॥ १०॥
स्वायम्भुवादयश्चैव मनवः कथिता बुधैः ।
तेषु षट्कं तथा भिन्नं भवति स्वाधिकारतः ॥ ११॥
मनुर्देवाश्च विप्रा वै सप्त चैव पुरन्दरः ।
मनुपुत्राश्च विष्णोर्यत्रावतारः प्रकीर्तितः ॥ १२॥
विभागतश्च मनुना सर्वधर्मः प्रकाश्यते ।
भूमिपालनकं कार्यं वर्णाश्रमविधानतः ॥ १३॥
ऋषिभिस्तत्त्वमार्गेण कर्मज्ञानादिकं मुने ।
सुबोधेन नराणां तत् प्रकाश्यं सर्वमादरात् ॥ १४॥
यजमानस्य यज्ञादि कर्म सर्वं तथा मुने ।
कारणीयं प्रकर्तव्यं स्वस्वमन्वन्तरेषु तैः ॥ १५॥
वृष्ट्यादिना त्रिभुवनं महेन्द्रेण विशेषतः ।
कर्मानुसारभोगेन पालनीयं यथातथम् ॥ १६॥
देवैः स्वयज्ञभागस्थं भोगं भुक्त्वा स्वलोकदम् ।
कर्मकर्त्रे तथा स्वर्गे फलं दातव्यमादरात् ॥ १७॥
इन्द्रस्य दैत्यजं घोरं भयं प्राप्तं यदा मुने ।
तदा विष्णुः कलांशेन तं रक्षति बिडौजसम् ॥ १८॥
मनोः पुत्रैश्च पौत्रैश्च तेषां सन्ततिभिः सदा ।
प्रजापालनकं कार्यं क्षात्रधर्मपरायणैः ॥ १९॥
एवं षट्कं समाख्यातं मन्वन्तरमयं मुने ।
मन्वन्तरे समाप्ते वै द्वितीयस्य समुद्भवः ॥ २०॥
ज्ञाननिष्ठं तदा षट्कं भवेद्वै नित्यमादरात् ।
तपसा देहमुत्सृज्य स्वस्वधाम्नि गतं भवेत् ॥ २१॥
लयस्तत्र समाख्यातो मन्वन्तरलयात्मकः ।
तत्र सर्वे लयं प्राप्ता जनाः स्थावरजङ्गमाः ॥ २२॥
द्वितीये मनुमुख्ये समुद्यते वै महामुने ।
भृग्वादयः स्वमात्मानं ससृजुर्योगसेवया ॥ २३॥
पुनः सृष्टिं प्रचक्रुस्ते चराचरमयीं मुने ।
एवं सर्वान्तरे प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥ २४॥
ब्रह्मणो दिवसान्ते यो लयो नैमित्तिकाह्वयः ।
भवति तत्र त्रैलोक्यं नाशमेति न संशयः ॥ २५॥
एवं दिनक्रमेणैव शतवर्षमयं मुने ।
ब्रह्मणः पूर्णमायुष्यं भविष्यति न संशयः ॥ २६॥
तदा स्वयं लयेनैव मरिष्यति पितामहः ।
एवं क्रमेण त्रैगुण्यं नाशरूपं वदन्ति च ॥ २७॥
जन्ममृत्युमयी पूर्णा नानाद्वन्द्वप्रकाशिनी ।
माया ते कथिता विप्र द्वन्द्वभावेषु भ्रान्तिदा ॥ २८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते मायावर्णनं नाम चतुर्दशोऽध्यायः ॥ ३.१४
३.१५ कालगतिवर्णनं नाम पञ्चदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मार्कण्डेय उवाच ।
भवद्भ्यां कथितं चित्रं मायारूपं विशेषतः ।
श्रुत्वाऽहं तृप्तिसंयुक्तो भवामि भृशहर्षितः ॥ १॥
मायारूपं मया नाथौ न ज्ञातं पूर्णभावतः ।
अतो मां विस्तरेणैव वदतं योगिनां वरौ ॥ २॥
वर्णाश्रमविभागं वै स्वस्वाचारसमन्वितम् ।
युगमानं तथा विप्रो युगधर्मान् विशेषतः ॥ ३॥
पितृदेवासुराणां वै कर्ममार्गं सुतृप्तिदम् ।
सूर्यचन्द्रप्रसूतानां राज्ञां सर्वं चरित्रकम् ॥ ४॥
एतानि प्रश्नपीठानि वदतं चर्षिसत्तमौ ।
तत्र द्वन्द्वादिकस्यैव ज्ञानं मे प्रभविष्यति ॥ ५॥
भानुरुवाच ।
एवं पृष्टौ महाभागौ नरनारायणावृषी ।
ऊचतुस्तं दयायुक्तो मार्कण्डेयं तु तापसम् ॥ ६॥
नरनारायणावूचतुः ।
सम्यक् पृष्टं महाभाग वदिष्यावोऽखिलं च ते ।
येन मायाचरित्राणां ज्ञानं भवति निश्चलम् ॥ ७॥
निमेषमात्रः कालो यो लघ्वक्षरसमन्वितः ।
दशपञ्चनिमेषैश्च काष्ठाकालः प्रकीर्तितः ॥ ८॥
त्रिंशत्काष्ठाभिरेवं यः कलाकालः प्रजायते ।
त्रिंशत्कलाभिरेकं वै मुहूर्तं परिकीर्तितम् ॥ ९॥
त्रिंशन्मुहूर्तमानेन दिवानक्तमयो मतः ।
तैस्त्रिंशद्भिस्तथा कालो मासाख्यो विप्र जायते ॥ १०॥
मासपक्षद्वयाकारः शुक्लकृष्णविभागतः ।
मासैर्द्वादशभिः संवत्सरः पूर्णश्च जायते ॥ ११॥
द्वाभ्यामाभ्यामृतुः प्रोक्तः स षडृतुभिरुच्यते ।
संवत्सरप्रमाणाख्यः कथितः कालवेदिभिः ॥ १२॥
निमेषादिभिरेवं स कालः संवत्सरान्तगः ।
(Page खं. ३ अ. १५ पान ३१)
नानाभावसमायुक्तः कालधर्मं प्रकाशते ॥ १३॥
संवत्सरात्मकः कालः पञ्चधा परिकीर्तितः ।
आद्यः संवत्सरः प्रोक्तो द्वितीयः परिवत्सरः ॥ १४॥
इडावत्सर एवाऽसौ चतुर्थश्चानुवत्सरः ।
वत्सरश्चैव पञ्चैते शृणु तेषां गतिं मुने ॥ १५॥
अङ्गप्रत्यङ्गसंयोगः कालेनैव प्रजायते ।
अग्निर्जठरसंस्थश्च कुरुते सर्वमञ्जसा ॥ १६॥
देहोत्पत्तिः स्थितिश्चैव नाशस्तस्य प्रकीर्तितः ।
कालेन जायते सर्वं सोऽग्निः संवत्सरः स्मृतः ॥ १७॥
पञ्चानां मुख्यरूपोऽयं कालकर्मप्रवर्तकः ।
देहसंस्थो महायोगी बुधैः कालः प्रकथ्यते ॥ १८॥
परिवत्सरनामाऽयं सूर्यः कालमयो मुने ।
अयनादिस्वभावेन स्मृतः कालस्य चालकः ॥ १९॥
वर्षाशीतोष्णकालेषु ऋतुमासक्रमादिषु ।
कालधर्मं स चरति प्रकाशयति नित्यशः ॥ २०॥
इडावत्सरनामाऽयं चन्द्रः प्रोक्तो मनीषिभिः ।
तारानक्षत्रकादीनां चालकश्च प्रजायते ॥ २१॥
पितॄणां ज्ञानकारी च कालस्यात्र न संशयः ।
कालक्रमेण सोमोऽयं दधात्यमृतमंशुभिः ॥ २२॥
ओषधीनामंशुभिर्वै काले भावं प्रकाशते ।
काले देवजनानाममृतपानं ददाति सः ॥ २३॥
अनुवत्सरनामाऽसौ वायुः सर्वत्र पठ्यते ।
प्राणापानादिभिर्भावैश्चालकः कामकारकः ॥ २४॥
आवहप्रवहाद्यैः स नेमिभिर्ज्योतिषां गणम् ।
सञ्चालयति कालेन कालज्ञः कालरूपधृक् ॥ २५॥
वत्सरो रुद्ररूपोऽयं तथा कालः प्रकाशते ।
महालये समुत्पन्ने लयमोषधयो गताः ॥ २६॥
तत्र कालप्रमाणेन त्र्यम्बकः पुनरेव च ।
स ओषधीनां प्रस्रष्टा जायते कालसंस्थितः ॥ २७॥
गायत्री जगती त्रिष्टुबम्बिका नामतः स्मृताः ।
ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः ॥ २८॥
पुनश्चौषधयः सृष्टास्तत्र रुद्रेण कालतः ।
तेनाऽयं कालभावेन जगद्भावयति प्रभुः ॥ २९॥
एवं पञ्चविधं कालं यो जानाति स्वभावतः ।
न तस्य कालभावस्य दुःखं भवति कर्हिचित् ॥ ३०॥
अधुना शृणु विप्रर्षे कालमानं विशेषतः ।
अयनं द्विविधं प्रोक्तं षण्मासात्मकमुच्यते ॥ ३१॥
तदेव देवतानां वै दिनमेकं प्रकथ्यते ।
उत्तरायणरूपश्च दिवसः परिकीर्तितः ॥ ३२॥
दक्षिणायनरूपा वै रात्रिस्तेषां प्रकीर्तिता ।
एवं त्रिंशद्भिराख्यातो मासश्चैव महामुने ॥ ३३॥
मासैर्द्वादशभिश्चैव वर्षस्तेषां प्रकीर्तितः ।
एवं सर्वत्र विप्राग्र्य ज्ञातव्यं कालजं वपुः ॥ ३४॥
शुक्लपक्षमयी रात्रिः कृष्णपक्षोऽहरेव च ।
पितॄणां सुखदः कालो मासेन दिवसो भवेत् ॥ ३५॥
मासौ च द्विविधौ प्रोक्तौ सौरचान्द्रौ विधानतः ।
सङ्क्रमेण रवेर्मासो जायते रविजः स्मृतः ॥ ३६॥
पूर्णिमायां स सम्पूर्णश्चन्द्रो लोकैः प्रदृश्यते ।
तदाधारेण मासो वै ज्ञातव्यश्चन्द्रमानतः ॥ ३७॥
अथवा क्षीणचन्द्रायाममायां ज्ञायते बुधैः ।
मासश्चान्द्रमसो विप्र द्विविधः परिकीर्तितः ॥ ३८॥
तत्रैव कारणं ब्रूवः शृणु तत्त्वार्थसिद्धये ।
(Page खं. ३ अ. १६ पान ३२)
अधिमासस्तथा लोकैः क्षयमासो मलात्मकः ॥ ३९॥
अमायां चन्द्रचिह्नेन ज्ञायते नान्यथा क्वचित् ।
स्नानार्थं मासमाहात्म्यं पूर्णिमायां विशेषतः ॥ ४०॥
चन्द्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा ।
अन्यच्च पितृणां कालश्चन्द्रमासेन जायते ॥ ४१॥
देवानां पितृणां स्वर्गे सुधापानं प्रकीर्तितम् ।
पूर्णं सोमकलाभूतं चान्द्रमासे न जायते ॥ ४२॥
देवानां दिवसे कालः सूर्यचिह्नेन जायते ।
शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् ॥ ४३॥
त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः ।
त्रिंशताधिकरूपाणि मतः सप्तर्षिवत्सरः ॥ ४४॥
नव वर्षसहस्राणि मानुषेण प्रमाणतः ।
अन्यानि नवतिश्चैव ध्रौव्यः संवत्सरः स्मृतः ॥ ४५॥
एवं कालप्रमाणं यत् कथितं ते द्विजोत्तम ।
मृत्युयुक्तं सदा भ्रान्तं ज्ञातव्यं द्वन्द्वसंयुतम् ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते कालगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ३.१५
३.१६ युगधर्मवर्णनं नाम षोडशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
दिव्यवर्षसहस्राणि द्वादशाऽथ महामुने ।
चतुर्युगमयः कालो ज्ञातव्यो विबुधैः सदा ॥ १॥
चत्वारि च सहस्राणि वर्षाणि कृतनामकम् ।
युगं प्रकीर्तितं तत्राष्टशतैः सन्धिरुच्यते ॥ २॥
त्रीणि वर्षसहस्राणि युगं त्रेता प्रकीर्तितम् ।
सन्ध्यांशो द्विगुणैस्तत्र ज्ञातव्यो विबुधैः शतैः ॥ ३॥
सहस्रे द्वे च वर्षाणि द्वापरः परिकीर्तितः ।
सन्ध्यांशो द्विगुणैस्तस्माच्छतैस्तु परिकीर्तितः ॥ ४॥
एकवर्षसहस्रं वै कलिः परमदारुणः ।
तस्याऽपि सन्धिर्द्विगुणो ज्ञातव्यो विबुधैस्तथा ॥ ५॥
शतानि सन्धिरूपाणि ज्ञातव्यानि विशेषतः ।
सर्वत्र युगमानेष्वाद्यं तयोर्भोगदानि वै ॥ ६॥
एवं द्वादशसाहस्रदेववर्षाणि तानि वै ।
चतुर्युगानां मानं च कथितं कालवेदिभिः ॥ ७॥
आद्यं कृतयुगं प्रोक्तं ततस्त्रेता प्रकीर्तिता ।
ततो द्वापरनामाऽपि कलिस्तस्मात् प्रकीर्तितः ॥ ८॥
ध्यानं कृतयुगे मुख्यं त्रेतायामध्वरस्तपः ।
द्वापरे पूजनाचारः कलौ स्तवनमुच्यते ॥ ९॥
ब्राह्मः कृतयुगे धर्मश्चतुष्पादः सनातनः ।
त्रेतायां त्रिपदः प्रोक्तो धर्मो धर्मविदां वरैः ॥ १०॥
द्वापरे द्विपदो धर्मः सर्वशास्त्रेषु सम्मतः ।
कलावेकपदः प्रोक्तः सोप्यंऽते नाशमेष्यति ॥ ११॥
कृते ज्ञानं सदा पूज्यं त्रेतायां रविरुच्यते ।
द्वापरे दैवतं विष्णुं कलौ शम्भुं वदन्ति च ॥ १२॥
चतुर्युगानां मानेषु गणेशो मुख्यभावतः ।
पूज्यते मानवैः सर्वैः स्वस्वसिद्ध्यर्थमादरात् ॥ १३॥
कृते विनायकः प्रोक्तः कश्यपात्मज एव सः ।
सिंहारूढश्च दिग्बाहुस्तेजोरूपी प्रकथ्यते ॥ १४॥
(Page खं. ३ अ. १६ पान ३३)
त्रेतायां पूज्यते देवो मयूरेशश्च षड्भुजः ।
मयूरवाहनः पुत्रः शशिवर्णः शिवस्य वै ॥ १५॥
द्वापरे मूषकारूढः पूज्यते च चतुर्भुजः ।
गजाननो वरेण्यस्य रक्तवर्णः सुतः स्मृतः ॥ १६॥
कलावश्वस्थितश्चैव धूम्रवर्णो द्विबाहुभृत् ।
तारकः सर्वभावज्ञो गणेशः पूज्यते जनैः ॥ १७॥
ब्रह्माकारमयश्चैव तेन भेदो न विद्यते ।
चतुर्युगेषु धर्मेषु सिद्धिदाता विशेषतः ॥ १८॥
कृते नराणामायुष्यं लक्षवर्षाणि सम्मतम् ।
त्रेतायां दशसाहस्रं द्वापरे तु सहस्रकम् ॥ १९॥
कलौ तु शतवर्षाण्यन्ते तन्न्यूनं भविष्यति ।
वर्षाणि पञ्चदश वै क्रमेण परमं मतम् ॥ २०॥
कृते स्वधर्मसन्निष्ठा जनाः सर्वे हिते रताः ।
परस्परं भावयन्तो भेदहीना विशेषतः ॥ २१॥
न मात्सर्यादि संयुक्ताः कलहादिविवर्जिताः ।
बाल्याद् धर्मधरा विप्र सदानन्दयुतास्तथा ॥ २२॥
विषयात्मसुखं तुच्छं मन्यन्ते सततं नराः ।
सुखे सन्ति सदा ज्ञानयुक्ता ध्यानपरायणाः ॥ २३॥
वर्णाश्रमविभागस्थाः स्वस्वाचारसमन्विताः ।
ब्रह्मणि श्रद्धया युक्ता योगाभ्यासपरायणाः ॥ २४॥
ऋतुगामिन एवं ते नानाधर्मकराः सदा ।
अन्तर्बाह्यैकभावाश्च भवन्ति सुखभोगिनः ॥ २५॥
त्रेतायां पादहीनेन नरा धर्मेण संयुताः ।
तत्रान्तर्बाह्यभावेषु भिन्नभावधरा मताः ॥ २६॥
तथा स्वार्थं परार्थं ते न समाना विशेषतः ।
विषयेच्छायुता विप्र किञ्चित् किञ्चित् क्रमेण वै ॥ २७॥
तत्र सन्ध्यांशमार्गं त्वं शृणुष्वैतं महामुने ।
अष्टौ शतानि वर्षाणि कृते सन्ध्यांश उच्यते ॥ २८॥
चतुःशतानि तत्रैव कृतान्ते वर्षकाणि च ।
शतानि त्रीणि त्रेताया अर्धांशेन युतानि च ॥ २९॥
शतसप्तकवर्षाणि सन्ध्यांशः परिकीर्तितः ।
दिने दिने क्रमेणैव कृतधर्मो विनश्यति ॥ ३०॥
त्रेताधर्मोऽधिकत्वेन तत्र तिष्ठति निश्चितम् ।
शतसप्तकवर्षेषु गतेषु मुनिसत्तम ॥ ३१॥
केवलं प्रभवे त्रेतायुगं सर्वस्वभावतः ।
ज्ञातव्यमेवं सर्वत्र सन्ध्यांशेषु युगक्रमैः ॥ ३२॥
द्वापरे द्विपदो धर्मस्तत्र स्वार्थपरायणाः ।
कलहादिसमायुक्ता भवन्ति किल मानवाः ॥ ३३॥
बाह्यभावेषु साधूनां धर्माणां सेवका मताः ।
लज्जायुक्ततया विप्र अन्तरे विषयप्रियाः ॥ ३४॥
परेषां लज्जया धर्मं चरन्ति द्वापरे नराः ।
विषयेच्छायुताः सर्वे स्वगृहे धर्मलोपकाः ॥ ३५॥
एतादृशास्ते भवन्ति द्वापरे मलसंयुताः ।
नराः सर्वत्र भावेषु जानीहि मुनिसत्तम ॥ ३६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते युगधर्मवर्णनं नाम षोडशोऽध्यायः ॥ ३.१६
(Page खं. ३ अ. १७ पान ३४)
३.१७ कलियुगवर्णनं नाम सप्तदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
सात्त्विकं च युगं प्रोक्तं कृतं त्रेता च राजसी ।
द्वापरस्तमसा युक्तः स्वयं राजस उच्यते ॥ १॥
कलिस्तमोमयः पूर्णस्तत्र सर्वं विनश्यति ।
पापरूपधरः साक्षाद्विप्रधर्मः कुतो भवेत् ॥ २॥
कलौ प्रमारको रोगः सततं क्षुद्भयं मुने ।
अनावृष्टिभवं दुःखं देशानां च विपर्ययः ॥ ३॥
अधार्मिका अनाचारा महाकोपाऽल्पचेतसः ।
वदिष्यन्त्यनृतं लुब्धाः कलौ जाताः सुदुःप्रजाः ॥ ४॥
अरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ।
विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ ५॥
नाधीयते कलौ वेदान्न यजन्ति द्विजातयः ।
पठन्ति न्यायतो वेदान् शूद्राग्रे चाल्पबुद्धयः ॥ ६॥
शूद्राणां मन्त्रयोगैश्च सम्बन्धो ब्राह्मणैः सह ।
भविष्यति कलौ विप्र शयनासनभोजनैः ॥ ७॥
शूद्रा भवन्ति राजानो ब्राह्मणान् बाधयन्ति ते ।
ब्रह्महत्यां पशोर्हत्यां कुर्वन्ते वै नरेश्वराः ॥ ८॥
स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् ।
अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ ९॥
विनिन्दन्ति गणेशानं ब्राह्मणान् दैवतान्यपि ।
वेदान् शास्त्राणि सर्वाणि पुराणानि कलौ युगे ॥ १०॥
कुर्वन्त्यवेदकर्माणि ह्यनाधाराणि भो मुने ।
स्वधर्मेषु रुचिर्नैव द्विजादीनां प्रजायते ॥ ११॥
कुशीलचर्यापाखण्डो वृथाऽनृतभयं भवेत् ।
याचकाः सर्ववर्णाश्च भविष्यन्ति कलौ युगे ॥ १२॥
अदृशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति कलौ युगे ॥ १३॥
शुक्लदन्ता अक्षजिता मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति ब्राह्मणानां कलौ युगे ॥ १४॥
अन्नचौरा भविष्यन्ति तथा वेलाभिमर्षिणः ।
चौरा चौरस्य हर्तारो हर्तुर्हर्तार एव च ॥ १५॥
दुःखप्रचुरताऽल्पायुः शिश्नोदरपरायणाः ।
द्यूतमद्यादिसंसक्ताः परस्त्रीलम्पटा मुने ॥ १६॥
कापालिकास्तथा चान्ये यतयो गृहमेधिनः ।
वेदविक्रयिणो विप्रास्तीर्थविक्रयिणस्तथा ॥ १७॥
आसनस्था द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः ।
ताडयन्ति द्विजान् शूद्रा राजानो राजजीविनः ॥ १८॥
उच्चासनसमासीना ब्राह्मणानां च पूजकाः ।
भविष्यन्ति कलौ शूद्रा वेदाध्ययनतत्पराः ॥ १९॥
सेवावसरमालोक्य द्वारि तिष्ठन्ति वै द्विजाः ।
उपायनादि सङ्गृह्य शूद्राणां राजजीविनाम् ॥ २०॥
बुद्धिशालिन एवं वै शूद्रा धर्मान् वदन्ति वै ।
वेदवादविचारज्ञा ब्राह्मणान् शिक्षयन्ति ते ॥ २१॥
तपो यज्ञफलानां वै वेदानां च सुकर्मणाम् ।
विक्रेतारो भविष्यन्ति ब्राह्मणाश्च कलौ युगे ॥ २२॥
पतिं त्यक्त्वा स्त्रियश्चैव परे पुंसि निरन्तरम् ।
संसक्ताश्च भविष्यन्ति पतिद्रोहपरायणाः ॥ २३॥
यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः ।
मद्यस्त्रीसङ्गसंसक्ताश्चरन्ति च कलौ युगे ॥ २४॥
वाममार्गाः पाशुपताः साङ्ख्या वै पञ्चवाहकाः ।
भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ २५॥
(Page खं. ३ अ. १७ पान ३५)
ज्ञानमार्गेषु नष्टेषु लोके निष्क्रियतां गते ।
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २६॥
करिष्यन्त्यवतारांश्च ब्राह्मणानां कुलेषु ते ।
दधीचिशापनिर्दग्धा पुरा दक्षाध्वरे द्विज ॥ २७॥
शापयुक्ता गौतमस्य भविष्यन्ति विशेषतः ।
वामादिमार्गसंसक्ता जनान् भ्रष्टांश्च कुर्वते ॥ २८॥
अन्यजातिषु सर्वत्र भविष्यन्ति तथा नराः ।
दक्षाध्वरे सर्ववर्णाः शापितास्ते दुराग्रहाः ॥ २९॥
मोहयिष्यन्ति च जनान् दर्शयित्वा फलानि वै ।
तमसाऽऽविष्टहृदया बिडालव्रतिकाऽधमाः ॥ ३०॥
बौद्धमायाधरस्तत्र विष्णुः पाखण्डपोषकः ।
सहायस्तान् सदा देवो दधीचेः शापकारणात् ॥ ३१॥
कर्ममार्गस्य सञ्छेत्ता भ्रष्टाचारयुतान्नरान् ।
करिष्यति स्वयं विष्णुर्युगधर्मप्रवर्तकः ॥ ३२॥
अतज्ज्ञास्तं भविष्यन्ति शरणागतवत्सलम् ।
बौद्धमायाश्रितं सर्वे भ्रष्टाचारयुता नराः ॥ ३३॥
कलौ दशसहस्रं वै वर्षाणां च यदा भवेत् ।
विष्णुस्त्यक्त्वा तदा पृथ्वीमालयं स्वं गमिष्यति ॥ ३४॥
वर्षपञ्चसहस्राणि स्थिरा भागीरथी नदी ।
ग्रामदेवास्तदर्धेन गताः स्वर्गं महामुने ॥ ३५॥
स्वधर्मविधिसंयुक्तं कर्म यत् क्रियते नरैः ।
तदेव देवभोग्यं वै भवति द्विज सर्वदा ॥ ३६॥
विपरीतं कृतं कर्म त्वासुरं तत् प्रजायते ।
कलावासुरभावेन गता देवा निजालयम् ॥ ३७॥
आसुरेण स्वभावेन तीर्थायतनकादिषु ।
समागतं नरं दृष्ट्वा गच्छन्ति तीर्थदेवताः ॥ ३८॥
तेषु तीर्थेषु देवानां मूर्त्यादिषु तदाऽसुराः ।
प्रविश्य कर्मभोक्तारो भविष्यन्ति कलौ युगे ॥ ३९॥
तीर्थानि गुप्तभावेन देवतायतनानि वै ।
संस्थितानि कलौ तस्मिन्नुपवासयुतानि च ॥ ४०॥
दैवेन संयुतं दृष्ट्वा स्वभावेन महासुराः ।
गच्छन्ति मानवं तीर्थदेवाः स्वस्थानगाः पुनः ॥ ४१॥
तत्र वै कर्मकर्तारो नरा आसुरभावतः ।
भविष्यन्ति सदा विप्र भ्रष्टा वै दोषसंयुताः ॥ ४२॥
क्रियारूपा महाशक्तिः संस्थिता जगतीतले ।
क्रियाफलप्रदाता वै गणेशः संस्थितो भवेत् ॥ ४३॥
असुराणां सुराणां च सिद्धिदाता गजाननः ।
महिमानं स्वकीयं स कलौ सङ्गोप्य संस्थितः ॥ ४४॥
धर्मपादाश्च चत्वारस्तपः शौचं दया तथा ।
सत्यं तत्र क्रमेणैव सर्वे नश्यन्ति धर्मजाः ॥ ४५॥
त्रेतायां च दया नष्टा नष्टं च द्वापरे तपः ।
आचारश्च कलौ प्राप्ते नष्टरूपो भविष्यति ॥ ४६॥
सत्यरूपमयः पादः कलौ तिष्ठति मानद ।
तेन सर्वे जना भूमौ व्यवहारं प्रकुर्वते ॥ ४७॥
द्वापरस्य तु सन्ध्यांशे गते पृथुबलः कलिः ।
बहुलानृतभावेनादरात् सत्यं छिनत्ति च ॥ ४८॥
ततः क्रमेण सत्यस्य विनाशश्च भविष्यति ।
तदा कोलाहलो विप्र देवानां सदने भवेत् ॥ ४९॥
कलौ दुःखयुता लोका अन्नादिकविवर्जिताः ।
ग्रामादि सकलं त्यक्त्वा वसन्ति वनगोचराः ॥ ५०॥
परस्परं क्षुधाविष्टा भक्षयन्ति विचेतसः ।
सत्यहीना धरित्री वै भविष्यति महामते ॥ ५१॥
(Page खं. ३ अ. १८ पान ३६)
षोडशाब्दं परं चायुः पञ्चवर्षसमन्विता ।
अन्तर्वत्नी भवेन्नारी कलौ तस्मिन् विशेषतः ॥ ५२॥
एवमासुरभावेन जितं सर्वं महामुने ।
देवता मुनयः सर्वे गणेशानं स्तुवन्ति ते ॥ ५३॥
तदा ढुण्ढिः सुराणां स हितायाऽवतरिष्यति ।
धूम्रवर्णो ह्यधर्मं तं हत्वा धर्मं करिष्यति ॥ ५४॥
धर्मं प्रवर्तयित्वा स अन्तर्धानं गमिष्यति ।
तदा पुनः कृतं प्राप्तं सन्ध्यांशेन युगक्रमैः ॥ ५५॥
एवं युगप्रमाणं च युगधर्मः प्रकीर्तितः ।
मायामयमिदं सर्वं त्वं जानीहि भ्रमात्मकम् ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते कलियुगवर्णनं नाम सप्तदशोऽध्यायः ॥ ३.१७
३.१८ ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
वर्णाश्रमाश्च चत्वारस्ताञ्छृणुष्व महामुने ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णाः प्रकीर्तिताः ॥ १॥
ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थ्यं तथैव च ।
प्रोक्ता वेदेषु संन्यास आश्रमा वेदवादिभिः ॥ २॥
ब्राह्मणानां क्रमेणैते मताश्चत्वार आश्रमाः ।
क्षत्रियाणां च वैश्यानां संन्यासो न प्रविद्यते ॥ ३॥
गार्हस्थ्यमेव शूद्राणामाश्रमः परिकीर्तितः ।
अन्त्यजानां तदेवापि ज्ञातव्यं विबुधैः सदा ॥ ४॥
ब्राह्मणश्च समुत्पन्नो बालभावपरायणः ।
पञ्चमे सप्तमे चैवाऽष्टमे मौञ्जीं समाचरेत् ॥ ५॥
कृतोपवीतको विप्रः प्रगच्छेद्गुरुसन्निधौ ।
तत्र वेदादिकं सर्वमभ्यसेद् विनयान्वितः ॥ ६॥
तत्रैव ब्रह्मचर्यान्तं ब्राह्मणः प्रसमाचरेत् ।
सायं प्रातश्चरेद्भिक्षां गायत्रीमभ्यसेत्ततः ॥ ७॥
प्रातःकाले ब्रह्मरूपां मध्याह्ने रुद्ररूपिणीम् ।
गायत्रीं विष्णुरूपां तां ध्यायेत् सायाह्न आदरात् ॥ ८॥
भूर्भुवःस्वस्त्रिभिश्चैवाचामेन्नियमसंयुतः ।
स्वाहान्ताभिर्महातेजाः स्पृशेन्न्यासेषु चेन्द्रियम् ॥ ९॥
तर्जन्याद्यङ्गुलीभिश्च तिसृभिः संस्पृशेन् मुखम् ।
तर्जन्यङ्गुष्ठयोगेन नासिकां संस्पृशेद् बुधः ॥ १०॥
अङ्गुष्ठानामिकाभ्यां वै तथा चक्षूंषि संस्पृशेत् ।
कनिष्ठया च कर्णौ वै संस्पृशेन्नात्र संशयः ॥ ११॥
अङ्गुष्ठाभ्यां स्पृशेन्नाभिमुरः करतलेन च ।
सर्वाङ्गुलीभिर्भ्रूमध्यमङ्गुष्ठाग्रेण वै शिखाम् ॥ १२॥
सर्वाङ्गुलीभिर्बाहुं स्वं स्पृशेन्न्यासादिकर्मसु ।
एवमाचमनं प्रोक्तं स्वस्वशाखोक्तनामभिः ॥ १३॥
मन्त्रैर्वैदिकसम्भूतैः सन्ध्या कार्या विशेषतः ।
न्यासांश्च कारयेत्तत्र प्रणवस्य महामुने ॥ १४॥
व्याहृतीनां च गायत्र्याः षडङ्गेष्वक्षरोद्भवान् ।
गायत्रीशिरसो न्यासांस्तत आचमनं चरेत् ॥ १५॥
सूर्यश्चेति च मन्त्रेण प्रातःकाले विशेषतः ।
आपः पुनन्तु मध्याह्ने सायाह्नेऽग्निश्च मन्त्रतः ॥ १६॥
ततो मार्जनकं कुर्यान्नवविंशतिसङ्ख्यया ।
(Page खं. ३ अ. १८ पान ३७)
ततोऽर्घ्यदानकं कुर्यादुपस्थानं ततश्चरेत् ॥ १७॥
गायत्र्याः शापमोक्षं वै ततो ध्यानं जपं चरेत् ।
ब्रह्मचारी शतान्येव पञ्चकालेषु वै पृथक् ॥ १८॥
गायत्र्याश्च जपं कुर्याद्वाग्यतो मानसैक्यतः ।
अष्टोत्तरशतं काले गृहस्थो जपमाचरेत् ॥ १९॥
वानप्रस्थश्च काले वै सहस्रं जपमाचरेत् ।
एवं सन्ध्या त्रिकालेषु ब्राह्मणैः क्रियते सदा ॥ २०॥
त्रिपदां चैव गायत्रीं जपेदोङ्कारसंयुताम् ।
तत्र क्रमं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥ २१॥
आदौ प्रणवमुच्चार्य पश्चाद्व्याहृतिरुच्यते ।
भूर्भुवः स्वरिति प्रोक्ता ततः प्रणव उच्यते ॥ २२॥
ततः सा त्रिपदा विप्र गायत्री च ततः पुनः ।
ओङ्कारो विधिना नित्यं जपः सङ्क्रियते द्विजैः ॥ २३॥
संन्यासिभिश्च विप्रेन्द्र चतुष्पादा विशेषतः ।
जप्तव्या सैव गायत्री स्वस्वाश्रमविभागतः ॥ २४॥
ब्रह्मचारी स्वगोत्रादिगृहस्थेषु महामुने ।
भिक्षां चरेद्विधानेन गुरवे तां निवेदयेत् ॥ २५॥
भवत् पूर्वं व्रती विप्रो भवन् मध्यं तु क्षत्रियः ।
भवदन्तं तथा वैश्यः सदा भिक्षार्थमुच्चरेत् ॥ २६॥
गृहीता गुरुणा भिक्षा सम्पूर्णा यदि मानद ।
तदोपवाससंयुक्तो वसेद्वै ब्रह्मचर्यवान् ॥ २७॥
स्वल्पा वा परिपूर्णा वा दत्ता भिक्षा महात्मना ।
गुरुणा तावतीं भुक्त्वा सन्तिष्ठेत्तस्य सन्निधौ ॥ २८॥
पालाशदण्डसंयुक्तः सायं प्रातः स वह्निषु ।
जुहुयात् समिधं चैव नखलोमधरो भवेत् ॥ २९॥
गुरुदेवपरं तस्य दैवतं सर्वभावतः ।
गुरुस्त्रीपुत्रसेवां स गुरुवत्तां समाचरेत् ॥ ३०॥
एकान्ते गुरुपत्नीभिर्न वसेच्च कदाचन ।
न स्त्रीभिः सह सम्भाषां स कुर्यात् कार्यहीनकः ॥ ३१॥
स्त्रीगानादिकभावान् वै शृणुयान्न सुयन्त्रितः ।
न शुक्रं सन्त्यजेतापि ब्रह्मचारी विशेषतः ॥ ३२॥
स्वप्ने शुक्रं गतं चेद्वै तदा स्नानं समाचरेत् ।
अष्टोत्तरशतं तत्र गायत्री जप उच्यते ॥ ३३॥
गुरुणाऽध्यापितश्चैव कुर्यादध्ययनं मुने ।
न स्वयं संवदेत् प्राज्ञो गुरुं विद्यापरायणः ॥ ३४॥
एवं नानाविधैः प्रोक्तैर्लक्षणैः संयुतो भवेत् ।
ब्रह्मचारी महाभागो वेदाध्ययनतत्परः ॥ ३५॥
वर्षाणि द्वादशैवाऽयं षोडशाऽप्यथ वा द्विजः ।
अथ वेच्छाप्रमाणेन ब्रह्मचर्यं समाचरेत् ॥ ३६॥
वेदादिकं समभ्यस्य कृत्वा कण्ठगमादरात् ।
पश्चाद्गुरुं समभ्यर्च्य दद्यात्तस्मै स दक्षिणाम् ॥ ३७॥
मनोविषयसंयुक्तं यदा तत्र गृही भवेत् ।
नोचेत् संन्यासकं कुर्यादथवा वनगो भवेत् ॥ ३८॥
अथवा ब्रह्मचर्यस्थः सदा तिष्ठेद् द्विजोत्तमः ।
यादृशी चित्तशुद्धिर्वै तादृशं सर्वमाचरेत् ॥ ३९॥
कृतमध्ययनं येन तदधीनं महामुने ।
ज्ञानं योगादिकं कर्म तस्मात्तच्च समाचरेत् ॥ ४०॥
ब्रह्मचर्यमिदं प्रोक्तं सङ्क्षेपेण महामुने ।
श्रवणात् पुण्यदं पूर्णं लोकोपकृतये भवेत् ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते ब्रह्मचर्याश्रमवर्णनं नामाष्टादशोऽध्यायः ॥ ३.१८
(Page खं. ३ अ. १९ पान ३८)
३.१९ आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
ततः क्षौरं द्विजः कृत्वा पितृमातृपरायणः ।
स्वगृहे वासमातिष्ठेत् द्विजदेवपरायणः ॥ १॥
ऊनेन वयसा युक्तां कुलशीलादिसंयुताम् ।
सर्वावयवसम्पूर्णां वधूं स वरयेत्ततः ॥ २॥
ऋतुगामी भवेच्चैव सन्तानार्थं कलत्रवान् ।
देवविप्रातिथिप्रेप्सुः सन्तिष्ठेत् स गृहाश्रमी ॥ ३॥
यजनं याजनं चैव दानमध्ययनं तथा ।
प्रतिग्रहोऽध्यापनं च षट् कर्माणि समाचरेत् ॥ ४॥
स्नानं सन्ध्यां जपं होममातिथ्यं देवतार्चनम् ।
स्वाध्यायं वैश्वदेवं वै गृही नित्यं समाचरेत् ॥ ५॥
चतुर्थीव्रतमाद्यं च कर्तव्यं त्वाश्रमस्थितैः ।
तथाऽन्यानि व्रतादीनि कर्तव्यानि विशेषतः ॥ ६॥
चतुर्थी व्रतहीनस्य नाधिकारो व्रतेषु वै ।
सदा शौची भवेन्नूनं चतुःपदविवर्जितः ॥ ७॥
शुक्ले चतुर्थिकायां वै योऽन्नं भुङ्क्ते महामुने ।
मांसाहारी मतो नूनं तथा भवति नारकी ॥ ८॥
अग्निहोत्रं चरेन्नित्यं तथा श्राद्धादिकं मुने ।
सदा दयापरो भूत्वा सन्तिष्ठेद् गृहसंस्थितः ॥ ९॥
अभक्षभक्षणं क्वापि न कुर्यात् स गृहाश्रमी ।
शौचाचारसमायुक्तो भवेन्नियमसंयुतः ॥ १०॥
तर्पणं पितृदेवानां मुनीनां च समाचरेत् ।
पञ्चयज्ञादिकं सर्वं नित्यं शास्त्रे प्रकीर्तितम् ॥ ११॥
स्वस्वसत्ताप्रमाणेन कर्तव्यं गृहमेधिना ।
तत्र धर्ममनुप्रोक्तं तं शृणुष्व महामुने ॥ १२॥
अर्धेन पुत्रदारादींश्चतुर्थांशेन सौहृदम् ।
चतुर्थांशेन देवादीन् तोषयेच्च गृहाश्रमी ॥ १३॥
एवं नानाविधं धर्मं गृहस्थश्च समाचरेत् ।
तृतीयभाग आयुष्ययुक्तः सोऽपि वनी भवेत् ॥ १४॥
संस्थाप्य दारान् पुत्रादिसमीपे वा सह स्त्रिया ।
वनं गच्छेत् स धर्मार्थं तपस्वी कर्मसिद्धये ॥ १५॥
पुत्रा जाताश्च नोत्पन्ना अपि तद् वनगो भवेत् ।
तपस्तत्र प्रकुर्यात् स फलकन्दादि भक्षयन् ॥ १६॥
वन्येन चाग्निहोत्राद्यतिथीनां पूजनादिकम् ।
समाचरेद्वनस्थश्च नानातपसि संस्थितः ॥ १७॥
समीपे संस्थिता पत्नी मैथुनं न समाचरेत् ।
मनसाऽपि महाभाग वानप्रस्थः कदाचन ॥ १८॥
वायुभक्षादिकं कुर्याद्वायुसाधनमेव सः ।
प्राणायामैश्च विप्रेश आचरेद्वनसंस्थितः ॥ १९॥
पञ्चाग्निसाधनं ग्रीष्मे हेमन्ते जलवासनम् ।
वर्षास्वाकाशवासी स वानप्रस्थो भवेत्तथा ॥ २०॥
सङ्कटे च वनस्थः स ग्रामे नैव वसेत् कदा ।
प्रवेशोऽपि न कर्तव्यो ग्रामे तेन महात्मना ॥ २१॥
एवं नानाविधान् धर्मान् वानप्रस्थग आचरेत् ।
चतुर्थांशं यदा तस्यायुष्यं विद्येत भो मुने ॥ २२॥
चतुर्थांशायुषि स्थाता संन्यासं स समाचरेत् ।
तदा स्त्रियाऽपि तस्यैवाशां त्यक्त्वा ज्ञापितो भवेत् ॥ २३॥
आज्ञा तस्मै प्रदातव्या स्त्रिया चैव विशेषतः ।
स्वयं तपसि देहं स्त्री शोषयेन् मरणावधि ॥ २४॥
अग्निहोत्रं स्वदेहेऽसावात्मन्येकस्वभावतः ।
कृत्वा च निःस्पृहो भूत्वा विचरेत् पृथिवीमिमाम् ॥ २५॥
अहं ब्रह्मेति भावेन योगभूमिक्रमेण च ।
(Page खं. ३ अ. १९ पान ३९)
योगी भवति संन्यासी चित्तभूमिविवर्जितः ॥ २६॥
कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै ।
ग्रामैकरात्रवासी स भवेन्न्यासपरायणः ॥ २७॥
द्वन्द्वभावविहीनः स भिक्षां नित्यं समाचरेत् ।
करपात्री भवेद्वाऽपि संन्यासी च सदा मुने ॥ २८॥
करपात्री स संन्यासी ग्रासे ग्रासे महामुने ।
अश्वमेधादिकं पुण्यं प्राप्नोत्यत्र न संशयः ॥ २९॥
चातुर्मास्ये वसेच्चैव तीर्थक्षेत्रादिभूमिषु ।
जितेन्द्रियो जितप्राणो निःसङ्गः सर्वकर्मसु ॥ ३०॥
अहिंसा परमो धर्मः संन्यासानां विशेषतः ।
तृणादिकं च विप्रेश च्छेदयेन्न कदा न च ॥ ३१॥
त्रिदण्डी यस्तु संन्यासी कुटीचक उदाहृतः ।
विधिं तत्र प्रवक्ष्यामि शृणु त्वं मुनिसत्तम ॥ ३२॥
स्वधर्माचरणं नित्यं देहदण्डः स उच्यते ।
मौनं वाचामयं दण्डो द्वितीयश्च प्रकीर्तितः ॥ ३३॥
सर्वत्र रसहीनं च मानसं वर्तते यथा ।
कर्तव्यं तत्तथा तेन मनोदण्डः प्रकीर्तितः ॥ ३४॥
कुटीं देहमयीं योगी चालयेत् बिम्बभावतः ।
ब्रह्मणि ब्रह्मभूतश्च स कुटीचक उच्यते ॥ ३५॥
ततो बहूदको योगी द्विदण्डी स भवेन् मुने ।
देहदण्डविहीनत्वात् स्वेच्छाचारी विशेषतः ॥ ३६॥
एकगर्तस्थमुदकं सर्वैः सङ्गृह्यते यथा ।
गर्ते दोषो नराणां वै विद्यते न कदाचन ॥ ३७॥
तथात्मा देहसंस्थश्च चतुर्देही विकारतः ।
भिन्नः सदा न तद्दोषैर्लिप्यते क्वापि निश्चितम् ॥ ३८॥
सोऽहं ब्रह्मणि संस्थश्च भेदहीनो महामुनिः ।
बहूदकः स निःसङ्गो देहादिभ्यः प्रकीर्तितः ॥ ३९॥
ततो हंसाश्रमः प्रोक्तो मानसे दण्डधारकः ।
देहवाणीदण्डहीनः स्वेच्छाचारी मतो मुने ॥ ४०॥
देहदेहिसमायोगे ब्रह्म बोधात्मकं मतम् ।
तत्र संस्थः स्वयं योगी द्विविधे तन्मयो भवेत् ॥ ४१॥
द्वन्द्वं जलमयं प्रोक्तं देहदेहिस्वरूपकम् ।
तत्र दुग्धं भवेद्ब्रह्म हंसस्तद् ग्राहको भवेत् ॥ ४२॥
ततः परमहंसश्च ज्ञानदण्डपरायणः ।
देहवाणीमनोभूतैर्दण्डैर्हीनः प्रकीर्तितः ॥ ४३॥
देहदेहिमयं ब्रह्म भ्रान्तियुक्तं विशेषतः ।
तच्च प्रोक्तं सविषयं हंसकर्म परायणम् ॥ ४४॥
सदा साक्षिस्वरूपं यत्परं ब्रह्म महामुने ।
तत्र संस्थो महायोगी त्रिविधेषु विभागतः ॥ ४५॥
नाहं देहो न देहस्थो देहदेहिमयो न वै ।
सदा साक्षिस्वरूपस्थो ज्ञानानन्दमयो भवेत् ॥ ४६॥
यद्यज्ञानं भवेत्तस्य तत्तत् सर्वं विकारजम् ।
तत्त्यक्त्वा द्वन्द्वहीनश्च स्वेच्छाचारी भवेत् स्वयम् ॥ ४७॥
चतुर्विधोऽयं संन्यासस्तत्राश्रमसमाश्रितः ।
अहं ब्रह्मेति योगेन ब्रह्मभूतो भवेन्नरः ॥ ४८॥
मनसा रसयुक्तेन विषयादिषु भो मुने ।
संन्यासश्च कृतो येन नारकः स भविष्यति ॥ ४९॥
कपर्दिका यदा तेनैका गृहीता महामुने ।
तदा सहस्रवर्षाणि कुम्भीपाके पतेत् ध्रुवम् ॥ ५०॥
स्त्रीसम्भोगसुखेच्छा चेत्तस्य वै मानसे क्षणम् ।
सम्भवेच्चेत्तदा विप्र गोसहस्रवधी भवेत् ॥ ५१॥
कृते मनः सदाऽऽधीनं नराणां धर्मयोगतः ।
(Page खं. ३ अ. २० पान ४०)
ध्यानं मुख्यं कृतं तत्र तेन सर्वं प्रलभ्यते ॥ ५२॥
त्रेतायां चञ्चलं चित्तं धर्मस्य पादहीनतः ।
तपस्तत्र कृतं मुख्यं तेन सर्वं लभेन्नरः ॥ ५३॥
द्वापरे देहकष्टं यन्न भवेत्तेन तत्र च ।
मुख्यः स्वधर्माचारश्च तेन सर्वं लभेन्नरः ॥ ५४॥
कलावासुरभावेन नष्टो धर्मः क्रमेण वै ।
तत्र स्मरणमात्रेण नाम्नः सर्वं लभेन्नरः ॥ ५५॥
नामस्मरणमार्गे वर्णाश्रमो न च विद्यते ।
संन्यासादिः सदाचारो भवेत्तेनासुरं हतम् ॥ ५६॥
कलावासुरबाहुल्यान्न संन्यासस्य योग्यता ।
चञ्चलं देहचित्तादि तेन नष्टो भविष्यति ॥ ५७॥
वर्णाश्रमविहीनश्च यो वै भवति निश्चितम् ।
तस्य दण्डो न विद्येतादण्डी वेदे स कथ्यते ॥ ५८॥
ज्ञानदण्डपरित्यागात् स्वयं योगी भवेन्नरः ।
निषेधविधिहीनश्च स्वेच्छाधर्मपरो भवेत् ॥ ५९॥
कर्तव्यं यदि तेनाऽपि वेदेषु विधृतं भवेत् ।
तदा विधिसमायुक्तो जन्तुर्भवति निश्चितम् ॥ ६०॥
किञ्चिन्न तेन कर्तव्यं यदा वेदे प्रकीर्तिम् ।
तदा निषेधसंयुक्तो नरो भवति मानद ॥ ६१॥
अतो विधिनिषेधाभ्यां हीनो योगी प्रकीर्तितः ।
तेनाचरित आचारः स एवं तस्य योगदः ॥ ६२॥
अतो योगी महाभाग दण्डहीनः प्रकीर्तितः ।
वर्णाश्रमविहीनः स ब्रह्मभूतः प्रजायते ॥ ६३॥
स विनायकनामा वै नायकैर्वर्जितः स्वयम् ।
योगी तेन समाख्यातः सर्वेषां नायको भवेत् ॥ ६४॥
ब्रह्मणि ब्रह्मभूतश्चेज्जातो योगस्य सेवया ।
यदि वर्णाश्रमे संस्थो भवति स्वेच्छया मुने ॥ ६५॥
लोकसङ्ग्रहणार्थं स नित्यं धर्मं समाचरेत् ।
निःस्पृहो धर्मभोगार्थे मतं तदपि तादृशम् ॥ ६६॥
एतदाश्रममार्गश्च कथितस्ते महामुने ।
मायया रचितं सर्वं जानीहि भ्रमणात्मकम् ॥ ६७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः ॥ ३.१९
३.२० वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
वर्णाश्चत्वार एवं ते स्वस्वधर्मयुता मुने ।
ब्राह्मणः क्षत्रियो वैश्यः शृणु शूद्रः प्रकथ्यते ॥ १॥
व्यभिचारेण तेषां वै वर्णा जाता महामुने ।
नानाविधा विशेषेण जानीह्यत्र न संशयः ॥ २॥
तत्र ब्राह्मणधर्मं ते कथयामि समासतः ।
शृणु मायाविनाशार्थं मायारूपं पुरातनम् ॥ ३॥
चतुर्धा ब्राह्मणानां वै वृत्तिः शास्त्रैः प्रकीर्तिता ।
उञ्छः शिलं तथा शुक्लं मृतं चामृतकं भवेत् ॥ ४॥
अयाचितं च भूमेर्यत् कर्षणं वा वने स्थितिः ।
तेषां मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥ ५॥
गृहीतं कृषिकैर्धान्यं तत्र शिष्टं तदग्रहम् ।
कणादि तस्य योगेन देहपोषणमाचरेत् ॥ ६॥
(Page खं. ३ अ. २० पान ४१)
अथवा वाणिजादीनां गृहेभ्यो मार्जितं भवेत् ।
कणादि तस्य योगेन देहपोषणमाचरेत् ॥ ७॥
एका वृत्तिरियं प्रोक्ता द्वितीयां शृणु साम्प्रतम् ।
भूमेः कर्षणहीनेन वृष्ट्याऽन्नं तत्र जायते ॥ ८॥
तेनैव देहनिर्वाहः कर्तव्यो ब्राह्मणैः सदा ।
शुक्लवृत्याऽऽचरेद्भैक्ष्यं रागलोभविवर्जितः ॥ ९॥
तेन देहस्य निर्वाहं स कुर्यात्तन्मृतं स्मृतम् ।
अयाचितेन वा कार्योऽमृतमेतत् प्रकीर्तितम् ॥ १०॥
कृषीवलैः स भूमेर्यत् कर्षणं वा समाचरेत् ।
तत्र धान्योद्भवे नैव देहपोषणकं चरेत् ॥ ११॥
स्वधर्मः पूर्वभागे ते कथितश्च महामुने ।
सेवादिवृत्तियोगेन तिष्ठेन्न ब्राह्मणः कदा ॥ १२॥
क्षत्रियाणां च शस्त्रादिधारणेन महामुने ।
देहनिर्वाहकः प्रोक्तो न सेवाकारको भवेत् ॥ १३॥
अग्निहोमं च विप्रस्य हस्तेनाऽयं समाचरेत् ।
संन्यासं नैव विप्रेश कुर्यात् क्षत्रियजः कदा ॥ १४॥
वैश्योऽपि क्रयकारी वै विक्रयं च तथाऽऽचरेत् ।
कृषिभिः कर्षणं भूमेर्गवां पालनमादरात् ॥ १५॥
संन्यासधर्महीनश्च सदा तिष्ठेत् स मानद ।
क्षत्रियाणां विशां विप्र यजनं दानमेव च ॥ १६॥
समाख्यातं त्वध्ययनं न प्रोक्तं याजनादिकम् ।
अग्निकर्म तथा देवार्चनं ब्राह्मणहस्ततः ॥ १७॥
कारयेद्वैश्यधर्मज्ञः स्वधर्मपालनाय वै ।
तर्पणं ब्राह्मणास्येन मन्त्रेण तु समाचरेत् ॥ १८॥
एष वैश्यस्य मार्गो वै कथितस्ते द्विजोत्तम ।
शूद्रस्य तु त्रिवर्णानां सदा सेवा प्रकीर्तिता ॥ १९॥
दासवन्नात्र सन्देह आश्रमो गृहिसंज्ञितः ।
दानं दद्याद् द्विजायैव पुराणश्रवणं तथा ॥ २०॥
कुर्याद्वेदाक्षरस्यायं न कुर्याच्छ्रवणं कदा ।
पुराणादिषु देवानामवताराः प्रकीर्तिताः ॥ २१॥
तेषां मूर्तिप्रतिष्ठा वै कृता देवर्षिभिः पुरा ।
तासां स्पर्शादिकं चैव न कर्तव्यं कदाचन ॥ २२॥
नरादिभिश्च सर्वत्र स्वेच्छया स्थापिता भवेत् ।
तस्याः स्पर्शश्च कर्तव्यः शूद्रैर्नित्यं महामुने ॥ २३॥
नाममन्त्रेण पूजा वै कर्तव्या स्मरणं तथा ।
मृत्तिकार्चां समभ्यर्चेन्नाममन्त्रेण वा मुने ॥ २४॥
आवाहनादि प्रारभ्य विसर्गान्तं समाचरेत् ।
पुराणसम्भवैर्मन्त्रैः श्राद्धतर्पणकादिकम् ॥ २५॥
ब्राह्मणानां मुखैश्चैव शुद्रैः कर्तव्यमादरात् ।
न पुराणादिसम्भूताः श्लोकास्ते शूद्रजातिभिः ॥ २६॥
पठितव्या महाभाग श्रवणं सम्मतं सदा ।
अन्त्यजातिभवाः शूद्रास्तैर्नामस्मरणं सदा ॥ २७॥
कर्तव्यं देवमूर्तीनां स्पर्शो नैव कदाचन ।
पुराणसम्भवैर्मन्त्रैर्न कर्तव्यं महामुने ॥ २८॥
कर्म किञ्चिच्च तैः सर्वैः स्वस्वधर्मपरायणैः ।
पितॄणां देवतानां चोद्देशं कृत्वा धनादिकम् ॥ २९॥
धान्यं तैः सम्प्रदातव्यमेष मार्गः पुरातनः ।
स्वस्वधर्मरता एते स्वर्गगामिन एव च ॥ ३०॥
भवन्ति नात्र सन्देहो महाभोगाः सुखे रताः ।
प्राजापत्यं ब्राह्मणानां क्षत्रियाणां तथैन्द्रकम् ॥ ३१॥
वायवं वैश्यजातीनां गान्धर्वं शूद्रजन्मिनाम् ।
स्वस्वकर्मरतानां वै पदं प्रोक्तं मनीषिभिः ॥ ३२॥
(Page खं. ३ अ. २१ पान ४२)
तत्र ते भोगभोक्तारो भवन्त्यत्र न संशयः ।
एवं मायामयं स्वल्पं वर्णधर्मप्रकाशनम् ।
शृणोति यः पठेत्तस्य मायामोहो न विद्यते ॥ ३३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते वर्णधर्मप्रकाशो नाम विंशतितमोऽध्यायः ॥ ३.२०
३.२१ देवपितृकर्मवर्णनं नामैकविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
स्त्रीणां धर्मं प्रवक्ष्यावस्तं शृणुष्व महामते ।
जातमात्रा च सा देवैर्भुज्यते त्रिभिरादरात् ॥ १॥
चन्द्रो गन्धर्वको वह्निर्द्वे द्वे वर्षे महामते ।
कन्यां भुनक्ति धर्मेण षट् वर्षाणि विभागतः ॥ २॥
तन्मध्ये न प्रदातव्या कन्या कस्मै सुहृज्जनैः ।
दत्ता चेद्देवताक्षोभो भवेद्वै धर्मनाशनात् ॥ ३॥
सप्ताष्टनवदिग्वर्षवयोयुक्ता सुहृज्जनैः ।
कन्या नराय दातव्या साधवे कुलजाय वै ॥ ४॥
दशवर्षाधिका कन्या रजोयुक्ता च सम्मता ।
न दत्ता यदि तन्मध्ये महापापप्रवर्धिनी ॥ ५॥
पदे पदे ब्रह्महत्यां लभन्ते जनकादयः ।
अतः कन्या प्रदातव्या विधिना स्वर्गदा भवेत् ॥ ६॥
कन्यादानसमं पुण्यं विद्यते न कदाचन ।
यया वंशः प्रवर्धेत सर्वेभ्यः सुखदायकः ॥ ७॥
रजोदर्शनयुक्ता चेज्जाता स्त्री सा तदा भवेत् ।
वशगा स्वपतेस्तस्या एव तद्दैवतं मतम् ॥ ८॥
दासीवत्तं पतिं सा वै सम्भजेद्भक्तिसंयुता ।
वने पतिर्यदा यातस्तदा तमनुगा भवेत् ॥ ९॥
यदि पुत्रादयो बालास्तदा तेषां प्रसन्निधौ ।
पोषणार्थं भवेच्चैव संस्थिता वनगे पतौ ॥ १०॥
यदि संन्यासधारी चेत् पतिर्भवति भो मुने ।
तदा स्त्रिया प्रदातव्या तस्मा आज्ञा महामुने ॥ ११॥
यदा गृहस्थितो भर्ता मृतश्चेत् सहगा भवेत् ।
वनस्थितस्तदा तद्वत् कर्तव्यं सुस्त्रिया किल ॥ १२॥
मृते भर्तरि पत्नी सा गर्भयुक्ता रजस्वला ।
तदा पत्या न सङ्गच्छेद्विधवाधर्मगा भवेत् ॥ १३॥
चतुर्थे दिवसे शुद्धा भवेत् सा पतिकर्मणि ।
पञ्चमे दिवसे विप्रादिपूजायां शुचिर्भवेत् ॥ १४॥
विधवा स्त्री सदा विप्र एकभुक्तपरायणा ।
व्रतादिना स्वदेहं वै शोषयेन्नित्यमादरात् ॥ १५॥
एवमादिः सतीनां वै धर्मो मुख्यः प्रकीर्तितः ।
श्रवणात् पुण्यदस्तासां भवत्येव महामुने ॥ १६॥
सर्वेषां पितृदेवानां कर्म कर्तव्यमादरात् ।
मनुजैस्तत्र पितॄणां कर्म सङ्क्षेपतः शृणु ॥ १७॥
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ १८॥
पिण्डान्वाहार्यकं श्राद्धं सङ्क्रमेषु प्रशस्यते ।
अपराह्णे द्विजातीनां प्रशस्तेनामिषेण वै ॥ १९॥
(Page खं. ३ अ. २१ पान ४३)
पूर्णिमाद्या अमान्ता यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ताः श्राद्धकर्मणि ॥ २०॥
शस्त्रादिविषयोगैर्ये मृतास्तेषां महामुने ।
चतुर्दश्यां समाख्यातं श्राद्धं नान्यत्र शस्यते ॥ २१॥
कृष्णपक्षेऽष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
चतस्रोऽप्यष्टकाः पुण्याः श्राद्धकर्मणि सर्वदा ॥ २२॥
त्रयोदशी समायुक्ता युगादितिथयः स्मृताः ।
मन्वादितिथयः श्राद्धे प्रशस्ताः पुण्यदा मताः ॥ २३॥
नैमित्तिकमिदं प्रोक्तं व्यतीपाते च वैधृतौ ।
बान्धवानां मृतानां च दशपिण्डादिकं मुने ॥ २४॥
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
अयने विषुवे चैव तीर्थे क्षेत्रे त्वनित्यकम् ॥ २५॥
अक्षय्यं वारतिथिषु स्वस्वजन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं श्राद्धं विशेषतः ॥ २६॥
अथवेह सुखप्राप्त्यै पितृलोकसुखाय च ।
श्राद्धं कामप्रदं प्रोक्तं सर्वदा नित्यवन् मुने ॥ २७॥
गयायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।
मयूरेशपुरे चैव काश्यादिषु विशेषतः ॥ २८॥
गायन्ति पितरो गाथां नर्तयन्ति मनीषिणः ।
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ॥ २९॥
तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ।
गयां प्राप्यानुसर्गेण यदि श्राद्धं समाचरेत् ॥ ३०॥
तारिताः पितरस्तेन स याति परमां गतिम् ।
वाराहे पर्वते चैव गयायां च विशेषतः ॥ ३१॥
मयूरे च तथा काश्यामष्टवैनायकस्थले ।
गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ॥ ३२॥
कुरुक्षेत्रे सेतुबन्धे भृगुतुङ्गे महालये ।
केदारे फल्गुतीर्थे वै नैमिषारण्यकादिषु ॥ ३३॥
इत्यादिबहुरूपेषु यदि श्राद्धं समाचरेत् ।
तदा भुक्तिप्रदं प्रोक्तमपवर्गप्रदं भवेत् ॥ ३४॥
चतुर्थी शुक्लकृष्णैवैकादशी रविवासरः ।
प्रदोषश्च तथा विप्र अष्टमी सर्वसिद्धिदा ॥ ३५॥
नित्यं देवार्चनं प्रोक्तं व्रतादिषु विशेषतः ।
एवं नानाव्रतादीनां कर्तव्यं सेवनं नरैः ॥ ३६॥
अग्निहोत्रादिमार्गैश्च देवानां सेवनं मतम् ।
तीर्थादिदानसम्भावैरिष्टापूर्तादिसम्मतम् ॥ ३७॥
एवं दैवं तथा पित्र्यं विविधं कर्म कथ्यते ।
तदेव ब्रह्मणि प्राज्ञैरर्पितं योगदं भवेत् ॥ ३८॥
इदं मायामयं प्रोक्तं कर्म वर्णाश्रमात्मकम् ।
मायामोहनिवृत्त्यर्थं रचितं विश्वयोनिना ॥ ३९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते देवपितृकर्मवर्णनं नामैकविंशतितमोऽध्यायः ॥ ३.२१
(Page खं. ३ अ. २२ पान ४४)
३.२२ मान्धातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
चतुर्दश मनूनां वै षट्कं यत्ते प्रकीर्तितम् ।
तैस्तपश्च कृतं घोरं गणेशस्य महात्मनः ॥ १॥
नानामन्त्रजपेनैव नानाध्यानपरायणैः ।
निराहारप्रभावेण तोषितस्तैर्गजाननः ॥ २॥
पूर्णवर्षसहस्रेण ययौ विघ्नपतिः प्रभुः ।
उवाच वृणुत प्राज्ञा वरांस्तान् प्रददाम्यहम् ॥ ३॥
ततस्तैः पूजितो देवः स्तुतश्च विविधैः स्तवैः ।
बहुत्वान्नैव शक्यं तद्वर्णनं मुनिसत्तम ॥ ४॥
सर्वेषामीप्सितं दत्त्वा ययौ स्वानन्दके पुरे ।
ते सर्वे स्वस्वकर्मज्ञाश्चक्रुः स्वस्वक्रियां मुने ॥ ५॥
मन्वन्तरेष्वतीतेषु तैः पुनश्च गणेश्वरः ।
आराधितो विशेषेण योगशान्त्यर्थमादरात् ॥ ६॥
क्रमेण ब्रह्मभूतास्ते ययुस्तं गणपं पुनः ।
एकभावेन योगज्ञा योगाकारं महामुने ॥ ७॥
पुत्राश्च बहवस्तेषां वर्णनं नैव शक्यते ।
पौत्रादिक्रमभावेन पालिता तैर्वसुन्धरा ॥ ८॥
वैवस्वतेन्तरे प्राप्तेऽधुना तत्र ब्रवीमि ते ।
शृणु सङ्क्षेपतो विप्र मनुजानां चरित्रकम् ॥ ९॥
मनोस्तु दश पुत्रा वै जाताः पितृसमा मुने ।
सुद्युम्नः प्रथमस्तेषां ज्येष्ठा कन्या बभूव ह ॥ १०॥
इक्ष्वाकुर्नृगशर्यातिदिष्टा धृष्णः करूषकः ।
नरिष्यन्तपृषध्रौ च नभगः परिकीर्तिताः ॥ ११॥
नवैते सूर्यवंशे वै शक्रतुल्यपराक्रमाः ।
ज्येष्ठे चन्द्रस्य वंशो वै स्त्रीभावात् सम्बभूव ह ॥ १२॥
सुद्युम्नः स कदाचिद्वै मृगयार्थं वने ययौ ।
वनेषु सैन्यसंयुक्तो बभ्रामामितविक्रमः ॥ १३॥
दैवयोगेन राजाऽयं ययौ गौरीवनं मुने ।
तत्र प्रवेशमात्रेण स्त्रीरूपः स बभूव ह ॥ १४॥
शिवेन शैलपुत्र्यर्थं शापितं तद्वनं सदा ।
मृकण्डदेहज शृणुष्वोग्रं वै तत्र कारणम् ॥ १५॥
गौरीवने भवान्या स नग्नः शम्भुश्च सा तथा ।
नग्ना रेमे शिवेनैव तया शम्भुश्च मानद ॥ १६॥
एकदा मुनयः श्रेष्ठा वसिष्ठाद्याः समाययुः ।
दर्शनार्थं महेशस्य तत्र ते विविशुः सुखम् ॥ १७॥
तान् दृष्ट्वा लज्जिता देवी शिवश्चैव महामुने ।
ततस्ते विमुखा जग्मुर्मुनयो लज्जिता भृशम् ॥ १८॥
ततः शिवेन शापो वै दत्तस्तत्र वने मुने ।
प्रवेशेऽत्र पुमान् सद्यो भवतु स्त्रीस्वरूपधृक् ॥ १९॥
सुद्युम्नस्तत्र सञ्जातो नारीरूपो विशेषतः ।
शुशुभे यौवनश्रिया स्तनभारभरान्वितः ॥ २०॥
ततस्तत्र बुधो देवश्चन्द्रपुत्रः समाययो ।
तेन दृष्टा सुरूपा सा नारी मोहकरी मुने ॥ २१॥
साऽपि तं चक्रमे तत्र देवरूपं महाप्रभम् ।
तेन भुक्ता ययौ स्थानं स्वकीयं लज्जिताऽभवत् ॥ २२॥
तस्यां पुरुरवा जज्ञे चन्द्रवंशधरः प्रभुः ।
श्राद्धकर्मणि विख्यातो बभूव पितृभक्तितः ॥ २३॥
तदर्थं च वसिष्ठेन गणेशस्य महामनुः ।
दत्तो विनायकायेति नमोन्तः स्त्रीस्वरूपिणे ॥ २४॥
राजपुत्री वनं गत्वा तताप तप उत्तमम् ।
शतवर्षैर्गणाध्यक्षस्तां ययौ भक्तिभावतः ॥ २५॥
तया सम्पूजितो ढुण्ढिः स्तुतस्तस्यै वरं ददौ ।
तया पुरुषभावाय याचितश्च वरः शुभः ॥ २६॥
तथेति तं पुनः सद्यः कृत्वा नरसुरूपिणम् ।
(Page खं. ३ अ. २२ पान ४५)
गणेशः स ययौ स्थानं स्वकीयं भक्तवत्सलः ॥ २७॥
सुद्युम्नस्य ततस्तस्य पुत्रा जातास्त्रयो मुने ।
उत्कलश्च गयश्चैव विनीतश्च महाबलः ॥ २८॥
पुत्रान् स राज्ये संस्थाप्य महातेजा ययौ वनम् ।
गणेशं योगमार्गेण तोषयामास नित्यदा ॥ २९॥
शान्तियोगधरः सोऽपि बभूव वनसंस्थितः ।
अन्ते सायुज्यतां प्राप्तो गणेशस्य महाबलः ॥ ३०॥
सुद्युम्ने स्त्रीत्वमापन्ने इलानामधरे मुने ।
इक्ष्वाकुं राज्यधर्मे तं स्थापयामास वै मनुः ॥ ३१॥
वनं ययौ महाभागो मनुर्वैवस्वतो मुने ।
सूर्यात् प्राप्य महामन्त्रं जजाप च षडक्षरम् ॥ ३२॥
सूर्येण योगमार्गश्च कथितस्तेन विघ्नपम् ।
अभजद्योगशान्त्यर्थं सोऽपि शान्तो बभूव ह ॥ ३३॥
नित्यं गणपतिं स्वर्गेऽभजच्चानन्यचेतसा ।
महायोगी मनुर्देवं न मुमोच कदाचन ॥ ३४॥
इक्ष्वाकुः पुत्रकामार्थं वसिष्ठस्योपदेशतः ।
अष्टाक्षरेण मन्त्रेणाऽतोषयद् गणनायकम् ॥ ३५॥
शतवर्षैः प्रसन्नोऽभूद्ददौ तं वरमुत्तमम् ।
स्तुतः सम्पूजितस्तेन ययौ स्थानं गणेश्वरः ॥ ३६॥
गणेशवरदानेन विकुक्षिस्तस्य चात्मजः ।
बभूव सर्वमान्यः स तेजस्वी दृढविक्रमः ॥ ३७॥
संस्थाप्य स्वाधिकारे वै राज्ये राजा ययौ वनम् ।
पुनस्तेन सुमन्त्रेण तोषयामास विघ्नपम् ॥ ३८॥
क्रमेण शान्तिमापन्न इक्ष्वाकुर्ब्रह्मणो मुने ।
ब्रह्मभूतः स्वभावस्थः स्वानन्दे गणपं ययौ ॥ ३९॥
विकुक्षेरभवन् पुत्रा दश पञ्च महामुने ।
तेषां ज्येष्ठः ककुत्स्थश्च शृणु तस्य विचेष्टितम् ॥ ४०॥
दैत्यैः सन्ताडिता देवाः शरणं तं नृपात्मजम् ।
ययुः सोऽपि महातेजा दैत्यान् योद्धुं समाययौ ॥ ४१॥
तत्रेन्द्रं वृषभं तस्य कृत्वा ककुदि संस्थितः ।
जघान दैत्यपान् सर्वान् विजयी चाऽभवन्नृपः ॥ ४२॥
ककुत्स्थस्तेन देवेन्द्रैर्नाम्ना सङ्कीर्तितो नृपः ।
स गणेश्वरभक्तो वै ययौ विघ्नेश्वरं परम् ॥ ४३॥
ततोऽनेनाः पृथुस्तस्माद्विश्वरन्धिश्च तत्सुतः ।
तस्माच्चन्द्रो महाबाहुस्तस्माच्च युवनाश्वकः ॥ ४४॥
तस्माच्छाबस्तनामाऽभूद् बृहदश्वश्च तत्सुतः ।
ततः कुवलयाश्वश्च पुत्रोऽभूदेव धुन्धुहा ॥ ४५॥
धुन्धुं हत्वा महादैत्यं धुन्धुमारो बभूव ह ।
धुन्धुमारस्य पुत्रा वै त्रयः प्रोक्ता महामुने ॥ ४६॥
दृढाश्वः कपिलाश्वश्च भद्राश्वश्च महाबलः ।
दृढाश्वस्य च हर्यश्वो महाबलपराक्रमः ॥ ४७॥
हर्यश्वस्य निकुम्भोऽभून्निकुम्भाद्बर्हणाश्वकः ।
कृशाश्वश्च रणाश्वश्च द्वौ पुत्रौ तस्य सम्मतौ ॥ ४८॥
कृशाश्वस्य च पुत्रोऽभूद्युवनाश्व इति स्मृतः ।
स युद्धे देवतुल्यो वै बभूव परमद्युतिः ॥ ४९॥
तेन पुत्रार्थमानन्दान् मुनिभिश्च महात्मना ।
वरुणस्य कृतो यज्ञस्तत्र तैर्मन्त्रितं जलम् ॥ ५०॥
रात्रौ राजा पपौ विप्र तृषितो दैवयोगतः ।
ब्राह्मणैश्च तदा पृष्टं केन पीतं जलं महत् ॥ ५१॥
राज्ञा पीतं विदित्वा ते विस्मिता ब्राह्मणास्ततः ।
ऊचुस्तं राजशार्दूलं किं कृतं च त्वया प्रभो ॥ ५२॥
तवोदरे तथा गर्भो भविष्यति न संशयः ।
(Page खं. ३ अ. २३ पान ४६)
एवमुक्त्वा च ते यज्ञं पूर्णं कृत्वा ययुः स्थलम् ॥ ५३॥
उदरे युवनाश्वस्य गर्भः संववृधे मुने ।
सम्पूर्णे तत्र देवेन्द्रो गर्भे तस्य महात्मनः ॥ ५४॥
विदार्य जठरं सद्यः पूर्ववत्तं चकार ह ।
कं धास्यति कुमारोऽयं तत्रेन्द्रस्तानुवाच ह ॥ ५५॥
मां धास्यति ततस्तेन मान्धाता कथितो द्विजैः ।
इन्द्रेण वर्धितः सोऽपि रराज परमद्युतिः ॥ ५६॥
स तु सर्वान् वशे कृत्वा सार्वभौमो बभूव ह ।
अव्याहतगतिर्लोके देवतुल्यो विशेषतः ॥ ५७॥
गुणा वर्णयितुं शक्या मान्धातुर्न महात्मनः ।
स एव गणराजं तमभजन्नित्यमादरात् ॥ ५८॥
वसिष्ठाद्योगमाश्रित्य योगिवन्द्यो बभूव ह ।
पुरुकुत्सः सुतस्तस्य संस्थाप्य स वनं ययौ ॥ ५९॥
गणेशभक्तिं वै तत्र चकारांऽते लयं ययौ ।
स्वानन्दे गणपे विप्र ब्रह्मभूतः स्वभावतः ॥ ६०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते मान्धातुश्चरित्रकथनं नाम द्वाविंशतितमोऽध्यायः ॥ ३.२२
३.२३ अम्बरीषचरितं नाम त्रयोविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुनिरुवाच ।
मनोर्वंशे महाभागोंऽबरीषश्च बभूव यः ।
एकादशीव्रती नित्यं वदतं तस्य चेष्टितम् ॥ १॥
नरनारायणावूचतुः ।
मनोर्वंशेंऽत्यपुत्रोऽभूदम्बरीषः प्रतापवान् ।
नित्यं विष्णुं स्वभावेनाऽभजच्चानन्यमानसः ॥ २॥
एकादशीव्रतेनैव तोषयामास माधवम् ।
ततो बहुगते काले द्वादश्यां तं ययौ मुनिः ॥ ३॥
दुर्वासाः क्रोधशाली चातिथिः पारणकेऽभवत् ।
तं प्रणम्य स राजर्षिरुवाच प्रकृताञ्जलिः ॥ ४॥
भगवन् स्वल्पकालस्था द्वादशी मे च पारणे ।
व्रतसाधनकार्यार्थं प्रार्थयामि महामुने ॥ ५॥
स्वल्पकालेन सन्ध्यादि कृत्वाऽऽगन्तव्यमादरात् ।
तथेति नृपतिं विप्र उक्त्वा तीर्थं जगाम ह ॥ ६॥
तत्र शीघ्रतया तेन कृतं सन्ध्यादिकं मुने ।
तथापि कालयोगेन द्वादशी प्रगता ततः ॥ ७॥
मुहूर्तमात्रकालस्योत्क्रमणं तेन वै कृतम् ।
नृपेण पलमात्रा सा द्वादशी साधिताऽभवत् ॥ ८॥
विष्णुतीर्थं ततस्तेन भक्षितं व्रतसिद्धये ।
पश्चादतिथिराजस्य प्रतीक्षामकरोन्नृपः ॥ ९॥
ततः शीघ्रतया तत्र दुर्वासाः प्रययौ मुने ।
राज्ञा तस्मै स्ववृत्तान्तः कथितो विस्तरेण ह ॥ १०॥
श्रुत्वा स कुपितोऽत्यन्तं दुर्वासास्तं शशाप ह ।
निमन्त्र्य मां त्वया राजन् प्रकृतं पारणं कथम् ॥ ११॥
अतस्त्वं फलहीनो वै भविष्यसि न संशयः ।
एवमुक्त्वा जगामाऽसौ दुर्वासाः स्वेच्छया चरन् ॥ १२॥
ततः सोऽपि नृपोऽत्यन्त दुःखितः संस्थितोऽभवत् ।
उपोषणसमायुक्तः स्वगृहे तं प्रतीक्षयन् ॥ १३॥
अतिथिं त्वागतं त्यक्त्वा कथं कुर्वे हि भोजनम् ।
(Page खं. ३ अ. २३ पान ४७)
निमन्त्र्य तं विशेषेण जपध्यानपरायणः ॥ १४॥
गते संवत्सरे तत्राऽऽजगाम मुनिनारदः ।
प्रपूज्य सर्ववृत्तान्तं कथयामास तं नृपः ॥ १५॥
ततस्तं नारदः प्राह शृणु राजन् महामते ।
जलभक्षणमात्रेण पारणं च त्वया कृतम् ॥ १६॥
तेनोपोषणयुक्तेन त्वया धर्मः प्रपालितः ।
द्वादशी व्रतगा पूर्णा साधिता व्रतसिद्धये ॥ १७॥
अपराधविहीनस्य तवाऽयं विघ्न उत्थितः ।
दुर्वासाः कोपसंयुक्तो जगाम क्षुधितो गृहात् ॥ १८॥
अतस्त्वं विघ्नराजं तं भज यत्नेन मानद ।
तेन विघ्नविहीनश्च भविष्यसि न संशयः ॥ १९॥
विष्णुना प्रेषितोऽहं वै त्वदर्थं नृपसत्तम ।
सर्वेषामादिरूपोऽयमन्ते सोऽपि गणेश्वरः ॥ २०॥
शिवविष्ण्वादयस्तस्य गणाः प्रोक्ता न संशयः ।
तेन संस्थापिताः सर्वे नानाकार्येषु भूमिप ॥ २१॥
चित्तं बुद्धिस्वरूपं यत्तत्र चिन्तामणिः स्थितः ।
तं गच्छ शरणं वत्स पतिं बुद्धेर्विशेषतः ॥ २२॥
त्यक्त्वा सिद्धिपतिं देवं सिद्धिमिच्छति दुर्मतिः ।
तस्यासिद्धिर्भवेन्नित्यं सर्वत्राऽत्र न संशयः ॥ २३॥
एवमुक्त्वा मुनिस्तस्मै ददौ मन्त्रं षडक्षरम् ।
महाविष्णुर्जपति यं ततः सोंऽतर्हितोऽभवत् ॥ २४॥
अम्बरीषस्तदारभ्य विघ्नेशं शरणं गतः ।
जजाप मन्त्रराजं तं पूजयित्वा विनायकम् ॥ २५॥
विष्णोर्गणेशस्य चैवाभेदस्तेन समाश्रितः ।
गणेशस्य चतुर्धा सा मूर्तिः सर्वत्र दृश्यते ॥ २६॥
ततो दुर्वाससो विप्र मनश्चञ्चलतां गतम् ।
दयया स्वयमेवासावम्बरीषं जगाम ह ॥ २७॥
समागतं मुनीन्द्रं तं दृष्ट्वा विस्मितमानसः ।
प्रणम्यादावम्बरीषोऽपूजयद् भक्तिसंयुतः ॥ २८॥
ततस्तं नृपशार्दूलं जगाद मुनिसत्तमः ।
दुर्वासा विनयेनैव युक्तं परमहर्षितः ॥ २९॥
दुर्वासा उवाच ।
क्षमस्वैनं मेऽपराधं साहसं नृपसत्तम ।
अपराधविहीनं त्वामशपं क्रोधसंयुतः ॥ ३०॥
त्वं तु साधुस्वभावेन संस्थितः स्वगृहे नृप ।
उपोषणसमायुक्तस्तेन सर्वं जितं त्वया ॥ ३१॥
मां त्यक्त्वा जलपानेन पारणं यत्त्वया कृतम् ।
सैव निष्फलरूपैकादशी तव भविष्यति ॥ ३२॥
अन्याः फलयुताः सर्वास्ते भवन्तु नृपोत्तम ।
एवमुक्त्वा स तेनैव बुभुजे मुनिसत्तमः ॥ ३३॥
तमनुगृह्य दुर्वासा ययौ स्वस्याश्रमं शुभम् ।
अम्बरीषस्ततो देवं गणेशमभजत् सदा ॥ ३४॥
तस्मात्पुत्राः समुत्पन्नास्तत्र ज्येष्ठं प्रतापवान् ।
राज्ये नृपोत्तमस्तं स स्थापयित्वा वनं ययौ ॥ ३५॥
भक्त्या गणपतिं तत्राऽभजच्चानन्यचेतसा ।
कालेनांऽते गणेशानं ययौ योगेन तत्त्वतः ॥ ३६॥
अम्बरीषस्य पठति चित्रं यच्च शृणोति यः ।
चरित्रं तस्य भक्तिश्च मुक्तिर्भवति शाश्वती ॥ ३७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते अम्बरीषचरितं नाम त्रयोविंशतितमोऽध्यायः ॥ ३.२३
३.२४ मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
पुरुकुत्सस्य दायादावभूतां तु महाबलौ ।
अम्बरीषो महाभागो मुचुकुन्दस्तथाऽपरः ॥ १॥
अम्बरीषः स्वराज्यं वै कृत्वा गणपतिं ययौ ।
तपस्तप्त्वा सुविपुलं पुत्रे राज्यं निधाय च ॥ २॥
चकार मुचुकुन्दः स राजर्षिर्राज्यमुत्तमम् ।
धर्मयुक्तो महातेजाः शक्रतुल्यपराक्रमः ॥ ३॥
कदाचिद्देवदैत्यानां युद्धं जातं महाद्भुतम् ।
तत्र देवा जिताः सर्वे दैत्यैः परमदारुणैः ॥ ४॥
मुचुकुन्दं ततो देवाः शरणं जग्मुरादरात् ।
ततस्तेन महादैत्या हताः शस्त्रबलेन वै ॥ ५॥
तत्र युद्धप्रसङ्गेन कालो विप्र गतो बहुः ।
युगातिक्रमणं तेन प्राप्तं तस्य महात्मनः ॥ ६॥
युगभेदं निरीक्ष्याऽसौ देवान् सर्वानुवाच ह ।
ज्ञानं दातव्यमाद्यं मे भवद्भिरधुना परम् ॥ ७॥
ततस्ते दैवताः सर्वे जगुः परमभाविताः ।
अधुना पर्वतद्रोण्यां निद्रायुक्तो भव प्रभो ॥ ८॥
नृप त्वां यो नरस्तत्र कश्चिदुत्थापयिष्यति ।
स एव मरणं सद्यः प्राप्नोतु त्वत्समीपगः ॥ ९॥
तत्र ते वासुदेवस्य दर्शनं प्रभविष्यति ।
स एव ज्ञानसन्दाता महायोगी नृपोत्तम ॥ १०॥
ययावुवाचैव वनं तान् तथेति महाबलः ।
स गन्धमादनद्रोण्यां सुष्वाप च नृपोत्तमः ॥ ११॥
ततो बहुगते काले वसुदेवसुतोऽभवत् ।
विष्णुः साक्षान् महायोगी तपसाऽऽराधितो मुने ॥ १२॥
कंसं हत्वा महावीरं मथुरायां स्थितोऽभवत् ।
कंसस्य श्वशुरोऽत्यन्तं क्रोधयुक्तो बभूव ह ॥ १३॥
जरासन्धो ययौ तत्र युद्धार्थं सैन्यसंयुतः ।
राजभिः शाल्वकाद्यैश्च संवृतो वीरसत्तमैः ॥ १४॥
त्रयोविंशतिरेतस्याऽक्षौहिण्यश्च बलं बभौ ।
तन्ममर्द महातेजाः कृष्णः सङ्कर्षणान्वितः ॥ १५॥
पलायत ततो राजा गतः स्थानं पुनर्ययौ ।
तावत् सन्यैन संयुक्तो भवदेवं पराजितः ॥ १६॥
एवं महाबलः सप्त दश वारं समागतः ।
जरासन्धस्ततो राजा न यशः प्राप दुःखितः ॥ १७॥
तदा तेनाऽपि विप्रेन्द्र यवनाधिपतिः खलः ।
सहायार्थं धृतः पक्षे स कालयवनाभिधः ॥ १८॥
स वै यवनराजश्च यादवानां विनाशकृत् ।
गर्गशापात् समुद्भूत आययौ मथुरां मुने ॥ १९॥
तमागतं परिज्ञाय मायया निर्ममे स्वयम् ।
द्वारकां जलधौ कृष्णस्तत्र चिक्षेप यादवान् ॥ २०॥
ततो यवनराजस्य समीपे स समागतः ।
दर्शयित्वा तथाऽऽत्मानं वासुदेवः पलायत ॥ २१॥
नारदेन च कृष्णस्य चिह्नानि कथितानि वै ।
यवनेन्द्राय तैः कृष्णं ज्ञात्वा सन्धावितोऽभवत् ॥ २२॥
अभर्त्सयन् महात्मानं कृष्णकालसमः स्वयम् ।
यवनः किं यदोर्वंशे लाञ्छनप्रद धावसि ॥ २३॥
ततः कृष्णो गतस्तत्र यत्र सुष्वाप वै नृपः ।
मुचुकुन्दः स तं त्यक्त्वा गुहान्तरगतोऽभवत् ॥ २४॥
यवनेन्द्रेण सुप्तोऽसौ दृष्टस्तं स्वपदाऽहनत् ।
किं सुप्तोऽसि च निर्लज्ज कुरु युद्धं मया सह ॥ २५॥
बोधितो यवनेनैवं मुचुकुन्दः प्रतापवान् ।
तस्य नेत्रोद्भवो वह्निर्यवनं स ददाह च ॥ २६॥
(Page खं. ३ अ. २५ पान ४९)
एवं तं कालयवनं हतं दृष्ट्वा जनार्दनः ।
आययौ नृपनाथं तं हर्षनिर्भरमानसः ॥ २७॥
तमागतं समादृष्ट्वा मुचुकुन्दो ननाम च ।
उवाच भक्तिसंयुक्तः कृष्णं योगीश्वरं मुने ॥ २८॥
मुचुकुन्द उवाच ।
देवैः सङ्कथितं कृष्ण ममैतदभवत् प्रभो ।
अधुना ज्ञानमार्गं वै कथयस्व कृपानिधे ॥ २९॥
मुचुकुन्दस्य वाक्यं स श्रुत्वा हर्षसमन्वितः ।
जगाद तं महाभागं कृष्णः परमयोगवित् ॥ ३०॥
श्रीकृष्ण उवाच ।
अहं गणेश्वरः पूर्णो न भिन्नश्च महामते ।
एतदेव परं ज्ञानं संज्ञातव्यं त्वया नृप ॥ ३१॥
त्यक्त्वा पञ्चविधं चित्तं तदैश्वर्यं च मोहदम् ।
योगेन ब्रह्मणि प्रोक्तं गणेशस्त्वं भविष्यसि ॥ ३२॥
चित्तरूपा महाबुद्धिर्मोहरूपा च भूमिप ।
सिद्धिर्गणपतेर्माये तत्र बिम्बं स्थितं च यत् ॥ ३३॥
तदेव गणनाथोऽयं पश्य तं योगसेवया ।
चित्ते चिन्तामणिं भूप त्यक्त्वा बिम्बभवं भ्रमम् ॥ ३४॥
गकारात्मकरूपां वै सिद्धिं जानीहि मानद ।
णकाररूपिकां बुद्धिं तयोः स्वामी गणेश्वरः ॥ ३५॥
तं भजस्व महाभाग तेन शान्तिमवाप्स्यसि ।
ज्ञानं गुह्यतमं प्रोक्तं मया ते नृपसत्तम ॥ ३६॥
एवमुक्त्वा महायोगी कृष्णस्तेन प्रपूजितः ।
आगत्य मथुरायां स जघान यवनान् प्रभुः ॥ ३७॥
जरासन्धं समागत्य धावितो रामसंयुतः ।
वञ्चयित्वा ययौ तं स द्वारकायां महामुने ॥ ३८॥
मुचुकुन्दश्च राजर्षिः साधयामास यत्नतः ।
कृष्णेन कथितं योगं तेन शान्तिं जगाम ह ॥ ३९॥
ततो भ्रमन् स राजेन्द्रः पृथिव्यां यत्र तत्र च ।
गणेशमभजत् भक्त्या तं प्राणान्तं महायशाः ॥ ४०॥
मुचुकुन्दस्य यो मर्त्यश्चरितं शृणुयात् परम् ।
पठेत्तस्मै तु सर्वं स प्रदद्याद्गणपः प्रभुः ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते मुचुकुन्दचरितं नाम चतुर्विंशतितमोऽध्यायः ॥ ३.२४
३.२५ सगरभगीरथचरितं नाम पञ्चविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
अम्बरीषस्य पुत्रोऽभूद्यौवनाश्वो परः स्मृतः ।
हरितो यौवनाश्वस्य हारितस्तु सुतोऽभवत् ॥ १॥
पुरुकुत्सस्य पुत्रोऽभूत्त्रसद्दस्युस्ततोऽभवत् ।
अनरण्यस्तस्य पुत्रो हर्यश्वः साधुसम्मतः ॥ २॥
अरुणस्तत्सुतः सूर्यवरात् प्रोक्तः समुद्भवः ।
तस्य पुत्रोऽभवत् सत्यव्रतो विद्वान् महाशयाः ॥ ३॥
स एवाऽभूत्त्रिशङ्क्वाख्यो देहभृत् स्वर्गर्लोकगः ।
तस्य पुत्रो हरिश्चन्द्रः सर्वधर्मपरायणः ॥ ४॥
विश्वामित्राच्च विघ्नेशं ज्ञात्वा गाणेशकोऽभवत् ।
स्वानन्दे गणनाथं सोंऽते जगाम महायशाः ॥ ५॥
रोहितस्तस्य पुत्रोऽभूद्धरितो वै ततोऽभवत् ।
चम्पस्तस्मात् सुदेवोऽतो विजयो भरुकस्ततः ॥ ६॥
ततो वृकस्ततो बाहुः सगरस्तस्य चात्मजः ।
सगरस्याऽपि भार्ये द्वे प्रभा भानुमती तथा ॥ ७॥
ताभ्यामाराधितो योगी भृगुः परमपावनः ।
(Page खं. ३ अ. २५ पान ५०)
पुत्रार्थं स ददौ ताभ्यां वरं पुत्रप्रदं परम् ॥ ८॥
षष्टिसाहस्रपुत्रा वै वृताश्च प्रभया ततः ।
एकं वंशधरं भानुमती वव्रे महामुने ॥ ९॥
भृगोः प्रसादयोगेन भानुमत्यां समुद्भवः ।
असमञ्जसनामा वै पुत्रो वंशधरो मुने ॥ १०॥
स तु योगयुतः सर्वान् शिशून् धृत्वा महायशाः ।
चिक्षेप शरयूमध्ये बालो बालविनाशकृत् ॥ ११॥
वनं ययौ ततः पित्रा स सन्त्यक्तो महामुने ।
जीवयित्वा शिशून् सर्वान् योगी मायाबलेन वै ॥ १२॥
तस्य पुत्रः समुत्पन्नोंऽशुमान् धर्मपरायणः ।
प्रभायां षष्टिसाहस्रं पुत्राणां प्रबभूव ह ॥ १३॥
सगरेण ततो यज्ञा अश्वमेधाः कृता बलात् ।
शतसङ्ख्याः प्रमाणेन तत्रेन्द्रः क्षुभितोऽभवत् ॥ १४॥
अन्त्ये यज्ञे समारब्धे मायया च सुराधिपः ।
अश्वं सङ्गृह्य पाताले स्थापयामास सन्निधौ ॥ १५॥
कपिलस्य ततस्तत्र पुत्राश्च सगरस्य ये ।
कुपितास्ते सहस्राणां षष्टिः परमदुर्जयाः ॥ १६॥
अश्वपादं प्रपश्यद्भिर्भूमिमध्ये विचक्षणैः ।
ततस्तैः खनिता भूमिः सर्वत्र बलसंयुतैः ॥ १७॥
तैऽस्तु संवर्धितो विप्र समुद्रो लवणात्मकः ।
तेन सागरनामाऽभूत्तदारभ्य स्वकर्मणा ॥ १८॥
तमश्वराजं ददृशुश्चरन्तं कपिलान्तिके ।
तं चौरं सागरा ज्ञात्वा हन्तुं शस्त्राणि सन्दधुः ॥ १९॥
कपिलक्रोधवह्नौ ते भस्मीभूता बभूविरे ।
सगरा हर्षितस्तेन स प्रतापी पुरन्दरः ॥ २०॥
नारदात् सगरो ज्ञात्वांऽशुमन्तं पौत्रकं ततः ।
प्रेषयामास तं विप्रं ननाम स महाद्युतिः ॥ २१॥
स्तुतः सम्पूजितस्तेन कपिलः प्रददौ हयम् ।
सङ्गृह्य स ययौ विप्र सगरं स्वपितामहम् ॥ २२॥
ततश्चकार तं यज्ञं सम्पूर्णं त्वश्वमेधकम् ।
ययौ राज्येऽभिषिच्याऽसौ वनं पौत्रं महायशाः ॥ २३॥
गुरोः प्राप्य महामन्त्रं गाणेशं योगशान्तिदम् ।
साधयित्वा स वै योगी बभूव परमद्युतिः ॥ २४॥
अनन्यमनसा देवं गणेशमभजन्नृपः ।
अन्ते स गणपं विप्र ययौ ब्रह्मपरायणः ॥ २५॥
अंशुमान् कपिलाच्चैव ज्ञानं प्राप्य महायशाः ।
गणेशमभजन्नित्यं गाणपत्यस्वभावतः ॥ २६॥
तस्य पुत्रो दिलीपश्च दिलीपात्तु भगीरथः ।
दिलीपोऽन्यस्य राज्ये तं ययौ विघ्नेशमुत्तमम् ॥ २७॥
ततो भगीरथो राजा दिलीपस्थापितः स वै ।
पालयामास सम्पूर्णं राज्यं सद्धर्मभावतः ॥ २८॥
एकदा नारदस्तत्र जगाम नृपतिं मुने ।
पूजितस्तेन होवाच नृपं वचनमुत्तमम् ॥ २९॥
नारद उवाच ।
भगीरथ महाभाग शृणु मे वचनं हितम् ।
तव ब्राह्मणसङ्क्रोधाद्दग्धाश्च प्रपितामहाः ॥ ३०॥
विप्रक्रोधेन दग्धा ये गतिस्तेषां न विद्यते ।
अतस्त्वं च महाराज कुरु तेषां हितं परम् ॥ ३१॥
स्वर्णदीं त्वं समानीय प्लावयस्व च तान् जलैः ।
स्वर्गवासिन एवं ते प्रभविष्यन्ति पूर्वजाः ॥ ३२॥
एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।
(Page खं. ३ अ. २५ पान ५१)
ययौ स्वर्गं ततो विप्र राजा सन्दुःखितोऽभवत् ॥ ३३॥
प्रधानेषु स्वकीयं तद्राज्यं त्यक्त्वा वनं ययौ ।
तपसाऽऽराधयामास स्वर्णदीं च भगीरथः ॥ ३४॥
पूर्णे वर्षशते चैव तं ययौ स्वर्गवाहिनी ।
वरेण च्छन्दयामास राजानं भक्तिसंयुतम् ॥ ३५॥
पूजयामास तां देवीं स्तुत्वा च विविधैः स्तवैः ।
प्रतापवान् जगादाऽसौ भूमिपः स भगीरथः ॥ ३६॥
भगीरथ उवाच ।
यदि तुष्टा महाभागे तदा मे प्रपितामहान् ।
प्लावयस्व महीसंस्था सा तथेति तमब्रवीत् ॥ ३७॥
मदीयमुग्रवेगं सन्धारणार्थं महामते ।
पात्रं पश्य महाभागाऽऽगमिष्यामि महीतलम् ॥ ३८॥
तथेति स महीपालः पूजयामास शङ्करम् ।
वर्षेणैकेन तं शम्भुः प्रसन्नो वरदोऽभवत् ॥ ३९॥
स्वर्णदीं धारयस्व त्वं यदि तुष्टोऽसि शङ्कर ।
तथेति शिव ऊचे तं सस्मार स महानदीम् ॥ ४०॥
आगतां तां तदा प्राह पत देवि महीतले ।
धारयिष्यति ते वेगं शङ्करः करुणानिधिः ॥ ४१॥
स्वर्गङ्गा गर्वयुक्ता च तथेति शिवमस्तके ।
पपात सैव धाराभिः सहस्रेण समन्ततः ॥ ४२॥
शिवमस्तकमाप्लाव्य गमिष्यामि रसातलम् ।
इति सन्धार्य मनसि महावेगयुता ययौ ॥ ४३॥
तस्या गर्वं परिज्ञाय शङ्करेण स्वमायया ।
जटायां गोपिता देवी तत्र बभ्राम वै नदी ॥ ४४॥
नान्तं जगाम शम्भोः सा जटायास्तं नमाम वै ।
ततः शिवेन राजार्थे मोचिता धरणीं ययौ ॥ ४५॥
तत्र जन्हुं महीपालं ददर्श स्वर्गवाहिनी ।
तं तपन्तं तपो घोरं जगाद चल तापस ॥ ४६॥
नोचेत्त्वां प्लावयिष्यामि स जगाद न तां यदा ।
तदा सा क्रोधसंयुक्ता प्लावितुं तं समाययौ ॥ ४७॥
तामागतां समाज्ञाय क्रोधयुक्तो महीपतिः ।
तपोबलेन तां पीत्वा सन्तस्थौ तपसि प्रभुः ॥ ४८॥
ततो भगीरथस्तं प्रणनामाऽथ महायशाः ।
प्रार्थितः स मुमोचाऽपि स्वोरुं भित्वा ततो नदीम् ॥ ४९॥
तस्य पुत्रीत्वमापन्ना जाह्नवी तेन कथ्यते ।
पुनः सा वेगसंयुक्ता प्लावयामास सागरान् ॥ ५०॥
विमानवरमारूढास्ते भगीरथसन्निधौ ।
ते गताः स्वर्गलोके च जलस्पर्शेन तत्क्षणात् ॥ ५१॥
राज्ञा भगीरथेनैवं पूजिता स्वर्गवाहिनी ।
पुत्रीभावेन सङ्क्लृप्ताऽभवत् भागीरथी ततः ॥ ५२॥
एवं भगीरथोऽसौ प्रभावयुक्तः प्रतापवान् ।
भगीरथसुतोऽप्यासीच्छ्रुतो नाम महीपतिः ॥ ५३॥
संस्थाप्य स्वपदे राज्ये स ययौ वनमुत्तमम् ।
वसिष्ठात् स विदित्वा च योगं गाणेशकं मुने ॥ ५४॥
साधयित्वा स वै राजा गाणपत्यो बभूव ह ।
अन्ते जगाम गाणेशसायुज्यं योगसेवया ॥ ५५॥
इदं भगीरथाऽऽख्यानं यः शृणोति नरोत्तमः ।
पठेद्वा तस्य भो विप्र भुक्तिमुक्तिप्रदं भवेत् ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते सगरभगीरथचरितं नाम पञ्चविंशतितमोऽध्यायः ॥ ३.२५
३.२६ रामचन्द्रचरितं नाम षड्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरानरायणावूचतुः ।
श्रुतस्य चैव नाभाख्यः पुत्रस्तस्य बभूव ह ।
सिन्धुद्वीपस्ततो जज्ञे ज्ञानी पुत्रो महायशाः ॥ १॥
अयुतायुः सुतस्तस्य ततो य ऋतुपर्णकः ।
स वै नलसखस्तस्मादश्वविद्यापरायणः ॥ २॥
सर्वकामस्ततो जज्ञे तस्माज्जातः सुदासकः ।
सौदासस्तस्य पुत्रोऽभूत् ख्यातः कल्माषपादकः ॥ ३॥
कल्माषपादक्षेत्रे वै वसिष्ठो मुनिसत्तमः ।
अश्मकं जनयामास चेक्ष्वाकुकुलवर्धकम् ॥ ४॥
अश्मकस्य च पुत्रोऽभून्मूलको नाम पार्थिवः ।
स हि रामभयाद्राजा वनं प्राप्य सुदुःखितः ॥ ५॥
तत्र नारीस्वरूपः सन्नारीभिः परिरक्षितः ।
नारीकवचनामाऽभूत् कर्मणा तेन भो मुने ॥ ६॥
तस्माच्छतरथश्चैलविलो जज्ञे च तत्सुतः ।
ततो विश्वसहस्तस्मात् खट्वाङ्गो ढुण्ढिमाप्तवान् ॥ ७॥
दीर्घबाहुस्ततस्तस्माद्रघुस्तस्मादजोऽभवत् ।
पुत्रो दशरथस्तस्य कश्यपांशः स वै स्मृतः ॥ ८॥
तस्य भार्यात्रयं चासीद्रूपेणाप्रतिमं मुने ।
कौसल्या चैव कैकेयी सुमित्रा धर्मसंयुता ॥ ९॥
यौवने प्रगते प्राप न राजा पुत्रमुत्तमम् ।
नानायत्नं चकाराऽसौ व्रततीर्थादिकं मुने ॥ १०॥
ततो वसिष्ठं विप्रेशं सस्त्रीकः शरणं ययौ ।
प्रधानेषु विनिक्षिप्य राज्यं निहतकण्टकम् ॥ ११॥
वसिष्ठेन गणेशस्य मन्त्रो दत्तो दशाक्षरः ।
तस्मै राज्ञे तथा चैवोवाच पत्नीसमन्वितम् ॥ १२॥
सूर्यस्य कुलदेवत्वं सम्प्राप्तः स गजाननः ।
तस्य वंशे त्वमुत्पन्नः कथं विस्मृतवांश्च तम् ॥ १३॥
तस्य विस्मृतिमात्रेण न सिद्धिं पुरुषो लभेत् ।
परत्रेह च विघ्नेन पीडितोऽतिमहाद्भुतम् ॥ १४॥
अतस्त्वमपि राजेन्द्र गणपं भज भावतः ।
न त्याज्योऽयं मन्त्रराजस्त्यागे हानिर्भविष्यति ॥ १५॥
तथेति तं वसिष्ठं स उक्त्वा नत्वा ययौ वनम् ।
तताप वै दशरथस्तप उग्रं महायशाः ॥ १६॥
वायुमात्राशनो भूत्वाऽपूजयद् गणनायकम् ।
पत्न्या सह विनीतात्माऽजपत्तं मन्त्रमुत्तमम् ॥ १७॥
ततो वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ।
आययौ तं वरान् दातुं मूषकारूढ एव सः ॥ १८॥
तं दृष्ट्वोत्थाय सस्त्रीको ननाम सहसा प्रभुम् ।
पूजयामास तं देवं स्तुत्वा स्तोत्रैर्ननाम च ॥ १९॥
ततस्तं गणराजो वै जगाद स नृपोत्तमम् ।
वरं ब्रूहि महाबाहो दास्ये ते मनसेप्सितम् ॥ २०॥
ततस्तद्वचनं श्रुत्वोवाच संविनयान्वितः ।
प्रसन्नात्मा दशरथो गणेशं सर्वसिद्धिदम् ॥ २१॥
दशरथ उवाच ।
यदि प्रसन्नो देवेश तदा देहि गजानन ।
भक्तिं ते चरणे नाथ ययाऽज्ञानं न विद्यते ॥ २२॥
अन्यद्देहि गणाधीश पुत्रं पृथुलकीर्तिदम् ।
बलेनाप्रतिमं चैव तव भक्तिपरायणम् ॥ २३॥
मया यत्र तपस्तप्तं तत्र त्वं सुस्थिरो भव ।
पूरयन् भक्तिभावेन जनानां मनसीप्सितम् ॥ २४॥
तथेति वै दशरथं जगाद गणनायकः ।
अन्तर्धाय स्वमात्मानं ययौ स्वानन्दमादरात् ॥ २५॥
ततो वसिष्ठहस्तेन स्थापिता मूर्तिरादरात् ।
(Page खं. ३ अ. २६ पान ५३)
गणेशस्य च तत्राऽऽसीत् क्षेत्रं सकलसिद्धिदम् ॥ २६॥
पूजयित्वा दशरथः सस्त्रीकश्च स विप्र तम् ।
आययौ नगरेऽयोध्यायां सर्वान् सम्प्रहर्षयन् ॥ २७॥
ततो रावणनाशार्थं विष्णुमाज्ञापयत् प्रभुः ।
गणेशः स तु पुत्रोऽभून् मुने दशरथस्य भोः ॥ २८॥
चतुर्धात्मानमाभज्य विबभौ हरिरव्ययः ।
कौसल्यायां समुत्पन्नो रामः शस्त्रभृतां वरः ॥ २९॥
कैकेय्यां भरतो जज्ञे सुमित्रायां च लक्ष्मणः ।
शत्रुघ्नश्चैव विप्रेन्द्र सर्वे विष्णुसमा बभुः ॥ ३०॥
ततो दशरथो राजा कामभोगपरायणः ।
सञ्जातस्तं न सस्मार विस्मृत्या गणनायकम् ॥ ३१॥
ततो रामस्य मौञ्ज्यादि कर्म तेन कृतं मुने ।
विश्वामित्रेण यज्ञस्य रक्षार्थं याचितोऽभवत् ॥ ३२॥
स लक्ष्मणेन रामेण यज्ञस्तस्य प्रपालितः ।
हतः सुबाहको नाम राक्षसो दारुणो मुने ॥ ३३॥
प्रसन्नोऽभून् महायोगी विश्वामित्रः प्रतापवान् ।
अस्त्रविद्यां ददौ तस्मै रामाय सकलां मुने ॥ ३४॥
ततो जनकयज्ञं वै जगाम मुनिकौशिकः ।
रामलक्ष्मणसंयुक्तः पूजितो जनकेन सः ॥ ३५॥
माहेश्वरं धनुस्तत्र सज्यं रामेण वै कृतम् ।
आकर्षणेन महता भग्नं मध्ये महामुने ॥ ३६॥
ततो जनकभूपेन दत्ता सीता महात्मने ।
रामाय प्रीतियुक्तेन लक्ष्मणाय तथोर्मिला ॥ ३७॥
भ्रातृकन्ये ततो राज्ञा दत्ते तत्र महामुने ।
भरताय तथा शत्रुघ्नाय भावेन मानद ॥ ३८॥
ततो दशरथो राजा कैकेय्या प्रार्थितो भृशम् ।
रामस्य वनवासार्थं राज्यार्थं भरतस्य च ॥ ३९॥
वरदानप्रभावेन तथेति स चकार ह ।
वर्षाणि वनवासं स चतुर्दश च राघवः ॥ ४०॥
सलक्ष्मणश्च सस्त्रीकश्चकार पितृगौरवात् ।
स तत्र नासिके रामो वासं चक्रे प्रहर्षितः ॥ ४१॥
तत्रातिथिस्वरूपेण रावणश्च समाययौ ।
एकाकिनीं च सीतां सङ्गृह्य लङ्कां ययौ खलः ॥ ४२॥
सलक्ष्मणस्ततो रामो न ददर्श विदेहजाम् ।
पपात मूर्च्छितो भूत्वा विललाप भृशातुरः ॥ ४३॥
ततो जगाम रामश्च सीतामन्वेषयन् वने ।
कर्णाटे तत्र शैवं स क्षत्रं मुख्यं ददर्श ह ॥ ४४॥
तत्र शम्भुं स रामो वै लक्ष्मणेन समन्वितः ।
आराधयन् महाभक्त्या मासं वै शैवरूपधृक् ॥ ४५॥
सन्तुष्टस्तत्र रामाय वरं प्रादात् सदाशिवः ।
सीताप्राप्तिस्वरूपं तमुपदेशं चकार सः ॥ ४६॥
शिव उवाच ।
शृणु राम महाभाग त्वं वै विष्णुः सनातनः ।
भृगोः शापेन जातोऽसि मानुषे देहधारकः ॥ ४७॥
सीतावियोगजं दुःखं वनवासं तथाऽऽश्रितः ।
अतस्त्वं गणराजं वै भज त्वं भक्तिसंयुतः ॥ ४८॥
तेन ज्ञानं च ते राम भविष्यति पुरातनम् ।
सीताप्राप्तिर्महाबाहो भविता नात्र संशयः ॥ ४९॥
शिवस्य वचनं श्रुत्वा तं पप्रच्छ महायशाः ।
रामः परमशोकार्तो विनयेन समन्वितः ॥ ५०॥
राम उवाच ।
वद शम्भो महेशान गणेशस्य स्वरूपकम् ।
कीदृशोऽयं विशेषेण सर्वाधीशश्च कथ्यते ॥ ५१॥
रामस्य वचनं श्रुत्वा शङ्करस्तमुवाच ह ।
योगं गाणेशकं पूर्णं बोधयन् मुनिसत्तम ॥ ५२॥
शिव उवाच ।
शृणु राम गणेशस्य ज्ञानं ते कथयाम्यहम् ।
तेन त्वं सर्वभावज्ञः शान्तिं प्रलभसे प्रभो ॥ ५३॥
पञ्चधा हृदि संस्था या बुद्धिः सैव न संशयः ।
चित्तरूपा महाभागा प्रकृतिस्तस्य भो विभो ॥ ५४॥
नानाभ्रमकरी माया सिद्धिः सर्वत्र दृश्यते ।
भ्रमन्ति सर्वलोका वै सिद्ध्यर्थं मोहितास्तया ॥ ५५॥
सा तस्य प्रकृतिः प्रोक्ता वामभागे प्रसंस्थिता ।
बभूव दक्षिणाङ्गे वै बुद्धिर्मायेति कथ्यते ॥ ५६॥
तयोः स्वामी गणेशः स योगशान्तिमयो मतः ।
तं ज्ञात्वा च वयं राम शान्तिं प्राप्ता भजामहे ॥ ५७॥
बुद्ध्या यद् बुध्यते राम तदेवं तस्य रूपकम् ।
योगादिसाधने नैव लभ्यते तच्च सिद्धिजम् ॥ ५८॥
माये च द्विविधे त्यक्त्वा भजस्व गणनायकम् ।
तेन त्वं योगमार्गज्ञो गणेशश्च भविष्यसि ॥ ५९॥
विघ्नराजः स वेदेषु प्रोक्तो वै वेदवादिभिः ।
तमनादृत्य विघ्नेशं विघ्नहीनः कथं भवेत् ॥ ६०॥
विघ्नाधीनं महाभाग सकलं वेदवर्णितम् ।
अतो विघ्नेन संयुक्तं हीनं प्रभवति प्रभो ॥ ६१॥
विघ्नाः सत्तात्मकाः प्रोक्तास्तेषां स्वामी गणेश्वरः ।
तं भजस्व विधानेन विघ्नहीनो भविष्यसि ॥ ६२॥
हेरम्बं भज भावेन भक्तिमार्गं वदामि ते ।
तेन त्वं लभसे देवं गणेशं नात्र संशयः ॥ ६३॥
स्वकीयसत्तया हीनो भवेद्वै यदि मानवः ।
हीनस्तदा समाख्यातः पराधीनस्वभावतः ॥ ६४॥
दीनानां रक्षका ये वै ईश्वराः परमेश्वराः ।
ते दीनपालकाः प्रोक्ता विचारय महामते ॥ ६५॥
दीनार्थवाचको राम हेर्वेदेषु विनिश्चितम् ।
नाथो रम्बस्तयोर्योगे हेरम्बश्च प्रकथ्यते ॥ ६६॥
दीनाः सत्ताविहीनाश्च सत्तायुक्ताश्च पालकाः ।
तेषां स्वामी स हेरम्बस्तं भजस्व विधानतः ॥ ६७॥
अभिमानं च द्विविधं त्यज त्वं राघव प्रभो ।
दीनात्मकं तथा पूर्णपालनात्मकमुत्तमम् ॥ ६८॥
दीना येन कृता जीवाः पालकाः परमेश्वराः ।
तदधीनं जगद्ब्रह्म मत्वा तं शरणं ब्रज ॥ ६९॥
एवमुक्त्वा महादेवो राघवं च सलक्ष्मणम् ।
अन्तर्धानं जगामाऽपि राघवस्तत्र संस्थितः ॥ ७०॥
विद्याधीशपुरे रामस्तताप तप उत्तमम् ।
शिवोपदिष्टमन्त्रेण तोषयामास विघ्नपम् ॥ ७१॥
हेरम्बं तं सदा रामो लक्ष्मणश्च विशेषतः ।
पुपूज भक्तिसंयुक्तो निराहारसमन्वितः ॥ ७२॥
ध्यानेन तस्य देवस्य स्वल्पकालेन च प्रभुः ।
रामः शान्तियुतो विप्र समभूद् योगसेवया ॥ ७३॥
निश्चयं तस्य रामस्य दृष्ट्वा भक्तं तमाययौ ।
षण्मासैश्च वरं दातुं गणेशः करुणानिधिः ॥ ७४॥
सलक्ष्मणं च रामं स बोधयामास विघ्नपः ।
ततो ध्यानं परित्यज्य गणपं नेमतुः परम् ॥ ७५॥
ततस्तं पूजयामास रामो देववरो मुने ।
तुष्टाव स गणाधीशं भक्तिनम्रात्मकन्धरः ॥ ७६॥
(Page खं. ३ अ. २६ पान ५५)
राम उवाच ।
हेरम्बाय नमस्तुभ्यं दीनकर्त्रे कृपालवे ।
दीनानाथस्वरूपाणां कर्त्रे ते वै नमो नमः ॥ ७७॥
ईश्वराणां च दीनानामभेदाय च ते नमः ।
विघ्नेशाय गणानां वै पतये ते नमो नमः ॥ ७८॥
अनादये च सर्वेषामादिरूपाय ते नमः ।
अन्तमध्यप्रतिष्ठाय लम्बोदर नमो नमः ॥ ७९॥
चिन्तामणे च चित्तानां चालकाय नमो नमः ।
भेदाभेदादिहीनाय तदाकाराय ते नमः ॥ ८०॥
सर्वपूज्याय सर्वादिपूज्याय परमात्मने ।
अनन्ताय परेशाय ढुण्ढिराजाय ते नमः ॥ ८१॥
पूर्णाय पूर्णनाथाय स्वानन्दस्थाय ते नमः ।
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिवराय च ॥ ८२॥
समर्थानां च ते भक्तिहीनानां दैन्यकारिणे ।
दीनानां भक्तियुक्तानां नमः सामर्थ्यकारिणे ॥ ८३॥
दीनत्वं च समर्थत्वं त्वदधीनं न संशयः ।
अतो मां रक्ष योगेश योगेशाय नमो नमः ॥ ८४॥
किं स्तौमि त्वां गणाधीश शान्तियोगस्वरूपिणम् ।
न समर्थाश्च वेदा यं योगीन्द्रास्तत्र कोऽप्यहम् ॥ ८५॥
रामस्य तस्य स्तुवत एवं सम्भक्तिभावितः ।
रोमोद्गमः प्रादुरासीत् कण्ठरोधस्तथैव च ॥ ८६॥
ततो भक्तिरसे मग्नं रामं वीक्ष्य गजाननः ।
जगाद तं वरं ब्रूहि मनसीप्सितमादरात् ॥ ८७॥
त्वया कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् ।
शान्तियोगप्रदं चैव भक्तिलक्षणवर्धनम् ॥ ८८॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
श्रवणेन न सन्देहः प्रियो मे स भविष्यति ॥ ८९॥
हेरम्बस्य वचः श्रुत्वा तमुवाच जनार्दनः ।
रामः परमभावेन भक्त्या च प्रकृताञ्जलिः ॥ ९०॥
राम उवाच ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा त्वदीयपादाब्जे भक्तिर्भवतु शाश्वती ॥ ९१॥
योगशान्तिः स्मृतिर्नित्यं यथा शङ्करभाषितम् ।
तथा योगीन्द्रवन्द्यं मां कुरुष्व गणप प्रभो ॥ ९२॥
रावणेन हृता सीता तद्वधार्थं समुद्यतः ।
अहं तत्र च हेरम्ब जयं देहि विशेषतः ॥ ९३॥
मदीयस्य च नाम्नो वै महिमानं महाद्भुतम् ।
कुरु सर्वत्र मान्यं मां कीर्तियुक्तं गजानन ॥ ९४॥
एवं तस्य वचः श्रुत्वा हेरम्बो राममब्रवीत् ।
यथा सम्प्रार्थितं विष्णो तथाऽस्तु तव नित्यदा ॥ ९५॥
मदीयस्मरणेनैव सर्वं ते सुलभं भवेत् ।
तव नामप्रभावेण तरिष्यन्ति तु जन्तवः ॥ ९६॥
एवमुक्त्वा गणेशानोंऽतर्धानं प्रचकार ह ।
रामो लक्ष्मणसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ ९७॥
ततोऽगस्त्यं समानीय रामो विपेन्द्रसत्तमैः ।
मूर्तिं संस्थापयामास हेरम्बस्य विधानतः ॥ ९८॥
तदादिगणनाथस्तु हेरम्बः संस्थितोऽभवत् ।
विद्याधीशपुरे विप्र भक्तेभ्यः सर्वसिद्धिदः ॥ ९९॥
तं पूजयित्वा रामः स शोकहीनतया मुने ।
जगाम लक्ष्मणेनैव युक्तो रक्षोवधाय च ॥ १००॥
सुग्रीवं मित्रभावेन वानरैः सहितं मुने ।
कृत्वा च वालिनं हत्वा ययौ लङ्कां महाबलः ॥ १०१॥
हनूमदङ्गदाद्यैश्च सुग्रीवाद्यैश्च संवृतः ।
अन्यैर्जाम्बवदाद्यैश्च वानरैर्देवरूपिभिः ॥ १०२॥
(Page खं. ३ अ. २७ पान ५६)
सलक्ष्मणश्च रामोऽयं युयुधे राक्षसैस्ततः ।
हत्वा राक्षससङ्घान् स कुम्भकर्णं जघान च ॥ १०३॥
लक्ष्मणश्चेन्द्रजेतारं मारयामास वेगतः ।
ततोऽतिकोपसंयुक्तो रावणो युयुधे भृशम् ॥ १०४॥
तेन सर्वे कपीन्द्राश्च हताः सम्मूर्च्छिताः कृताः ।
लक्ष्मणो मूर्च्छितस्तत्र भृशं रामश्च पीडितः ॥ १०५॥
शस्त्रास्त्राणि च रामस्य कुण्ठितानि विशेषतः ।
ततोऽतिविह्वलो रामः सस्मार गणनायकम् ॥ १०६॥
स्मृतिमात्रेण रामस्य हृदि चिन्तामणिः स्वयम् ।
ददौ स्फूर्तिं तथा रामो जघान रावणं मुने ॥ १०७॥
स्वयं बुद्धिपतिः साक्षाद्रामार्थं बुद्धिदोऽभवत् ।
बुद्ध्यधीनं विशेषेण जगद्ब्रह्म महामुने ॥ १०८॥
ततो हत्वा महावीरं रावणं रविवंशजः ।
रामश्चकार लङ्कायां राजानं च बिभीषणम् ॥ १०९॥
ययौ सीतां विमानेन सङ्गृह्य नगरे स्वके ।
चकार राज्यमुग्रं वै सदा धर्मेण धर्मवित् ॥ ११०॥
सीतयाऽऽसक्तचित्तः स व्यस्मरत् ज्ञानमुत्तमम् ।
गाणेशं च ततस्तस्य वियोगः सीतयाऽभवत् ॥ १११॥
अश्वमेधादिकं कृत्वा संस्थितो राज्यकर्मणि ।
ततो वसिष्ठयोगेन पुनर्ज्ञानमवाप ह ॥ ११२॥
ततः शान्तिसमायुक्तो गणेशं मनसा सदा ।
पुपूज भक्तिसंयुक्तो बहिर्मूर्तिधरं मुने ॥ ११३॥
अन्ते जगाम रामः स विकुण्ठं विष्णुरव्ययः ।
तत्र तं गणनाथं सोऽभजतानन्यचेतसा ॥ ११४॥
इदं रामचरित्रं यः शृणुते भक्तिसंयुतः ।
पठेद्वा भुक्तिदं तस्य मुक्तिदं प्रभविष्यति ॥ ११५॥
अयं महोदरस्यैवावतारस्ते महामुने ।
हेरम्बाख्यस्तथा प्रोक्तः श्रवणात् सर्वसिद्धिदः ॥ ११६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते रामचन्द्रचरितं नाम षड्विंशतितमोऽध्यायः ॥ ३.२६
३.२७ सूर्यवालखिल्यसंवादसमाप्तिवर्णनं नाम सप्तविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नरनारायणवूचतुः ।
इत्यादि राजमाहात्म्यं वक्तुं नैव प्रशक्यते ।
सर्वं मायामयं विद्धि मार्कण्डेय विशेषतः ॥ १॥
ब्रह्मणा सृष्टमापूर्णं विष्णुना पालितं तथा ।
हरेण संहृतं सर्वं ब्रह्माण्डं मायया कृतम् ॥ २॥
अनन्तानि च सर्वत्र ब्रह्माण्डानि स्थितानि वै ।
महाकारणरूपेण सन्धृता विद्धि मानद ॥ ३॥
मायात्मकानि सर्वाणि ज्ञातव्यानि विशेषतः ।
भ्रमनाशेन योगेन ज्ञायन्ते नात्र संशयः ॥ ४॥
मनोवाणीमयं सर्वं भ्रमरूपं प्रकथ्यते ।
मनोवाणीविहीनं वै तदेवं तादृशं मतम् ॥ ५॥
धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमेव च ।
भ्रमेण मायया विप्र भासते योगिनां हृदि ॥ ६॥
रामस्य चरितं पूर्णं कथितं ते समासतः ।
किं श्रोतुमिच्छसि प्राज्ञ गमिष्यावो निजाश्रमम् ॥ ७॥
भानुरुवाच ।
तयोर्वचनमाकर्ण्य मार्कण्डेयश्च तौ पुनः ।
(Page खं. ३ अ. २७ पान ५७)
जगाद प्रणतो भूत्वा योगार्थं पूर्णभावतः ॥ ८॥
मार्कण्डेय उवाच ।
नरनारायणौ देवौ भवद्भ्यां पावितोऽह्यहम् ।
कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥ ९॥
अतो गणेशयोगं मे वदतं येन चाप्यहम् ।
रामवच्छान्तिमाश्रित्य ब्रह्मभूतो भवामि च ॥ १०॥
नरनारायणावूचतुः ।
गणेशयोगमार्गं ते वदिष्यावः सुयुक्तितः ।
न शक्तिस्तं वर्णयितुं मनसाऽपि मुनीश्वर ॥ ११॥
चित्तं पञ्चविधं विप्र तत्र चिन्तामणिः स्थितः ।
पञ्चवृत्तिनिरोधेन लभ्यते नात्र संशयः ॥ १२॥
भ्रान्तिदा सर्वभावेषु सिद्धिः सर्वत्र संस्थिता ।
भ्रान्तिधारकरूपा वै बुद्धिः सा कथ्यते बुधैः ॥ १३॥
तयोर्बिम्बं च यत् प्रोक्तं तदेव गणनायकः ।
मोहयुक्तः स्वभावेन खेलते मुनिसत्तम ॥ १४॥
बिम्बिभावं परित्यज्य भव त्वं गणनायकः ।
अहं गणेशरूपश्च योगोऽयं शान्तिदायकः ॥ १५॥
चित्तं पञ्चविधं त्यक्त्वा तदैश्वर्यं भ्रमात्मकम् ।
अधुना गणनाथो वै त्वं योगेन भविष्यसि ॥ १६॥
मनोवाणीमयं सर्वं गकाराक्षरवाचकम् ।
मनोवाणी विहीनं च णकारः कथ्यते बुधैः ॥ १७॥
तयोः स्वामी गणेशानो वेदे पश्य महामुने ।
तं भजस्व ततः शान्तिं गच्छसि त्वं न संशयः ॥ १८॥
एवमुक्त्वा वालखिल्या नरनारायणावृषी ।
विरेमतुरथैवं तं जानीत गणनायकम् ॥ १९॥
तौ प्रणम्य पुनः प्राह मार्कण्डेयः प्रतापवान् ।
धन्योऽहं भवतोश्चैव दर्शनेन महामुनी ॥ २०॥
मायां मोहकरीं नाथौ द्रष्टुमिच्छामि शाश्वतीम् ।
दर्शयेतं महामायां भगवन्तौ नमाम्यहम् ॥ २१॥
भानुरुवाच ।
तथेति तं वालखिल्या ऊचतुर्मुनिसत्तमौ ।
पश्यसि त्वं महामायां मार्कण्डेय न संशयः ॥ २२॥
आज्ञां प्रगृह्य तेनैव पूजितौ योगिनां वरौ ।
ययतुः स्वाश्रमं योगाद्गाणपत्यौ महर्षयः ॥ २३॥
ततः कदाचिद्विप्रेन्द्रो मार्कण्डेयः स्व आश्रमे ।
संस्थितो योगिनौ ध्यात्वा मायादर्शनलालसः ॥ २४॥
ततोऽकस्मात् प्रशुश्राव महानादं समुद्भवम् ।
भयभ्रान्तोऽभवत् सोऽपि ततो मेघा जगर्जिरे ॥ २५॥
हस्तिहस्तोपमाभिस्ते धाराभिर्ववृषुस्ततः ।
मेघैस्तत्र जगत् सर्वं मज्जितं पश्यतो मुनेः ॥ २६॥
ततः समुद्रजेनैव जलेन प्लावितं महत् ।
सर्वं चराचरं तत्र बभ्राम मुनिसत्तमः ॥ २७॥
मत्स्यादिभिश्च विप्रेन्द्रः किञ्चित् क्षतयुतः कृतः ।
सस्मार गणनाथं स मार्कण्डेयोऽतिविह्वलः ॥ २८॥
ततो ददर्श तत्रैव वटपत्रस्थितं शिशुम् ।
अङ्गुष्ठपर्वमात्रं स विष्णुं सर्वार्थदं परम् ॥ २९॥
तं प्रणम्य प्रतुष्टाव मार्कण्डेयो महर्षयः ।
अथर्वशिरसा देवं सन्तुष्टं स चकार ह ॥ ३०॥
उवाच तं स विप्रेन्द्रं किमिच्छसि महामुने ।
वद तेऽहं प्रदास्यामि वरदो नात्र संशयः ॥ ३१॥
तं प्रणम्य तथोऽवाच मार्कण्डेयः प्रसन्नधीः ।
मायां दर्शय मे विष्णो तां ज्ञात्वा सन्त्यजाम्यहम् ॥ ३२॥
ततस्तं विष्णुरूपः स बालको भक्तियन्त्रितः ।
जगाद हास्यसंयुक्तो भक्तरक्षणतत्परः ॥ ३३॥
(Page खं. ३ अ. २७ पान ५८)
बालविष्णुरुवाच ।
पश्य मायां महर्षे त्वं ज्ञानदृष्ट्या महामुने ।
ज्ञानचक्षुर्मया दत्तं तुभ्यं भक्तिप्रभावतः ॥ ३४॥
मार्कण्डेयस्ततो विप्रा ज्ञानचक्षुःसमन्वितः ।
मायामपश्यदानन्दान्नानाभावप्रकाशिनीम् ॥ ३५॥
व्याप्यव्यापकरूपेण द्विजाः सर्वत्र संस्थिताः ।
नानागुणविभेदेन मोहयन्ति नरान् सदा ॥ ३६॥
कुत्र ब्रह्माण्डनाशश्च कुत्र ब्रह्माण्डपालनम् ।
कुत्रोत्पत्तिश्च विप्रेन्द्रा दृश्यते तेन योगिना ॥ ३७॥
कुत्र शून्यमयं कुत्र पूर्णरूपं तथा पुनः ।
ध्यानसंस्थं परं ब्रह्म ददर्श मुनिसत्तमः ॥ ३८॥
कुत्र योगार्थमत्यन्तं नराः परमभाविकाः ।
लिप्यन्ते कुत्र भोगार्थं मोक्षार्थं कुत्रचिद् द्विजाः ॥ ३९॥
पुनः पुनश्च सृज्यन्ते म्रियन्ते च पुनः पुनः ।
ईश्वरानेश्वराः कुत्र प्रभवन्तीश्वरा नराः ॥ ४०॥
अमृतं विषरूपं च विषं चामृतदायकम् ।
ददर्श तत्र विप्रर्षिः सूर्यं शीतत्वमास्थितम् ॥ ४१॥
स्थले जलं जले चैव स्थलं नानाविकारजम् ।
मुक्तं नरं तथा बद्धं ददर्श मुनिसत्तमः ॥ ४२॥
न प्रलेभे गतिं तत्रेश्वरो भ्रान्त्या ह्यनीश्वरः ।
जगच्च जगदात्मा वै ततोऽसौ विस्मितोऽभवत् ॥ ४३॥
एवं नानाविधं भावं ददर्श मुनिसत्तमः ।
न शक्यते मया वक्तुं वर्षकोटिशतैरपि ॥ ४४॥
ततस्तं परितुष्टाव बालविष्णुं महामुनिः ।
नानास्तोत्रैः सुतुष्टं स प्रार्थयामास भावतः ॥ ४५॥
निवर्तय हरे मायां कुरु मां पूर्ववद्यथा ।
इति प्रार्थयमानं स चक्रे स्वे चाश्रमे स्थितम् ॥ ४६॥
ततस्तत्र द्विजेन्द्रेण न दृष्टमिव तद्बभौ ।
यथा स्वप्नगतं जन्तुर्न ददर्श समुत्थितः ॥ ४७॥
न जलं नैव सामुद्रं भयं दुःखं न केशवः ।
बालरूपधरश्चैव न माया तेन विस्मितः ॥ ४८॥
वालखिल्यास्ततो विप्रस्त्यक्त्वा मायां भ्रमात्मिकाम् ।
गणेशभजने सक्तोऽजपद्वै मन्त्रमुत्तमम् ॥ ४९॥
नरनारायणाभ्यां यः कथितो योग उत्तमः ।
हेरम्बमन्त्रभावेन साधयामास तं पुनः ॥ ५०॥
रामेण साधितः पूर्वं तथा तेनाऽपि साधितः ।
योगः शान्तिप्रदः पूर्णो गाणपत्यस्वभावतः ॥ ५१॥
योगशान्तिपरो भूत्वाऽभजत्तं गणनायकम् ।
अनन्यचेतसा सोऽपि मार्कण्डेयः सुयोगवित् ॥ ५२॥
अन्ते गणेशदेहे स सायुज्यं प्राप भक्तितः ।
एवं नानाविधा विप्रा गाणेशाः सम्भवन्ति वै ॥ ५३॥
एतन् मृकण्डपुत्रस्य चरितं यः शृणोति वा ।
पठेत्तु तस्य वै मायाबन्धो न प्रभविष्यति ॥ ५४॥
महोदरो भवेद्देवो हेरम्बाख्यः प्रकीर्तितः ।
विद्याधीशपुरे भक्तिसिद्धिदस्तत्र तिष्ठति ॥ ५५॥
अतोऽहं गणनाथं तं प्रभजे वालखिल्यकाः ।
योगभावेन संसाध्यं कृत्वा भक्तिसमन्वितः ॥ ५६॥
मुद्गल उवाच ।
एवं भानोर्वचः श्रुत्वा प्रणेमुर्वालखिल्यकाः ।
रविं सर्वत्र चात्मानं तुष्टुवुर्विविधैः स्तवैः ॥ ५७॥
ऊचुः प्राञ्जलयस्ते तं भानुं सर्वप्रियं पुनः ।
कृतकृत्याः कृता भानो वयं देव न संशयः ॥ ५८॥
(Page खं. ३ अ. २८ पान ५९)
किं प्रदद्मो महात्मंस्त्वां देहोऽयं ते समर्पितः ।
तेन तुष्टो भव स्वामिन् गुरुरस्माकमादरात् ॥ ५९॥
ततः सर्वे पुपूजुस्तं वालखिल्यास्तपोधनाः ।
प्रणम्य प्रययुस्ते वै तपसे वनमुत्तमम् ॥ ६०॥
साधयित्वा यथायोगं श्रुतमत्र प्रजापते ।
योगिनः सर्ववन्द्यास्ते सम्बभूवुर्विशेषतः ॥ ६१॥
हेरम्बं भजमानाश्च नित्यं ध्यानपरायणाः ।
अनन्यबुद्धयः सर्वे योगशान्तिं प्रलेभिरे ॥ ६२॥
हेरम्बाख्यावतारश्च महोदरकलात्मकः ।
कथितस्ते प्रजापाल नानाख्यानसमन्वितः ॥ ६३॥
एतादृशाऽवताराश्च बहवस्तस्य मानद ।
महोदरस्य तेषां यच्चरित्रं परमाद्भुतम् ॥ ६४॥
नैव शक्यं कथयितुं तत् केनाऽपि न संशयः ।
अतः सङ्क्षेपतः प्रोक्तं मया दक्ष प्रजापते ॥ ६५॥
सूर्यस्य वालखिल्यानां संवादः परमाद्भुतः ।
ब्रह्मभूयप्रदः प्रोक्तो धर्मकामार्थमोक्षदः ॥ ६६॥
प्रभवेत् स विशेषेण सर्वसम्पत्प्रदायकः ।
मोहनाशकरः पूर्णः श्रोतुमिच्छसि किं पुनः ॥ ६७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते सूर्यवालखिल्यसंवादसमाप्तिवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥ ३.२७
३.२८ बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
सूत त्वया महाख्यानं कथितं सर्वसिद्धिदम् ।
श्रुत्वा तृप्तिं न यामीहाऽमृतं पीत्वा यथा नरः ॥ १॥
पुनस्त्वं वद मे ब्रह्मन् भवेद्दक्षेण संश्रुतम् ।
मुद्गलान् मुनिमुख्याच्च सर्वेषां सम्मतं परम् ॥ २॥
सूत उवाच ।
सूर्यस्य वालखिल्यानां संवादं ब्रह्मदायकम् ।
श्रुत्वा पप्रच्छ तं दक्षो मुद्गलं विनयान्वितः ॥ ३॥
दक्ष उवाच ।
श्रुतं हेरम्बमाहात्म्यं ब्रह्मभूतपदप्रदम् ।
पुनस्त्वं वद विप्रर्षे महोदरचरित्रकम् ॥ ४॥
श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते योगिसत्तम ।
कथां ब्रह्ममयीं पूर्णां सुधारससमां पराम् ॥ ५॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा हृष्टरोमा महायशाः ।
जगाद तं प्रजापालं यत्तच्छृणु हि शौनक ॥ ६॥
मुद्गल उवाच ।
युधिष्ठिरेण देवेशो मानप्रद महोदरः ।
आराधितो विशेषेण योगी सोऽभूच्च पाण्डवः ॥ ७॥
दक्ष उवाच ।
युधिष्ठिरस्य विप्रर्षे चरित्रं वद साम्प्रतम् ।
प्रारभ्य चन्द्रवंशाच्च तदन्तं पुण्यदं भवेत् ॥ ८॥
मुद्गल उवाच ।
अत्रिनेत्रात् समुत्पन्नश्चन्द्रोऽमृतमयः पुरा ।
तेनातितपसा देवः सेवितो गणनायकः ॥ ९॥
गणेशवरदानेन ताराणामधिपोऽभवत् ।
ओषधीनां च विप्राणां योगयुक्तः प्रतापवान् ॥ १०॥
ततः स राजा मोहेन मोहितोऽतितरां विभो ।
गणेशभजनं त्यक्त्वा भोगयुक्तो बभूव ह ॥ ११॥
ततो विघ्नेन वै चन्द्रः पीडितो मोहसंयुतः ।
मोहेन गर्हितं कर्म यच्चकार शृणुष्व तत् ॥ १२॥
(Page खं. ३ अ. २८ पान ६०)
बृहस्पतेश्च या नारी तारा यौवनशालिनी ।
रूपेणाप्रतिमा तां स जगृहे तीर्थसंश्रिताम् ॥ १३॥
मा मेति ब्रुवतीं तारां हाहाकारं प्रकुर्वतीम् ।
गुरुपत्नीं महामूर्खश्चुचुम्ब हठसंयुतः ॥ १४॥
वनेषु पर्वतद्रोण्यां नानाभावेषु सोऽत्रिजः ।
रेमे तया प्रजापाल कामबाणप्रपीडितः ॥ १५॥
ततो बहौ गते काले गर्भस्तस्यां व्यवर्धत ।
न मुमोच तदाऽप्येतां मोहयुक्तश्च चन्द्रमाः ॥ १६॥
बृहस्पतिश्च तं ज्ञात्वा वृत्तान्तं क्षुभितो भृशम् ।
नानायत्नेन चन्द्रं स ययाचे न ददौ शठः ॥ १७॥
ततश्च गुरुणा दक्ष शिवस्तेन प्रसादितः ।
शम्भुरङ्गिरसः शिष्यः स वै क्रोधयुतोऽभवत् ॥ १८॥
देवैरिन्द्रादिभिः सर्वैः शङ्करः क्रोधसंयुतः ।
हन्तुं चन्द्रं ययौ तत्र क्रोधारुणविलोचनः ॥ १९॥
भयभीतः शशी तत्र शुक्रं स शरणं ययौ ।
तेनाप्याङ्गिरस्यैव वैरी सम्पादितोऽभवत् ॥ २०॥
शुक्रेणाकारिता दैत्याः प्रह्लादप्रमुखा ययुः ।
सङ्ग्रामाय शिवेनैव ससुरेण महाबलाः ॥ २१॥
ततस्तेषामभूद्युद्धं तुमुलं रोमहर्षणम् ।
दैत्यानां चैव देवानां परस्परविनाशनम् ॥ २२॥
मासमात्रं महोग्रं तन्न शान्तिमलभन् कदा ।
दिवारात्रं देवगणा दैत्यानां च गणा विभो ॥ २३॥
ततो बृहस्पतिर्दुःखात् सस्मार गणनायकम् ।
निन्दयामास चात्मानं तथा चन्द्रं प्रजापते ॥ २४॥
अहो भ्रातृविरोधेन मम ज्ञानं गतं महत् ।
गतो गणेशस्तेनाऽहं विघ्नयुक्तोऽधुनाऽभवम् ॥ २५॥
मदर्थं देवदैत्यानामधुना नाश आगतः ।
किं भविष्यति देवेश गजानन नमोऽस्तु ते ॥ २६॥
निर्विघ्नं कुरु मां ढुण्ढेऽधुना देव दयानिधे ।
देवानां चैव दैत्यानां मूलच्छेदो भविष्यति ॥ २७॥
तथा चन्द्रः स तं देवं सस्मार हृदि भावतः ।
ततो विघ्नहरश्चैव तयोर्दक्ष बभूव ह ॥ २८॥
तत्राऽऽजगाम देवेशो ब्रह्मा सर्वपितामहः ।
देवानां दानवानां वै ज्ञात्वा नाशं दयान्वितः ॥ २९॥
शङ्कराद्यांश्च देवान् स प्रह्लादाद्यांश्च दानवान् ।
वारयामास सर्वज्ञो विधाता सर्वभावनः ॥ ३०॥
ब्रह्मणो वचनं श्रुत्वा संस्थिता देवदानवाः ।
प्रणम्य तं विधातारं बद्धाञ्जलिपुटाः पुरः ॥ ३१॥
चन्द्रं ततस्तिरस्कृत्य ददौ तारां पितामहः ।
गुरवे तत्र संवादः पुत्रार्थं च तयोरभूत् ॥ ३२॥
ताराया उदरे गर्भो वा चन्द्रस्य बृहस्पतेः ।
न ज्ञायते देवगणैस्ततस्तां विधिरब्रवीत् ॥ ३३॥
त्यज गर्भं महाभागे कस्यांऽशोऽयं वद स्नुषे ।
तथा तया च सन्त्यक्तो गर्भः सम्पतितोऽभवत् ॥ ३४॥
महातेजोमयं पुत्रं वीक्ष्य देवा विसिस्मिरे ।
लज्जयाऽधोमुखी तारा कथयामास नैव तम् ॥ ३५॥
ततो गर्भः स्वयं तत्रोवाच ब्रह्माणमादरात् ।
चन्द्रस्याऽहं न सन्देहस्तं ताराऽपि तथाऽब्रवीत् ॥ ३६॥
तस्य नाम कृतं देवैर्बुधस्तेन सुकर्मणा ।
चन्द्राय तं ददौ धाता सर्वे स्वस्वालयं ययुः ॥ ३७॥
एवं पुरा तारकार्थे सङ्ग्रामस्तारकामयः ।
बभूव परमुग्रश्च दैत्यदेवविनाशकृत् ॥ ३८॥
(Page खं. ३ अ. २९ पान ६१)
बुधस्य चरितं पूर्णं कथितं ते प्रजापते ।
पुरूरवास्तस्य पुत्रो बभूवाऽपि महायशाः ॥ ३९॥
इलायां गर्भसन्दानात्तस्य जन्म मया पुरा ।
कथितं सोऽपि राजर्षिः पितृतृप्तिकरोऽभवत् ॥ ४०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते बुधोत्पत्तिवर्णनं नामाष्टाविंशतितमोऽध्यायः ॥ ३.२८
३.२९ पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
पुरूरवाश्चकाराऽसौ राज्यं भूमण्डलस्य च ।
धर्मयुक्तः सुनीत्या तान् पालयामास मानवान् ॥ १॥
मुनिशापसमायुक्तोर्वशी नृपतिमाययौ ।
कुरुक्षेत्रे चरन्तं स चकमे तां महीपतिः ॥ २॥
सोवाच पुत्रतुल्यौ मे उरणौ रक्षसि प्रभो ।
रतिं विना स्वदेहं त्वं नग्नं मा दर्शयस्व माम् ॥ ३॥
तदा तव गृहे राजन् वसामि घृतभोजना ।
तथेति स तु भूपस्तां सङ्गृह्य गृहमाययौ ॥ ४॥
तस्यां पुत्रा बभूवुश्च षडिन्द्रसमतेजसः ।
आयुर्मायुरमायुश्च विश्वायुश्च तथा प्रभो ॥ ५॥
शतायुः स्थायुरेते च नामभिः परिकीर्तिताः ।
चन्द्रवंशकराः सर्वे बभूवुर्जयशालिनः ॥ ६॥
तत इन्द्रेण गन्धर्वाः प्रेषिता राजवेश्मनि ।
उर्वशीनयनार्थं वै विश्वावसुपुरोगमाः ॥ ७॥
तैर्मायाप्रकृती तत्र रात्रौ तस्याः समाहृतौ ।
उरणौ च तथा ताभ्यां शब्दैः प्ररुदितं भृशम् ॥ ८॥
तयो रुदनमाकर्ण्य राजानं रभसाज्जगौ ।
उर्वशी वीर्यहीनं त्वां न जानामि नरेश्वरम् ॥ ९॥
मम पुत्रौ हृतौ केन चौरेण किमु पश्यसि ।
तस्या वचनमाकर्ण्य क्रोधरूपो बभूव सः ॥ १०॥
नग्नः खड्गधरः सद्यो निर्ययौ भाविगौरवात् ।
विद्युत्पातस्तथा तत्र समभूद्देवनिर्मितः ॥ ११॥
तेजसा विद्युतस्तत्र राजा नग्नो बभौ गृहे ।
तथा तमुर्वशी दृष्ट्वांऽतर्धानं सा चकार वै ॥ १२॥
मेषौ प्रगृह्य गन्धर्वा गताः स्वर्गं विहायसा ।
उर्वशीसहिताः शक्रं प्रणेमुर्हर्षसंयुताः ॥ १३॥
राजा स्वगृहमध्ये तां न ददर्श यशस्विनीम् ।
तदा पपात भूपृष्ठे हाहाकृत्वा मुमूर्च्छ सः ॥ १४॥
तथाविधो महाराजो विललाप पुरूरवाः ।
बभ्राम वसुधां सर्वामुर्वशीदर्शनोत्सुकः ॥ १५॥
ततो बहौ गते काले वर्षमात्रे दयायुताम् ।
कुरुक्षेत्रे पुनस्तां स दृष्टवान् हर्षितोऽभवत् ॥ १६॥
मां त्यक्त्वा क्व गताऽसि त्वं प्रिये ते भक्तिसंयुतम् ।
अधुना मां गृहाण त्वं त्यज मा चाप्सरोवरे ॥ १७॥
ततस्तेन समायुक्ता रात्रिमेकामुवास सा ।
उवाच तं तु राजानं शोकयुक्तं वचो हितम् ॥ १८॥
अहं देवाप्सरो रम्या गन्धर्वाऽधीनतां गता ।
अतस्तं पितृयज्ञेन यज त्वं नित्यमादरात् ॥ १९॥
ततः स्वर्गे च ते वासो भविष्यति महामते ।
(Page खं. ३ अ. २९ पान ६२)
त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥ २०॥
ततः शोकाकुलो राजा रुरोदातीव दारुणम् ।
सा तथा विह्वलं दृष्ट्वोवाच देवाङ्गना च तम् ॥ २१॥
वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् ।
त्वया सार्द्धं महाभाग ततः सांऽतर्हिताऽभवत् ॥ २२॥
राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते ।
तेन पितृगणास्तुष्टा वरं राज्ञे ददौ परम् ॥ २३॥
उर्वशी त्वदधीना सा भविष्यति महामते ।
तव नामाङ्किता देवाः श्राद्धेऽस्माकं भवन्तु च ॥ २४॥
अक्षयः पितृलोकस्ते भविष्यति न संशयः ।
एवमुक्त्वांऽतर्दधुस्ते पितरो भक्तवत्सलाः ॥ २५॥
ततः स्वल्पेन कालेन भूमिपो निधनं गतः ।
स्वर्गं पुण्यबलेनैव जगाम स पुरूरवाः ॥ २६॥
तत्रोर्वशी समायुक्तो बुभुजे विषयप्रियः ।
भोगान् स्वर्गोद्भवान् नित्यं तामवाप्य पुरूरवाः ॥ २७॥
ततो बहौ गते काले पितृलोके गतेन सः ।
नारदेन महीपालो बोधितो दयया विधे ॥ २८॥
नारद उवाच ।
किं राजंस्त्वं महाभाग विषयेषु विशेषतः ।
सक्तः पश्य स्वमात्मानं पतिष्यसि न संशयः ॥ २९॥
देहोऽयं बन्धनागारं तत्र त्वं निगडेन च ।
बद्धस्तस्माच्च योगेन बन्धहीनो भव प्रभो ॥ ३०॥
पुनः पुनश्च भोगाः किं भोक्तव्यास्तादृशास्त्वया ।
न तृप्तिमधिगच्छन्ति जना अज्ञानसंयुताः ॥ ३१॥
ब्रह्मामृतं पिब त्वं च सदा स्वानन्ददायकम् ।
तत्त्यक्त्वाऽल्पसुखे सक्तः पतिष्यसि पुनर्ह्यधिः ॥ ३२॥
चतुरशीति लक्षासु नरो भ्रमति योनिषु ।
तत्र स्त्रीपुत्रकाद्यं स लभते नाऽत्र संशयः ॥ ३३॥
मनुष्ययोनिगो भूत्वा नरः सर्वार्थवान् भवेत् ।
तत्र ज्ञानं विशेषेण भवत्यत्र न संशयः ॥ ३४॥
कर्मार्हो नरदेहोऽयं तत्र योगो न साधितः ।
पतिष्यति पुनः सोऽपि नानायोनिषु मानद ॥ ३५॥
द्वन्द्वभावमयं दुःखं यत्र तत्र च विन्दति ।
न शाश्वतस्वरूपं स ब्रह्म भुङ्क्ते नरः कदा ॥ ३६॥
त्वमपि ज्ञानयुक्तः सन् किं करोषि महामते ।
तारयस्व स्वमात्मानं योगेन नरसत्तम ॥ ३७॥
नारदस्य वचः श्रुत्वा तं जगाद नराधिपः ।
सत्यमुक्तं त्वया योगिन् मया तच्चैव सन्धृतम् ॥ ३८॥
अहं विषयदोषेण पीडितोऽतितरां प्रभो ।
निर्वेदं मे मनः प्राप्तं ज्ञानं ब्रूहि महामुने ॥ ३९॥
नारद उवाच ।
गणेशं भज भावेन ततः क्षेमं भविष्यति ।
एकाक्षरविधानेन सर्वेभ्यश्च परात्परम् ॥ ४०॥
हृदि बुद्धिप्रदातारं बहिः सिद्धिप्रदं परम् ।
योगाकारं च सर्वत्र संस्थितं ब्रह्मनायकम् ॥ ४१॥
चित्तं त्यक्त्वा महाराज भव चिन्तामणिः स्वयम् ।
एवमुक्त्वा च तस्मै स ददावेकाक्षरं मनुम् ॥ ४२॥
ततस्तेनाभ्यनुज्ञातो नारदः प्रजगाम ह ।
सोऽपि तामुर्वशीं त्यक्त्वा ध्यानसंस्थो बभूव ह ॥ ४३॥
कालेन स्वल्पभावेन गाणपत्यो बभूव ह ।
ततः स निन्दयामास स्वात्मानं भृशदुःखितः ॥ ४४॥
(Page खं. ३ अ. ३० पान ६३)
अहो मयाऽतिमूर्खेण कृतं कर्म विशेषतः ।
भोगदं मोहितेनैव स्त्रीकामेन न संशयः ॥ ४५॥
अस्थिमांसमयो देहस्तत्र दुर्गन्धसंयुतः ।
छिद्रं मूत्रगृहं नीचं तत्र सक्तो भवाम्यहम् ॥ ४६॥
सर्वार्थदं मनुष्याणां देहं प्राप्य मया सदा ।
नरकाधिप्रदं कर्म कृतं वै नात्र संशयः ॥ ४७॥
नरदेहमवाप्यैव मद्विना को भवेच्छठः ।
स्त्रीसंसक्तो विशेषेण त्यक्त्वा गणपतिं नरः ॥ ४८॥
एवं खेदसमायुक्तो बभूव नृपसत्तमः ।
अभजत्तं स्वभावेन गणेशं सर्वसिद्धिदम् ॥ ४९॥
अन्ते जगाम योगेन गणेशं स पुरूरवाः ।
महिमा कथितस्तस्य पापनाशकरो यतः ॥ ५०॥
पुरूरवस आख्यानं यः शृणोति नरोत्तमः ।
पापक्षयकरं तस्य भवतीदं प्रजापते ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते पुरूरवसश्चरितकथनं नामैकोनत्रिंशोऽध्यायः ॥ ३.२९
३.३० नहुषचरितं नाम त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
आयुषस्तनया दक्ष पञ्चाऽऽसन् दृढविक्रमाः ।
स्वर्भानुतनयायां वै प्रभायां तेजसा युताः ॥ १॥
नहुषः प्रथमस्तेषां शक्रतुल्यपराक्रमः ।
चकार शतयज्ञांश्च राज्ञः सर्वान् विजित्य यः ॥ २॥
तत्रेन्द्रः क्षुभितोऽत्यन्तं निराकर्तुं शशाक न ।
राजानं सर्वशास्त्रज्ञं ततः शान्तो बभूव ह ॥ ३॥
गौतमेन महेन्द्रोऽथ शापितस्त्रीप्रधर्षणात् ।
भ्रष्टराज्योऽभवद्देवस्ततो देवा भयातुराः ॥ ४॥
दैत्यानां वेगमुग्रं ते सहने न क्षमास्ततः ।
बृहस्पतिं समागम्य पप्रच्छुः क्षेमकारकम् ॥ ५॥
तेनाज्ञप्तास्ततो देवा मुनयश्च प्रजापते ।
नहुषं स्वर्गराजं तं चक्रुस्तेजस्विनां वरम् ॥ ६॥
देवेन्द्रो नहुषो भूत्वा शशास स्वर्गमण्डलम् ।
इन्द्रासने समासीनः पालयामास तान् सुरान् ॥ ७॥
तस्मै वरं ददौ देवा मुनयस्ते प्रजापते ।
क्रोधेन यस्त्वया दृश्यः सत्ताहीनो भवेत् सदा ॥ ८॥
ततोऽतितेजसा युक्तो बभूव स नराधिपः ।
देवादिभिः सदा दक्ष सेवितो नहुषः किल ॥ ९॥
ततोऽतिगर्वितो राजाऽभवत् स्त्रीसङ्गलालसः ।
शचीं देवैश्च निर्लज्ज आह्वयामास दुर्मतिः ॥ १०॥
देवानुवाच सा देवी नाहं यामि नराधिपम् ।
इन्द्रस्य देवमुख्यस्य पत्न्यहं पुरुषं परम् ॥ ११॥
एवमुक्त्वा ततो देवान् ययौ गेहं बृहस्पतेः ।
ननाम तं महाभागा स्नुषां रक्षेति साऽब्रवीत् ॥ १२॥
तस्या वृत्तान्तमुग्रं स श्रुत्वा देवगुरुः स्वयम् ।
निकटे तां समास्थाप्य इन्द्रार्थं ह्युद्यतोऽभवत् ॥ १३॥
गौतमं सहसाऽऽगत्य तमुवाच महामुनिम् ।
शापहीनं महेन्द्रं त्वं कुरुष्व वचनाच्च मे ॥ १४॥
(Page खं. २ अ. ३० पान ६४)
तमुवाच महायोगी गौतमः किं करोम्यहम् ।
उपायं वद मे तात तं करिष्ये जवादहम् ॥ १५॥
गौतमाय ततस्तेन कथितं सुखदं परम् ।
विनायकस्य मन्त्रं त्वं देहीन्द्राय महामुने ॥ १६॥
गौतमेन तदा दत्तः स्वमन्त्रो गणपस्य च ।
इन्द्राय स ततस्तेनाऽभवच्छक्रश्च नीरुजः ॥ १७॥
जजाप मन्त्रराजं तं शक्रो गणपतेस्ततः ।
ध्यात्वा तं देवदेवेशं तताप तप उत्तमम् ॥ १८॥
विदर्भे निर्जने देवो वने वाय्वशनः स्वयम् ।
नासाग्रन्यस्तदृष्टिः स पूजयामास विघ्नपम् ॥ १९॥
गते वर्षसहस्रे वै तं ययौ भक्तवत्सलः ।
गणेशानो वरं दातुं तपसा तोषितो भृशम् ॥ २०॥
सिंहारूढो महाबाहुश्चतुर्भुजविराजितः ।
सिद्धिबुद्धियुतश्चैव नाभिशेषधरः प्रभुः ॥ २१॥
इन्द्रं स बोधयामास वरं ब्रूहि हृदीप्सितम् ।
मघवंस्ते प्रसन्नोऽहं दास्यामि तपसाऽधुना ॥ २२॥
ततस्तं प्रणनामाऽथ इन्द्रो भक्तिसमन्वितः ।
तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥ २३॥
इन्द्र उवाच ।
नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्यः सिद्धिदायक ।
विनायकाय देवाय हेरम्बाय नमो नमः ॥ २४॥
अनादये च सर्वेषामादिभूताय ते नमः ।
आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः ॥ २५॥
आदिमध्यान्तहीनाय ह्यादिमध्यमयाय च ।
अन्त्यरूपाय देवेश विघ्नहर्त्रे नमो नमः ॥ २६॥
पाशाङ्कुशधरायैव सिंहवाहाय ते नमः ।
अमेयाय नमस्तुभ्यं नानामायाधराय च ॥ २७॥
विघ्नकर्त्रे ह्यभक्तानां सदा स्वानन्दवासिने ।
सिद्धिबुद्धिपते तुभ्यं नाभिशेषाय ते नमः ॥ २८॥
ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे ।
धर्मार्थकाममोक्षाणां दात्रे ते वै नमो नमः ॥ २९॥
पूर्णाय पूर्णभावज्ञ पूर्णानन्दप्रदाय वै ।
कर्त्रे हर्त्रे च पात्रे ते गणेशाय नमो नमः ॥ ३०॥
सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने ।
स्थूलसूक्ष्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ ३१॥
किं स्तौमि त्वां सदा शान्तिरूपं तस्मान्नमो नमः ।
तेन तुष्टो भव स्वामिन् दयाकाराय ते नमः ॥ ३२॥
मुद्गल उवाच ।
एवं स्तुतिं समाकर्ण्य मघवन्तमुवाच ह ।
गणेशो भक्तिभावेन सन्तुष्टो भक्तमुत्तमम् ॥ ३३॥
गणेश उवाच ।
इन्द्र त्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
यः पठेच्छृणुयाच्चेद्यस्तस्मै सर्वार्थदं तथा ॥ ३४॥
नित्यं त्वमपि देवेन्द्र पठ स्तोत्रं प्रयत्नतः ।
तेन विघ्नविहीनस्तु भविष्यसि महामते ॥ ३५॥
वरान् ब्रूहि महाभाग ये ते चित्ते भवन्ति वै ।
तान् दास्यामि न सन्देहो भक्त्या स्तोत्रेण तोषितः ॥ ३६॥
ततस्तं मघवा देवं प्रणम्याभिदधे वचः ।
निर्विघ्नं कुरु मां देव स्वपदस्थं तथा प्रभो ॥ ३७॥
भक्तिं त्वदीयपादे मे देहि नाथ नमोऽस्तु ते ।
इदं क्षेत्रं सुविख्यातं गाणपत्यं तथा कुरु ॥ ३८॥
तीर्थं च सर्वदं स्वामिन् कुरु ते पादलाञ्छितम् ।
स्वानन्ददायकं स्नानमात्रेणात्र न संशयः ॥ ३९॥
पुरे कदम्बनाम्न्येव गाणेशं चिन्तितार्थदम् ।
(Page खं. ३ अ. ३० पान ६५)
लोके भवतु विख्यातं प्रसादात्ते च विघ्नप ॥ ४०॥
तथेति तमुवाचाऽथ गणेशोंऽतर्दधे ततः ।
इन्द्रेण गणनाथस्य मूर्तिः संस्थापिता द्विजैः ॥ ४१॥
तं पूजयित्वा देवेन्द्रः संस्थितस्तत्र मानद ।
नित्यं ध्यानपरो भूत्वाऽभजत्तं गणनायकम् ॥ ४२॥
अधुना शृणु भो दक्ष नहुषस्य प्रचेष्टितम् ।
गणेशेन तदा राजा विघ्नयुक्तः कृतः खलः ॥ ४३॥
बृहस्पतिमुवाचाऽथ मृत इन्द्रो न संशयः ।
न दृश्यते जनैः कुत्र शचीं मे देहि भो गुरो ॥ ४४॥
ततस्तं वाक्पतिर्देवोऽवदत् क्रोधसमन्वितः ।
द्विजवाहनगो भूत्वा शचीं याहि नराधिप ॥ ४५॥
नानावाहेषु सा देवी देवेन्द्रेण प्रलालिता ।
अपूर्वं वाहनं चैवेच्छति तस्मात्तथा करु ॥ ४६॥
तथेति मदयुक्तः स चकार नहुषस्ततः ।
विमानवाहान् सङ्गृह्य दुरात्मा ब्राह्मणान् बलात् ॥ ४७॥
ततो दुःखं द्विजानां स ज्ञात्वाऽत्रेयः समाययौ ।
दुर्वासास्तं प्रगृह्यैव वाहकं स चकार ह ॥ ४८॥
ततोऽतिवेगभावार्थं सर्पध्वं ब्राह्मणान्नृपः ।
उवाच शिबिकायां स संस्थितो मोहसंयुतः ॥ ४९॥
दुर्वासाः कुपितोऽत्यन्तं ददौ शापं सुदारुणम् ।
सर्पो भव महादुष्ट पत भूमौ नृपाधम ॥ ५०॥
ततस्तं प्रणनामाऽथ गतगर्वो महीपतिः ।
उच्छापं वद मे ब्रह्मन् दयया त्वं दयानिधे ॥ ५१॥
धिङ् मां ब्राह्मणभावेषु विपरीतं प्रवर्तिनम् ।
मोहेन मोहितं पूर्णं तारयस्व महामुने ॥ ५२॥
ततस्तापसमायुक्तं नहुषं मुनिसत्तमः ।
दुर्वासाः प्रत्युवाचेदं वचनं दयया युतः ॥ ५३॥
दुर्वासा उवाच ।
तव वंशे महाराज धर्मः साक्षाद्भविष्यति ।
युधिष्ठिरस्तदा तस्य दर्शनं ते भविष्यति ॥ ५४॥
तेन सङ्कथितं ज्ञानं ज्ञात्वा शापविवर्जितः ।
भविष्यसि न सन्देहोऽधुना गच्छ महीतलम् ॥ ५५॥
द्विजाः पूज्याः सदा राजन्नृपैर्नान्ये कदाचन ।
त्वयाऽवमानिता विप्रा वाहकास्ते कृता बलात् ॥ ५६॥
तेनाऽतिधर्मलोपो वै जातस्ते नात्र संशयः ।
पुनर्धर्मं निरीक्ष्य त्वं धर्मयुक्तो भविष्यसि ॥ ५७॥
एवमुक्त्वा स दुर्वासा गतः स्वेच्छापरायणः ।
नहुषः सर्परूपोऽभूत् पपात धरणीतले ॥ ५८॥
तत इन्द्रं समानीय सामरश्च बृहस्पतिः ।
इन्द्रासने समास्थाप्य मुदितः स बभूव ह ॥ ५९॥
नहुषो वनमध्ये स चचार गणपं स्मरन् ।
अहो विघ्नयुतं सर्वं जगत् स्थावरजङ्गमम् ॥ ६०॥
अहं विघ्नेन संयुक्तः कृतो विघ्नेशरूपिणा ।
अतस्तं शरणं यामि तेन सर्वं शुभं भवेत् ॥ ६१॥
ततः क्रमेण तेनाऽपि जितं चित्तं प्रजापते ।
सर्पदेहगतेनैव गाणपत्यस्वभावतः ॥ ६२॥
ततो बहौ गते काले वनमायाद् युधिष्ठिरः ।
द्रौपद्याः भ्रातृभिः सार्द्धं द्यूतदोषेण निश्चितम् ॥ ६३॥
ततो भीमो वने तत्र चचार फलकाम्यया ।
नहुषेण समादृष्टो बद्धो ज्ञात्वा स पाण्डवः ॥ ६४॥
स्वदेहेनावृतं भीमं कृत्वा नागस्वरूपधृक् ।
पातयामास भूमौ तं बलेन बलवान्नृपः ॥ ६५॥
भीमेन तत्र नादश्च कृतो मेघसमो महान् ।
(Page खं. ३ अ. ३० पान ६६)
तं श्रुत्वा धर्मराजः स ययौ भीमं महाबलम् ॥ ६६॥
सर्पेण वेष्टितं भीमं दृष्ट्वा दुःखसमन्वितम् ।
युधिष्ठिरं स तं तत्रोवाच नागो महाबलः ॥ ६७॥
नाग उवाच ।
अहं नहुषनामा ते नृपः पुत्र न संशयः ।
दर्शनार्थं मया चाऽयं भीमः सञ्जगृहेऽधुना ॥ ६८॥
अहं पृच्छामि राजंस्त्वां तद्वदस्व यथातथम् ।
तदा भीमं प्रमोक्ष्यामि सर्वज्ञस्त्वं मतो यतः ॥ ६९॥
नहुषस्य वचः श्रुत्वा हर्षितः स युधिष्ठिरः ।
तमुवाच महाभागं स्ववंशवरभूषणम् ॥ ७०॥
युधिष्ठिर उवाच ।
वद नाग महाभाग मान्योऽसि त्वं महामते ।
संशयं छेदयिष्यामि प्रसादात्तव मानद ॥ ७१॥
नहुष उवाच ।
किं सत्यं किं तथा राजन्ननृतं धर्ममुत्तमम् ।
पापं बन्धं च मोक्षं किं योगं ध्यानं वदस्व च ॥ ७२॥
किं कर्म किमकर्म त्वं किं विकर्म स्मृतं भवेत् ।
किं ज्ञानं किं तपोमूलं दैवतं किं वदस्व मे ॥ ७३॥
किं सारं किमसारं च किं मान्यं च तथा नृप ।
अवमान्यं च सर्वेशं किं वदस्व युधिष्ठिर ॥ ७४॥
एतान् वै वद मे वत्स तदा भीमं महामते ।
मोचयिष्यामि वेगेन गमिष्यामि यथेच्छया ॥ ७५॥
युधिष्ठिर उवाच ।
सत्यं ब्रह्म च विज्ञेयं जगद्वै ह्यनृतात्मकम् ।
धर्मः स्वधर्मरूपश्च जानीया राजसत्तम ॥ ७६॥
स्वधर्महीनं रूपं यत् पापं सर्वैः प्रकीर्तितम् ।
अहं ममात्मको बन्धो मोक्षस्ताभ्यां विवर्जितः ॥ ७७॥
योगश्चित्तस्य रोधो वै ध्यानं निर्विषयं मनः ।
कर्म सत्कर्मरूपं वै ज्ञातव्यं विबुधैः सदा ॥ ७८॥
ब्रह्मार्पणात्मकं सर्वमकर्म कथितं किल ।
विकर्म पापाचरणं सर्वशास्त्रैः प्रकाशितम् ॥ ७९॥
ज्ञानं ब्रह्माहमित्युक्तं तपो द्वन्द्वसमात्मकम् ।
दैवतं सर्वपूज्यं वै गाणेशं विद्धि मानद ॥ ८०॥
देवस्य भजनं सारं नवधा सततं नृप ।
असारं विषयाणां वै भजनं नवधा स्मृतम् ॥ ८१॥
मान्यं सङ्कथितं वेदैः पुराणैः स्मृतिभिर्भवेत् ।
वेदाधारविहीनं यदवमान्यं मनीषिभिः ॥ ८२॥
सर्वेशं हृदि संस्थं वै विद्धि बुद्धिप्रचालकम् ।
सर्वं ते कथितं स्वामिन् मोचयस्वाऽनिलात्मजम् ॥ ८३॥
एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् ।
दिव्यभोगसमायुक्तं तद्ददर्श युधिष्ठिरः ॥ ८४॥
मुमोच नहुषो भीमं तं तदा बन्धनात् प्रभो ।
देहं त्यक्त्वा विमानस्थो ययौ स्वर्गं नराधिपः ॥ ८५॥
तत्रेन्द्रस्य समीपे सोऽभवदर्धासनस्थितः ।
गणेशमभजन्नित्यं स नृपोऽनन्यचेतसा ॥ ८६॥
स्वर्गान्ते स गतो भूपः शुक्लगत्या गजाननम् ।
विघ्नहीनः स्वभावेन पुण्यश्लोको बभूव ह ॥ ८७॥
नहुषस्य चरित्रं ते कथितं पापनाशनम् ।
शृणुयाद्वा पठेद्वाऽपि तस्मै कामप्रदं भवत् ॥ ८८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते नहुषचरितं नाम त्रिंशत्तमोऽध्यायः ॥ ३.३०
(Page खं. ३ अ. ३१ पान ६७)
३.३१ ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
नहुषस्याभवन् पुत्राः पञ्च देवसमा धिया ।
यभ्यातिश्च ययातिश्च तथा संयातिरायतिः ॥ १॥
पञ्चमश्चाश्वको नाम ययातिर्भूमिपोऽभवत् ।
माहात्म्यं तस्य मुख्यं ते कथयामि प्रजापते ॥ २॥
देवयानीमुशनसः स तां भार्यामवाप ह ।
वृषपर्वसुतां चैव शर्मिष्ठां राजसत्तमः ॥ ३॥
यदुं च तुर्वसं चैव देवयानी व्यजीजनत् ।
द्रुह्यं तद्वदनुं पूरुं शर्मिष्ठां वार्षपर्वणी ॥ ४॥
सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठान् पुत्रान् महामतिः ।
पूरुं कनिष्ठमेवं च पितुर्वाक्यपरायणम् ॥ ५॥
दक्ष उवाच ।
किमर्थं तेन भूपेन विपरीतं कृतं प्रभो ।
तत् सर्वं वद योगीन्द्र सादरेण शृणोम्यहम् ॥ ६॥
मुद्गल उवाच ।
वृषपर्वा प्रजानाथ दैत्यानामधिपः स्मृतः ।
तस्य पुत्री महाभागा शर्मिष्ठा मानिताऽभवत् ॥ ७॥
तत्र शुक्रस्य पुत्री या देवयानी प्रकीर्तिता ।
साऽपि पित्रा स्ववात्सल्यात् स्थापिता लालिता भृशम् ॥ ८॥
सखीभिरेकदा बाला संवृता राजकन्यका ।
शर्मिष्ठा वाटिकायां सा हर्षयुक्ता जगाम ह ॥ ९॥
देवयानी तथा तत्र क्रीडार्थं सा समागता ।
तत्र नानाविधां क्रीडां चक्रिरे कन्यकाः प्रभो ॥ १०॥
ततस्ताः श्रमसंयुक्ता जग्मुः स्नानार्थमादरात् ।
तीरे क्षिप्त्वा स्ववस्त्राणि चिक्रीडुर्जलमध्यगाः ॥ ११॥
ततः सखीभिर्युक्ता सा शर्मिष्ठा निःसृता पुरः ।
सम्भ्रमेण तया वस्त्रं देवयान्या धृतं किल ॥ १२॥
निःसृता देवयानी वै दृष्ट्वा कर्म जुगुप्सितम् ।
राजपुत्रीमुवाचाऽथ भर्त्सयन्ती प्रजापते ॥ १३॥
ब्राह्मणस्य महादुष्टे पुत्र्यहं किं धृतानि वै ।
वस्त्राणि मे यथा पाकस्पर्शने च शुनी खले ॥ १४॥
द्वारपा लोमतः शास्त्रे ब्राह्मणानां विशेषतः ।
राजन्यस्तस्य पुत्री त्वं न योग्याऽसि कदाचन ॥ १५॥
एवं नानाविधैर्वाक्यैर्देवयानी च तां प्रभो ।
भर्त्सयामास सोवाच कुपिता तां पुनर्वचः ॥ १६॥
शर्मिष्ठोवाच ।
किमात्मानं च दुष्टे त्वं कथ्यसे मम सन्निधौ ।
राजप्रसादसंसर्गाद्ब्राह्मणा मानिता बभुः ॥ १७॥
अस्मदीयप्रसादेन वस्त्रान्नादिकमादरात् ।
भुक्त्वा मां स्पर्शसे दुष्टे बलिभुग्वायसी यथा ॥ १८॥
एवं नानाविधैर्वाक्यैस्तां निर्भर्त्स्य प्रजापते ।
सखीभिर्देवयानीं सा कूपे चिक्षेप चासुरी ॥ १९॥
ततः सा स्वगृहे क्रुद्धा प्रययौ दुःखिता भृशम् ।
देवयानी तथा कूपे संस्थिता जलवर्जिते ॥ २०॥
दैवयोगेन तत्राऽसौ ययातिः स जगाम ह ।
एकाकी मृगयासक्तः कूपस्थां तां ददर्श ह ॥ २१॥
ततोऽतिकरुणायुक्तो हस्तं दत्वा स्वदक्षिणम् ।
देवयानीं दधाराऽसौ तया हस्तो धृतस्तथा ॥ २२॥
बहिर्निष्कास्य राजा सोऽभवद्गन्तुं समुद्यतः ।
ततस्तं देवयानी सोवाच हर्षसमन्विता ॥ २३॥
देवयान्युवाच ।
पाणेस्त्वया मे ग्रहणं कृतं सौम्य महामते ।
कोऽसि त्वं वद मां सर्वं वृत्तान्तं ते यथायथम् ॥ २४॥
तामुवाच महीपालः शृणु त्वं वरवर्णिनि ।
ययातिं विद्धि मां देवि नाहुषं क्षत्रवंशजम् ॥ २५॥
मृगयाऽऽसक्तभावेन प्राप्तं ते दर्शनं महत् ।
गच्छ त्वं स्वगृहे बाले गमिष्यामि स्वमालयम् ॥ २६॥
तमुवाच प्रजानाथं देवयानी प्रहर्षिता ।
काव्यपुत्रीं च मां विद्धि भव त्वं मे पतिः प्रभो ॥ २७॥
हस्तस्य ग्रहणं ते वै विशेषेण कृतं मया ।
त्वदृते न वृणोम्यन्यमतस्त्वं मे पतिर्भव ॥ २८॥
तस्यास्तद्वचनं श्रुत्वा ययातिस्तामुवाच ह ।
काव्यकन्यां कथं देवि वृणोमि क्षत्रवंशजः ॥ २९॥
ततः सोवाच तं देवयानी शृणु वचो महत् ।
ब्राह्मणो मे न भर्ता च भविता कचशापतः ॥ ३०॥
अतस्वं भयहीनः सन् वृणु मां राजसत्तम ।
काव्यं सम्बोधयित्वाऽहं पत्नी ते प्रभवामि च ॥ ३१॥
तथेति नृपवर्योऽसौ तां जगाद तथा ययौ ।
नगरं स महाभागः सा च तत्र स्थिताऽभवत् ॥ ३२॥
तत्राऽऽगतं नरं कञ्चित्तमुवाच वद प्रभुम् ।
काव्यमत्र स्थिता पुत्री देवयानी महामते ॥ ३३॥
ततस्तेन मुनीन्द्रोऽसौ बोधितः शृणु मे वचः ।
वने ते देवयानी सा पुत्री वत्सल संस्थिता ॥ ३४॥
शुक्रस्तां प्रययौ शीघ्रं तमुवाच सुविह्वला ।
रुदती देवयानी सा वृत्तान्तं सर्वमञ्जसा ॥ ३५॥
तं श्रुत्वा कुपितः काव्यस्त्यक्त्वा दैत्यं स निर्ययौ ।
वनवासार्थमानन्दादूहयन् वृत्तिमुल्बणाम् ॥ ३६॥
ततो दैत्याधिपः श्रुत्वा वृत्तान्तं विह्वलो भृशम् ।
तं ययौ धावमानः स प्रणनाम महामुनिम् ॥ ३७॥
उवाच भक्तिसंयुक्तं वचनं दैत्यनायकः ।
त्वदाधारमिदं राज्यं देहोऽयं मे तथा मुने ॥ ३८॥
मुनिसत्तम मां त्यक्त्वा कुत्र गन्तुं त्वमिच्छसि ।
राज्यादिकं परित्यज्य याम्यहं ते प्रसन्निधौ ॥ ३९॥
तस्य तद्वचनं श्रुत्वा काव्यः पुत्रीमुवाच ह ।
चल त्वं राजकन्याया अपराधं क्षमस्व च ॥ ४०॥
देवयानी मुनिं तत्रोवाच क्रोधसमन्विता ।
नाऽहं यामि पितः पुर्यां देहत्यागं करोमि वै ॥ ४१॥
ततः पुत्रीं स्वयं काव्य ऊचे तां शोकसङ्कुलः ।
किमिच्छसि वद त्वं म उपायं तं करोम्यहम् ॥ ४२॥
ततस्तं देवयानी सोवाच क्रोधसमन्विता ।
सखीभिः सहिता दासी शर्मिष्ठा मे भवेद्यदि ॥ ४३॥
यत्र दास्यसि मां तात तत्रेयं सहगा भवेत् ।
तदाहं नगरे यामि हृष्टा दैत्याधिपस्य च ॥ ४४॥
उवाच काव्यो दैत्येशं तं पुत्रीवत्सलस्ततः ।
तथेति दैत्यराजः स गृहे काव्यं समानयत् ॥ ४५॥
काव्येन नाहुषायैव दत्ता पुत्री विधानतः ।
तत्र दासी स्वभावेन शर्मिष्ठा प्रययौ विधे ॥ ४६॥
कदाचित्तत्र शर्मिष्ठाऽभवदृतुयुता स्वयम् ।
राजानं वाटिकामध्ये उवाच विनयान्विता ॥ ४७॥
सख्या मे देवयान्या त्वं महीपाल वृतो यदा ।
पतिस्तदा मया नाथ त्वमेव मनसा वृतः ॥ ४८॥
ऋतुयुक्तां स्त्रियं स्वामिन् भज त्वं भक्तिसंयुताम् ।
तथेति नाहुषेणैव वृता सा गुप्तभावतः ॥ ४९॥
देवयान्या चरित्रं न तस्या ज्ञातं प्रजापते ।
(Page खं. ३ अ. ३१ पान ६९)
गर्भयुक्तां विदित्वा तां सा पप्रच्छ मुनेः सुता ॥ ५०॥
कस्य वीर्यं त्वया देवि धृतं मे वद चाधुना ।
लाञ्छनं दैत्यराजस्य प्राप्तं किं दैवयोगतः ॥ ५१॥
शर्मिष्ठा तां जगादाऽथ न कृतं लाञ्छनं मया ।
ब्राह्मणस्य महद्वीर्यं गृहीतं गुप्ततः सखि ॥ ५२॥
तस्यां पुत्राः समुत्पन्नास्त्रयो देवसमा बभुः ।
राज्ञा सम्मानिता नित्यं वाटिकायां विशेषतः ॥ ५३॥
कदाचिद्देवयानी सा वाटिकायां जगाम ह ।
तत्र पुत्रा ययातिं तं पितरं प्राहुरादरात् ॥ ५४॥
तच्छ्रुत्वा क्षुभिताऽत्यन्तं देवयानी गृहं ययौ ।
पितुस्तां सान्त्वयामास ययातिर्विनयान्वितः ॥ ५५॥
न शशाक स राजर्षिस्तां स्वगेहे भयाकुलः ।
आनेतुं सा तथा काव्यं जगाद रुदती भृशम् ॥ ५६॥
शुक्रेण शापितो राजा जरायुक्तो बभूव सः ।
गत्वा चोशनसं तत्रोवाच शोकसमाकुलः ॥ ५७॥
नाऽहं श्वशुर तृप्तोऽस्मि कामभोगेभ्य एव च ।
जराघ्नं मे वदोपायं तं करिष्यामि यत्नतः ॥ ५८॥
देवयानीं विनाऽन्यां स्त्रीं न स्पृशामि कदाचन ।
ततस्तमुशनाः प्रीत उवाच वचनं हितम् ॥ ५९॥
तव पुत्रा महाभाग यौवनास्था भवन्ति ये ।
जरां तत्र विनिक्षिप्य गृहाण नृप यौवनम् ॥ ६०॥
त्वदाज्ञया जरां पुत्रो ग्रहीष्यति कुरुष्व तम् ।
राजानं मुख्यभावं त्वं न दोषस्तत्र ते भवेत् ॥ ६१॥
तथेति देवयानीं सङ्गृह्य स्वनगरं ययौ ।
ज्येष्ठान् पुत्रान् ययाचे स राजर्षिर्यौवनं ततः ॥ ६२॥
न जरां जगृहुस्तस्य सर्वे ते मूर्खभावतः ।
ततः पूरुं स राजर्षिर्ययाचे स ददौ किल ॥ ६३॥
शुक्रस्य वरदानेन दोषः पूरोर्न तस्य वै ।
भुक्त्वा भोगाननेकान् स ययातिस्तोषितोऽभवत् ॥ ६४॥
यज्ञान् कृत्वा महाभागः साङ्गान् सर्वान् विशेषतः ।
तीर्थादीनि जगामाऽसौ नानारूपाणि भावतः ॥ ६५॥
सर्वं कोशगतं द्रव्यं भूषणादिकमादरात् ।
ददौ स ब्राह्मणेभ्यश्च दानशीलोऽभवत्तथा ॥ ६६॥
मृत्पात्रैर्गृहकार्येषु चरन्तं गालवो मुनिः ।
तमाययौ ययाचे वै राजानं खेदसंयुतः ॥ ६७॥
गुरोश्च दक्षिणार्थं मे देह्यश्वान् श्यामकर्णकान् ।
सहस्रसङ्ख्यायुक्तांस्त्वं श्रेष्ठः सकलभूभुजाम् ॥ ६८॥
माधवीं स्वां ददौ तस्मै ततः कन्यां महीपतिः ।
तया तस्य मुनेः कार्यं कृतं सर्वं प्रजापते ॥ ६९॥
ततः स राजशार्दूलो जरां सङ्गृह्य यौवनम् ।
पूरवेऽदात् पुनः सद्यस्तं चकार नराधिपम् ॥ ७०॥
दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् ।
दक्षिणापश्चिमायां स यदुं ज्येष्ठं न्ययोजयत् ॥ ७१॥
प्रतीच्यामुत्तरायां स द्रुह्यं चानुमयोऽजयत् ।
तैरियं पृथिवी सर्वा धर्मतः परिपालिता ॥ ७२॥
सर्वत्र सार्वभौमेन पूरुस्तत्र रराज च ।
धर्मयुक्तो विनीतात्मा सत्यसन्धः प्रतापवान् ॥ ७३॥
ततो वनं ययौ राजा तताप तप उत्तमम् ।
अन्ते जगाम स्वर्गं स नानाभोगप्रदं परम् ॥ ७४॥
तत्र सर्वानतिक्रम्य बुभुजे भोगमुत्तमम् ।
न मत्समश्च स्वर्गेषु पुण्यभोगकरः परः ॥ ७५॥
(Page खं. ३ अ. ३१ पान ७०)
इति गर्वेण संयुक्तमिन्द्रस्तं प्रजगाद सः ।
त्वया राजन् महत्पुण्यं कीदृशं प्रकृतं वद ॥ ७६॥
उवाच नरशार्दूलः ततस्तं मोहसंयुतः ।
न सङ्ख्या विद्यते देव मम पुण्यस्य देवप ॥ ७७॥
स्वर्गेषु ये स्थिता देवाः पुण्यकर्मकरा इमे ।
न मे कलां च पुण्यस्य लभन्ते देवनायक ॥ ७८॥
तस्य तद्वचनं श्रुत्वा तमिन्द्रः प्रत्युवाच ह ।
न जानासि महाराज एषां पुण्यप्रभावकम् ॥ ७९॥
सर्वानिमांस्तिरस्कृत्य त्वं प्रमोहसमन्वितः ।
स्वप्रशंसां तथाऽपारं पुण्यं वदसि चाऽद्य माम् ॥ ८०॥
तेन ते पुण्यमुग्रं तत् सर्वं नष्टं नराधिप ।
प्रपत त्वं महीपृष्ठे पुनः पुण्यं समाचर ॥ ८१॥
ततः पपात भूपृष्ठे ययातिर्दुःखसंयुतः ।
तं पतन्तं च दौहित्रा ददृशुः शिबिमुख्यकाः ॥ ८२॥
मातामहं च विज्ञाय ददुः पुण्यं पुनः स्वकम् ।
तेन स्वर्गस्थितो राजा मुमुदे देववत् स्वयम् ॥ ८३॥
ततस्तं नारदो योगी जगाद करुणायुतः ।
त्वया विघ्नो महाराज प्राप्तः पुण्यविनाशकृत् ॥ ८४॥
विघ्नेशं भज राजंस्त्वमन्ते स्वानन्दगस्ततः ।
भविष्यसि न सन्देहो नोचेद्भूमौ पतिष्यसि ॥ ८५॥
ततस्तेन गणेशस्य मन्त्रो दत्तो दशाक्षरः ।
तं जजाप ययातिश्च गणेशध्यानतत्परः ॥ ८६॥
पुण्यक्षये स राजेन्द्रः शुक्लगत्या प्रजापते ।
गणेशं प्रययौ भक्त्या गाणपत्यो महायशाः ॥ ८७॥
ययातेश्चरितं पुण्यं सङ्क्षेपेण निरूपितम् ।
शृण्वते कामदं पूर्णं भविष्यति न संशयः ॥ ८८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते ययातिचरितं नामैकत्रिंशत्तमोऽध्यायः ॥ ३.३१
३.३२ धनकस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
यदोरप्यभवन् पुत्राश्चत्वारो देवसन्निभाः ।
सहस्त्रजित्तथा ज्येष्ठस्तस्य पुत्रो बभूव ह ॥ १॥
शतजिन्नाम विख्यातस्तस्य पुत्रास्त्रयोऽभवन् ।
हिहयश्च हयश्चैव वपुर्हय उदाहृतः ॥ २॥
हिहयस्याऽभवत् पुत्रो धर्म इत्यभिविश्रुतः ।
तस्य नेत्रस्तस्य कुन्तिः सोहञ्जिस्तत्सुतः स्मृतः ॥ ३॥
सो हञ्जेरभवत् पुत्रो महिष्मान्नाम पार्थिवः ।
माहिष्मती च नगरी वासिता येन भूभुजा ॥ ४॥
तस्य पुत्रो भद्रसेनो दुर्मदस्तत्सुतः स्मृतः ।
धनकश्चाऽपरो धीमान् मुख्योऽभूत्तत्र पार्थिवः ॥ ५॥
धनकादभवन् पुत्राश्चत्वारो लोकविश्रुताः ।
कृतवीर्यः कृताग्निश्च कृतवर्मा ततः स्मृतः ॥ ६॥
कृतौजाश्च तथा दक्ष तत्र ज्येष्ठः प्रतापवान् ।
बभूव दानशीलश्च कृतवीर्यो महीपतिः ॥ ७॥
तेन वै पृथिवीमध्ये चतुर्थी कृष्णगाऽपरा ।
(Page खं. ३ अ. ३२ पान ७१)
प्रकाशिता प्रजापाल स्वर्गात् सर्वशुभप्रदा ॥ ८॥
दक्ष उवाच ।
कथं तेन नृपालेन चतुर्थी भूमिमण्डले ।
समानीता महायोगिन् वद तस्य चरित्रकम् ॥ ९॥
श्रुत्वा कथामृतं स्वामिन् हर्षश्चेतसि वर्धते ।
अतो विस्तरभावेन कथयस्व कथानकम् ॥ १०॥
मुद्गल उवाच ।
माहिष्मत्यां महापुर्यां भीमनामाऽभवत् पुरा ।
अन्त्यजो द्रव्यलुब्धश्च पापकर्मपरायणः ॥ ११॥
स तु मार्गे जनान् वीक्ष्याऽमारयत्तान् दिने दिने ।
मांसविक्रयकारी च पशुन् हत्वा निरन्तरम् ॥ १२॥
एकदा माघमासस्य चतुर्थी कृष्णपक्षगा ।
समागता च तत्राऽसौ विचचार वनान्तरे ॥ १३॥
महापर्वतदेशे स जनानां प्रवधाय च ।
दैवयोगेन तस्याऽपि मिलितं नैव किञ्चन ॥ १४॥
अयं बभ्रामान्नजलविहीनो लोभसंयुतः ।
मिलितं तत्र नो किञ्चित्तथाभूतश्चचार ह ॥ १५॥
ततोऽस्तमगमत् सूर्यस्तं दृष्ट्वा स्वगृहे मतिम् ।
गमनाय तथा चक्रे मार्गसंस्थो बभूव ह ॥ १६॥
मार्गे दुष्टो द्विजास्तत्र दृष्ट्वा द्वादशसङ्ख्यकान् ।
तान् हत्वा स तदीयं वै गृहीत्वा स्वगृहं ययौ ॥ १७॥
चन्द्रोदये ततः प्राप्ते बुभुजे भोजनाकुलः ।
पुत्रं गणेशनामानमाह्वयामास तेन सः ॥ १८॥
पुनश्चकार तद्वत् स कदाचित् पापमुल्बणम् ।
कृष्णपक्षे चतुर्थ्यां च स ममारोदये विधोः ॥ १९॥
गणेशदूतास्तं तत्र समानेतुं समाययुः ।
कैलासे गणपस्थाने निन्युस्तं ते विमानगम् ॥ २०॥
स्वर्गमार्गेषु देवैश्च ब्रह्मविष्ण्वादिभिस्तुतः ।
विमानगैः स्तूयमानः प्रविवेश शिवास्पदम् ॥ २१॥
तत्र भुक्त्वा प्रभोगान् स पपात पृथिवीतले ।
माहिष्मत्यां सुतो जज्ञे धनकस्य महाबलः ॥ २२॥
कृतवीर्य इति ख्यातो नानाधर्मपरायणः ।
देवविप्रातिथिप्रेप्सुर्बभूवे यज्ञकारकः ॥ २३॥
अपुत्रः स्माऽभवद्राजा कृतवीर्यः प्रतापवान् ।
पुत्रार्थं यतते स्मातिनानाधर्मपरायणः ॥ २४॥
न लेभे सन्ततिं राजा ततोऽसौ दुःखसंयुतः ।
प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम् ॥ २५॥
सपत्नीको वनं राजा ययौ तपसि संस्थितः ।
पूर्वसंस्कारयोगेन गणेशे प्रीतिमानभूत् ॥ २६॥
नानातपश्चकाराऽसौ सन्ततिं न तथाऽपि च ।
लेभे नृपः प्रजानाथ नेत्रप्राणावशेषितः ॥ २७॥
अस्थित्वचासमायुक्तं दृष्ट्वा तं नारदो मुनिः ।
स्वर्गस्थं धनकं तत्र वृत्तान्तमवदन्नृपम् ॥ २८॥
तव पुत्रो वने संस्थः पुत्रार्थं यतते नृप ।
नानायत्नसमायुक्तोऽस्थित्वचाप्रयुतोऽस्ति वै ॥ २९॥
न लेभे सन्ततिं राजा स्वल्पकाले मरिष्यति ।
पुत्रहीनस्य भो राजन् का गतिः प्रभवेद्वद ॥ ३०॥
इत्युक्वा तं मुनीन्द्रः स ययौ कैलासमादरात् ।
धनको मनसाऽत्यन्तं विचारमकरोत्ततः ॥ ३१॥
ब्रह्माणं शरणं यामि सर्वज्ञं तेन चेप्सितम् ।
भविष्यति न सन्देहस्ततः सोऽपि ययौ विधिम् ॥ ३२॥
प्रणिपत्य प्रतुष्टाव नानास्तोत्रैः प्रजापतिम् ।
उवाच तं महाभागं विनयेन समन्वितः ॥ ३३॥
धनक उवाच ।
(Page खं. ३ अ. ३२ पान ७२)
धर्मशीलश्च मे पुत्रः पुत्रहीनो बभूव हि ।
पुत्रार्थं यतते ब्रह्मन्नानाव्रतपरायणः ॥ ३४॥
राज्यादिकं समुत्सृज्य वने तपति संस्थितः ।
तपस्तेनाऽवशेषोऽसावस्थिचर्मवृतो बभौ ॥ ३५॥
केनोपायेन पुत्रश्च भविता तं वदस्व मे ।
प्रापयिष्याम्यहं तत्र स्ववंशस्य विवृद्धये ॥ ३६॥
ततस्तं प्रत्युवाचेदं वचनं चतुराननः ।
पूर्वजन्मनि सम्भूतं द्विजहत्यायुतं व्रतम् ॥ ३७॥
पुनः प्रोवाच तं देवो विधिः सर्वार्थकोविदः ।
पुत्रप्राप्त्यर्थमेवैकमुपायं सर्वसिद्धिदम् ॥ ३८॥
अज्ञानेन व्रतं तेन कृतं सङ्कष्टहारकम् ।
चतुर्थीप्रभवं तेन पापं सर्वं लयं गतम् ॥ ३९॥
महापापानि नश्यन्ति सङ्कष्टीव्रतसाधनात् ।
सङ्कष्टीव्रतसम्बन्धिदिवसे यत् कृतं भवेत् ॥ ४०॥
तदेवाक्षयभावेन तिष्ठत्यत्र न संशयः ।
चतुर्थ्यां भूप कृष्णायां पुण्यमेव समाचरेत् ॥ ४१॥
तव पुत्रेण राजेन्द्र द्वादश ब्राह्मणा हताः ।
चतुर्थ्यां पूर्वजन्मस्थेन पापं तत्स्थितं महत् ॥ ४२॥
नानातपःप्रभावेण व्रततीर्थादिकेन च ।
यज्ञादिभिश्च तत्पापं लयं नैव गमिष्यति ॥ ४३॥
सङ्कष्ट्यां यत्कृतं पापं वज्रलेपं च तत्स्मृतम् ।
तत्र कश्चिदुपायो न तथाऽपि शृणु मे वचः ॥ ४४॥
येन सङ्कष्टिका पुण्या चतुर्थी साधिता नृप ।
तस्य जन्मादिकं नैव भविष्यति कदा पुनः ॥ ४५॥
चतुर्विधं प्रजानीहि सर्वं मायामयं जगत् ।
सङ्कष्टं चैव जीवानां तेन युक्ता भ्रमन्ति ते ॥ ४६॥
चतुर्थी गणनाथस्य सङ्कष्टी साधिता यदा ।
चतुर्विधं तस्य कष्टं न भवेद्वै कदाचन ॥ ४७॥
ब्रह्मणि ब्रह्मभूतोंऽते स्वानन्दे वर्तते नरः ।
व्रतस्यैव प्रभावेणेहलोके सुखमाप्नुयात् ॥ ४८॥
चतुर्थ्यां पापकारा ये तेषां मुक्तिर्न विद्यते ।
पापयुक्ततया राजन् स्वर्गस्थास्ते भवन्ति च ॥ ४९॥
पुनर्जन्मधरा भूमौ तत्र पापफलं स्वकम् ।
भुञ्जन्ति च पुनः सर्वे गाणपत्या भवन्ति ते ॥ ५०॥
अतो गणेशदूतैः स कैलासे स्थापितोंऽत्यजः ।
पापभोगार्थमेवं च तव पुत्रोऽधुनाऽभवत् ॥ ५१॥
चतुर्थ्यां यत्कृतं पापं चतुर्थी हन्ति तत् सदा ।
तदर्थं ते सुतो राजंश्चतुर्थीमाचरिष्यति ॥ ५२॥
तदा पापविहीनोऽयं भविता नात्र संशयः ।
पुत्रयुक्तश्च ते पुत्रो भविष्यति महामते ॥ ५३॥
अपराधयुतं कर्म कृतं नाशार्थमादरात् ।
तस्य पुण्यं प्रकर्तव्यं दुरितं तेन नश्यति ॥ ५४॥
चतुर्थी महिमाऽनन्तो भूतं यदपि तद्दिने ।
पापं क्रोधसमायुक्ता महाकृच्छ्रेण हन्ति सा ॥ ५५॥
अतस्तत्पापनाशार्थं सङ्कष्टीर्द्वादशाऽऽचरेत् ।
तदा द्वादशविप्रान्तभवं पापं गमिष्यति ॥ ५६॥
ततस्तं करुणायुक्तः स विधि व्रतमादरात् ।
कथयामास वै ब्रह्मा ययौ राजा प्रणम्य तम् ॥ ५७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते धनकस्य व्रतोपदेशो नाम द्वात्रिंशोऽध्यायः ॥ ३.३२
(Page खं. ३ अ. ३३ पान ७३)
३.३३ कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
व्रतं लब्ध्वा पुस्तकं संलिख्य सङ्गृह्य मायया ।
धनकः कृतवीर्यस्य स्वप्ने सद्यो जगाम ह ॥ १॥
धनकं पितरं दृष्ट्वा कृतवीर्यो ननाम तम् ।
पुत्रं राजा समादायोत्सङ्गे स्वस्य जगाद तम् ॥ २॥
धनक उवाच ।
पुत्र नानाविधा यत्ना विशेषेण कृतास्त्वया ।
पुत्रार्थमधुनैकं त्वं व्रतं कुरु ममाज्ञया ॥ ३॥
तेन पुण्येन पुत्रस्ते भविता नात्र संशयः ।
ब्रह्मणा कथितं मे यत् पुस्तकं तद् गृहाण ह ॥ ४॥
इत्युक्त्वा पुत्रहस्ते तद्दत्वा पुस्तकमादरात् ।
अन्तर्धानं ययौ राजा जजागार नृपात्मजः ॥ ५॥
पुस्तकं हस्तगं दृष्ट्वा विस्मितोऽभूत् प्रहर्षितः ।
पितरं दुःखितो भूत्वा सस्मार स रुरोद वै ॥ ६॥
सपत्नीकस्ततो राजा कृतवीर्यो जगाम ह ।
स्वपुरं मानितस्तत्र प्रधानादिभिरादरात् ॥ ७॥
ततः स ब्राह्मणान् राजा समाकार्य ननाम तान् ।
पुस्तकं दर्शयामास तस्यार्थं ब्राह्मणा जगुः ॥ ८॥
अहो राजन् महाभाग पुस्तके व्रतमुत्तमम् ।
लिखितं सर्वसङ्कष्टहारकं सर्वदं परम् ॥ ९॥
कृष्णपक्षे चतुर्थ्यां वै चन्द्रोदयसमागमे ।
पूजनीयो विशेषेण गणेशः सिद्धिदायकः ॥ १०॥
पूजयित्वा गणाधीशं ततोऽर्घ्यं तिथये नृप ।
गणेशाय च चन्द्राय दातव्यं व्रतकारिणा ॥ ११॥
सूर्योदयात् समारभ्य गणेशस्मरणं नृप ।
कर्तव्यं वर्जयेत्तत्र जलपानादिकं तथा ॥ १२॥
चन्द्रायाऽर्घ्यं तथा दत्वा सप्तवारं नृपोत्तम ।
ब्राह्मणांस्तत आपूज्य सपत्नीकान्नमेत् स तान् ॥ १३॥
भोजयेत् परमान्नेन मोदकादिभिरादरात् ।
पायसेनाऽपि सितया युतेन मधुरेण च ॥ १४॥
ततः स्वयं सुहृद्भिश्च भोजनं वै समाचरेत् ।
दानं दद्यात् स विप्रेभ्यो योषिद्भ्यः कञ्चुकादिकम् ॥ १५॥
ततो जागरणं कार्यं गणेशस्तवनेन च ।
प्रभाते विमले स्नात्वा पूर्ववत् पूजयेद्विभुम् ॥ १६॥
गणेशं च ततो विप्रान् भोजयेत् पूर्ववन्नृप ।
दक्षिणां विपुलां तेभ्यो दापयेत्तान्नमेत्ततः ॥ १७॥
मासे मासे प्रकुर्यास्त्वं व्रतं गाणेश्वरं त्विदम् ।
सर्वसङ्कटहीनः सन्नन्ते स्वानन्दगो भवेः ॥ १८॥
अपारमहिमायुक्तं व्रतं प्राप्तं त्वया नृप ।
त्वदीयसङ्गयोगेन जनेभ्यः सिद्धिदं भवेत् ॥ १९॥
न श्रुतं नैव दृष्टं च व्रतं केनाऽपि भूमिप ।
लोकानामुपकाराय भविष्यति विशेषतः ॥ २०॥
चतुर्विधं जगत्सर्वं सङ्कष्टकरमुच्यते ।
तस्माद्बन्धननाशार्थं व्रतं चेदं भविष्यति ॥ २१॥
इह भुक्त्वाऽखिलान् भोगान् दुर्लभान् देवभोग्यकान् ।
अन्ते मुक्तिमवाप्नोति व्रतस्यास्य प्रभावतः ॥ २२॥
एवमुक्त्वा द्विजाः सर्वे गताः स्वस्वाश्रमे तदा ।
कृतवीर्यस्तथा राजा चकार व्रतमुत्तमम् ॥ २३॥
सूत उवाच ।
मुद्गलस्य वचः श्रुत्वा हृष्टरोमा प्रजापतिः ।
जगाद तं पुर्नवाक्यं संशयच्छेदनाय सः ॥ २४॥
दक्ष उवाच ।
कृतवीर्यात् समारभ्य व्रतं भूम्यां समागतम् ।
महामुने भीमनाम्नांऽत्यजेनैव कृतं कथम् ॥ २५॥
चतुर्थीव्रतपुण्येन स एव कृतवीर्यकः ।
(Page खं. ३ अ. ३४ पान ७४)
बभूव वर्णितं विप्र त्वया संशयदायकम् ॥ २६॥
अतः संशयनाशार्थं वद मुद्गल मे वचः ।
सर्वज्ञस्त्वं न सन्देहः साक्षाद्योगीश्वरो महान् ॥ २७॥
मुद्गल उवाच ।
प्रजापते शृणु ह्यत्र वचनं मे महामते ।
येन ते संशयो नाशं गमिष्यति न संशयः ॥ २८॥
व्रतं गाणेश्वरं दक्ष चतुर्थीसंज्ञकं परम् ।
सङ्कष्टहरणं प्रोक्तं तज्जानीहि पुरातनम् ॥ २९॥
पृथिव्यां स्वर्गलोके तत् पाताले सर्वसम्मतम् ।
चतुर्थी च समुत्पन्ना तदारभ्य प्रतिष्ठितम् ॥ ३०॥
जनास्तन्नैव जानन्ति पृथिव्यां कुत्रचित् प्रभो ।
कृतवीर्याच्च सर्वत्र प्रकाशमगमद्व्रतम् ॥ ३१॥
एत्तते सर्वमाख्यातं शृणु तस्य कथानकम् ।
कृतवीर्यस्य भूपस्य पुण्यदं शृण्वते भवेत् ॥ ३२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते कृतवीर्यव्रतप्राप्तिवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३.३३
३.३४ कृतवीर्यचरितं नाम चतुस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
वर्षमात्रव्रतेनैव गतं पापं लयं महत् ।
द्वादशब्रह्महत्याख्यं ततो राजा बभौ विधे ॥ १॥
व्रतपुण्यप्रभावेण ससत्त्वाऽभून्नृपाङ्गना ।
सुषुवे शुभवेलायां पुत्रं तेजस्विनां वरम् ॥ २॥
हस्तपादविहीनं तं दृष्ट्वा माता रुरोद ह ।
कृतवीर्यस्तथा सर्वैः प्रधानैः बोधितोऽभवत् ॥ ३॥
त्यक्त्वा शोकं स्वयं राजा जातकर्म चकार वै ।
महोत्सवयुतैः सर्वैर्नगरे संस्थितोऽभवत् ॥ ४॥
रात्रौ स्वप्ने ददर्शाऽसौ दत्तात्रेयं च योगिनम् ।
तेन यत् कथितं स्वप्ने तच्छृणुष्व प्रजापते ॥ ५॥
गते द्वादशवर्षे तु त्वत्पुत्रस्य नृपोत्तम ।
आगमिष्यामि ते गेहं साङ्गं पुत्रं करोम्यहम् ॥ ६॥
मा चिन्तां कुरु राजेन्द्र गणनाथप्रसादजः ।
पुत्रोऽयं ते सुतेजस्वी देवमान्यो भविष्यति ॥ ७॥
ततः सोंऽतर्दधे योगी दत्तात्रेयस्तथा नृपः ।
प्रबुद्धो हर्षयुक्तः स बभूव गणपं स्मरन् ॥ ८॥
ततस्तेन पृथिव्यां तु घोषः सर्वत्र कारितः ।
चतुर्थ्यां कृष्णपक्षस्य व्रतं कार्यं जनैः सदा ॥ ९॥
येन व्रतमिदं नैव कृतं चेत्तं निहन्म्यहम् ।
चाण्डालादिद्विजान्तास्ते व्रतं चक्रुर्विशेषतः ॥ १०॥
अष्टवर्षसमायुक्ता नरा नार्यः स्म मानद ।
अकुर्वन् विधिवत् सर्वे व्रतं गाणेश्वरं महत् ॥ ११॥
तस्य राज्ये नरः कोऽपि दुःखयुक्तो बभूव न ।
न वन्ध्यादि भयं तद्वद्रोगादिकभयं नहि ॥ १२॥
ततो द्वादशवर्षेषु गतेषु स जगाम ह ।
दत्तो योगीन्द्रसेव्यश्च तं ननाम नराधिपः ॥ १३॥
पूजितो भोजितस्तेन वचो दत्तस्तमब्रवीत् ।
पुत्रं दर्शय ते राजन्नद्भुतं द्रष्टुमागतः ॥ १४॥
(Page खं. ३ अ. ३४ पान ७५)
ततः स हर्षितो राजा ददौ पुत्रं च तत्करे ।
अङ्के सङ्गृह्य योगीन्द्रो राजानं प्रत्युवाच ह ॥ १५॥
राजन् व्रतं त्वया तत्राङ्गहीनत्वमजानता ।
कृतं तु तेन ते पुत्रोंऽगहीनः प्रबभूव ह ॥ १६॥
व्रतस्य जागरे राजन् जृम्भितं च पुनः पुनः ।
त्वया नाचमनं तत्र कृतं तेनायमीदृशः ॥ १७॥
व्रतस्याऽयं प्रभावेण विष्णुः साक्षान्नराकृतिः ।
पुत्रोऽभवत्तदंशेन विख्यातः प्रभविष्यति ॥ १८॥
तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः ।
विधियुक्तं गणेशस्य कार्तवीर्याय धीमते ॥ १९॥
अनुष्ठानं समादिश्य द्वादशाब्दमयं प्रभुः ।
अन्तर्धानं चकाराऽसौ राजा संहर्षितोऽभवत् ॥ २०॥
प्रवालक्षेत्रसान्निध्ये वने व्याघ्रादिसंयुते ।
राजा बभूव संस्थाप्य जनैः पुत्रं च दुःखितः ॥ २१॥
ततश्च कार्तवीर्येण तपस्तप्तं सुदारुणम् ।
वायुमात्राशनेनैव ध्यात्वा हृदि गजाननम् ॥ २२॥
मन्त्रं जजाप भो दक्ष हस्तपादविवर्जितः ।
देहभावमतिक्रम्य संस्थितः काष्ठवद्बभौ ॥ २३॥
तपःप्रभावतस्तस्य वने निर्वैरभावतः ।
प्राणिनः सञ्चरन्ति स्म गजसिंहादयः सदा ॥ २४॥
एवं द्वादशवर्षाणि गतानि तपसो यदा ।
तदा तत्राऽऽययौ ढुण्ढिर्भक्तं परमभाविकम् ॥ २५॥
तडागमध्यभागात्तं निःसृतं गणपं नृपः ।
दृष्ट्वा ननाम विघ्नेशं पूजयन् भक्तिसंयुतः ॥ २६॥
हर्षेण महता युक्तस्तं तुष्टाव गजाननम् ।
सरोमाञ्चो महावीरः कार्तवीर्यो महायशाः ॥ २७॥
कार्तवीर्य उवाच ।
नमस्ते गणनाथाय विघ्नेशाय नमो नमः ।
विनायकाय देवेश सर्वेषां पतये नमः ॥ २८॥
निर्गुणाय परेशाय परात्परतराय वै ।
अनादये च सर्वादिपूज्याय तु नमो नमः ॥ २९॥
सर्वपूज्याय हेरम्ब दीनपालाय ते नमः ।
ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः ॥ ३०॥
निराकाराय साकाररूपाय परमात्मने ।
योगाय योगदात्रे ते शान्तिरूपाय वै नमः ॥ ३१॥
सदा ज्ञानघनायैव कर्ममार्गप्रवर्तिने ।
आनन्दाय सदानन्दकन्दरूपाय ते नमः ॥ ३२॥
रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च ।
तामसेन प्रसंहर्त्रे गुणेशाय नमो नमः ॥ ३३॥
नानामायाधरायैव नानामायाविवर्जित ।
मायिभ्यो मोहदात्रे वै मायामायिक ते नमः ॥ ३४॥
स्वानन्दपतये तुभ्यं सिद्धिबुद्धिवराय च ।
सिद्धिबुद्धिप्रदात्रे च लम्बोदर नमोऽस्तु ते ॥ ३५॥
किं स्तौमि गणनाथ त्वां यत्र वेदा विसिस्मिरे ।
शिवविष्ण्वादयश्चैव योगिनो योगरूपिणम् ॥ ३६॥
जगाद गणनाथस्तु ततस्तं भक्तमुत्तमम् ।
वरं वृणु महाभाग कार्तवीर्य हृदीप्सितम् ॥ ३७॥
त्वया कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् ।
अङ्गहीनस्य सर्वस्य स्वङ्गदं प्रभविष्यति ॥ ३८॥
कृत्वा भावेन मत्पूजां नरः स्तोत्रमिदं पठेत् ।
तस्य साङ्गं सदा सर्वं करोमि स्तोत्रपाठतः ॥ ३९॥
इह भुक्त्वाऽखिलान् भोगान् पुत्रपौत्रादिसंयुतः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ॥ ४०॥
ततस्तं कार्तवीर्यश्च जगाद गणनायकम् ।
हर्षयुक्तो महाभक्तो भक्तेशं भक्तवत्सलम् ॥ ४१॥
कार्तवीर्य उवाच ।
किं वृणोमि गणाधीश सर्वं मायामयं विभो ।
तव दर्शनमात्रेण मया ज्ञातं न संशयः ॥ ४२॥
सुहृदां तदपि स्वामिन् सन्तोषार्थं वृणोम्यहम् ।
शरीरे चारुतां देहि भक्तिं त्वच्चरणे प्रभो ॥ ४३॥
यद्यदिच्छामि तत्तच्च सुलभं मे गजानन ।
भवतु त्वत्प्रसादेन राज्यं पूर्णं प्रदेहि च ॥ ४४॥
अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तान् पालय विघ्नप ।
धर्मार्थकाममोक्षादि ब्रह्मभूयप्रदं कुरु ॥ ४५॥
प्रवालमयरूपेण मया दृष्टो गजाननः ।
प्रवालक्षेत्रमित्युक्तं नाम्ना भवतु नित्यदा ॥ ४६॥
सदा विजयसंयुक्तं सहस्रभुजसंयुतम् ।
मां कुरुष्व दयासिङ्घो विष्णुतुल्यपराक्रमम् ॥ ४७॥
मदीयसेवनं देव देववच्च सदा भवेत् ।
मन्त्रादिकं च मे नाथ भवतु त्वप्रसादतः ॥ ४८॥
मदीयस्मरणेनैव गतं प्राप्तं कुरु प्रभो ।
न मत्समस्त्रिलोकेषु सेन्द्रादिषु भवेत्किल ॥ ४९॥
ततस्तं गणनाथः स तथेति प्रत्युवाच ह ।
सर्वं ते भविता राजन् मत्प्रसादान्न संशयः ॥ ५०॥
मदीयस्मरणेनैव मन्त्रादीनां प्रसेवया ।
निर्विघ्नं ते च राजेन्द्र भविष्यति निरन्तरम् ॥ ५१॥
एवमुक्त्वा गणेशस्तमन्तर्धानं जगाम ह ।
ततस्तस्य प्रजानाथ देहः साङ्गो बभूव ह ॥ ५२॥
सहस्रभुजसंयुक्तो बभूव पदसंयुतः ।
महाबलो महावीर्यस्तेजसा संयुतोऽभवत् ॥ ५३॥
तत्र देवादयो जग्मुर्दर्शनार्थं नृपस्य च ।
साक्षाद् विष्णुः कलांशेन कार्तवीर्यो बभौ तदा ॥ ५४॥
ततस्तेन द्विजैः सार्धं स्थापिता मूर्तिरादरात् ।
गणेश्वरस्य तां राजाऽपूजयत् भक्तिसंयुतः ॥ ५५॥
पूजार्थं ब्राह्मणांस्तत्र स्थापयामास भूमिपः ।
ततो देवान् द्विजांस्तत्राऽपूजयत् स यथाविधि ॥ ५६॥
ननाम भक्तियुक्तस्तांस्तेऽपि तस्मै वरान् ददुः ।
हर्षिताश्च पुनः स्वर्गं जग्मुर्देवाः सवासवाः ॥ ५७॥
कार्तवीर्यो रथस्थः स ययौ स्वनगरं ततः ।
दूतैर्ज्ञात्वा च वृत्तान्तं तं ययुः सर्वनागराः ॥ ५८॥
प्रधानाश्च प्रणम्यैनं सुहृद्भिरभिनन्दितम् ।
अलङ्कृते पुरे सर्वे वेशयामासुरादरात् ॥ ५९॥
ननाम मातरं सोऽपि पितरं हर्षसंयुतः ।
ताभ्यामाशीर्भिरत्यन्तं मुदितश्च कृतो बभौ ॥ ६०॥
ततः कियति काले संस्थाप्य पुत्रं यशस्विनम् ।
स्वराज्ये कृतवीर्यश्च सस्त्रीकः प्रययौ वनम् ॥ ६१॥
राजा गणपतिं तत्राऽभजत् सोऽनन्यचेतसा ।
स्वल्पकालेन सस्त्रीकः सोऽपि तं गणपं ययौ ॥ ६२॥
तस्य राज्ये जनाः सर्वे सङ्कष्टीव्रतकारकाः ।
क्रमेण गणनाथं ते ययुर्दक्ष प्रजापते ॥ ६३॥
इदं च कृतवीर्यस्य चरितं यः शृणोति चेत् ।
पठेद्वा तस्य सङ्कष्टं भवेन्न च चतुर्विधम् ॥ ६४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते कृतवीर्यचरितं नाम चतुस्त्रिंशोऽध्यायः ॥ ३.३४
(Page खं. ३ अ. ३५ पान ७७)
३.३५ सहस्रार्जुननिमन्त्रणं नाम पञ्चत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
चकार कार्तवीर्योऽयं स ततो राज्यमुत्तमम् ।
धर्मेण राज्यनीत्या स्वां पालयामास हि प्रजाम् ॥ १॥
ततस्तेन च भूपेन जिताः सर्वे महीभृतः ।
सप्तद्वीपवतीं पृथ्वीं बुभुजे बलसंयुतः ॥ २॥
देवैः संस्थापितं नाम सहस्रार्जुन आदरात् ।
न समस्तेन कश्चिद्वै बभूव क्षात्रमण्डले ॥ ३॥
स्वर्गे देवादयश्चैव त्रासयुक्ता बभूविरे ।
यदा क्रुद्धः स्वयं राजा तदा स्वर्गं ग्रहीष्यति ॥ ४॥
न सङ्ख्या वर्तते तस्य सैन्यानां च प्रजापते ।
यशसा तेजसा पूर्णं पूरितं तेन वै जगत् ॥ ५॥
सस्त्रीको नर्मदामध्ये चिक्रीड नृप एकदा ।
सहस्रबाहुभिर्धृत्वा जलौघं तत्र लीलया ॥ ६॥
यत्र वै नर्मदातीरे रावणः स महानुगः ।
पुपूज शाङ्करं लिङ्गं जलौघस्तत्र चागतः ॥ ७॥
पूजाविधिं स शीघ्रं समाप्य वै राक्षसाधिपः ।
पप्रच्छ केन दूतेशा जलौघः सम्प्रवर्तितः ॥ ८॥
गत्वा पश्यत मामत्र क्षोभयुक्तं स चाऽकरोत् ।
तं हनिष्यामि सङ्क्रुद्धो नित्यभङ्गेन दुःखितः ॥ ९॥
ततस्ते त्वरया जग्मुर्दृष्ट्वा तं कार्तवीर्यकम् ।
समाचख्युर्महादैत्यं रावणं विस्मिता विभो ॥ १०॥
श्रुत्वा वृत्तान्तमेवं स रावणस्तं ययौ नृपम् ।
प्रधानैः षड्भिरत्यन्तं क्रोधयुक्तः प्रतापवान् ॥ ११॥
सहसा रावणं दृष्ट्वा गदां धृत्वा महाबलः ।
आर्द्रवस्त्रेण संयुक्तो युयुधेऽर्जुन एककः ॥ १२॥
गदायुद्धं महाघोरं तयोस्तत्र बभूव ह ।
ततः स गदया राजाऽपीडयद्रावणं परम् ॥ १३॥
कवचादिकमेतस्य राक्षसस्य नराधिपः ।
भेदयामास वै दक्ष रावणस्तत आपतत् ॥ १४॥
सङ्गृह्य स्वगृहं भूपो ययौ तत्र बबन्ध तम् ।
निकटे स्थापयामास सभायां खेलकारकम् ॥ १५॥
दशमस्तकयुक्तं तं दृष्ट्वा चिक्रीड भूमिपः ।
ततस्तं मुनिवर्यश्च पुलस्त्यः सहसाऽऽययौ ॥ १६॥
तं प्रणम्य महाभागं गाणपत्यं विशेषतः ।
पुपूज भक्तिसंयुक्तो भोजयामास यत्नतः ॥ १७॥
पुनः प्रणम्य तं विप्रं कृताञ्जलिपुटः पुरः ।
संस्थितस्तमुवाचाऽथ मुनिः सर्वार्थकोविदः ॥ १८॥
रावणं मुञ्च राजेन्द्र मत्पौत्रं वरसंयुतम् ।
मित्रभावेन तिष्ठ त्वं रावणस्य महामते ॥ १९॥
तथेति तं जगादासावमुञ्चद्रावणं नृपः ।
पुलस्त्यः प्रययौ स्थानमाशिष्या चाभिनन्द्य तम् ॥ २०॥
इत्यादितेजसा युक्तः साक्षाद्विष्णुमयो नृपः ।
नैव शक्यो वर्णयितुं धर्मशीलो बभूव ह ॥ २१॥
दिग्जये येन राज्ञा वै समुद्रः पादघाततः ।
ताडितः स विशीर्णोऽभूद्भयभीतः प्रजापते ॥ २२॥
यज्ञान् स विपुलांश्चक्रे भूरिदक्षिणसंयुतान् ।
स्वाहां स्वधा वषट्कारैर्मुमुदुर्देवतादयः ॥ २३॥
येन द्विजेन यत्तत्र प्रार्थितं तद्ददौ नृपः ।
स्वस्वधर्मरतान् लोकान् कारयामास यत्नतः ॥ २४॥
सदा गणेशभक्तिं स चकार नृपसत्तमः ।
गाणपत्यप्रियश्चासीत्तीर्थदेवातिथिप्रियः ॥ २५॥
आगतः स मयूरेशं यात्रां तत्र चकार ह ।
(Page खं. ३ अ. ३५ पान ७८)
वर्षमात्रोषितो राजा यात्रार्थं लोलुपः स्वयम् ॥ २६॥
गणेशं स्थापयामास ब्राह्मणैर्मन्त्रकोविदैः ।
प्रवालगणनाथेति नाम कृत्वा पुपूज ह ॥ २७॥
एवं नानाविधैर्भावैर्गणेशमभजत् सदा ।
त्रिलोककीर्तिसङ्गीतो बभूव कृतवीर्यजः ॥ २८॥
चतुर्थीव्रतजेनैव तेजसा संयुतो बभौ ।
अङ्गहीनकभावेन मोहयुक्तो बभूव ह ॥ २९॥
देवादीनामभून् मान्यः श्रिया परमया युतः ।
भोगयुक्तः स्वभावेन विसस्मार गजाननम् ॥ ३०॥
त्यक्त्वा मन्त्रं गणेशस्य ब्रह्मज्ञानमदेन सः ।
अहं गणेशरूपः सन् कं भजाम्यवदत् खलः ॥ ३१॥
ततो बभूवातिविघ्नसंयुक्तः सोऽर्जुनः प्रभो ।
तच्छृणुष्व महाभाग कथयामि प्रचेष्टितम् ॥ ३२॥
सैन्येन संयुतो राजा मृगयार्थं वनं ययौ ।
नीलवेषधरो भूत्वा सैनिकास्तादृशा बभुः ॥ ३३॥
जघान विविधांस्तत्र मृगांस्तान् नगरे स्वके ।
प्रेषयामास दूतैः स विभ्रमन् यत्र तत्र वै ॥ ३४॥
ततोऽकस्मान् महाराजो ददार्शाश्रममुत्तमम् ।
मुनेः प्रपच्छ राजाऽसौ सचिवान् कस्य चाश्रमः ॥ ३५॥
त ऊचुर्जमदग्नेर्वै मुनेराश्रम आगतः ।
ततः सोऽपि मुनिं दक्ष ययौ हर्षसमन्वितः ॥ ३६॥
प्रणम्य सचिवैर्मुख्यैः संवृतः स कृताञ्जलिः ।
उवाच मुनिशार्दूलं जमदग्निं महायशाः ॥ ३७॥
धन्यं मेऽद्य महायोगिन् जन्म ज्ञानादिकं तथा ।
कुलं च पितरो सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ ३८॥
ततस्तं मुनिमुख्योऽसावासनादिकमादरात् ।
दत्त्वा शिष्यैश्च सम्पूज्य पप्रच्छ कुशलादिकम् ॥ ३९॥
प्रयोजनं तथा विप्रः सम्पृच्छन् राजसत्तमम् ।
मानयामास तं भूपं विष्णोरंशसमुद्भवम् ॥ ४०॥
ततो राजा मुनिं दक्ष जगाद प्रीतिसंयुतः ।
तवाशीर्वचनेनैव कुशलं मे प्रवर्तते ॥ ४१॥
मृगयाऽऽसक्तचित्तोऽहमागतो मुनिसत्तम ।
पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् ॥ ४२॥
सर्वैः सह महाभाग पवित्रोऽहं न संशयः ।
दर्शनेनैव सन्तुष्ट आज्ञां देह्यधुना प्रभो ॥ ४३॥
गमिष्यामि ससैन्योऽहं नगरे स्वे महामते ।
न ते समश्च योगेन तपसा भासते मम ॥ ४४॥
जगाद मुनिमुख्योऽसौ ततस्तं हर्षसंयुतः ।
विष्णोरंशः स्वयं त्वं मेऽधुना सम्प्राप्त आश्रमे ॥ ४५॥
अनायासेन भो राजन्नतस्त्वां प्रार्थये विभो ।
भुङ्क्ष्व किञ्चिन्मया दत्तमपराह्णे समागतः ॥ ४६॥
ततो राजा जगादेदं वचनं तं प्रणम्य च ।
स्वामिन् वनेषु मे सैन्यं क्षुधितं भ्रमणे रतम् ॥ ४७॥
सन्त्यज्य कथमेकोऽहं भुनज्मि मुनिसत्तम ।
सर्वेषां भोजने शक्तिर्वर्तते नैव ते मुने ॥ ४८॥
वदामि तेन योगीन्द्र आज्ञां देहि च मे प्रभो ।
गमिष्यामि त्वरायुक्तो नगरे सैन्यसंयुतः ॥ ४९॥
ततस्तं राजशार्दूलमुवाच मुनिसत्तमः ।
न चिन्तां कुरु राजेन्द्र ससैन्यं भोजयाम्यऽहम् ॥ ५०॥
(Page खं. ३ अ. ३६ पान ७९)
तपसा मे महाराज वश्यं ब्रह्माण्डमण्डलम् ।
अतस्त्वं गच्छ नद्यां वै स्नानार्थं सर्वसंयुतः ॥ ५१॥
तथेति तं प्रणम्याऽसावगमत् सैन्यसंयुतः ।
स्नानार्थं विस्मितो भूत्वा सहस्रार्जुन आदरात् ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते सहस्रार्जुननिमन्त्रणं नाम पञ्चत्रिंशोऽध्यायः ॥ ३.३५
३.३६ रेणुकाजमदग्निसञ्जीवनकरणं नाम षट्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
गते राजनि भो दक्ष जमदग्निर्महामुनिः ।
रेणुकां च समाहूय वृत्तान्तमवदत् स्वयम् ॥ १॥
ततस्ताभ्यां स्मृता देवी कामधेनुः प्रजापते ।
समागतां प्रसम्पूज्य प्रार्थयन्तावुभौ समम् ॥ २॥
कार्तवीर्यः ससैन्यश्च भोजनाय निमन्त्रितः ।
तदर्थं कुरु कल्याणि यत्नं प्रत्वरिता सखि ॥ ३॥
तयोर्वचनमाकर्ण्य कामधेन्वा महापुरम् ।
रचितं स्वप्रभावेण परिखावलयाङ्कितम् ॥ ४॥
चतुर्विधान्नसंयुक्तां निर्ममे पाकशालिकाम् ।
क्षणेन तां समालोक्य हर्षितश्चाऽभवन् मुनिः ॥ ५॥
शिष्यै राजानमाहूय ससैन्यं तं प्रजापते ।
भोजयामास विप्रोऽसावन्नैर्नानाविधैः परैः ॥ ६॥
अमृतकल्परूपं ते बुभुजुर्हर्षसंयुताः ।
तृप्तास्ते फलकन्दादीन् भक्षयामासुरादृताः ॥ ७॥
ताम्बूलानि ततः सर्वे बभक्षुः प्रेमसंयुताः ।
ततो वस्त्रादिभिस्ते च सत्कृता मुनिना बभुः ॥ ८॥
राजाऽथ विस्मितो भूत्वा प्रणनाम महामुनिम् ।
आज्ञां गृहीत्वा सैन्येन ययौ स्वनगरं प्रति ॥ ९॥
गच्छन्तं तं प्रधानं च ऊचे विनयसंयुतः ।
धेनुं प्रार्थय राजंस्त्वं ब्राह्मणस्तां प्रदास्यति ॥ १०॥
इयं धेनुर्महाराज रत्नभूता न संशयः ।
तां विना राज्यमुग्रं ते निष्फलं भासतेऽधुना ॥ ११॥
तस्य तद्वचनं श्रुत्वा राजा मोहेन संयुतः ।
विघ्नेन पीडितोऽत्यन्तमुवाच सचिवं वचः ॥ १२॥
गच्छ त्वं प्रार्थ्य विप्रं तं धेनुमानय यत्नतः ।
तथेति सैन्यमादाय मुनिं दुष्टः समाययौ ॥ १३॥
प्रधानं मुनिमुख्यं तं प्रणम्याभिदधे वचः ।
मुने धेनुमिमां देहि राज्ञे ह्यतिथिरूपिणे ॥ १४॥
ततस्तं कोपसंयुक्त उवाच मुनिसत्तमः ।
न दास्यामि महामूर्ख धेनुं देवस्वरूपिणीम् ॥ १५॥
ततः सोऽपि महावीरैर्धृत्वा धेनुं बलात् खलः ।
निर्जगाम मुनेस्तस्याऽऽश्रमात् कोपसमन्वितः ॥ १६॥
ततो धेनुः समाक्रुद्धा ससृजे बलमुत्कटम् ।
तेन सेन्यं हतं तस्य प्रधानसहितं प्रभो ॥ १७॥
ज्ञात्वा वृत्तान्तमुग्रं तं क्षुभितः कृतवीर्यजः ।
युद्धार्थं गर्वसंयुक्तो ययौ तस्याश्रमं विधे ॥ १८॥
(Page खं. ३ अ. ३६ पान ८०)
ततस्तस्य महत् सैन्यं हतं धेन्वा बलेन वै ।
राजा खेदसमायुक्तो पपाल गतमत्सरः ॥ १९॥
कामधेनुर्गता स्वर्गं पुनः राजा समाययौ ।
हृदि विव्याध बाणेन मुनिः सोऽपि ममार ह ॥ २०॥
ततस्तं भर्त्सयामास रेणुका भूमिपाधमम् ।
एकविंशतिबाणैस्तां नृपो विव्याध सर्वतः ॥ २१॥
ततः सा क्षुभिताऽत्यन्तं तमुवाच नृपाधमम् ।
स्वल्पकालेन राजंस्त्वं मरिष्यसि न संशयः ॥ २२॥
सहस्रबाहुच्छेदस्ते भविष्यति सुदुर्मते ।
ततः सोऽपि भयोद्विग्नो जगाम नगरे स्वके ॥ २३॥
गते भूपे मुनेः पत्नी रुरोद करुणस्वरा ।
सस्मार तनयं रामं बदर्याश्रमगं प्रभुम् ॥ २४॥
स्मृतिमात्रेण रामः स ययौ मातुस्तदान्तिकम् ।
दृष्ट्वा मृतं महाविप्रं पितरं प्ररुरोद ह ॥ २५॥
मातरं बाणनिचयैश्चितां वीक्ष्य विशेषतः ।
प्रभुर्निष्कासयामास शरान् मातुः शरीरगान् ॥ २६॥
ततस्तं रेणुकादेवी सान्त्वयामास युक्तितः ।
मा शोकं कुरु पुत्र त्वं स्थास्यामि निकटे प्रभो ॥ २७॥
दत्तात्रेयं समानीय कुरु कर्म यथाविधि ।
आवयोः प्रभविष्यावो देहयुक्तौ पुनः प्रभो ॥ २८॥
नान्यो वक्ता न सन्देहः तस्माद्यत्नपरो भव ।
जहि दुष्टं च भूपं त्वं हस्तानां छेदनं कुरु ॥ २९॥
ततस्ते जनकं तत्र तस्य देहोद्भवेन च ।
रक्तेन तर्पयस्व त्वं तृप्तः सोऽपि भविष्यति ॥ ३०॥
ममाङ्गे एकविंशच्च बाणास्तेन समर्पिताः ।
एकविंशतिवारं त्वं कुरु निःक्षत्रियां धराम् ॥ ३१॥
एवमुक्त्वा गता देवी स्वर्गे देहं विसृज्य सा ।
रामस्तथा चकाराऽसौ दत्तेन सहितस्ततः ॥ ३२॥
पञ्चमे दिवसे रामः कर्म कृत्वा समास्थितः ।
दत्तात्रेयश्च स्वस्थाने ययौ भिक्षार्थमादरात् ॥ ३३॥
षष्ठे दिने समायातः व्याघ्रस्तत्र महाबलः ।
तं दृष्ट्वा भयसंयुक्तो रामः सस्मार मातरम् ॥ ३४॥
स्मृतिमात्रेण साऽऽयाता शिरोमात्रा प्रजापते ।
तां दृष्ट्वा विस्मितो रामस्तमुवाच हि रेणुका ॥ ३५॥
किमर्थं पुत्रकाऽऽहूता तव स्नेहात् समागता ।
ततोंऽतर्धानमकरोद्व्याघ्रः परम दुर्जयः ॥ ३६॥
एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ ।
दृष्ट्वा तां राममामन्त्र्योवाच योगविदां वरः ॥ ३७॥
समागता त्वया तात किमर्थं रेणुका स्मृता ।
न्यूनदेहा विशेषेण कुरु कर्म यथातथम् ॥ ३८॥
वृत्तान्तं कथयामास रामस्तं मुनिसत्तमम् ।
चकार कर्म साङ्गं तद्दत्तेन सहितः प्रभुः ॥ ३९॥
सपिण्डीकरणं रामश्चकार द्वादशेऽहनि ।
पाथेयश्राद्धमेवं स त्रयोदशदिने तथा ॥ ४०॥
ततः स जमदग्निस्तं दिव्यदेहः समागतः ।
राममालिङ्ग्य संहृष्टो बभूव मुनिसत्तमः ॥ ४१॥
जमदग्निं ततो दत्तो रेणुकां हर्षसंयुतः ।
उवाच भावगम्भीरो बोधयन् बोधदायकः ॥ ४२॥
गणेशं मन्त्रराजेन भजतं भावपूर्वकम् ।
तेन विघ्नविहीनौ च शान्तिरूपौ भविष्यथः ॥ ४३॥
क्षत्रहस्तेन मरणं युवाभ्यां प्राप्तमेव च ।
विघ्नराजमविज्ञाय जातौ दुःखेन संयुतौ ॥ ४४॥
(Page खं. ३ अ. ३७ पान ८१)
एवमुक्त्वा गणेशस्य ददौ मन्त्रं महामुनिः ।
ताभ्यामेकाक्षरं विप्रौ तपोयुक्तौ बभूवतुः ॥ ४५॥
दत्तश्च स्वाश्रमे तद्वद्ययौ हर्षसमन्वितः ।
पित्रोः सेवार्थमानन्दाद्रामस्तत्र स्थितोऽभवत् ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते रेणुकाजमदग्निसञ्जीवनकरणं नाम षट्त्रिंशोऽध्यायः ॥ ३.३६
३.३७ परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
गत वर्षसहस्रे स तपतोराययौ प्रभुः ।
विघ्नेश्वरो भार्गवयोर्वरदस्तावुवाच ह ॥ १॥
रेणुके जमदग्ने त्वं वृणु मे वरमुत्तमम् ।
एकाक्षरविधानेन तपसा तोषितोऽभवम् ॥ २॥
तस्य तद्वचनं श्रुत्वा हर्षयुक्तौ बभूवतुः ।
ऊचतुर्गणराजं तौ भक्तिभावसमन्वितौ ॥ ३॥
धन्यो वंशो गणेशान दर्शनेन तथाऽऽवयोः ।
तपः स्वाध्याय एवं त आवयोर्नात्र संशयः ॥ ४॥
एवमुक्त्वा प्रणम्यैनं पूजयन्तौ गणेश्वरम् ।
सरोमाञ्चौ तुष्टुवतुः प्रहर्षेण प्रजापते ॥ ५॥
रेणुकाजमदग्नी उचतुः ।
नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे ।
विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥ ६॥
अनादये त्वनाधार वक्रतुण्डस्वरूपिणे ।
गणेशान अनन्तानां गणानां पतये नमः ॥ ७॥
नानाशक्तियुतायैव नानाभेदकराय ते ।
नानाभेदविहीनाय हेरम्बाय नमो नमः ॥ ८॥
अमेयमायया चैव खेलकाय च ढुण्ढये ।
सिद्धिबुद्धिसहायाय सिद्धिबुद्धिवराय च ॥ ९॥
स्वानन्दपतये तुभ्यं भक्तेभ्यो योगदायिने ।
योगाकाराय योगाय शान्तिदाय नमो नमः ॥ १०॥
अखण्डानन्दरूपाय भुक्तिमुक्तिप्रदाय च ।
लम्बोदराय देवाय चैकदन्ताय ते नमः ॥ ११॥
महोदराय विघ्नानां पतये सुखदायिने ।
मूषकध्वजिने तुभ्यं नमो मूषकवाहन ॥ १२॥
चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने ।
ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे ॥ १३॥
यं स्तोतुं न समर्थाश्च वेदा देवाः शिवादयः ।
योगिनस्तं कथं चावां ह्यतस्त्वां प्रणमावहे ॥ १४॥
एवं स्तुत्वा गणेशानं प्रणतौ भक्तिसंस्तुतौ ।
तावुत्थाप्य गणाधीश ऊचिवान् हर्षसंयुतः ॥ १५॥
वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सितम् ।
यमिच्छथो महाभागौ भक्तिभावनियन्त्रितः ॥ १६॥
गणेशवचनं श्रुत्वा दम्पती तमथोचतुः ।
प्रणम्य च पुनः पादौ स्पृष्ट्वा तौ हर्षसंयुतौ ॥ १७॥
तावूचतुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा ते पादपद्मे नौ भक्तिं देहि सुखप्रदाम् ॥ १८॥
योगशान्तिं च विघ्नेश देहि योगेश नौ परा ।
गाणपत्यप्रियां चैव सदा ह्यानन्ददायिकाम् ॥ १९॥
ओमित्युक्त्वा गणाध्यक्षः पुनः प्रोवाच तौ तदा ।
(Page खं. ३ अ. ३७ पान ८२)
दृष्ट्वा भक्तिं तयोर्भावं भक्तेभ्यः सुखदायकः ॥ २०॥
भवत्कृतमिदं मे यत् स्तोत्रं योगप्रदं भवेत् ।
यो यदिच्छति तत्तस्मै दास्यामि स्तोत्रपाठतः ॥ २१॥
जमदग्ने सदा शान्तो भव मे भक्तिकारकः ।
रेणुके देहयुक्ता त्वं भज मां योगभाविता ॥ २२॥
लोकास्त्वां मस्तकाकारां पश्यन्त्यत्र न संशयः ।
ज्ञानदृष्ट्या तथा साङ्गां पश्येयुर्दैवतादयः ॥ २३॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
रेणुका जमदग्निश्च स्वाश्रमस्थौ बभूवतुः ॥ २४॥
ततः कदाचिद्रामस्तौ प्रणिपत्य कृताञ्जलिः ।
उवाच पितरौ वाक्यं साक्षाद्विष्णुः प्रतापवान् ॥ २५॥
श्रीराम उवाच ।
अर्जुनं संहनिष्यामि तथा निःक्षत्रियां धराम् ।
करिष्यामि न सन्देहः पितरौ भवदाज्ञया ॥ २६॥
ततस्तं जमदग्निश्चोवाच हर्षसमन्वितः ।
मा कुरुष्व वृथा हिंसां राम गर्वं परित्यज ॥ २७॥
ततस्तं भार्गवं राम उवाच विनयान्वितः ।
मातुरग्रे प्रतिज्ञा च मुनीश्वर कृता मया ॥ २८॥
तां सत्यां प्रकरिष्यामि मातृभक्तिपरायणः ।
देहत्यागं करिष्यामि तदर्थमथवा मुने ॥ २९॥
तस्याऽऽग्रहं समालोक्य न्यगदत् पुत्रमादरात् ।
शङ्करं गच्छ भो राम स तेऽभीष्टं करिष्यति ॥ ३०॥
तौ प्रणम्य जगामाऽसौ कैलासे शङ्करं प्रभुः ।
प्रणिपत्य महेशानं स्तुत्वा तं चाब्रवीद्वचः ॥ ३१॥
कार्तवीर्यं हनिष्यामि कुर्वे निःक्षत्रियां धराम् ।
एकविंशतिवारं च तत्रोपायं वद प्रभो ॥ ३२॥
तत एकाक्षरं मन्त्रं गणेशस्य ददौ शिवः ।
रामाय तं प्रगम्याशु वनं प्रायान् महाबलः ॥ ३३॥
पूर्वजन्मनि देवस्य गणेशस्य कृतं तपः ।
वामनेन च तत् स्मृत्वा तस्मिन् तपसि संस्थितः ॥ ३४॥
वायुभक्षस्ततो मन्त्रं जजाप ध्यानसंयुतः ।
समाधिना महोग्रेण तोषयामास विघ्नपम् ॥ ३५॥
गते वर्षशते पूर्णे आययौ तं गजाननः ।
भक्तं भक्त्या समायुक्तं महोग्रतपसा युतम् ॥ ३६॥
उवाच तं महाभागं भार्गवं विष्णुमव्ययम् ।
वरं वृणु महाभाग भक्त्या दास्यामि भावितः ॥ ३७॥
श्रुत्वा तस्य वचो रम्यमुत्थाय गणपं द्विजः ।
ननाम दण्डवद्भूमौ तं पुपूज विशेषतः ॥ ३८॥
पूजयित्वा पुनर्नत्वा तुष्टाव प्रकृताञ्जलिः ।
रामो भक्तिरसेनैव सम्प्लुतः साश्रुलोचनः ॥ ३९॥
राम उवाच ।
नमस्ते गणनाथाय भक्तानन्दविवर्धन ।
भक्तिप्रियाय देवाय हेरम्बाय नमो नमः ॥ ४०॥
वेदान्तवेद्यरूपाय मनोवाणीमयाय च ।
मनोवाणीविहीनाय योगाकाराय ते नमः ॥ ४१॥
गजवक्त्राय वै तुभ्यं निर्गुणात्मप्रधारिणे ।
सगुणाय च कण्ठाधो नराकाराय ते नमः ॥ ४२॥
अनादये च पूज्याय सर्वेषां सर्वदायिने ।
आदिपूज्याय विघ्नेश नानाविघ्नप्रचालक ॥ ४३॥
विघ्नहन्त्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनाम् ।
सदा स्वानन्दनाथाय ढुण्ढिराजाय ते नमः ॥ ४४॥
वक्रतुण्डाय ते नाथ नमो लम्बोदराय वै ।
(Page खं. ३ अ. ३७ पान ८३)
सततं शान्तिरूपाय शान्तिदाय नमो नमः ॥ ४५॥
महोदराय सिद्धेश्च बुद्धेश्च पतये नमः ।
नानैश्वर्यप्रदात्रे ते भ्रमदाय नमो नमः ॥ ४६॥
नानाज्ञानप्रभेदैश्च मोहकर्त्रे नमो नमः ।
सुभक्तानां सदा नाथ भ्रममोहादिहारिणे ॥ ४७॥
नानादैत्यनिहन्त्रे च देवानां मदहारिणे ।
सुरासुरमयायैव ब्रह्मेशाय नमो नमः ॥ ४८॥
सर्वत्र योगरूपेण संयोगायोगहीनतः ।
संस्थितं तं कथं स्तौमि त्वां विघ्नेश वद प्रभो ॥ ४९॥
यं समर्था गणाध्यक्ष योगिनः शेषकादयः ।
शिवादयश्च वेदा वै स्तौतुं न प्रभवन्ति ते ॥ ५०॥
तं किं स्तौमि गणाधीशमतस्त्वां प्रणतोऽभवम् ।
तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् ॥ ५१॥
एवं संस्तुवतस्तस्य भक्तिभावेन मानद ।
भक्त्या रोमोद्गमः प्राप्तः कण्ठरोधो बभूव ह ॥ ५२॥
ननर्त परमानन्दयुक्तोऽसौ भार्गवाग्रणीः ।
जय विघ्नेश हेरम्ब गणेशेति वदंस्तदा ॥ ५३॥
तं तथा भक्तिसम्मग्नं वीक्ष्य देवो गजाननः ।
उवाच साश्रुनेत्रश्च सरोमाञ्चः प्रजापते ॥ ५४॥
राम राम महाभाग शृणु मे परमं वचः ।
धन्योऽसि सर्वभावेन भक्तो मे मग्नतां गतः ॥ ५५॥
त्वया कृतमिदं स्तोत्रं भवेत् भक्तिरसप्रदम् ।
पठिष्यति च यश्चैतच्छृणुयात् सततं परम् ॥ ५६॥
तस्याऽहं सकलां बाधां नाशयिष्यामि नित्यदा ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ५७॥
यद्यच्चिन्तयति प्राज्ञ तत्तद्दास्यामि केशव ।
मम मान्यः सदा सोऽपि भविता नात्र संशयः ॥ ५८॥
परशुं मे गृहाण त्वं तेन मत्तौल्यगो भवेः ।
जेष्यसि त्वं महावीरमर्जुनं राजभिर्वृतम् ॥ ५९॥
निःक्षत्रियां तथा पृथ्वीं करिष्यसि न संशयः ।
एकविंशतिवारं त्वं सदा जयसमन्वितः ॥ ६०॥
नाम ते सर्वविख्यातं भविष्यति शुभप्रदम् ।
उक्तं परशुरामेति स्मरणेन सुखप्रदम् ॥ ६१॥
यज्ञान् कृत्वा महाभाग यशः संस्थाप्य भूतले ।
शान्तियोगस्थभावेन मां भजिष्यसि नित्यदा ॥ ६२॥
एवमुक्त्वांऽतर्दधेऽसौ जामदग्न्यं गणेश्वरः ।
रामः संस्थापयामास गणेशं ब्राह्मणैस्ततः ॥ ६३॥
सम्पूज्य स्वगृहं रामो ययौ हर्षसमन्वितः ।
रेणुकां जमदग्निं स ननाम परशोर्धरः ॥ ६४॥
तयोराज्ञां गृहीत्वा स भ्रातृभिश्च समन्वितः ।
जुहाव कार्तवीर्यं तं महाबलपराक्रमम् ॥ ६५॥
सिद्धैश्च कवचैर्युक्ता राजानः सर्व आगताः ।
अवध्याः सर्वभावेन देवादीनां महाबलाः ॥ ६६॥
गणेशवरदानेन परशोस्तेजसा प्रभुः ।
रामः सर्वांश्च सङ्ग्रामे मारयामास यत्नतः ॥ ६७॥
कार्तवीर्यं तं जघान स ततो रोषतो दृढम् ।
युद्धं कृत्वा महाघोरं बाहूंश्चिच्छेद लीलया ॥ ६८॥
ममार कार्तवीर्यश्च पर्शुना च प्रजापते ।
ततः स विजयी रामः क्षत्रियाणां वधे रतः ॥ ६९॥
निःक्षत्रियां धरां तत्र चकार क्रोधसंयुतः ।
पुनर्ब्राह्मणवीर्येण क्षत्रियाः प्रबभूविरे ॥ ७०॥
रामेण ते पुनः सर्वे हताः क्षत्रकुलोद्भवाः ।
(Page खं. ३ अ. ३८ पान ८४)
निःक्षत्रियां धरां दक्ष चकार स पुनः पुनः ॥ ७१॥
एकविंशतिवारं च कृत्वा निःक्षत्रियां धराम् ।
क्षत्रियाणां च रक्तेन तर्पयामास पूर्वजान् ॥ ७२॥
यज्ञं कृत्वा ददौ पृथ्वीं ब्राह्मणेभ्यो महायशाः ।
समुद्रेण ततस्तस्मै दत्ता पृथ्वी भयाद्विधे ॥ ७३॥
तत्राऽयं संस्थितो रामो भजते गणनायकम् ।
अनन्यभावसंयुक्तो गाणपत्योऽधुना महान् ॥ ७४॥
इदं ते कार्तवीर्यस्य रामस्य च महाद्भुतम् ।
जमदग्ने रेणुकायाश्चरितं कथितं मया ॥ ७५॥
यः शृणोति नरो भक्त्या पठेद्वा तस्य सम्भवेत् ।
भुक्तिमुक्तिप्रदं दक्ष चिन्तितार्थप्रदं परम् ॥ ७६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः ॥ ३.३७
३.३८ हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
कार्तवीर्यस्य पुत्रास्तु शतं तत्र महारथाः ।
पञ्चैव बलिनः शूरा धर्मात्मानो यशस्विनः ॥ १॥
जयध्वजः शूरसेनो वृषभोऽथ पुरुर्जितौ ।
जयध्वजस्तत्र राजा मुख्योऽभूत् स प्रजापते ॥ २॥
जयध्वजस्य पुत्रोऽभूत्तालजङ्घः प्रतापवान् ।
तस्य पुत्रशतं जज्ञे तालजङ्घा इति स्मृताः ॥ ३॥
तेषां ज्येष्ठो महाबाहुर्वीतिहोत्रोऽभवन्नृपः ।
वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ ४॥
वृषो वंशकरश्चासीत्तस्य पुत्रोऽभवन् मधुः ।
मधोः पुत्रशतं जज्ञे वृष्णिर्ज्येष्ठः स वंशकृत् ॥ ५॥
वीतिहोत्रसुतश्चैवानन्तनामा महायशाः ।
दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥ ६॥
तस्य भार्या गुणैर्युक्ता पातिव्रत्यपरायणा ।
वने स तु ययौ राजोर्वशीं तत्र ददर्श ह ॥ ७॥
तस्यां सक्तः स्वयं कामी न सस्मार स्वकां स्त्रियम् ।
गते बहुतिथे काले ययौ कण्वेन बोधितः ॥ ८॥
स्वगृहं पुनरेवाऽसौ प्रायश्चित्तं चकार वै ।
याजयामास तं कण्वः स विनीतो बभूव ह ॥ ९॥
तस्य पुत्रो बभूवाऽपि सुप्रतीक इति श्रुतः ।
सहस्रजित् कुलभवं सर्वं ते कथितं त्विदम् ॥ १०॥
यदुपुत्रस्य वंशं वै शृणु क्रोष्टोः प्रजापते ।
क्रोष्टोरेको वृजिनवानिति पुत्रोऽभवच्छ्रुतः ॥ ११॥
तस्य पुत्रोऽभवच्छाहिः कुशेकुस्तत्सुतो मतः ।
कुशेकोश्चाऽभवत्पुत्रो नाम्ना चित्ररथो बली ॥ १२॥
पुत्रश्चित्ररथस्याऽभूच्छशबिन्दुस्ततोऽभवत् ।
दशलक्षसहस्राणि तेषु ज्येष्ठः पृथुश्रवाः ॥ १३॥
उशनास्तस्य पुत्रोऽभूद्धर्म एव स कथ्यते ।
तस्माद्रुचकनामाऽभूत्ततः पञ्च सुता मताः ॥ १४॥
तेषु वंशधरः प्रोक्तो ज्यामघो लोकविश्रुतः ।
तस्माद्विदर्भः पुत्रोऽभूद्विदर्भाच्च कुशक्रथौ ॥ १५॥
लोमपादस्तृतीयस्तु बभ्रुस्तस्याऽऽत्मजोऽभवत् ।
(Page खं. ३ अ. ३८ पान ८५)
कृतिस्तस्यात्मजः प्रोक्त उशिकस्तत्सुतोऽभवत् ॥ १६॥
उशिकात् पुत्रको जातश्चेदिश्चैद्यस्ततोऽभवत् ।
तस्य पुत्रो महाबाहुःप्रभावात् कौशिकः स्मृतः ॥ १७॥
अभूत्तस्य सुतो धीमान् सुमन्तुश्च ततोऽमलः ।
अमलस्य सुतः प्रोक्तो निःश्वेतश्च महाबलः ॥ १८॥
तस्य दक्षाऽभवन् पुत्राः शतं चैव महाबलाः ।
क्रथस्याप्यऽभवत्कुन्तिर्धृष्टिस्तस्याऽथ निर्वृतिः ॥ १९॥
दशार्होऽस्य ततो व्योमस्तस्माज्जीमूतकस्ततः ।
विकृतिस्तस्य पुत्रो भीमरथोऽभून् महाबलः ॥ २०॥
तस्मान्नवरथो नाम बभूव च महाबलः ।
तस्य पुत्रो दशरथः शकुनिस्तस्य चात्मजः ॥ २१॥
तस्मात् करम्भिः सम्भूतो देवरातोऽभवत्ततः ।
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥ २२॥
मधुस्तस्य सुतो जज्ञे तस्मात् कुरुरजायत ।
पुत्रद्वयमभूत्तस्य सुत्रामा चानुरेव च ॥ २३॥
अनोस्तु पुरुहोत्रोऽभूदायुस्तस्य सुतो मतः ।
आयुषः सात्त्वतो नाम तस्य सप्त सुता मताः ॥ २४॥
भजमानो भजिर्दिव्यो वृष्णिर्देववृधोंऽधकः ।
महाभोजश्च विख्याता यादवेषु प्रजापते ॥ २५॥
भजमानस्य निम्लोचिः किङ्कणो वृष्णिरेव च ।
अथ देववृधो राजा पुत्रार्थे तप आचरत् ॥ २६॥
बभ्रुः पुत्रोऽभवत्तस्य पुण्यश्लोको महायशाः ।
सर्वशास्त्रार्थतत्त्वज्ञः श्लोकौ यस्य बभूवतुः ॥ २७॥
यशसा तेजसा राजा त्रिलोकेषु विराजितः ।
महाभोजकुले जाता भोजास्ते वै प्रकीर्तिताः ॥ २८॥
वृष्णेः सुमित्रः पुत्रश्च युधाजिदपरस्तथा ।
अनमित्रः शिनिस्तस्मान्निम्नोऽभूदनमित्रतः ॥ २९॥
सत्राजिच्च प्रसेनश्च विख्यातौ निम्नजौ सुतौ ।
सत्राजित् सूर्यमाराध्य मणिं लेभे स्यमन्तकम् ॥ ३०॥
शिनेरथ समुत्पन्नः पुत्रः सर्वार्थकोविदः ।
सत्यकः सत्यसम्पन्नः सत्यनामा महायशाः ॥ ३१॥
सात्यकिर्युयुधानः स जयस्तस्याऽभवत्सुतः ।
कुणिश्चाथ सुतो धीमांस्तस्य पुत्रो युगन्धरः ॥ ३२॥
अनमित्रसुतो योऽन्यो वृष्णिः शस्त्रविशारदः ।
श्वफल्कश्च सुतो वृष्णेः परश्चित्ररथोऽभवत् ॥ ३३॥
श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
तस्यामजनयत् पुत्रमक्रूरं साधुसम्मतम् ॥ ३४॥
आसङ्गसारमेयाद्या अन्ये च द्वादशाऽऽत्मजाः ।
अक्रूरस्याऽभवत्पुत्रो देववानुपदेवकः ॥ ३५॥
अभूच्चित्ररथात् पुत्रः पृथुश्चापृथुरेव हि ।
अश्वग्रीवः सुबाहुश्च सुधाश्वाद्याः सुताः स्मृताः ॥ ३६॥
अथान्धको महाबाहुर्लेभे वै चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कम्बलबर्हिणम् ॥ ३७॥
कुकरस्य सुतो वह्निर्वह्नेस्तु तनयोऽभवत् ।
कपोतरोमा भो दक्ष पुत्रोऽभवदनुस्ततः ॥ ३८॥
सोऽभवत्तुम्बरोर्मित्रं सुतस्तस्यांऽधकः स्मृतः ।
अन्धकादभवत् पुत्रस्तेजोयुक्तश्च दुन्दुभिः ॥ ३९॥
स गोवर्धनमासाद्य तताप विपुलं तपः ।
ब्रह्मा तस्मै ददौ चैव वरं तन्मनसीप्सितम् ॥ ४०॥
वंशस्ते चाक्षयो भावी कीर्तिज्ञानादिकं यशः ।
(Page खं. ३ अ. ३९ पान ८६)
सुरैः सदाधिकं मैत्र्यं कामरूपित्वमेव च ॥ ४१॥
अरिद्योतः सुतस्तस्य तेजोयुक्तश्च दुन्दुभेः ।
पुनर्वसुः सुतस्तस्याहुकस्तस्य सुतः स्मृतः ॥ ४२॥
आहुकादुग्रसेनश्च देवकश्च प्रजापते ।
देवकस्य सुता वीरा जज्ञिरे देवसन्निभाः ॥ ४३॥
देववानुपदेवश्च सुदेवो देववर्धनः ।
तेषां स्वसारः सप्ताऽऽसन् वसुदेवाय ता ददौ ॥ ४४॥
धृतदेवा तथा चैवोपदेवा देवसाक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ॥ ४५॥
देवकी वसुदेवाय ददौ सर्वाः प्रजापते ।
उग्रसेनस्य पुत्रास्तु कंसमुख्या महाबलाः ॥ ४६॥
महायशा अभूत् पुत्रो भजमानाद्विदूरथः ।
तस्य शूरः शिनिस्तस्य स्वयम्भोजश्च तत्सुतः ॥ ४७॥
हृदिकोऽतो देहबाहुस्ततः शतधनुस्ततः ।
कृतवर्मा ततो देवमीढोऽतः शूरकस्ततः ॥ ४८॥
वसुदेवादयो दक्ष दश धर्मपरायणाः ।
वसुदेवान् महातेजा वासुदेवो जगद्गुरुः ॥ ४९॥
देवकीपुत्रतां यातो देवैः सम्प्रार्थितो हरिः ।
भूमिभारावताराय साधूनां पालनाय च ॥ ५०॥
रोहिणी च महाभागा वसुदेवादजीजनत् ।
सङ्कर्षणं ततो ज्येष्ठं शेषांशं च हलायुधम् ॥ ५१॥
उमा देहधरा जाता योगनिद्रा च कौशिकी ।
नियोगाद्वासुदेवस्य यशोदा तनयाऽभवत् ॥ ५२॥
ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः ।
जघान कंसः प्रागेव तान् सर्वान् सूतिमात्रतः ॥ ५३॥
सुषेणश्च ततो दायि भद्रसेनो महाबलः ।
ऋतुः सम्मर्दनो भद्रः कीर्तिमानिति संज्ञिताः ॥ ५४॥
हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः ।
असूत लोकनाथं तं बलभद्रं हलायुधम् ॥ ५५॥
जाते रामे च देवानामादिमात्मानमच्युतम् ।
असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते हरिवंशवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३.३८
३.३९ विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
रामस्य रेवती भार्या सुरूपाऽऽसीद्गुणान्विता ।
तस्यामुत्पादयामास द्वौ पुत्रौ निषधोल्मुकौ ॥ १॥
षोडश स्त्रीसहस्राणि शतमष्टोत्तरं तथा ।
कृष्णस्य पत्न्यः सम्प्रोक्ताश्चारुरूपाः सुलोचनाः ॥ २॥
तासु पुत्रा बभूवुश्च शतशोऽथ सहस्रशः ।
प्रत्येकं दश पुत्राश्च दुहितैका बभूविरे ॥ ३॥
प्रद्युम्नसाम्बमुख्याश्च महातेजोयुताः सुताः ।
महारथा महाभागा बभूवुर्ज्ञानसंयुताः ॥ ४॥
प्रद्युम्नस्य च पुत्रोऽभूदनिरुद्धः प्रतापवान् ।
तस्य पुत्रस्तु वज्रः स एवाभूद्वंशधारकः ॥ ५॥
(Page खं. ३ अ. ३९ पान ८७)
मुसलात् सोऽवशिष्टोऽभूदेवं नानाविधा नृपाः ।
जातास्तत्र न शक्यं वै भवेत् कथयितुं मया ॥ ६॥
दक्ष उवाच ।
कथं विष्णुः स्वयं साक्षान् मानुषे देहधारकः ।
बभूव तत्र यन्मूलं तदेव वद मानद ॥ ७॥
मुद्गल उवाच ।
कथां शृणु महारम्यां पुरा जातां प्रजापते ।
यया ते संशयः सर्वो नाशमेष्यति तच्छ्रुतात् ॥ ८॥
पुरा देवैश्च दैत्येशा जिता विष्णुसमन्वितैः ।
राज्यं त्यक्त्वा ततो दैत्या वनेषु व्यचरन् भयात् ॥ ९॥
ततस्तान् हन्तुमत्यन्तं ययुर्देवा उदायुधाः ।
प्रह्लादप्रमुखाः सर्वे भयभीतास्ततोऽभवन् ॥ १०॥
अनाथांस्तानथोचुस्ते कृत्वा करपुटं पुरः ।
राज्यं त्यक्त्वा वयं सर्वे वनेषु विचरामहे ॥ ११॥
शस्त्रादिभिर्विहीनान्नः कथं हन्तुं समुद्यताः ।
सुराः सर्वं भवद्भिश्च गृहीतं तदपि ह्यहो ॥ १२॥
अतो नो रक्षत प्राज्ञाः शरणं समुपागतान् ।
मा हिंस्यत महाभागा दीनांश्चैव विशेषतः ॥ १३॥
तथाऽपि विष्णुना तत्र प्रेरितास्तेऽपि दानवान् ।
देवा हन्तुं प्रारभन्त पलायन्ताऽसुरास्तदा ॥ १४॥
शरणं स्वगुरुं तत्र भृगुं योगनिधिं ययुः ।
उदायुधास्तु पश्चात्ते जग्मुः क्रोधसमन्विताः ॥ १५॥
तत्र सर्वे भृगुं दक्ष ददृशुर्न च दानवाः ।
समिदर्थं गतं ज्ञात्वा भृगुपत्नीं समाययुः ॥ १६॥
रक्ष नो देवि भीतांस्तु देवेभ्यः शरणं गतान् ।
नोचेद्वयं मरिष्यामस्त्वदग्रे नात्र संशयः ॥ १७॥
तेषां वचनमाकर्ण्य तानुवाच सुखप्रदा ।
मा भयं कुरुत ह्येवं वारयामि सुरानहम् ॥ १८॥
तस्यास्तद्वचनं श्रुत्वा हर्षयुक्ताश्च दानवाः ।
तत्र संस्थास्ततो दक्ष निःश्वासोच्छ्वाससंयुताः ॥ १९॥
एतस्मिन्नन्तरे तत्राजग्मुर्विष्णुपुरोगमाः ।
देवा उदायुधाः सर्वे दैत्यान् हन्तुं प्रचक्रमुः ॥ २०॥
तानुवाच भृगोः पत्नी मा हिंस्यत सुरोत्तमाः ।
दैत्यान् मां शरणं प्राप्तान्राज्यहीनान् विशेषतः ॥ २१॥
तामनादृत्य देवेन्द्रो विष्णुना प्रेरितः स्वयम् ।
वज्रं धृत्वा ययौ हन्तुं दैत्यान् क्रोधविलोचनः ॥ २२॥
ततो भृगोश्च पत्नी सा चुकोप तपसा स्वयम् ।
सवज्रं देवराजं तं स्तम्भितं प्रचकार ह ॥ २३॥
तद् दृष्ट्वा विष्णुना तत्र चक्रेण क्षुरनेमिना ।
शिरश्छिन्नं भृगोः पत्न्याः सा पपात धरातले ॥ २४॥
एतस्मिन्नेव काले तु भृगुस्तत्र समागतः ।
मृतां पत्नीं तथा दृष्ट्वा चुकोपारुणलोचनः ॥ २५॥
शशाप विष्णुमावेशात् पत त्वं पृथिवीतले ।
ब्राह्मणीवधदोषेण देवाधम न बुद्ध्यसि ॥ २६॥
भृगुणा तपसा स्वेन ज्ञानेनाऽपि प्रजापते ।
जीवयुक्ता कृता पत्नी रक्षिता दानवास्तथा ॥ २७॥
ततोऽतिदुःखितो देवो विष्णुः शोकसमन्वितः ।
शरणं विघ्नराजं तं ययौ क्षेत्रे मयूरके ॥ २८॥
तत्राऽतितपसा देवं वर्षमात्रं प्रजापते ।
निराहारेण भक्त्या स तोषयामास विघ्नपम् ॥ २९॥
ततस्तं गणराजः स ययौ भक्तिनियन्त्रितः ।
उवाच च महाविष्णुं वरं वृणु हृदीप्सितम् ॥ ३०॥
गणेशं प्रणनामाथोत्थायाऽसौ विष्टरश्रवाः ।
(Page खं. ३ अ. ४० पान ८८)
पुपूज भक्तिभावेन तं तुष्टाव गजाननम् ॥ ३१॥
अथर्वशिरसा तेन स्तुतस्तं प्रत्युवाच ह ।
वरं वरय दास्यामि मा खेदं कुरु केशव ॥ ३२॥
श्रीविष्णुरुवाच ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
शापं मे भृगुसम्भूतं निवर्तय महाप्रभो ॥ ३३॥
अत्रैव वाससंस्थानं देहि ते भजनाय मे ।
निर्विघ्नं सर्वदा स्वामिन् कुरु मां त्वत्पदप्रियम् ॥ ३४॥
ओमित्युक्त्वा स्वयं ढुण्ढिरूचिवान् भक्तमुत्तमम् ।
मा चिन्तां कुरु विष्णो त्वं शृणु मे परमं वचः ॥ ३५॥
भृगोर्मदीयभक्तस्य तस्य वाणीं न वै मृषा ।
करिष्यामि कदा तस्मान् मृत्युलोके पतिष्यसि ॥ ३६॥
तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति ।
मत्प्रसादाच्च देवेश स्वेच्छाचारी सदा सुखी ॥ ३७॥
देवैः सम्प्रार्थितस्त्वं वै दैत्यादीनां वधाय च ।
धर्मसंस्थापनार्थायाऽवतारं प्रधरिष्यसि ॥ ३८॥
तत्र ते कीर्तिरत्यन्तं भविष्यति विशेषतः ।
यशो महत् पृथिव्यां त्वं स्थापयिष्यसि केशव ॥ ३९॥
तत्र त्वदीयभक्ताश्च भविष्यन्ति विशेषतः ।
तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा ॥ ४०॥
पुनश्च देवकार्यं च कृत्वा देव जनार्दन ।
विकुण्ठे ते सदा वासो भविष्यति न संशयः ॥ ४१॥
स्वेच्छया देहवांस्त्वं वै भविष्यसि न संशयः ।
मत्प्रसादात् हृषीकेश सर्वं ते वाञ्छितं भवेत् ॥ ४२॥
अन्यत्त्वया च देवेश प्रार्थितं तद् भविष्यति ।
वस त्वं क्षेत्रगो भूत्वा स्थानं दत्तं मयाऽक्षयम् ॥ ४३॥
इत्युक्त्वांऽतर्दधे दक्ष गणेशः करुणानिधिः ।
विष्णुना तत्र संवासः कृतो भक्त्या प्रजापते ॥ ४४॥
पूर्वदिग्भागदेशे वै स्थापितो गणनायकः ।
विष्णुर्विनायक इति नाम तस्य कृतं द्विजैः ॥ ४५॥
एत्तते कथितं दक्ष देहधारणकारणम् ।
विष्णोर्देवाधिपस्याऽपि नानायोनिसमुद्भवः ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३.३९
३.४० माण्डव्यचरितं नाम चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ।
मुद्गल उवाच ।
पुरोर्वंशे महाभागा राजानो धर्मशालिनः ।
बभूवुर्यज्ञकर्तारः स्वधर्मनिरताः किल ॥ १॥
तेषां चरित्रमत्यन्तं कथनाय न शक्यते ।
बहुत्वात् कारणं दक्ष शृणु ते कथयाम्यहम् ॥ २॥
पूरोर्वंशे महाराज शन्तनुः प्रबभूव ह ।
विख्यातो धर्मशीलश्च प्रजापालनतत्परः ॥ ३॥
तस्य पुत्रोऽभवच्छ्रेष्ठो भीष्मो धर्मपरायणः ।
गङ्गायां सर्वशास्त्रज्ञो ब्रह्मचर्यपरायणः ॥ ४॥
सत्यवत्यां च पुत्रौ द्वौ शन्तनोर्वै बभूवतुः ।
चित्राङ्गदो महाबाहुर्विचित्रवीर्यकोऽपरः ॥ ५॥
चित्राङ्गदो महातेजाः पस्पर्धे क्षत्रियान् सदा ।
चित्राङ्गदेन युद्धे स गन्धर्वेण हतोऽभवत् ॥ ६॥
विचित्रवीर्यकस्तत्र यक्ष्मणा पीडितोऽभवत् ।
(Page खं. ३ अ. ४० पान ८९)
मृतः स रोगदोषेण दुःखिताः सुहृदोऽभवन् ॥ ७॥
तस्य भार्ये प्रजानाथ द्वे काशीराजपुत्रिके ।
अम्बिकांऽबालिका नाम्न्यौ दुःखिते ते बभूवतुः ॥ ८॥
सत्यवत्या कृतं तत्र सन्तानार्थं महामुनेः ।
व्यासस्य स्मरणं दक्ष स्वपुत्रस्य विशेषतः ॥ ९॥
स आगत उवाचैनां किमर्थं दुःखिता वद ।
मातस्ते दुःखनाशं च करिष्यामि न संशयः ॥ १०॥
तं प्रत्युवाच सा देवी वंशवृद्धिं कुरु प्रभो ।
विचित्रवीर्यक्षेत्रे त्वं मदाज्ञावशगो भव ॥ ११॥
तथेति तेन वंशस्य कृता वृद्धिः प्रजापते ।
कुत्सितं वेषमास्थाय रात्रौ रेमे महामुनिः ॥ १२॥
अम्बिकायां मुनेर्वीर्यात् धृतराष्ट्रो बभूव ह ।
पाण्डुरम्बालिकायां वै दास्यां च विदुरोऽभवत् ॥ १३॥
यमोऽयं विदुरः साक्षाच्छूद्रयोनौ समुद्भवन् ।
माण्डव्यशापभोगार्थं नीतिज्ञः स बभूव ह ॥ १४॥
दक्ष उवाच ।
कथं माण्डव्यशापश्च यमेशस्य पुराऽभवत् ।
धर्ममार्गरतस्यापि स्वपरेषु समस्य भोः ॥ १५॥
मुद्गल उवाच ।
सम्यक् पृष्टं त्वया नाथ शृणु तस्य कथानकम् ।
पुरातनभवं तेऽहं कथयामि सविस्तरम् ॥ १६॥
माण्डव्यो मुनिवर्यः स वने तपसि संस्थितः ।
तत्र चोरा धनं हृत्वा पलन्तश्च समाययुः ॥ १७॥
राज्ञश्च वीरमुख्यास्तन्निशायां धर्तुमाययुः ।
चोरांश्चोरैर्धनं सर्वं स्थापितं मुनिसन्न्निधौ ॥ १८॥
धनं त्यक्त्वा गताश्चोरा वने वै यत्र तत्र ते ।
राजदूतैर्धनं दृष्टं सङ्गृह्य कुपिता भृशम् ॥ १९॥
ततो मुनिं तिरस्कृत्य मौनभावसमन्वितम् ।
सङ्गृह्य ताडयन्तस्त आययुर्नगरे स्वके ॥ २०॥
राजानं ते समाचख्युर्धनं दत्त्वा यथातथम् ।
वृत्तान्तं चोरसम्भूतं नृपोऽपि कुपितोऽभवत् ॥ २१॥
शूले प्रोतव्य एवं चेद्भवद्भिश्चोरसत्तमः ।
तथेति तैः कृतं तत्र हस्ते प्रोतो महामुनिः ॥ २२॥
तत्र दुःखसमायुक्तो माण्डव्यस्तपसि स्थितः ।
सस्मार स्वगुरुं विप्रं कश्यपं सृष्टिकारकम् ॥ २३॥
स्मृतमात्रः स तस्याऽग्रे कश्यपः सहसाऽऽययौ ।
तं तथा दुःखसंयुक्तं दृष्ट्वा सन्दुःखितोऽभवत् ॥ २४॥
उवाच तं स्वशिष्यं स भज त्वं गणनायकम् ।
सर्वविघ्ननिहन्तारं भक्तेभ्यः शान्तिदायकम् ॥ २५॥
ततस्तं मुनिशार्दूलं माण्डव्यः प्रजगाद वै ।
केन मार्गेण विघ्नेशं तं भजामि वदस्व माम् ॥ २६॥
तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह ।
गणेशस्य स्वरूपं वै भक्तेभ्यः सुखदं परम् ॥ २७॥
कश्यप उवाच ।
पञ्चधा चित्तवृत्तेश्च चालकोऽयं गजाननः ।
चिन्तामणिरिति ख्यातो वेदान्ते वेदवादिभिः ॥ २८॥
सम्प्रज्ञातस्वरूपो वै देहस्तस्य महामुने ।
असम्प्रज्ञातरूपं च शिरो गणपतेः स्मृतम् ॥ २९॥
तेनाऽयं गजवक्त्रोऽभूद्गजशब्दं विचारय ।
भ्रमरूपां महामायां सिद्धिं विद्धि महामते ॥ ३०॥
भ्रमधारकरूपां त्वं बुद्धिं जानीहि सत्तम ।
तयोः स्वामी गणाधीशो योगाकारः प्रदृश्यते ॥ ३१॥
तं भजस्व विधानेन योगशान्तिमयं मुने ।
(Page खं. ३ अ. ४० पान ९०)
तेन त्वं विघ्नसंहीनो भविष्यसि न संशयः ॥ ३२॥
इत्युक्त्वा स गणेशस्य ददौ तस्मै महामुनिः ।
एकाक्षरविधानेन कवचं शास्त्रसम्मतम् ॥ ३३॥
आज्ञां सङ्गृह्य विप्रेशः कश्यपः स्वालयं ययौ ।
माण्डव्यस्तत्र विघ्नेशमभजद्भावसंयुतः ॥ ३४॥
कवचं गणराजस्य दधार मुनिसत्तमः ।
कवचे सन्धृते दक्ष पीडाहीनो बभूव ह ॥ ३५॥
तत्रैव सहसा राजा कस्मै कार्यार्थमाययौ ।
ददर्श तं महाविप्रं प्रणनाम कृताञ्जलिः ॥ ३६॥
रुदोद भयसंयुक्तो वचस्तं मुनिरब्रवीत् ।
मा रुद त्वं महीपाल नैव शापं ददाम्यहम् ॥ ३७॥
मदीयकर्मदोषेण शूलप्रोतोऽहमेव च ।
अजानता त्वया राजन् कृतं तेन सहाम्यहम् ॥ ३८॥
ततो नृपेण विप्रार्थं लोहकारविचक्षणाः ।
समानीताश्च तैस्तत्र कृतो यत्नो विशेषतः ॥ ३९॥
शूलाग्रं हस्तगं तत्रैकभागं सङ्गतं बभौ ।
निष्कासितुं न शक्तास्ते व्याकुला भयसंयुताः ॥ ४०॥
शस्त्रैः सञ्छेदितं तैस्तत् शूलाग्रं हस्तगं विधे ।
यावन्मात्रं मुनेर्हस्ते संस्थितं तत्स्थितं बभौ ॥ ४१॥
राज्ञा सम्पूजितो विप्रः प्रययौ यमसन्निधिम् ।
उवाच कोपरक्ताक्षो यमं यमवतां वरम् ॥ ४२॥
माण्डव्य उवाच ।
मया किं प्रकृतं कर्म पापरूपं वदस्व माम् ।
येनाऽहं शूलजं दुःखं प्राप्तः शीघ्रं महाशठ ॥ ४३॥
तस्य क्रोधयुतं वाक्यं श्रुत्वा भयसमन्वितः ।
प्राञ्जलिः प्रत्युवाचेदं वचनं कर्मसूचकम् ॥ ४४॥
यम उवाच ।
बालभावे त्वया ब्रह्मन् कीटः कण्टकवेधितः ।
तत्कर्मणः फलं प्राप्तं तदेव मुनिसत्तम ॥ ४५॥
तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महामुनिः ।
जगाद धर्मराजं तं माण्डव्यश्च प्रजापते ॥ ४६॥
अहो बालस्वभावेन कृतं कर्म मया किल ।
अज्ञानेन महामूर्ख तस्येदं किं फलं भवेत् ॥ ४७॥
अतो नीतिविहीनस्त्वं पतिष्यसि धरातले ।
शूद्रयोनौ शतं वर्षाणि भुक्त्वा पुनरेष्यसि ॥ ४८॥
अधुनाऽहं करोम्येतां मर्यादां शृणु भानुज ।
अष्टवर्षवयोयुक्तैः कृतं कर्म हि निष्फलम् ॥ ४९॥
मम वाक्येन भवतु गणराजप्रसादतः ।
तदादि बालकैः कर्म कृतं तन्निष्फलं भवेत् ॥ ५०॥
माण्डव्यः स्वाश्रमे गत्वा तताप तप उत्तमम् ।
एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ ५१॥
कवचस्य प्रसादेन शूलाग्रं तस्य हस्तगम् ।
बभूव मांसरूपं तु यथापूर्वं करो बभौ ॥ ५२॥
अणिमाण्डव्यको नाम्ना तदादि स बभूव ह ।
स्वल्पकालेन योगीशो गाणपत्यप्रियोऽभवत् ॥ ५३॥
नित्यं गणपतेर्विप्रो मूर्तिपूजापरोऽभवत् ।
सदा गणेशभावज्ञः सर्ववन्द्यो महायशाः ॥ ५४॥
माण्डव्यचरितं पुण्यं यः शृणोति नरोत्तमः ।
पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते माण्डव्यचरितं नाम चत्वारिंशोऽध्यायः ॥ ३.४०
(Page खं. ३ अ. ४१ पान ९१)
३.४१ युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
धृतराष्ट्रं च जन्मान्धं त्यक्त्वा पाण्डुं प्रचक्रिरे ।
राजानं ब्राह्मणाः सर्वे स विजिग्ये वसुन्धराम् ॥ १॥
छत्रादि राजचिह्नैस्तं ज्येष्ठं भक्तिपरायणः ।
धृतराष्ट्रं चकाराऽसौ पाण्डुः परपुरञ्जयः ॥ २॥
धृतराष्ट्रस्य भार्याऽभूद्गान्धारी च पतिव्रता ।
पाण्डोः कुन्ती तथा माद्री भार्ये द्वे प्रबभूवतुः ॥ ३॥
भार्याभ्यां संयुतो राजा वनं पाण्डुर्जगाम ह ।
क्रीडार्थं तत्र नित्यं स रेमे हर्षेण संयुतः ॥ ४॥
मृगरूपधरं राजा मुनिं जघ्ने शरेण सः ।
मृग्यासक्तं शशापाऽसौ राजानं मरणोन्मुखः ॥ ५॥
भार्यासंसक्तरूपं मां हतवांश्च नृपाधम ।
अतस्त्वं भार्यया सक्तो मैथुनाय भविष्यसि ॥ ६॥
तदा ते मरणं सद्यो मम वाक्याद्भविष्यति ।
इत्युक्त्वा देहसन्त्यागं चकार द्विजसत्तमः ॥ ७॥
श्रुत्वा शापं महाघोरं राज्यं त्यक्त्वा वने स्थितः ।
भार्याभ्यां सहितः पाण्डुः कन्दमूलादि भक्षयन् ॥ ८॥
ततः कुन्त्यां समुद्भूतो धर्माद्धर्मभृतां वरः ।
युधिष्ठिरो महाभागो मन्त्रसामर्थ्यकारणात् ॥ ९॥
वायोश्च भीमसेनो वै बभूव बलसंयुतः ।
इन्द्रात् कुन्त्यामर्जुनः स धनुर्विद्यापरायणः ॥ १०॥
अश्विभ्यां नकुलस्तद्वत् सहदेवश्च वीर्यवान् ।
माद्र्यां धर्मरतौ दक्ष रूपलावण्यसंयुतौ ॥ ११॥
गान्धार्यां च शतं पूर्णं पुत्राणाममितौजसाम् ।
बभूव पुत्रिका दक्ष रूपलावण्यसंयुता ॥ १२॥
पाण्डुः शापविमोहेन माद्र्यां सक्तो ममार ह ।
सा वै सहगता जाता कुन्ती पुत्रानपालयत् ॥ १३॥
ब्राह्मणैः सा महाभागैरानीता हस्तिनापुरे ।
पुत्रैः कुन्ती तथा भीष्मादिभिः सम्मानिताऽवसत् ॥ १४॥
ततो बहौ गते कालेऽनुजैर्दुर्योधनः स ह ।
पाण्डवान् द्वेषसंयुक्तोऽपीडयत् स विषादिना ॥ १५॥
दग्धुं तेनैकदा लाक्षागृहे संस्थापिताः किल ।
पाण्डवाः सह मात्रा ते रक्षिताः कर्मणा तदा ॥ १६॥
इत्यादिविविधैर्भावैः द्वेषयुक्तः स दुर्मतिः ।
पीडयामास तान् शूरांस्ततो भीष्म उवाच ह ॥ १७॥
अर्धं राज्यं च सङ्गृह्य पुराद् गच्छन्तु पाण्डवाः ।
इन्द्रप्रस्थं ततो जग्मुर्धृतराष्ट्रप्रचोदिताः ॥ १८॥
तत्र दिग्विजयं कृत्वा श्रिया युक्ताश्च तेऽभवन् ।
कृष्णस्तेषां महाभागः पक्षग्राही बभूव ह ॥ १९॥
राजसूयमखं कृत्वा शुशुभुः पाण्डवास्ततः ।
यत्र दुर्योधनो राजाऽभवन्मनसि दुःखितः ॥ २०॥
धृतराष्ट्रेण दुर्बुद्धिरानयामास पाण्डवान् ।
द्यूतेन तान् महाभागान् जित्वा संहर्षितोऽभवत् ॥ २१॥
वनेषु स्थापयामास पाण्डवान् साहसप्रियः ।
वर्षाणि द्वादशाऽथैकं वर्षं गुप्ततया तथा ॥ २२॥
त्यक्त्वा राज्यादिकं सर्वं पाण्डवा वनमाययुः ।
तत्राऽजगाम तान् कृष्णो बलभद्रेण संयुतः ॥ २३॥
पाण्डवान् सान्त्वयामास क्रोधयुक्तो बभूव सः ।
दुर्योधनं हनिष्यामि महादुष्टं युधिष्ठिर ॥ २४॥
कुरु राज्यं मया दत्तं शत्रुहीनं विशेषतः ।
ब्रुवन्तं तं ततः कृष्णं जगाद स युधिष्ठिरः ॥ २५॥
धर्मयुक्ततया राज्यं करिष्यामि जनार्दन ।
(Page खं. ३ अ. ४२ पान ९२)
अहं नाधर्मसंयुक्तं राज्यमिच्छामि पापदम् ॥ २६॥
अतः कोपं महाबाहो नियच्छ मम वाक्यतः ।
वद त्वं धर्मसंयुक्तमुपायं राज्यलाभदम् ॥ २७॥
ततः कृष्णः स्वयं तत्र कोपहीन उवाच ह ।
युधिष्ठिरं स द्रौपद्या भ्रातृभिस्तं समन्वितम् ॥ २८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते युधिष्ठिरकृष्णसमागमो नामैकचत्वारिंशोऽध्यायः ॥ ३.४१
३.४२ लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग चरितं विघ्नपस्य च ।
कृष्णः सङ्कथयामास पाण्डवानमितद्युतिः ॥ १॥
श्रीकृष्ण उवाच ।
युधिष्ठिर महापुण्यशीलः शृणु वचो महत् ।
येन त्वं सङ्कटेभ्यश्च मुक्तः सन् सुखमाप्स्यसि ॥ २॥
इतिहासं पुरावृत्तं कथयामि समासतः ।
सर्वविघ्नहरं पुण्यं महोदरगुणैर्युतम् ॥ ३॥
एकदा देवदेवेशो विष्णुर्वैकुण्ठसंस्थितः ।
लक्ष्म्या सह विलासेन विष्वक्सेनादिभिर्वृतः ॥ ४॥
गरुडेन समीपस्थेन सदा हर्षसंयुतः ।
अप्सरोभिश्च गन्धर्वैर्देवैः संसेवितो बभौ ॥ ५॥
तमुवाच महाभागं भगवन्तं सनातनम् ।
शृण्वत्सु सर्वदेवेषु लक्ष्मीर्विनयसंयुता ॥ ६॥
श्रीलक्ष्मीरुवाच ।
स्वामिन्निच्छामि विज्ञप्तुं मम त्वं सततं गतिः ।
स्त्रीणां भर्तृसमं नैवास्ति किञ्चिद्वेदभाषितम् ॥ ७॥
त्वं साक्षाद्देवदेवेशः शङ्कराद्यैः सुसंस्तुतः ।
षडैश्वर्यसमायुक्तो भक्तेभ्यः सिद्धिदायकः ॥ ८॥
देवादीनां पदप्राप्तिस्त्वत्तो नैवात्र संशयः ।
सर्वेभ्यो भुक्तिदाता त्वं मुक्तिदाता तथा भवान् ॥ ९॥
सर्वेषां पालकस्त्वं वै तव पाता न विद्यते ।
तदपि ध्यानसंयुक्तो भजसे कं वदस्व मे ॥ १०॥
एकान्ते पूजयसि कं देवं त्वं विष्टरश्रवाः ।
आनन्दं परमं ब्रह्म तदेव त्वं श्रुतेर्मुखात् ॥ ११॥
विस्मापयति मां चित्ते त्वया ध्यानं कृतं प्रभो ।
अधुना त्वां च निर्लज्जा नाथ पृच्छामि ते नमः ॥ १२॥
संशयच्छेदनार्थं मां वद विष्णो विशेषतः ।
दासीं ते पादपद्मस्य द्वन्द्वहीनः सदा मतः ॥ १३॥
सर्वत्र समरूपस्त्वं सदाऽऽनन्दमयस्ततः ।
तस्मात्परं किमत्राऽस्ति कथं मोहयसे जनान् ॥ १४॥
ध्यानेन पूजनेनैव फलं किं ते भविष्यति ।
तथाऽपि त्वं किमर्थं भो ध्यानयुक्तोऽसि केशव ॥ १५॥
श्रीकृष्ण उवाच ।
इति प्रियावचः श्रुत्वा तां प्रहस्य जनार्दनः ।
समालिङ्ग्य प्रजानाथ उवाच जलधेः सुताम् ॥ १६॥
श्रीविष्णुरुवाच ।
शृणु प्रिये प्रवक्ष्यामि त्वया पृष्टं शुभप्रदम् ।
तारकं सर्वभूतानां सर्वेभ्यः सिद्धिदायकम् ॥ १७॥
न करोमि जनानां वै ध्यानं मोहाय नित्यदा ।
कुलदेवं गणेशानं भजामि सर्वभावतः ॥ १८॥
गुणेश्वराद्वयं देवि समुत्पन्ना महेश्वराः ।
(Page खं. ३ अ. ४२ पान ९३)
पञ्च देवा महाभागे तेन संस्थापिताः पदे ॥ १९॥
गुणेशेन तपस्तप्त्वाऽऽराधितो गणनायकः ।
गणेशेन गुणेशश्च स्थापितः स्वपदे पुरा ॥ २०॥
ज्ञानसत्तादिसंयुक्तो जातस्तद्वरदानतः ।
सोऽपि तं भजते देवि गणेशं भक्तिसंयुतः ॥ २१॥
प्रसेव्य तं महेशाना गणेशं सर्वदं वयम् ।
जाता ज्ञानादिसंयुक्ताः स्वस्वकार्यप्रवर्तकाः ॥ २२॥
अतस्तं भावसंयुक्ता भजामो नित्यमादरात् ।
स वै सर्वार्थदोऽस्माकं कुलदेवः प्रकीर्तितः ॥ २३॥
विष्णोर्वचनमाकर्ण्य लक्ष्मीर्विस्मितमानसा ।
जगाद तं महाविष्णुं विनयेन समन्विता ॥ २४॥
श्रीलक्ष्मीरुवाच ।
कोऽसौ गणेश्वरो नाम वद तस्य विशेषतः ।
स्वरूपं कुलदेवस्य भजिष्यामि जनार्दन ॥ २५॥
श्रीविष्णुरुवाच ।
सम्यक् पृष्टं त्वया देवि शृणु तस्य स्वरूपकम् ।
वदामि स्नेहयुक्तोऽहं यदि तं बोधयिष्यसि ॥ २६॥
स्वानन्दे सोऽपि वसति गणेशो ब्रह्मनायकः ।
स्वानन्दः पञ्चधा जातः शृणु तस्य कथानकम् ॥ २७॥
नामरूपात्मकं देवि जगति ब्रह्मणि स्थितम् ।
तत्र स्वानन्दको योगोऽसद्रूपः परिकथ्यते ॥ २८॥
असत्यमृतरूपं यत्तत् सदात्मप्रवाचकम् ।
सत्स्वरूपं च तद्विद्धि सत् स्वानन्दः प्रकीर्तितः ॥ २९॥
सत्यासत्यविहीनं यत् सत्यासत्यमयं तथा ।
आनन्दात्मकरूपं तत् समस्वानन्द उच्यते ॥ ३०॥
त्रिप्रबोधं त्रिभिर्हीनं मोहहीनं सदा मतम् ।
नेतिरूपं महाभागे स्वानन्दोऽव्यक्त उच्यते ॥ ३१॥
चतुर्णां योगभावोऽयं समाधिर्जायते किल ।
स्वानन्दः पञ्चमो ह्यत्र सर्वसंयोग उच्यते ॥ ३२॥
स वै मायामयः प्रोक्तो गणेशो वेदवादिभिः ।
चतुर्धा रचितं तेन तेषु खेलति नित्यदा ॥ ३३॥
मायाहीनतया ढुण्ढिरभूत् सोऽयोगवाचकः ।
न तत्र कस्य संयोगो बुधैस्तस्यापि कथ्यते ॥ ३४॥
मायायुक्तविहीनत्वं तदेव भ्रान्तिदायकम् ।
ताभ्यां हीनो गणेशोऽयं योगरूपः प्रकथ्यते ॥ ३५॥
तत्र शान्तिर्भवेद्देवि योगिनां नात्र संशयः ।
अतो योगस्वरूपा सा कथ्यते शान्तिरुत्तमा ॥ ३६॥
मनोवाणीमयं सर्वं गकाराक्षरवाचकम् ।
मनोवाणीविहीनं वै णकाराक्षररूपकम् ॥ ३७॥
तयोः स्वामी गणाधीशः पश्य वेदे शुचिस्मिते ।
अतस्तं भक्तिसंयुक्तो भजेऽहं सर्वनायकम् ॥ ३८॥
भ्रमरूपां महामायां सिद्धिं जानीहि मानदे ।
सिद्ध्यर्थं सर्वलोकाश्च विभ्रमन्तीश्वरा अतः ॥ ३९॥
भ्रमधारकरूपां वै बुद्धिं जानीहि निश्चितम् ।
सिद्ध्या बुद्ध्या च तत्रैव भ्रमोत्पत्तिः प्रजायते ॥ ४०॥
तयोः स्वामी सदायोगशान्तिरूपोऽयमुच्यते ।
तस्यैव भजने देवि ब्रह्मभूता भवन्त्यतः ॥ ४१॥
इत्युक्त्वा विररामाऽथ स्वयं नारायणः प्रभुः ।
श्रुत्वा समुद्रपुत्री सा विस्मिता मानसेऽभवत् ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते लक्ष्मीनारायणसंवादवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ३.४२
(Page खं. ३ अ. ४३ पान ९४)
३.४३ महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीकृष्ण उवाच ।
शृणु धर्म महाभाग कथां पापापनोदिनीम् ।
लक्ष्मीस्तं पुनरप्याह गणेशज्ञानलालसा ॥ १॥
श्रीमहालक्ष्मीरुवाच ।
भगवन् भवता प्रोक्तं महाशान्तिप्रदं परम् ।
तथाऽपि मे सुशान्त्यर्थं तत्रोपायं वदस्व मे ॥ २॥
श्रीनारायण उवाच ।
षडक्षरेण मन्त्रेण यदि तं साधयिष्यसि ।
तदा ते गणनाथः स प्रत्यक्षं प्रभविष्यति ॥ ३॥
तस्य दर्शनमात्रेण शान्तिं प्राप्स्यसि निश्चितम् ।
तमाराधय यत्नेन तपसा योगभाविता ॥ ४॥
एवमुक्त्वा महाविष्णुर्गणेशस्य ददौ मनुम् ।
षडक्षरं महालक्ष्म्यै विधियुक्तं विधानतः ॥ ५॥
ततः सा तं प्रणम्यैव तपसे वनमाययौ ।
हिमाचलशिरःसंस्था तताप तप उत्तमम् ॥ ६॥
षडक्षरविधानेन ध्यात्वा देवं गजाननम् ।
जजाप मन्त्रराजं तं नासाग्रनयना सती ॥ ७॥
चित्तस्य चेन्द्रियाणां संस्थाप्य वृत्तिं गजानने ।
निराहारयुता देवी बभूव तपसि स्थिता ॥ ८॥
शतवर्षे गते पूर्णे सास्थिचर्माऽवशेषिता ।
तामाऽऽययौ गणाधीशो भक्त्या बद्धो धरापते ॥ ९॥
तमागतं महादेवी प्रणनाम चतुर्भुजम् ।
महोदरं त्रिनेत्रं च परश्वादिधरं प्रभुम् ॥ १०॥
मूषकध्वजिनं पूर्णं मूषकोपरि संस्थितम् ।
सिद्धिबुद्धिसमायुक्तं नानाभूषणभूषितम् ॥ ११॥
गले चिन्तामणिमणिं बिभ्रतं ज्योतिषां पतिम् ।
शेषनाभिं गजास्यं वै पीतवस्त्रैश्च शोभितम् ॥ १२॥
ततस्तं पूजयामास प्रभुं नानोपचारकैः ।
प्रणम्योत्थाय तुष्टाव कृत्वा करपुटं सती ॥ १३॥
श्रीमहालक्ष्मीरुवाच ।
नमो महोदरायैव नानालीलाधराय ते ।
सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः ॥ १४॥
चतुर्बाहुधरायैव चतुर्णां चालकाय ते ।
मूषकारूढरूपाय मूषकध्वजिने नमः ॥ १५॥
अन्नताननदेहाय ह्यनन्तविभवाय ते ।
अनन्तहस्तपादाय सदाऽनन्ताय ते नमः ॥ १६॥
चराचरमयायैव चराचरविवर्जित ।
योगशान्तिप्रदात्रे ते सदा योगस्वरूपिणे ॥ १७॥
अनादये गणेशायादिमध्यान्तस्वरूपिणे ।
आदिमध्यान्तहीनाय विघ्नेशाय नमो नमः ॥ १८॥
सर्वादिपूज्यकायैव सर्वपूज्याय ते नमः ।
सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥ १९॥
विनायकाय सर्वेषां नायकाय विशेषतः ।
ढुण्ढिराजाय हेरम्ब भक्तेशाय नमो नमः ॥ २०॥
सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः ।
त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥ २१॥
कर्मणां फलदात्रे च कर्मणां चालकाय ते ।
कर्माकर्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ २२॥
योगेशाय च योगिभ्यो योगदाय गजानन ।
सदा शान्तिघनायैव ब्रह्मभूताय ते नमः ॥ २३॥
किं स्तौमि गणनाथं त्वां सदा ब्रह्मपतिं प्रभो ।
अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ २४॥
धन्याऽहं कृतकृत्याऽहं सफलो मे भवोऽभवत् ।
धन्यो मे जनको नाथो यया दृष्टो गजाननः ॥ २५॥
एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा ।
साश्रुयुक्ता ननर्तैव बाष्पकण्ठा युधिष्ठिर ॥ २६॥
(Page खं. ३ अ. ४३ पान ९५)
तामुवाच गणाधीशो वरं वृणु यथेप्सितम् ।
दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः ॥ २७॥
त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां शृण्वतां देवि नानाकार्यकरं तथा ॥ २८॥
पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः ।
धनधान्यादिसम्भूतं सुखं विन्दति मानवः ॥ २९॥
गणेशवचनं श्रुत्वा महालक्ष्मीर्जगाद तम् ।
हर्षेण महता युक्ता प्रणम्य करसम्पुटा ॥ ३०॥
श्रीमहालक्ष्मीरुवाच ।
यदि प्रसन्नभावेन वरदोऽसि महोदर ।
तदा ते भक्तिमुग्रां मे देहि नाथ नमोऽस्तु ते ॥ ३१॥
अस्माकं कुलदेवस्त्वं तत्र त्वां गणनायक ।
भजामि भावयुक्ताऽहं तथापि शृणु मे वचः ॥ ३२॥
मनश्चञ्चलभावेन संसारे गच्छति प्रभो ।
संसारः पुत्रमोहाख्यस्तदर्थं भ्रमते सदा ॥ ३३॥
अतस्त्वं पुत्रभावेन भव मे विघ्नवारण ।
तत्र त्वां पुत्रवात्सल्येन भजामि निरन्तरम् ॥ ३४॥
देवभावेन ते मूर्तिं गजवक्त्रादिचिह्निताम् ।
भजामि च तथा त्वाहं संसारे पुत्ररूपिणम् ॥ ३५॥
योगरूपः स्वयं साक्षाद्यदि पुत्रो भविष्यसि ।
तेन योगस्वरूपा सा शान्तिः प्राप्ता न संशयः ॥ ३६॥
तव माता पिता चैव बन्धयुक्तौ यदि प्रभो ।
तदा वेदादिकं सर्वं मिथ्यारूपं भविष्यति ॥ ३७॥
अतो मे पुत्रतां याहि तयाऽहं गणनायक ।
भजामि ब्रह्मभूता न सन्देहो भक्तिसंयुता ॥ ३८॥
मह्यमेष वरो नाथ दातव्यः करुणानिधे ।
नान्यं याचे महाभाग देवदेवेश ते नमः ॥ ३९॥
इति लक्ष्म्या वचः श्रुत्वा हर्षयन् स महोदरः ।
उवाच तां सुभावज्ञो भावपूर इति स्मृतः ॥ ४०॥
गणेश उवाच ।
तव पुत्रो भविष्यामि ज्ञानारेर्नाशनाय च ।
दैत्यस्य ते प्रसेवार्थं भक्तिग्रहणलालसः ॥ ४१॥
यद्यदिच्छसि तत्तत्त्वं लभसे देवि निश्चितम् ।
मदीयवरदानेन योगिवन्द्या भविष्यसि ॥ ४२॥
आदौ त्वया महादेवि मदीयं भजनं कृतम् ।
तेन शान्तियुता जाता योगस्था मोहवर्जिता ॥ ४३॥
ततस्त्वां तपसा विप्रो भृगुः पुत्रीं चकार ह ।
सा त्वं नष्टा द्विजस्यैव शापतो मोहसंयुता ॥ ४४॥
समुद्रेण ततो देवि तथैवाऽऽराधिता पुरा ।
तस्य पुत्रीत्वमापन्ना त्वं विष्णोर्दयिता सदा ॥ ४५॥
तेन ते विस्मृतिर्जाता मदीया नात्र संशयः ।
विष्णुना बोधिता मां त्वं प्राप्ता योगस्य सेवया ॥ ४६॥
अधुना स्मर सर्वं तत् स्मारितं ते मयाऽनघे ।
विष्णुनाऽप्यादिकालेऽहं पुत्रार्थे याचितोऽभवम् ॥ ४७॥
त्वं तथा पुत्रभावार्थं याचसे मां समुद्रजे ।
करोमि ते हितं देवि विष्णोश्चैव न संशयः ॥ ४८॥
एवमुक्त्वा गणेशस्तां ययौ स्वानन्दके पुरे ।
अन्तर्धाय स्वमात्मानं लक्ष्मीः खिन्ना ततोऽभवत् ॥ ४९॥
स्मृत्वा योगबलेनैव पुरातनभवां कथाम् ।
विस्मिता मानसे जाता सस्मार द्विरदाननम् ॥ ५०॥
मूर्तिं तत्र प्रतिष्ठाप्य ब्राह्मणैर्वेदपारगैः ।
पूजयित्वा ययौ स्थानं लक्ष्मीर्भक्तिसमन्विता ॥ ५१॥
(Page खं. ३ अ. ४४ पान ९६)
प्रणम्य तं महाविष्णुं जगाद सर्वमञ्जसा ।
वृत्तान्तं सोऽपि तं श्रुत्वा हर्षितस्तामुवाच ह ॥ ५२॥
धन्याऽसि जलधेः पुत्रि साक्षाद् दृष्टस्त्वया विभुः ।
पुत्रभावेन ते गेह आगमिष्यति विघ्नपः ॥ ५३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते महालक्ष्मीवरप्रदानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ३.४३
३.४४ ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
युधिष्ठिर उवाच ।
तव कृष्णमुखाम्भोजान्निःसृतां सर्वपावनीम् ।
कथां श्रुत्वा न मे तृप्तिर्जायतेऽमृतपानवत् ॥ १॥
ज्ञानारिर्नाम दैत्येशः कस्य पुत्रो बभूव ह ।
किं कर्म तस्य यत् कृष्ण चेष्टितं वद विस्तरात् ॥ २॥
यदर्थं गणराजः स देहधारी बभूव ह ।
न सामान्यं चरित्रं वै दैत्येशस्य जगद्गुरो ॥ ३॥
कथं विष्णोश्च पुत्रोऽभूद्गणेशो ब्रह्मनायकः ।
चरित्रं किं कृतं तेन विस्तराद्वद केशव ॥ ४॥
मुद्गल उवाच ।
युधिष्ठिरस्य भावं स ज्ञात्वा वृष्णिकुलोद्भवः ।
नारायणः कथां तस्मै अवदद्भवनाशिनीम् ॥ ५॥
श्रीकृष्ण उवाच ।
युधिष्ठिर कथां रम्यां शृणु पापापनोदिनीम् ।
ब्रह्मभूयप्रदां ढुण्ढेः सुचरित्राश्रितां प्रभोः ॥ ६॥
दुर्बुद्धिर्नाम दैत्येशो हतो विघ्नहरेण च ।
शिवपुत्रस्वरूपेण त्रैलोक्यविजयी पुरा ॥ ७॥
तस्य पुत्रोऽयमुत्पन्नः संस्थितः स्वगृहे तथा ।
बालभावाच्च धर्मज्ञाऽभवत् ज्ञानारिनामकः ॥ ८॥
प्रह्लादः स्वसुतां तस्मै ददौ हर्षसमन्वितः ।
रूपलावण्यसंयुक्तां सुकलां नामतः स्वयम् ॥ ९॥
स तु यौवनमापन्नो दुर्मतिं पितरं सदा ।
सस्मार दुःखसंयुक्तो गणेशेन हतं पुरा ॥ १०॥
स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् ।
शैवीं तया वने गत्वाऽऽराधयामास शङ्करम् ॥ ११॥
वायुभक्षो महादैत्यो ज्ञानारिर्यत्नमास्थितः ।
तताप तप उग्रं स वर्षाणामयुतं प्रभो ॥ १२॥
ततस्तं प्रययौ शम्भुः पार्वत्या सहितः स्वयम् ।
उवाच तं महाभक्तं भक्तवाञ्छाप्रपूरकः ॥ १३॥
श्रीशिव उवाच ।
वरं वृणु महाभाग तपसा तोषितस्त्वया ।
दास्यामि वाञ्छितं दैत्य यद्यपि स्यात् सुदुर्लभम् ॥ १४॥
शिवस्य वचनं श्रुत्वा प्रबुद्धो दैत्यपुङ्गवः ।
दृष्ट्वा शम्भुं मुदा युक्तः प्रणनाम कृताञ्जलिः ॥ १५॥
प्रणम्य पूजयामास ततस्तं दैत्यपः पुनः ।
तुष्टाव सुस्थिरो भूत्वा शङ्करं भक्तवत्सलम् ॥ १६॥
ज्ञानारिरुवाच ।
नमस्ते शङ्करायैव पार्वतीसहिताय ते ।
वृषध्वजाय शैलादिवाहनाय नमो नमः ॥ १७॥
अव्यक्तदेवाय च शिवाय शूलप्रधारिणे ।
निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ १८॥
सदाशिवाय मायाया आधाराय नमो नमः ।
(Page खं. ३ अ. ४५ पान ९७)
मायामोहविहीनाय शम्भवे ते नमो नमः ॥ १९॥
सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे ।
अनाथाय च सर्वेषां नाथाय परमात्मने ॥ २०॥
चराचरस्वरूपाय नमोऽचरचरात्मने ।
महादेवाय देवानां पतये ते नमो नमः ॥ २१॥
मनोवागतिरूपाय योगिध्येयाय ते नमः ।
योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥ २२॥
धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः ।
तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥ २३॥
प्रसन्नोऽसि महेशान तदा देहि महाप्रभो ।
चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥ २४॥
यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा ।
आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥ २५॥
तथेति शिव ऊचे तमन्तर्धानं चकार ह ।
स दैत्यो हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ २६॥
ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः ।
शृणोति शङ्करस्तस्मै वाञ्छितं ददते परम् ॥ २७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ३.४४
३.४५ पूर्णानन्दावतारो नाम पञ्चचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीकृष्ण उवाच ।
ज्ञानारिर्वरसंयुक्तोऽभवद्दैत्यैः प्रपूजितः ।
शुक्रेणाऽऽगत्य विप्रैः सोऽभिषिक्तो राज्यकर्मणि ॥ १॥
नमुचिः शम्बरः कालासुरश्चैव प्रतापवान् ।
जम्भो बलासुरः पञ्च प्रधानास्तस्य चाऽभवन् ॥ २॥
नानादैत्यगणैर्युक्तः पृथिवीं सप्तसागराम् ।
दैत्यो विजिग्ये सद्वीपां तथा पातालमोजसा ॥ ३॥
ततः स्वर्गं ययौ दैत्यो दैत्यपैश्च समावृतः ।
इन्द्रः सुरगणैः सार्धं पपाल भयसङ्कुलः ॥ ४॥
ज्ञानारिः सत्यलोकं च ययौ दैत्यसमन्वितः ।
तत्र ब्रह्मस्थितो देवैर्ज्ञात्वा दैत्यं पपाल सः ॥ ५॥
विष्णुर्वैकुण्ठमुत्सृज्य पपाल च युधिष्ठिर ।
दैत्यस्तत्र समागम्य हर्षितः सम्बभूव ह ॥ ६॥
जगाम तत आनन्दात् कैलासं दैत्यनायकः ।
शङ्करं प्रणिपत्याऽऽह कैलासं देहि मे प्रभो ॥ ७॥
नोचेद्युद्धेन जेष्यामि त्वामहं नात्र संशयः ।
शङ्करः क्षुभितो भूत्वा कम्पितः प्रददौ तथा ॥ ८॥
पपाल भयसंयुक्तः सामरः स वनं ययौ ।
कैलासे संस्थितो दैत्यो ननन्द भृशमोहितः ॥ ९॥
ततः स्वर्गेषु दैत्येशान् स्थापयामास निर्भयः ।
ययौ स्वनगरे धर्म दैत्यपैः संवृतो बभौ ॥ १०॥
सुकलायां महादैत्यात् पुत्रोऽभूच्च युधिष्ठिर ।
सुमुहूर्ते महातेजा रूपेणाऽप्रतिमः परः ॥ ११॥
पुत्रजन्मप्रहृष्टः स ददौ दानानि भूमिप ।
जातकर्मादिकं कर्म चकार विधिपूर्वकम् ॥ १२॥
सदा कर्मविनाशार्थं प्रेषयामास दैत्यपान् ।
तैः सर्वत्र कृतो नाशः कर्मणां भूमिमण्डले ॥ १३॥
(Page खं. ३ अ. ४५ पान ९८)
न स्वाहा न वषट्कारो न स्वधा कुत्रचित् प्रभो ।
कर्महीनतया देवा दुःखिता अभवंस्ततः ॥ १४॥
उपोषणसमायुक्ता विचारं चक्रुरादरात् ।
ज्ञानारिनाशनार्थाय न प्रापुस्ते विचक्षणाः ॥ १५॥
गते बहुतरे काले किं कुर्यामिति विह्वलाः ।
तत्र विष्णुरुवाचेदं वचनं हितकारकम् ॥ १६॥
श्रीविष्णुरुवाच ।
चराचरमयं सर्वं तस्मात्तस्य भयं नहि ।
अतो विघ्नेश्वरं देवा भजामाऽत्र न संशयः ॥ १७॥
स वै बुद्धिपतिः साक्षाद्बुद्ध्या छिद्रं प्रकाशयेत् ।
तेन तं निहनिष्यामः सिद्धिदाता स नो भवेत् ॥ १८॥
विष्णोर्वचनमाकर्ण्य साधु साधु दिवौकसः ।
ऊचुस्तं ते ततो ढुण्ढिमभजन् भक्तिसंयुताः ॥ १९॥
दशाक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् ।
अतुष्यन्नमराः सर्वे विभो नानातपोन्विताः ॥ २०॥
गते वर्षे गणाधीशः प्रसन्नः स समाययौ ।
रात्रौ स्वप्ने च लक्ष्म्यास्तामुवाच वचनं हितम् ॥ २१॥
शृणु मातस्त्वया पूर्वं याचितः पुत्रकाम्यया ।
सोऽहं ते पुत्रभावेन संस्थितः पश्य भामिनि ॥ २२॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो गणवल्लभः ।
लक्ष्म्युत्सङ्गे ततो बालो भूत्वा चिक्रीड विघ्नपः ॥ २३॥
जजागार महालक्ष्मीर्गणेशं मनसाऽस्मरत् ।
ददर्श निजशय्यायां बालं शुण्डाधरं परम् ॥ २४॥
विस्मिता हर्षिताऽत्यन्तं नारायणमुवाच ह ।
वृत्तान्तं सा महाभागा दर्शयामास विघ्नपम् ॥ २५॥
सस्त्रीकः प्रणनामाऽथ तुष्टाव गणपं प्रभुम् ।
गाणपत्यैर्महासूक्तैर्हर्षयुक्तश्व माधवः ॥ २६॥
धन्योऽहं सर्वभावेन त्वदङ्घ्रियुगदर्शनात् ।
पुत्रभावेन मां पालयसि नाथ न संशयः ॥ २७॥
ततस्तत्रामराः सर्वे मुनयश्च समागताः ।
विस्मितास्तुष्टुवस्तं ते नानास्तोत्रैर्युधिष्ठिर ॥ २८॥
ततस्ते जातकर्माऽपि चक्रुः परमभाविताः ।
एकादशदिने तस्य मुनयो नाम चक्रिरे ॥ २९॥
द्वन्द्वभावविहीनोऽयं साक्षादानन्ददायकः ।
समो द्वन्द्वेषु सर्वेषु तद्विकारविवर्जितः ॥ ३०॥
अतो नामाऽस्य देवेशाः पूर्णानन्द इति स्फुटम् ।
कुरुध्वं सर्वदाऽऽनन्ददायको नो भविष्यति ॥ ३१॥
तथेति नाम तैः सर्वैः कृतं तस्य महात्मनः ।
चकार व्रतबन्धं च पञ्चमे विष्णुरव्ययः ॥ ३२॥
कश्यपस्य गृहे देव्यौ सम्भूते पुत्रिकात्मिके ।
विद्याऽविद्ये ततोऽदित्यां तपसाऽऽराधिते विभो ॥ ३३॥
तस्मै ददौ मुदा युक्तः कश्यपः सम्प्रहर्षितः ।
ननाम पूर्णानन्दाय विप्रेशो भक्तिसंयुतः ॥ ३४॥
द्वादशाब्दवयो युक्तो बभूव गणनायकः ।
बालक्रीडनकेनैव मोहयामास देवपान् ॥ ३५॥
स्तनपानादिकं तस्य भोजनाच्छादनादिकम् ।
लक्ष्मीः स्वयं चकारैव हर्षयुक्तेन चेतसा ॥ ३६॥
विष्णुस्तं लालयामास नित्यं देवगणैर्वृतः ।
जामातरं कश्यपश्च तथा विप्रैर्युधिष्ठिर ॥ ३७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते पूर्णानन्दावतारो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ३.४५
(Page खं. ३ अ. ४६ पान ९९)
३.४६ ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
युधिष्ठिर उवाच ।
कृष्ण कृष्ण महाभाग वद दैत्यस्य चेष्टितम् ।
पूर्णानन्दः कथं दैत्यं जघान कौतुकं महत् ॥ १॥
चराचराद्भयं तस्य नास्ति नारायण प्रभो ।
अत आश्चर्यभूतं वै चरित्रं मे प्रभासते ॥ २॥
मुद्गल उवाच ।
युधिष्ठिरवचः श्रुत्वा कृष्णस्तं प्रत्युवाच यत् ।
तदेव शृणु दक्ष त्वं चेष्टितं गणपस्य च ॥ ३॥
श्रीकृष्ण उवाच ।
पुत्रो बभूव दैत्यस्य ज्ञानारेः सर्वसम्मतः ।
एकादशदिने तत्र ब्राह्मणा प्रययुर्गृहम् ॥ ४॥
सुबोध इति नाम्ना तं चक्रुर्दैत्येशसत्तमाः ।
द्विजेरिता द्विजेभ्यस्ते ददुर्दानानि हर्षिताः ॥ ५॥
स तु ज्ञानसमायुक्तो गाणेशो दैत्यजो नृपः ।
बालभावेऽपि विघ्नेशं चिन्तयामास सर्वदा ॥ ६॥
स्तनपानादिकं बालः सस्मार न कदाचन ।
माता तस्मै यदा स्मृत्वा स्तनपानं ददौ पपौ ॥ ७॥
एवं सोऽपि स्वमातृस्थः स्तनपानं चकार ह ।
सदा ध्यानसमायुक्तः सस्मार गणपं हृदि ॥ ८॥
ततः पञ्च तथा सप्त मासास्तस्य गता विभो ।
वयसः स तदा चक्रे क्रीडनं शृणु तत्प्रभो ॥ ९॥
धूलिमध्ये स्वहस्तेन चकार गणपाकृतिम् ।
चिक्षेप तत्र धूलिं पूजोपचारककारणात् ॥ १०॥
त्रिकालपूजनं तत्र चकार नियमेन सः ।
ध्यानयुक्तेन विघ्नेशमभजच्च ततः परम् ॥ ११॥
एकदा भोजनार्थं च संस्थितो दैत्यनायकः ।
ज्ञानारिस्तं ददर्शैव क्रीडन्तं बालभावतः ॥ १२॥
गणेशाकारमूर्तिं वै भूमिमध्ये चकार सः ।
पूजयामास तां पुत्रस्ततो धूल्युपचारकैः ॥ १३॥
ततोऽतिकुपितः पत्नीमूचिवान् विस्मयान्वितः ।
पितुर्मम निहन्तारं भजतेऽयं तवात्मजः ॥ १४॥
अधुना निश्चयाभावान्न सुतं हन्मि ते प्रिये ।
सावधानमना भूत्वा चेष्टाहीनं सुतं कुरु ॥ १५॥
पितृहन्तारमेवायं करोति तनयो यतः ।
पुनर्दृष्टो मया चेत्तं हनिष्यामि सुतं प्रिये ॥ १६॥
सा तथेति तमुच्चार्य स्थिता विनयसंयुता ।
पतिव्रता महाभागा पतिवाक्यपराऽभवत् ॥ १७॥
भर्तुर्गमनकाले सा संयता पुत्रमाददे ।
लालयामास तं तत्र न पश्यति यथा नृपः ॥ १८॥
ततः सुबोधनामाऽसौ वर्षादूर्ध्वं वयःस्थितः ।
चकार भाषणं तत्र वाचाऽस्पष्टस्वरूपया ॥ १९॥
नमो हेरम्ब विघ्नेश गणेशाय महोदर ।
लम्बोदराय विकटाय नमो ढुण्ढये नमः ॥ २०॥
इत्यादिभावयुक्तश्च सस्मार गणपं सदा ।
अनन्यमनसा धर्म तथा पूजापरायणः ॥ २१॥
माताऽऽगृह्य ततः स्नेहवशात्पुत्रं युधिष्ठिर ।
भर्त्रा गमनकाले सा दूरं चक्रे सखीजनैः ॥ २२॥
यत्नमास्थाय सा देवी पुत्रं नित्यं ररक्ष ह ।
कदाचित् सा स्वपतिनाऽऽज्ञप्ता पुत्रं नयस्व च ॥ २३॥
निद्रितोऽयं सुतः स्वामिन्नेवं प्रोच्य महासती ।
कालातिक्रमणं चक्रे दुःखयुक्ता युधिष्ठिर ॥ २४॥
पञ्चमे व्रतबन्धं च ज्ञानारिस्तस्य हर्षितः ।
चकार स सुतस्तत्र गणेशं मनसा स्मरन् ॥ २५॥
कर्मभङ्गभयात् सोऽपि पूजां चक्रे सुमानसीम् ।
(Page खं. ३ अ. ४६ पान १००)
ततः कर्मसमाप्तौ वै ननाम सकलान्नृप ॥ २६॥
ततो गुरुकुले राज्ञा स्थापितोऽभूत् सुबोधकः ।
तत्र दैत्यसुताः सर्वे नानारूपाः स्थिता बभुः ॥ २७॥
शुक्रशिष्या महाभागाः तान् सर्वान् यत्नतः सदा ।
विद्यां तां शिक्षयामासुरासुरीं देवमोहिनीम् ॥ २८॥
तत्राऽयं राजपुत्रश्च गुरुभिर्मानितो भृशम् ।
अतिष्ठद्विघ्नराजं स संस्मरन् भक्तिलालसः ॥ २९॥
विद्यां शिक्षयितुं राजपुत्रो गुरुभिरासुरीम् ।
सम्मानितश्च तान् सोऽपि नमस्कृत्य स्थितोऽभवत् ॥ ३०॥
गुरुभिः कथितं यच्च श्रुत्वा विस्मितमानसः ।
उवाच तान् महाबुद्धिः सुबोधो विषयात्मकान् ॥ ३१॥
सुबोध उवाच ।
ब्राह्मणा ब्रह्मनिष्ठाश्च सदा योगपरायणाः ।
गाणपत्या विशेषेण भजन्ते गणनायकम् ॥ ३२॥
भेदाभेदादिभिर्हीने गणेशार्थे विचक्षणाः ।
मोहदामासुरीं विद्यां त्यक्त्वा वन्द्या भवन्त्यतः ॥ ३३॥
भवन्तो ज्ञानशीलाश्च किं मां वदथ विप्रपाः ।
गणेशं सर्वपूज्यं वै त्यक्त्वा मोहप्रदं परम् ॥ ३४॥
यदा स्वधर्मनिष्ठाश्चेद्ब्राह्मणा वचनं तदा ।
तेषां ग्राह्यं न सन्देहो नान्यथा मोहकं कदा ॥ ३५॥
गुणयुक्तविहीनाश्चेद्ब्राह्मणा मानवैः सदा ।
वन्दनीया न सन्देहः पूज्या सर्वत्र सम्मताः ॥ ३६॥
अतोऽहं ब्राह्मणान् सर्वान्नमामि वचनं तथा ।
हितं चेत्तद् ग्रहीष्यामि नान्यथा गुरवः कदा ॥ ३७॥
श्रीकृष्ण उवाच ।
सुबोधस्य वचः श्रुत्वा विस्मितास्ते महर्षयः ।
ऊचुस्ते दैत्यपुत्रं वै शृणु धर्मं सुखप्रदम् ॥ ३८॥
दैत्याचार्या ऊचुः ।
सुबोध त्वं च बालोऽसि योगं वदसि सूत्तमम् ।
स्वधर्मादि समायुक्तं साक्षाद्योगीश्वरो यथा ॥ ३९॥
न त्वया वेदविद्या या शिक्षिता सा महामते ।
तथाऽपि कथमेतत्ते ज्ञानं प्राप्तं वदस्व भोः ॥ ४०॥
सुबोध उवाच ।
माता गर्भवती मे गता पितृर्गृह एकदा ।
तत्राऽऽययौ महाभागः शुकः सर्वार्थकोविदः ॥ ४१॥
तं प्रणम्य स योगीशं प्रह्लादो हर्षसंयुतः ।
सम्पूज्य तं महात्मानं पप्रच्छ विनयान्वितः ॥ ४२॥
प्रल्हाद उवाच ।
व्यासपुत्र महायोगिन् शुक साक्षाच्छिवः स्वयम् ।
त्वं जातोऽसि न सन्देहो योगीन्द्राणां गुरोर्गुरुः ॥ ४३॥
पूर्वपुण्यबलेनैव प्राप्तं ते दर्शनं महत् ।
अतस्त्वां परिपृच्छामि वद त्वं करुणानिधे ॥ ४४॥
सर्वमान्यं च सर्वेषां योगशान्तिप्रदं भवेत् ।
नानामतविमोहस्य च्छेदकं वद विस्तरात् ॥ ४५॥
सुबोध उवाच ।
प्रह्लादस्य वचो रम्यं श्रुत्वा योगीन्द्रसत्तमः ।
जगाद तं महाभागं योगशान्तिपरायणम् ॥ ४६॥
श्रीशुक उवाच ।
प्रह्लाद त्वं महाभागाऽसि सुज्ञो योगधारकः ।
अतस्त्वां हि विशेषेण वदामि हितकारकम् ॥ ४७॥
सर्वमान्यं तथा राजन् सर्वेभ्यः शान्तिदायकम् ।
नानामतेषु सेव्यं यत् कथयामि सविस्तरम् ॥ ४८॥
एकदा नैमिषारण्ये समाजग्मुर्महर्षयः ।
ब्रह्माण्डस्था महाभागा ब्रह्मयज्ञस्य कारणात् ॥ ४९॥
यत्र योगमयी गाथा वर्तते दानवोत्तम ।
(Page खं. ३ अ. ४७ पान १०१)
वेदेषु स ब्रह्मयज्ञ इत्युक्तो वेदवादिभिः ॥ ५०॥
मरीचिः कश्यपश्चैव कण्वोऽत्रिः पुलहः क्रतुः ।
विश्वामित्रो महातेजा याज्ञवल्क्यस्तथाऽऽरुणिः ॥ ५१॥
अष्टावक्रो वसिष्ठश्च भरद्वाजः पराशरः ।
व्यासः परशुरामः श्वेतकेतुर्मुद्गलो मुनिः ॥ ५२॥
अगस्त्यो हनुमांश्चैव राक्षसश्च विभीषणः ।
अश्वत्थामा गृत्समदः कृपश्चैव प्रतापवान् ॥ ५३॥
मार्कण्डेयो मृकण्डश्च बकदाल्भ्यस्तथा विभो ।
नारदः कपिलो रैभ्यः कर्दमश्च महायशाः ॥ ५४॥
एको द्वितस्त्रितश्चैव देवलो ह्यसितस्तथा ।
पुलस्त्यश्च भृगुश्चैव च्यवनो गौतमो मुनिः ॥ ५५॥
अङ्गिरा वै दीर्घतमा उतथ्यो गालवस्तथा ।
दधीचिरुशना जीवो जमदग्निर्महामुनिः ॥ ५६॥
वैशम्पायन एवं वै शौनकः शुनकः प्रभो ।
वामदेवः सुमन्तुश्च पैलः शाकलको मुनिः ॥ ५७॥
जैमिनिर्धौम्यकाद्याश्च स शिष्यास्तत्र ते ययुः ।
अन्ये नाना मुनिवरा हर्षयुक्ता ययुः किल ॥ ५८॥
दत्तात्रेयश्च दुर्वासा निदाघो भरतो जडः ।
सनातनः सनन्दः सनत्कुमारक आययुः ॥ ५९॥
अहं रिभूश्च सनक इत्याद्या बहवोऽपरे ।
अवधूता योगिनश्च जग्मुर्यज्ञस्य दर्शनात् ॥ ६०॥
इन्द्रो ब्रह्मा तथा विष्णुः शङ्करो भानुरेव च ।
सस्त्रीका देवराजाश्च देवा अन्ये समाययुः ॥ ६१॥
शेषो वासुकिनागश्च कम्बलोऽश्वतरस्तथा ।
तक्षकाद्या महाभागा नागास्तत्र समाययुः ॥ ६२॥
गन्धर्वाश्चारणाश्चैव सिद्धाः साध्यगणास्तथा ।
आदित्या वसवो यक्षा आययुश्चाप्सरोवराः ॥ ६३॥
कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठाश्च योगिनः ।
नानादेवरताः सर्वे आययुस्तत्र मानद ॥ ६४॥
प्रह्लाद ब्रह्मयज्ञस्य दर्शनार्थं विशेषतः ।
तत्रैव निश्चये सक्ताः सर्वमान्येऽभवञ्जनाः ॥ ६५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ३.४६
३.४७ ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीशुक उवाच ।
तत्र नानाकथां चक्रुर्नानामतविकासिनीम् ।
स्वस्वबुद्ध्या विशेषेण मुख्याः प्रह्लाद आदरात् ॥ १॥
केचिदाहुर्विधातारं विष्णुं शक्तिं शिवं रविम् ।
ब्रह्मरूपं गणेशानं नानामतपरायणाः ॥ २॥
केचिदन्नं च प्राणं च मनोविज्ञानकं तथा ।
आनन्दं सोऽहमेकं वै चैतन्यं बिन्दुकं परे ॥ ३॥
बोधमात्मानमेके च साङ्ख्यं कर्म तथाऽपरे ।
सममव्यक्तरूपं ते आहुर्ब्रह्म तथाऽपरम् ॥ ४॥
स्वसंवेद्यं तथा केचिन्निवृत्तिं शान्तिरूपकम् ।
योगमध्यात्मरूपं त आहुर्वेदपरायणाः ॥ ५॥
असत्यं सत्यमेके च पूर्णानन्दं तथाऽसुर ।
सहजं च परं ब्रह्म वादयुक्ता बभूविरे ॥ ६॥
(Page खं. ३ अ. ४७ पान १०२)
निश्चयस्तत्र दैत्येश न बभूव मतैषिणाम् ।
स्वस्वज्ञानसमायुक्ता वादं चक्रुरपण्डिताः ॥ ७॥
ततो वादस्य शान्त्यर्थमवोचद् विष्णुरव्ययः ।
सर्वान् समागतांस्तत्र सर्वज्ञः शङ्करेरितः ॥ ८॥
श्रीविष्णुरुवाच ।
वेदा गुरुस्वरूपाश्च सर्वेषां नात्र संशयः ।
तैर्यत् सम्पादितं देव मुनयः सर्व आगताः ॥ ९॥
सम्पाद्यतां विशेषेण ब्रह्मणो निश्चयार्थिनः ।
सुखं तदेव सर्वेषां सर्वमान्यं भविष्यति ॥ १०॥
वेदैः स्वानुभवं गीतं याथातथ्यं मुनीश्वराः ।
अतो वेदैश्च सर्वेषां ज्ञानं सञ्जायते परम् ॥ ११॥
योगादिभिर्जनाः केचिन् मुनयो देवराक्षसाः ।
साक्षाद्रूपं च तद्ब्रह्म कुर्वते नात्र संशयः ॥ १२॥
तथापि वेदसम्मान्यं वचस्तेषां न विद्यते ।
वेदानां न समो विप्रा योगज्ञः कुत्र दृश्यते ॥ १३॥
सम्पूर्णयोगिनो वेदा अतस्ते गुरवो मताः ।
महाभागाः स्मरध्वं त्वांस्तदा निःसंशयो भवेत् ॥ १४॥
ततो मुनिगणाः सर्वे योगिनो देवनायकाः ।
साधु साधु समूचुस्तं विष्णुं बुद्धिमतां वरम् ॥ १५॥
ततः शङ्करमुख्यैस्तैः संस्मृताः कार्यसिद्ध्ये ।
साङ्गाः समाययुर्वेदा ओङ्कारेण समन्विताः ॥ १६॥
तान् दृष्ट्वा सहसोत्थाय देवाः सर्षिगणाः परे ।
प्रणम्य पूजयामासुः कृताञ्जलिपुटाः पुरः ॥ १७॥
आसनेषु समासीनाः सोङ्कारा वेदमुख्यकाः ।
ऊचुस्तान् शिवमुख्यान् वै प्रहृष्टमनसोऽभवन् ॥ १८॥
वेदा ऊचुः ।
किमर्थं स्मरणं देवा मुनयश्च कृतं जनाः ।
अस्माकं ब्रूत कार्यं तत् करिष्यामो न संशयः ॥ १९॥
वेदानां वचनं श्रुत्वा शिवस्तानब्रवीद्वचः ।
विनयेन विशेषज्ञो निश्चयार्थं हितैषिणाम् ॥ २०॥
शिव उवाच ।
ब्रह्मयज्ञः समारब्धोऽस्माभिः सर्वैर्हितेप्सुभिः ।
तत्र वादसमायुक्ता न तदन्तं लभामहे ॥ २१॥
अतो भवत्स्मृतिर्वेदाः कृताऽस्माभिर्विशेषतः ।
निश्चयं गुरवो यूयं वदध्वं भेदनाशकम् ॥ २२॥
योगिनो न भवन्तीह कदापि च भवत्समाः ।
भवद्वचःप्रमाणेन योगज्ञा वयमप्युत ॥ २३॥
शिवस्य वचनं श्रुत्वा वेदास्तत्र जगुर्वचः ।
देवान् मुनीन् जनान् सर्वान् दीनपा असुरेश्वर ॥ २४॥
वेदा ऊचुः ।
ब्रह्मयज्ञस्य पारं वै गमिष्यामः कथं वयम् ।
अक्षरात्मकदेहत्वात्तथापि कथयामहे ॥ २५॥
न वयं ब्रह्मरूपाश्च ब्रह्मज्ञाः किञ्चिदप्यहो ।
योगमार्गबलेनैव वदिष्यामो यथातथम् ॥ २६॥
प्रत्येकनिश्चयं देवाः शृणुत ब्रह्मधारणम् ।
येन संशयसंहीना गमिष्यथ परां गतिम् ॥ २७॥
ब्रह्म नानाविधं प्रोक्तं मया योगबलेन च ।
प्रज्ञानादिमहावाक्यैस्तेषु योगो विशिष्यते ॥ २८॥
सर्वब्रह्मसुयोगस्य स्थानं योगात्मकं भवेत् ।
योगे ब्रह्माणि सर्वाणि तदाकाराणि वर्णितम् ॥ २९॥
न योगात् परमं ब्रह्म योगशान्त्या प्रलभ्यते ।
ब्रह्मणस्पतिरेकोऽयं मया प्रोक्तो गणेश्वरः ॥ ३०॥
ब्रह्मणां सकलानां च पातृपालयितृत्वतः ।
तं भजध्वं सुरश्रेष्ठा मुनयो भक्तिसंयुताः ॥ ३१॥
(Page खं. ३ अ. ४७ पान १०३)
भवन्ति ब्रह्मभूताः सर्वे जनास्तेन निश्चितम् ।
एवमुक्त्वा बह्वृचस्तु तूष्णीम्भावधरोऽभवत् ॥ ३२॥
ततो यजुः स्वयं साक्षादवोचत् सर्वसंसदि ।
ब्रह्मप्रदं च वचनं तत्र स्वानुभवात्मकम् ॥ ३३॥
यजुरुवाच ।
नानाविधं मया ब्रह्म वर्णितं योगसेवया ।
महावाक्यैश्च सर्वज्ञाः क्रमार्थं नात्र संशयः ॥ ३४॥
तत्र योगस्वरूपाख्यमान्त्यं ब्रह्म विशिष्यते ।
सर्वब्रह्मसुयोगेन योगस्तेन प्रकथ्यते ॥ ३५॥
तदेव गणराजश्च भक्तैः सम्प्रार्थितः पुरा ।
योगप्राप्त्यर्थमत्यन्तं तेन साकारकोऽभवत् ॥ ३६॥
गणः समूहरूपाख्यः समूहा ब्रह्मरूपिणः ।
तेषां स्वामी न सन्देहस्तं भजध्वं विधानतः ॥ ३७॥
अन्नानां सकलानां च सदैकानेकरूपिणाम् ।
समूहे ब्रह्म ज्ञातव्यमन्नात्मकमिति श्रुतिः ॥ ३८॥
नानाविधानि च ब्रह्माण्येवं भो दैवतर्षयः ।
ज्ञातव्यानि विचारेण गणरूपाणि निश्चितम् ॥ ३९॥
अतो गणेशभक्त्या वै सकलं सुलभं भवेत् ।
ब्रह्मभूयप्रदः प्रोक्तो मया योगेन योगपः ॥ ४०॥
इत्युक्त्वा विररामाऽथ यजुर्योगविदां वरम् ।
उवाचाऽथ ततः साम ब्रह्म निर्णयकारणम् ॥ ४१॥
साम उवाच ।
योगसेवनसामर्थ्यात् समर्थोऽहं च वर्णने ।
किञ्चित् शृणुत देवेशा ब्रह्मणो मुनयो वचः ॥ ४२॥
प्रोक्तानि नाना ब्रह्माणि महावाक्यादिभिर्मया ।
पात्रभेदार्थमत्यन्तं ज्ञातव्यं योगसेवया ॥ ४३॥
तत्र शान्तिप्रदं ब्रह्म योगाख्यं नात्र संशयः ।
भवति ब्रह्मणां योगो यत्र तेन च योगकः ॥ ४४॥
नास्ति योगात् परं ब्रह्म शान्तिमार्गेण लभ्यते ।
तदेव मुनयो देवा गणेशो नात्र संशयः ॥ ४५॥
मनोवाणीमयं देवा मया यद्यत् प्रकीर्तितम् ।
गकाराक्षरसम्भूतं ज्ञातव्यं विबुधैः सदा ॥ ४६॥
मनोवाणीविहीनं यद्वर्ण्यते विविधं तथा ।
णकाराक्षरगं सर्वं निश्चितं योगसेवया ॥ ४७॥
तयोः स्वामी गणेशानो योगाकारः प्रकीर्तितः ।
तं भजध्वं विशेषेण ब्रह्मभूतपदप्रदम् ॥ ४८॥
नानाभावेन युक्तास्तं भजन्ते तद्ददाति सः ।
एवमुक्त्वा महायोगी विरराम स सामगः ॥ ४९॥
ततोऽथर्वा महायोगी जगाद सकलांस्तदा ।
ब्रह्मयज्ञस्य वेत्ताऽसौ प्रह्लाद शृणु तद्वचः ॥ ५०॥
अथर्वा उवाच ।
आत्माऽहमिति वाक्याद्यैर्ब्रह्म नानाविधं मया ।
सम्पादितं च योगेन तदेवोपाधिसंयुतम् ॥ ५१॥
योगाख्यं परमं ब्रह्म तद्योगेन प्रलभ्यते ।
संयोगायोगहीनोऽयं योगो ब्रह्म सुतिष्ठति ॥ ५२॥
शान्तिस्तत्र समाख्याता योगे योगविदां वरः ।
स एव गणनाथस्तु सर्वशान्तिप्रदोऽभवत् ॥ ५३॥
एक एव गणेशानो जगतां ब्रह्मणां स्वयम् ।
ईशः समूहरूपाणां योगरूपस्ततः स्मृतः ॥ ५४॥
सर्वेषामादिरूपोऽयं योगाकारः प्रभावतः ।
मध्ये नानाविधः स्वांशैर्जगत् सुब्रह्म सुप्रभुः ॥ ५५॥
अन्ते स्वयं तथा तिष्ठेत्तेनादौ पूजितोऽभवत् ।
सर्वपूज्यश्च देवेशा मुनयो निश्चयार्थिनः ॥ ५६॥
य आदिः सोंऽतरूपस्तु भवते सर्वसम्मते ।
(Page खं. ३ अ. ४८ पान १०४)
मध्ये मायाविहारेण भेदाभेदयुतोऽभवत् ॥ ५७॥
अतस्तं योगरूपाख्यं भजध्वं योगसेवया ।
भविष्यथ ब्रह्मभूता ब्रह्मयज्ञस्य पारगाः ॥ ५८॥
एवमुक्त्वा महायोगी विरराम महामते ।
अथर्वा सर्वयोगज्ञस्तत्रोङ्कारोऽब्रवीद्वचः ॥ ५९॥
ओङ्कार उवाच ।
चतुर्वेदप्रचुरोऽहं मया योगस्य सेवया ।
ब्रह्म साक्षात् कृतं देवास्तेन योगिमतोऽभवम् ॥ ६०॥
मयोपदेशिता वेदाः साधयामासुरन्वहम् ।
योगं ब्रह्मप्रदं तेन ब्रह्मज्ञाः सर्वसम्मताः ॥ ६१॥
योगात् परं न विद्येत ब्रह्म सर्वत्र सम्मतम् ।
जगत् सुब्रह्म सुप्रोक्तं योगेन ब्रह्म शाश्वतम् ॥ ६२॥
तदेव गणराजो वै निश्चितो योगिभिः सदा ।
संयोगायोगभावेन क्रीडते योगरूपधृक् ॥ ६३॥
सिद्धिर्भ्रान्तिमयी माया बुद्धिर्भ्रान्तिधरा मता ।
तयोः स्वामी गणेशानो मायाभ्यां खेलते विभुः ॥ ६४॥
भुक्तेः सिद्धिस्तथा मुक्तेः सिद्धिर्ब्रह्मप्रदायिनी ।
चित्तं पञ्चविधं बुद्धिस्तयोर्योगेन लभ्यते ॥ ६५॥
स्वसंवेद्यात्मकं ब्रह्म वेदेषु कथितं परम् ।
सर्वसंयोगरूपाख्यं तत्राऽयं दृश्यते स्वयम् ॥ ६६॥
तेन स्वानन्दवासी च मायायुक्तः प्रकीर्तितः ।
अयोगे दर्शनं तस्य जायते न कदाचन ॥ ६७॥
निर्मायिकस्ततः प्रोक्तस्तयोर्योगेन लभ्यते ।
गकारश्चैव संयोगो णकारोऽयोग उच्यते ॥ ६८॥
तेन नाम्ना समाख्यातो गणेशो वेदवादिभिः ।
तं भजध्वं विशेषेण ब्रह्मीभूतस्य कारणात् ॥ ६९॥
ब्रह्मभूता द्विजा देवा भविष्यथ न संशयः ।
एवमुक्त्वा तदोङ्कारस्तूष्णीमासीन् महामते ॥ ७०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते ब्रह्मयज्ञे वेदनिर्णयो नाम सप्तचत्वारिंशोऽध्यायः ॥ ३.४७
३.४८ शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीशुक उवाच ।
सोङ्कारवेदमुख्यानां वचनं हितकारकम् ।
श्रुत्वा जहृषिरे नागादयः सर्षिगणाः सुराः ॥ १॥
त्यक्त्वा स्वस्वमतं सर्वे तान् प्रणम्य प्रपूज्य वै ।
ओङ्कारादीन् महाभागा ऊचुः प्राञ्जलयो वचः ॥ २॥
देवादय ऊचुः ।
ओङ्कारसहिता वेदा भवद्भिः कथितं वचः ।
तदेव सर्वमान्यं वै ब्रह्मभूयप्रदं भवेत् ॥ ३॥
सर्वेषां गुरवः प्रोक्ता वेदास्तैः कथितं भवेत् ।
तदेव करणीयं यद् गतिदं सर्वसम्मतम् ॥ ४॥
वेदाधारविहीनं यत्त्याज्यं सर्वैर्न संशयः ।
नो चेन्नरकगो भूत्वा यातनां लभते नरः ॥ ५॥
ब्रह्मयज्ञस्य पारं वै भवन्तो देवनायकैः ।
मुनिभिर्जनसङ्घैश्च गता भवथ निश्चितम् ॥ ६॥
देवादयो महाभागा एवमुक्त्वा विशेषतः ।
प्रह्लाद तुष्टुवुर्वेदमुख्यांस्ते हर्षसंयुताः ॥ ७॥
पूजितास्तैरुक्तवेदाः सोङ्कारा दैत्यनायक ।
(Page खं. ३ अ. ४८ पान १०५)
अन्तर्दधुस्ततः सर्वे हृष्टाः स्थानं ययुः स्वकम् ॥ ८॥
एवं सर्वैः पुरा साधो ब्रह्मयज्ञः कृतोऽभवत् ।
तेन संशयहीनास्ते भजन्ते गणनायकम् ॥ ९॥
एतत्ते कथितं पूर्णयोगशान्तिप्रदं परम् ।
सर्वमान्यं विशेषेण भज तं गणनायकम् ॥ १०॥
सुबोध उवाच ।
एवमुक्त्वा महायोगी शुकश्चान्तर्हितोऽभवत् ।
प्रह्लादो भक्तिसंयुक्तो भजते गणनायकम् ॥ ११॥
संश्रुतं मातुरुदरसंस्थेन सकलं ततः ।
मया धृतं विशेषेण तदेवं योगदायकम् ॥ १२॥
पूर्वपुण्यबलेनैव स्मृतिर्मेऽत्र प्रसंस्थिता ।
जनितोऽहमतो विप्रा भजामि गणनायकम् ॥ १३॥
एतत् सर्वं मया प्रोक्तं यत्पृष्टं गुरुमुख्यकाः ।
अतो मे मोहदां विद्यां मा वदेत दयायुताः ॥ १४॥
श्रीकृष्ण उवाच ।
सुबोधस्य वचः श्रुत्वा ब्राह्मणा हर्षसंयुताः ।
ऊचुस्तं योगनिपुणं भावज्ञा भावसिद्धये ॥ १५॥
विप्रा ऊचुः ।
सुबोध यत्त्वया प्रोक्तं तत्तथा न तदन्यथा ।
तथापि शृणु वत्स त्वं हितकारकमुत्तमम् ॥ १६॥
पितामहो महाभाग दुर्बुद्धिस्ते महासुरः ।
गणेशेन हतो रोषाद्देवपक्षप्रधारिणा ॥ १७॥
तं द्वेष्टि गणराजं च पिता ते पितृवत्सल ।
पितृद्रुहं ततस्त्वं तं त्यज विघ्नेशमादरात् ॥ १८॥
नोचेत्त्वां ते पिता पुत्र हनिष्यति न संशयः ।
तस्मादाग्रहमत्यन्तं मा कुरुष्व महामते ॥ १९॥
असुराणां कुले पश्य जनिस्तव हितावहा ।
स्वकुलस्थस्य मार्गस्य सेवनं कुरु सर्वदा ॥ २०॥
तेषां वचनमाकर्ण्य सुबोधो रक्तलोचनः ।
जगाद तान् द्विजांस्तत्र वचनं धर्मसंयुतम् ॥ २१॥
सुबोध उवाच ।
सर्वत्र योगरूपेण गणेशस्तिष्ठति द्विजाः ।
स्वस्वधर्मनियन्ताऽसौ नानाक्रीडापरायणः ॥ २२॥
स्वर्गे देवा नराः पृथ्व्यां पाताले तेन दैत्यपाः ।
स्थापिताः स्वस्वमार्गेषु स्थातव्यं तैर्हितेप्सुभिः ॥ २३॥
पितामहश्च मे विप्रास्त्रिलोकी राज्यमुत्कटम् ।
चकार धर्महीनः स तस्मात्तेन हतो बलात् ॥ २४॥
पिता मेऽपि तथा विप्रा धर्महीनतया स्थितः ।
तं हनिष्यति वेगेन गणेशो नात्र संशयः ॥ २५॥
अतः किं गणराजेन विपरीतं कृतं द्विजाः ।
स्वधर्मस्य प्रियेणैव मां वदेत विशेषतः ॥ २६॥
सर्वेषां हितकर्ताऽसौ विघ्नराजो न संशयः ।
तं भजिष्यामि यत्नेन त्यक्त्वा स्वपितरं खलम् ॥ २७॥
गणेशं भजमानं मां वधिष्यति यदा खलः ।
तदेव मरणं श्रेष्ठं ब्रह्मभूयप्रदं भवेत् ॥ २८॥
मशके कुपिते किं वै गृहं त्यक्त्वा मनीषिणः ।
तिष्ठन्ति ब्राह्मणाः सर्वे मां वदेत हि साम्प्रतम् ॥ २९॥
बुद्धेः पतेर्गणेशस्य सत्ता सर्वत्र वर्तते ।
सिद्धेः पतेर्न सन्देहः किं करिष्यति मां पिता ॥ ३०॥
स्वधर्मः सर्वभूतानां धर्मकामार्थमुक्तये ।
ब्रह्मभूयार्थमत्यन्तं गणेशभजनात्मकः ॥ ३१॥
तं तादृशं स्वधर्मं किं त्यक्त्वा विषयलम्पटः ।
भविष्याम्यसुराधीनो ब्राह्मणाः कुलपांसवः ॥ ३२॥
न ब्राह्मणा भवन्तोऽपि विषयेषु परायणाः ।
त्यक्त्वा धर्मं स्थिता अत्र दैत्याधीना न संशयः ॥ ३३॥
गणेशभजने सक्ता ब्रह्मभूयपरायणाः ।
ब्राह्मणास्ते मताः शास्त्रे किं मां वदथ बालिशाः ॥ ३४॥
श्रीकृष्ण उवाच ।
शुक्रशिष्यान् प्रजानाथ एवमुक्त्वा महामतिः ।
सुबोधो गणनाथस्य भजने तत्परोऽभवत् ॥ ३५॥
नमो गणेशाय नमो महात्मने नमः परेशाय परात्पराय ते ।
अनादिमध्यान्तमयाय ढुण्ढये नमो नमो विघ्नपते सुशान्तिद ॥ ३६॥
एवं विवदमानं तं ज्ञात्वा काव्यस्य शिष्यकाः ।
भयभीता विशेषेण ज्ञानारिं ते ययुः प्रभो ॥ ३७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते शुक्रशिष्यसुबोधसंवादो नामाष्टचत्वारिंशोऽध्यायः ॥ ३.४८
३.४९ सुबोधभक्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीकृष्ण उवाच ।
काव्यशिष्या गतास्तत्र यत्र दैत्याधिपोऽभवत् ।
सभासनस्थमूचुस्तं दृष्ट्वा भयसमन्विताः ॥ १॥
शुक्रशिष्या ऊचुः ।
ज्ञानारे शृणु वाक्यं नो दारुणं विपरीतगम् ।
पुत्रस्तेऽभून् मदोत्सिक्तः सर्वदाऽस्मानुपेक्षते ॥ २॥
उल्लङ्घ्य सर्वमस्माभिः कथितं जातिदूषणम् ।
करोति स्वमतेनायमन्यान् सम्बोधयंस्तथा ॥ ३॥
पितृहन्तारमत्यन्तं सदा स्मरति भक्तितः ।
तिरस्कृत्य महाराज त्वामस्मान्नात्र संशयः ॥ ४॥
अतः कथयितुं याताः शिक्षयस्व स्वपुत्रकम् ।
वयं शिक्षयितुं शक्ता नाविनीतं महामते ॥ ५॥
श्रीकृष्ण उवाच ।
तेषां वचनमाकर्ण्य क्षोभितो दैत्यनायकः ।
प्रेषयामास दूतं स पुत्रमानेतुमन्तिके ॥ ६॥
दूतेनागतमेवं तं पुत्रं दृष्ट्वा महासुरः ।
उवाच कृतवन्तं तं प्रणामं क्रोधसंयुतः ॥ ७॥
ज्ञानारिरुवाच ।
किं तिरस्कृत्य रे वत्स गुरून् स्मरसि तद्वद ।
हितं ते हृदये किं च वर्तते कुलपांसन ॥ ८॥
पितुर्वचनमाकर्ण्य क्रोधयुक्तः सुबोधकः ।
उवाच पितरं भ्रान्तं मायया गणपस्य सः ॥ ९॥
सुबोध उवाच ।
सर्वेषां कुलदेवं च सर्वेषां हितकारकम् ।
भुक्तिमुक्तिप्रदं तात भजामि गणनायकम् ॥ १०॥
ब्रह्मविष्ण्वादिभिर्देवैः कश्यपादिमुनीश्वरैः ।
पूजितं कुलवृद्ध्यर्थं योगशान्त्यर्थमादरात् ॥ ११॥
कश्यपात् वयमुत्पन्ना देवा दैत्यास्तथा नराः ।
जन्तवो विविधाश्चैव तेषां स्वामी तथाऽभवत् ॥ १२॥
भजामि गणनाथं वै अतोऽहं सर्वभावतः ।
तमनादृत्य दैत्येश न सिद्धिं लभते पुमान् ॥ १३॥
तस्य तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः ।
जगाद तं धर्मराजमुखादनलमुद्वमन् ॥ १४॥
ज्ञानारिरुवाच ।
अस्माकं शत्रवो देवा दैत्यानां नात्र संशयः ।
सुरासुराश्च वेदेषु प्रोक्ताः पश्य सुदुर्मते ॥ १५॥
तत्राप्ययं पितुर्हन्ता मम तं भजसे मुधा ।
बालभावे मया ज्ञातं चेष्टितं ते रिपुश्रितम् ॥ १६॥
(Page खं. ३ अ. ४९ पान १०७)
बालं मत्वा न दुष्ट त्वां हतवान् कृपया शठ ।
अधुना तादृशं मत्वा न मुञ्चामि कदाचन ॥ १७॥
त्यज शत्रुं महामूर्ख नोचेद्धन्म्यधुना किल ।
एवमुक्त्वा खङ्गहस्तो दुद्राव स्वसुतं नृप ॥ १८॥
ततस्तं दैत्यराजं स उवाच तनयो वचः ।
किं धर्षयसि मां तात भ्रान्तिभावेन मोहितः ॥ १९॥
सर्वसत्ताधरः प्रोक्तो वेदेषु गणनायकः ।
तस्य सत्तां परित्यज्य किं मां हंसि त्वमेव च ॥ २०॥
सुरासुरमयः साक्षाद्गणेशो नात्र संशयः ।
उद्धतं हन्ति वेगेन नानारूपधरः प्रभुः ॥ २१॥
ब्रुवन्तं स्वसुतं दृष्ट्वा भयहीनं युधिष्ठिर ।
क्रोधयुक्तः स्वयं तत्र संस्थितो दैत्यनायकः ॥ २२॥
दूतानाज्ञापयामास शस्त्रास्त्रैः स्वसुतस्य सः ।
वधार्थं ते दैत्यगणाः क्रोधयुक्ता बभूविरे ॥ २३॥
नानानादयुताः सर्वे नग्नशस्त्रधरा ययुः ।
हन्तुं तं तानथो दृष्ट्वा सुबोधो निर्भयो बभौ ॥ २४॥
गणेशभजने सक्तो बभूव न चचाल ह ।
देहप्रारब्धभावेन भवेत्तन् मे गजानन ॥ २५॥
विघ्नेश हेरम्ब जयाखिलेश स्वानन्दवासिन् जय वक्रतुण्ड ।
नाथोऽसि सर्वत्र जगत् सुढुण्ढे लम्बोदर ब्रह्मसुते नमो वै ॥ २६॥
इत्याद्यैर्विविधैर्वाक्यैर्गणेशमभजत् सुतः ।
तं तथा क्रोधसंयुक्ता जघ्रुर्दैत्या महाबलाः ॥ २७॥
नानाशस्त्रनिपातैस्तेऽस्त्रैः सर्वत्र युधिष्ठिर ।
गणेशस्तस्य देहस्थो निष्फलांस्तांश्चकार ह ॥ २८॥
क्रोधानलेन सर्वान् स दाहयामास विघ्नपः ।
ततः पलायनं चक्रुर्दैत्याः प्राणपरीप्सया ॥ २९॥
तत् दृष्ट्वा परमाश्चर्यं ज्ञानारिः क्रोधमूर्च्छितः ।
श्रेष्ठानाज्ञापयामास वधाय स्वसुतस्य वै ॥ ३०॥
चतुरङ्गबलैर्युक्ता दैत्येशास्तं समाययुः ।
अमोघास्त्रैः सुबोधं ते जघ्नुः परमदारुणाः ॥ ३१॥
गणेशभक्तिं तां सोऽपि चक्रे वै निर्भयो दृढाम् ।
जय देवेश विघ्नेश महोदर नमोऽस्तु ते ॥ ३२॥
तस्य देहान् महानग्निः शस्त्रघातच्छलेन सः ।
समुत्पन्नः प्रजज्वाल दैत्येशान् क्षणमात्रतः ॥ ३३॥
ते मेघास्त्राणि ससृजुस्तैर्न शान्तो बभूव ह ।
ददाह सकलांस्तत्र प्रलयाग्निसमश्च तान् ॥ ३४॥
मृताः सर्वे सुराणां वै नायकास्तत्र भूमिप ।
ज्ञानारिः परमाश्चर्ययुक्तोऽभूत् खेदसंयुतः ॥ ३५॥
प्रधानैः स विचार्यैवं पुत्रं तत्याज तत्क्षणात् ।
शुक्रं तपसि तिष्ठन्तं ज्ञात्वा क्रोधं नियम्य च ॥ ३६॥
मेधावी स यदा शुक्र आगमिष्यति वै गृहे ।
तदा तेन समायुक्ता हनिष्यामः सुबोधकम् ॥ ३७॥
एवं निश्चितसङ्कल्पाः स्थितास्ते दैत्यनायकाः ।
ज्ञानारिः स तथा चक्रे हृदयेन विदूयता ॥ ३८॥
सुबोधो गणपं तत्राऽभजत् सोऽनन्यमानसः ।
निर्भयो दानवान् सर्वान् तृणीकृत्य विशेषतः ॥ ३९॥
ततस्तेन सुबोधेन दैत्यपुत्रा युधिष्ठिर ।
शिक्षिताः प्रत्ययं दृष्ट्वा तथा गणपमाभजन् ॥ ४०॥
सत्यं गणेशमाहात्म्यं महत्तन्नात्र संशयः ।
सन्दृश्य दैत्यभूपाला मृताः कक्षवदप्यहो ॥ ४१॥
एवं विचार्य सर्वत्र बाला विघ्नेशमादरात् ।
(Page खं. ३ अ. ५० पान १०८)
अभजन् सर्वभावेन तिरस्कृत्य गुरोः सुतान् ॥ ४२॥
यत्र तत्र गणेशस्य कीर्तनं ह्यर्चनादिकम् ।
अकुर्वन् दैत्यपुत्रास्ते सुबुधेन समन्विताः ॥ ४३॥
नमो नमो विघ्नपते गणेश सदा स्वसंवेद्यपुरे निवासिन् ।
अनादिमध्यान्तविहीनकाय सुशान्तिदात्रे जय सर्वपूज्य ॥ ४४॥
एवं दृष्ट्वा स सर्वत्र ज्ञानारिः क्रोधमादधे ।
सहने न समर्थोऽभून् मतिं चक्रे वधाय वै ॥ ४५॥
हनिष्यामि सुतं दुष्टं वरयुक्तप्रभावतः ।
न मे मृत्युर्भवेन्नूनमिति व्यवसितोऽभवत् ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते सुबोधभक्तिवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ३.४९
३.५० युधिष्ठिरचरितं नाम पञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
श्रीकृष्ण उवाच ।
अधुना शृणु धर्मज्ञ देवादीनां वनेषु वै ।
यज्जातं तत् प्रवक्ष्यामि पूर्णानन्दस्य चेष्टितम् ॥ १॥
विष्णुमुख्यान् सुरानाह पूर्णानन्दः प्रतापवान् ।
किमर्थं दुःखसंयुक्ता भवन्तः सर्वजन्तुभिः ॥ २॥
ज्ञानारिणा कृतं सर्वं जगत् स्थावरजङ्गमम् ।
दुःखयुक्तं विशेषेण तं हनिष्यामि निश्चितम् ॥ ३॥
मयि पुत्रत्वमापन्ने दुर्लभं किं भविष्यति ।
तस्माद्देवगणैस्तात गच्छ वैकुण्ठमादरात् ॥ ४॥
ज्ञानारिः पुत्रनाशार्थं यतते चाधुना प्रभो ।
तस्य पुत्रो महाभक्तो मदीयो नात्र संशयः ॥ ५॥
भक्तरक्षार्थमेवाहं गमिष्याम्यधुना स्वयम् ।
तं हत्वा सुखमेष्यामि स्वभक्तद्वेषिणं खलम् ॥ ६॥
चराचरमयात्तस्य भयं नास्ति कदाचन ।
चराचरमयं सर्वं त्रैगुण्यं नात्र संशयः ॥ ७॥
अतो द्वन्द्वविहीनेन तं रूपेण महासुरम् ।
हनिष्यामि स्वभक्तार्थं पश्य मे त्वं कुतूहलम् ॥ ८॥
एतस्मिन्नन्तरे चैव ज्ञानारिः खड्गमादधौ ।
सुबोधं हन्तुमत्यन्तं क्रोधयुक्तो युधिष्ठिर ॥ ९॥
ज्ञानारिं तादृशं दृष्ट्वा सुबोधो भक्तिसंयुतः ।
गणेशस्य जगादापि तच्छृणुष्व युधिष्ठिर ॥ १०॥
सुबोध उवाच ।
अहङ्कारेण संयुक्तस्तात त्वं मायया भृशम् ।
न जानासि गणेशानं चित्ते संस्थितमेव ते ॥ ११॥
चिन्तामणिः स वेदेषु कथितो वेदवादिभिः ।
तं गच्छ शरणं तात नोचेत्त्वं वै मरिष्यसि ॥ १२॥
न ते भयेन भावेन त्यजेयं विघ्ननायकम् ।
किमु श्राम्यसि मूर्ख त्वं सत्ताधारं न पश्यसि ॥ १३॥
इति पुत्रं ब्रुवन्तं स जघान दृढरोषतः ।
खड्गेन तीक्ष्णधारेण स खड्गो निष्फलोऽभवत् ॥ १४॥
ततो नानास्त्रवर्षैस्तमवर्षद्दैत्यनायकः ।
तानि निष्फलरूपाणि बभूवुश्च युधिष्ठिर ॥ १५॥
अग्न्यस्त्रादीनि शस्त्राणि निष्फलानि महासुरः ।
वीक्ष्य विस्मितचित्तोऽसौ मल्लयुद्धोद्यतोऽभवत् ॥ १६॥
पुत्रं पादे शिलायां स सङ्गृह्याऽऽस्फालयद्यदा ।
(Page खं. ३ अ. ५० पान १०९)
तावत् स्वयं पपातैव मूर्च्छितस्ताडितोऽभवत् ॥ १७॥
अदृश्यरूपभावेन हतो विघ्नविनाशिना ।
पुनः संज्ञासमायुक्तोऽपश्यत्पुत्रं सुदुर्मतिः ॥ १८॥
गणेशभजने सक्तं वीक्ष्य विस्मितमानसः ।
विचारं हृदये सोऽपि चकार परमाद्भुतम् ॥ १९॥
अहो मां को जघानैवं न पश्यामि महारिपुम् ।
केन मार्गेण मे पुत्रं हनिष्यामि कुलान्तकम् ॥ २०॥
पुत्रस्य मरणार्थाय यतेऽहं विविधं सदा ।
तदर्थं दैत्यनाथाश्च सुहृद्भिरभवन् मृताः ॥ २१॥
अहं किं वा मरिष्यामि हनिष्यामि सुतं नु वा ।
अधुना किं मया कार्यमेवं व्यवसितोऽभवत् ॥ २२॥
ततस्तेन वधार्थाय प्राप्तं ज्ञानं विशेषतः ।
पुत्ररक्षाकरं चादौ हन्मि पश्चात् सुतं खलम् ॥ २३॥
मृतो रक्षाकरस्तस्य रक्षिता न भविष्यति ।
पुत्रस्य तेन मृत्युं मे गमिष्यति सुतोऽधुना ॥ २४॥
एवं निश्चितसङ्कल्पो जगाद क्रोधसंयुतः ।
पुत्रं सुबोधनामानं मोहेनामोहितोऽसुरः ॥ २५॥
सुबोध कुत्र ते रक्षिता विशेषेण वर्तते ।
तमानय महादुष्टं हनिष्याम्यधुना शठ ॥ २६॥
ततस्तं मोहितं प्राह सुबोधः करुणायुतः ।
तात पश्य हृदिस्थं तं चित्तवृत्तिप्रचालकम् ॥ २७॥
वैरभावं परित्यज्य तथाऽहङ्कारमद्य वै ।
शरणं गच्छ विघ्नेशं ब्रह्मभूतो भविष्यसि ॥ २८॥
सर्वत्र संस्थितं पश्य स्वामिनं मे गजाननम् ।
तं हन्तुमुद्यतस्त्वं वै मरिष्यसि न संशयः ॥ २९॥
ततस्तं प्रत्युवाचेदं ज्ञानारिर्वचनं नृप ।
दर्शयस्व महाभाग तं भजिष्यामि निश्चितम् ॥ ३०॥
एवं कपटभावेन सुबोधं स जगाद ह ।
सुबोधस्तं गणेशानं सस्मार पितृकारणात् ॥ ३१॥
ततस्तं मूषकारूढो विष्णुपुत्रः समाययौ ।
तमन्वयुर्द्विजा देवा भयभीता युधिष्ठिर ॥ ३२॥
आकाशे गुप्तरूपेण मुनयो देवतागणाः ।
संस्थिता अभवंस्तत्र पश्यन्तश्चेष्टितं प्रभोः ॥ ३३॥
सुबोधस्य समीपे तं संस्थितं गणनायकम् ।
पश्यन् क्रूरो महादुष्टो ज्ञानारिर्हर्षितोऽभवत् ॥ ३४॥
सुबोधस्तं प्रणम्यादौ स्तुत्वा च विविधैः स्तवैः ।
उवाच पितरं योगी पश्य तात गजाननम् ॥ ३५॥
सुबोधस्य वचः श्रुत्वा क्रोधयुक्तो महासुरः ।
अमोघं सर्वसंहारकारकं शस्त्रमाददे ॥ ३६॥
एतस्मिन्नन्तरे तत्र पूर्णानन्दो हृदि स्थितः ।
जीवभावं स दैत्यस्य कर्षयामास भूमिप ॥ ३७॥
ततः स पतितो भूमौ गतचैतन्यकोऽञ्जसा ।
हाहाकारं प्रचक्रुस्ते दैत्याः पातालमाययुः ॥ ३८॥
ततस्ते देवविप्राद्या नभःस्थाः सहसाऽऽगताः ।
प्रणम्य तुष्टुवुस्तं वै पूर्णानन्दं गणेश्वरम् ॥ ३९॥
स्तुवतां पश्यतां भूप सुबोधं गृह्य विघ्नपः ।
अन्तर्धानं चकाराऽपि सर्वे खिन्ना इवाऽभवन् ॥ ४०॥
लक्ष्मीर्नारायणश्चैव मूर्च्छितौ धरणीतले ।
पेततुर्दुःखसंयुक्तौ पूर्णानन्दवियोगतः ॥ ४१॥
द्विमुहूर्तात् प्रबुद्धौ तौ ततो हृदि तयोः प्रभुः ।
प्रकटोऽभूदुवाचाऽथ मूर्तौ मां भजतं युवाम् ॥ ४२॥
न वियोगो भवेत्तातौ पश्यतं बुद्धिचालकम् ।
(Page खं. ३ अ. ५० पान ११०)
एवमुक्त्वान्तर्दधेऽसौ हृदिस्थो गणनायकः ॥ ४३॥
ततस्तौ दुःखसंयुक्तौ चक्रतुः परमादृतौ ।
लक्ष्मीनारायणौ मूर्तिं भक्त्या प्रभजने रतौ ॥ ४४॥
एवं महोदरः सर्वप्रदाता वै प्रतापवान् ।
हर्ता च ब्रह्मभूतोऽसौ ब्रह्मभूयप्रदो मतः ॥ ४५॥
शिवविष्ण्वादिभिर्देवैः सेवितो भक्तिभावतः ।
मुनिभिर्योगिभिर्नानाजन्तुभिर्नात्र संशयः ॥ ४६॥
तं भजस्व महीपाल विघ्नहीनो भविष्यसि ।
स्वधर्मस्थो महाभाग शान्तियोगमवाप्स्यसि ॥ ४७॥
मुद्गल उवाच ।
एवं नारायणं तं स ब्रुवन्तं धर्मपालकः ।
युधिष्ठिर उवाचाऽथ प्रेमयुक्तो महामतिः ॥ ४८॥
युधिष्ठिर उवाच ।
कृष्ण कृष्ण महाप्राज्ञ कथां ब्रह्मप्रदायिनीम् ।
सर्वकामप्रदां पूर्णां वदस्यत्र न संशयः ॥ ४९॥
त्वदीयसङ्गयोगेन मया ज्ञातो गजाननः ।
वद त्वं तस्य मन्त्रं मे सस्त्रीकाय सबन्धवे ॥ ५०॥
स तस्मै देवकीपुत्रो ददौ मन्त्रं षडक्षरम् ।
देवेशो धौम्यमुखतस्तथा सर्वेभ्य आदरात् ॥ ५१॥
मुद्गल उवाच ।
पाण्डवा द्रौपदीयुक्तास्तेन मन्त्रेण विघ्नपम् ।
अभजन् भक्तिसंयुक्ताश्चतुर्थीव्रतकारकाः ॥ ५२॥
ततो दुःखविहीनास्ते सूर्यात् प्राप्य यथेप्सितम् ।
स्थालीस्थमन्नमत्यन्तं पोषयामासुरग्रजान् ॥ ५३॥
वनस्थाः दुखहीनाश्च भ्रमन्तस्ते समाययुः ।
व्यासेन वासुदेवेन युताः स्वानन्दके पुरे ॥ ५४॥
मयूरेशं च तत्रैवाऽपूजयन् भक्तिसंयुताः ।
पाण्डवेशं समास्थाप्य श्राद्धं चक्रुः पितुस्ततः ॥ ५५॥
तत्र पिण्डप्रदानेन पाण्डुं स्वर्गस्थमादरात् ।
नानासुहृद्गणैर्युक्तं समानेतुं ययुर्गणाः ॥ ५६॥
गाणेशेन विमानेन स्वानन्दे ब्रह्मरूपिणम् ।
चक्रुर्दक्ष महाभाग महिम्ना क्षेत्रजेन ते ॥ ५७॥
गुप्तरूपेण वर्षं ते निर्विघ्ना अवसंस्ततः ।
पश्चात् प्राकट्यमास्थाय सस्त्रीकाः पाण्डवा ययुः ॥ ५८॥
हत्वा दुर्योधनं वीराः ससैन्यं कर्णसंयुतम् ।
राज्यं प्राप्याऽभजंस्ते तं गणेशं सर्वनायकम् ॥ ५९॥
एवं युधिष्ठिरेणैवाराधितः स महोदरः ।
मोहशून्यस्वभावेन योगिना शान्तिधारिणा ॥ ६०॥
पूर्णानन्दावतारो महोदरान्तर्गतः स्मृतः ।
एवं नानावतारैश्च कुरुते क्रीडनं स्वयम् ॥ ६१॥
तेषां कथयितुं पुण्यं चरित्रं न प्रशक्यते ।
वर्षाणामयुतैर्दक्ष मया केनापि निश्चितम् ॥ ६२॥
इदं युधिष्ठिरस्यैव चरित्रं पापनाशनम् ।
शृण्वते पठते वाऽपि तस्मै सर्वार्थदं भवेत् ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते युधिष्ठिरचरितं नाम पञ्चाशत्तमोऽध्यायः ॥ ३.५०
(Page खं. ३ अ. ५१ पान १११)
३.५१ श्रवणफलवर्णन नामैकपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
महोदरस्य क्षेत्रं यद्दक्षिणस्यां दिशि स्थितम् ।
देवैश्च मुनिभिस्तत्र स्थापितो गणनायकः ॥ १॥
दशयोजनविस्तारस्तस्य क्षेत्रस्य मानद ।
महोदरश्च तन्मध्ये चतुरस्रे स्थितोऽभवत् ॥ २॥
स्वस्वखण्डेषु सर्वत्र द्वीपेषु मुनिभिः पुरा ।
स्थापितो दक्षिणस्यां स दिशि ब्रह्ममयः प्रभुः ॥ ३॥
तत्र देवादयः सर्वे ऋषयो योगिनस्तथा ।
तीर्थानि क्षेत्रमुख्यानि संस्थितानि भवन्ति च ॥ ४॥
समुद्रे स्नानकर्तारः स्वस्वतीर्थेषु नित्यदा ।
गणेशानं भजन्तस्ते परस्परहिते रताः ॥ ५॥
नानारूपाणि ते सर्वे महोदर कृतानि च ।
चेष्टितानि स्मरन्तो वै हृष्टरोमाण आभवन् ॥ ६॥
सिद्धिबुद्धियुतं तं ते मूषकं पुरतः स्थितम् ।
दूर्वादिभिः पूजयन्ति विशेषेण प्रजापते ॥ ७॥
भाद्रशुक्लचतुर्थीजस्तत्र मुख्यो महोत्सवः ।
वर्षमध्ये वै भवति भक्ता यात्रां प्रकुर्वते ॥ ८॥
ततो महोदरस्यैव दर्शनेन हृदीप्सितम् ।
लभते मानवः सर्वं स्मरणेन तथा विभोः ॥ ९॥
क्षेत्रे मरणतो दक्ष ब्रह्मभूतो भवेन्नरः ।
अष्टौ विनायकाः प्रोक्तास्तेषां क्षेत्राणि सर्वदा ॥ १०॥
ब्रह्मभूतमयान्येव तेषु सर्वे शिवादयः ।
संस्थिता भक्तिकार्यार्थं ज्ञातव्यं विबुधैः सदा ॥ ११॥
त्रैलोक्ये श्रेष्ठरूपा ये शेषादय उदाहृताः ।
ते सर्वे निवसन्त्यत्र क्षेत्रेष्वष्टसु निश्चितम् ॥ १२॥
तत्र गाणेशतीर्थं महोदरस्य च हर्षदम् ।
स्नानेनात्रकृतेनैव पुमान् सर्वार्थसिद्धिभाक् ॥ १३॥
विष्ण्वादिषु तथाऽन्येषु तीर्थेषु च विशेषतः ।
गणेशक्षेत्रगेष्वेव स्नानमात्रेण देहिनाम् ॥ १४॥
तत्तत्पदप्रदानि स्युस्तेषामन्ते प्रजापते ।
ब्रह्मभूता भविष्यन्ति स्वानन्दे वासकारिणः ॥ १५॥
अन्यदेवस्य भक्ता ये क्षेत्रे गाणेशके मृताः ।
तस्य देवस्य लोके ते गमिष्यन्ति न संशयः ॥ १६॥
महालये त्रयो देवा लयं गच्छन्ति चेत् प्रभो ।
तदा ते निजलोके वै गमिष्यन्ति सुखप्रदे ॥ १७॥
क्षेत्रे मरणसंस्काराद्ब्रह्मभूता भवन्ति च ।
अतो नरेण तद्भक्त्या गाणेशं सेव्यमादरात् ॥ १८॥
यत्र कुत्र स्थिता भक्ता ये भजन्ति महोदरम् ।
ते सर्वे ब्रह्मभूता वै ज्ञातव्याः पावना नृणाम् ॥ १९॥
कुर्वन्ति ये शिवादीनां भजनं जन्मजन्मसु ।
तेन संस्कारयोगेन गाणेशास्ते भवन्ति वै ॥ २०॥
गाणेशान्न परं ब्रह्म कथितं सर्वसम्मतम् ।
अतो गणेशभक्ता ये ब्रह्मभूताश्च ते मताः ॥ २१॥
इदं महोदराख्यानं कथितं ते प्रजापते ।
सर्वसिद्धिप्रदं पूर्णं समासेन यथामति ॥ २२॥
शृणुयाद्यो नरो भत्तया श्रावयेद्वा पठेद्यदि ।
अन्ते स ब्रह्मभूतश्च भविता नात्र संशयः ॥ २३॥
अनेन न समं किञ्चित् त्रिषु लोकेषु विद्यते ।
सर्वदं मानवादीनां ब्रह्मादीनां च योगिनाम् ॥ २४॥
व्रतानि विधिवन्नाना कुरुते मानवोत्तमः ।
अस्य श्रवणमात्रेण तत् फलं लभते प्रभो ॥ २५॥
नानातीर्थेषु यः स्नायात्तर्पयेद्देवतादिकान् ।
यथाशास्त्रं फलं तस्य तदस्य श्रवणाल्लभेत् ॥ २६॥
(Page खं. ३ अ. ५१ पान ११२)
क्षेत्रेषु भक्तिसंयुक्तो नरो वासं करोति यः ।
विधिवद्धर्मशीलज्ञस्तत् फलं श्रवणाल्लभेत् ॥ २७॥
यज्ञैर्नानाविधैर्देक्ष दृष्ट्वा देवान् यथार्थतः ।
यत्फलं लभते मर्त्यस्तदस्य श्रवणात् फलम् ॥ २८॥
इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः ।
अस्य श्रवणतः सद्यस्तत्फलं लभते पुमान् ॥ २९॥
बहुनाऽत्र किमुक्तेन ब्रह्मभूयप्रदं भवेत् ।
श्रवणेन न सन्देहो धर्मकामार्थमोक्षदम् ॥ ३०॥
पुत्रपौत्रादिकं सर्वं धनं धान्यं विशेषतः ।
राज्यमश्वादिकं सर्वं लभते श्रवणेन च ॥ ३१॥
महोदरस्य माहात्म्यं गृहे संलिखितं भवेत् ।
न तत्र राक्षसादिभ्यश्चोराग्न्याद्याद्भयं भवेत् ॥ ३२॥
ग्रहरोगादिका पीडा पूजनेन च नश्यति ।
पुस्तकस्यास्य भो दक्ष नात्र कार्या विचारणा ॥ ३३॥
इच्छन्ति जन्तवो यद्यदस्य श्रवणकारकाः ।
तत्तन् महोदरः सुप्रीतो ददाति प्रतापवान् ॥ ३४॥
वाचकं परितोष्यैव लभते तत्क्षणात् फलम् ।
गणेशसन्निधाने च श्रवणेन न संशयः ॥ ३५॥
पतिता उद्धरिष्यन्ति श्रवणेनास्य निश्चितम् ।
किं पुर्नभावसंयुक्ता ब्रह्मभूता भवन्ति चेत् ॥ ३६॥
नानेन सदृशं कुत्र वर्तते ब्रह्मगोलके ।
साक्षाद्योगपतिर्यत्र वर्ण्यते स महोदरः ॥ ३७॥
इति ते कथितं सर्वं सङ्क्षेपेण मया प्रभो ।
महोदरस्य माहात्म्यं श्रोतुमिच्छसि किं पुनः ॥ ३८॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
तदेतत् कथितं सर्वं मया ते नात्र संशयः ॥ ३९॥
सर्वमान्यं विशेषेण मतमान्यं महामते ।
वेदादीनां तथा सारं ज्ञातव्यं ब्राह्मणा इदम् ॥ ४०॥
नानाशास्त्रपुराणानि मन्थयित्वा महामुनिः ।
व्यासः सङ्कथयामास मह्यं ब्रह्मप्रदं प्रभुः ॥ ४१॥
न गणेशात् परं ब्रह्म न गणेशात् परं तपः ।
न गणेशात् परं कर्म ज्ञानं न गणपात्परम् ॥ ४२॥
त्यक्त्वा गणेशमेकं यो नरः कर्मपरायणः ।
ब्रह्मज्ञानादिकं सर्वं साधयेच्चेत् सुनिष्फलम् ॥ ४३॥
सिद्धेः पतिं परित्यज्य सिद्धिमिच्छति शाश्वतीम् ।
फलहीनः स्वभावेन नारकी जायते नरः ॥ ४४॥
बुद्धेः पतिं परित्यज्य स्थिरबुद्धिं य इच्छति ।
न योगं लभते सोऽपि भस्मनि प्रहुतं यथा ॥ ४५॥
सर्वपूज्योऽयमेकश्च सर्वादिः सर्वभावनः ।
तं भजध्वं विशेषेण द्विजा वेदादिसम्मतम् ॥ ४६॥
कथितं सर्वसारं ते महोदरकथानकम् ।
किं श्रोतुमिच्छसि प्राज्ञ वद शौनक ते नमः ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
तृतीये खण्डे महोदरचरिते श्रवणफलवर्णन नामैकपञ्चाशत्तमोऽध्यायः ॥ ३.५१
॥ इति तृतीयः खण्डः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे तृतीयः खण्डः समाप्तः ॥
Proofread by Yash Khasbage