मुद्गलपुराणं खण्डः ५ लम्बोदरचरितम्
॥ मुद्गलपुराणं खण्डः ५॥
॥ अथ श्रीमुद्गलपुराणे पञ्चमः खण्डः प्रारभ्यते ॥
(Page खं. ५ अ. १ पान १)
५.१ त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
श्रुतं मया महाख्यानं गजाननकथाश्रितम् ।
सर्वसौख्यकरं तात ब्रह्मभूतपदप्रदम् ॥ १॥
तथा तृप्तिं न याम्येव पीत्वा ब्रह्मामृतं परम् ।
गुणज्ञो गणराजस्य कस्तं मुञ्चति मानद ॥ २॥
धन्या वयं महाभाग त्वदासङ्गसमाश्रयात् ।
यत्र योगप्रदा गाथा वर्तते त्वन्मुखे द्विज ॥ ३॥
लम्बोदरस्य माहात्म्यमधुना वद सर्वदम् ।
कीदृशोऽयं गणेशानः कीदृशं ब्रह्म तस्य च ॥ ४॥
कति तस्यावताराश्च किङ्कर्मा सोऽपि विघ्नपः ।
किमर्थमागतो भूमौ तत् सर्वं वद विस्तरात् ॥ ५॥
सूत उवाच ।
एवं दक्षेण संश्रुत्य गजाननचरित्रकम् ।
पृष्टो योगीन्द्रमुख्यश्च गाणपत्योऽथ मुद्गलः ॥ ६॥
दक्ष उवाच ।
गजाननस्य माहात्म्यं श्रुत्वा सङ्क्षेपतः परम् ।
न तृप्तोऽहं महाभाग पायं पायं सुधामिव ॥ ७॥
अतो लम्बोदरस्य त्वं चरित्रं वद विस्तरात् ।
सर्वसिद्धिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥ ८॥
गणेशस्य कथां योगिन् शृण्वन्ति च पठन्ति ये ।
श्रावयन्ति प्रपृच्छन्ति चत्वारः पुण्यभागिनः ॥ ९॥
धन्या ये पुरुषा लोके सादरा मुनिसत्तम ।
कथायां कृतकृत्यास्ते योगिनो योगभूषणाः ॥ १०॥
सूत उवाच ।
एवं तस्यादरं दृष्ट्वा हर्षितो मुद्गलो मुनिः ।
जगाद तं महाभागं प्राजापत्येन्द्रमादरात् ॥ ११॥
मुद्गल उवाच ।
साक्षाद्ब्रह्मसुतस्त्वं च ब्रह्मतुल्यो न संशयः ।
तत्र किं गणनाथे वै चित्रं रसयुतः प्रभो ॥ १२॥
येषां मुखारविन्देषु गणेशस्मरणं भवेत् ।
इच्छामि तेषां दासत्वं नित्यं दक्ष प्रजापते ॥ १३॥
अधुना शृणु वक्ष्यामि सङ्क्षेपण चरित्रकम् ।
लम्बोदरस्य विस्तारे कः समर्थो भवेत् प्रभो ॥ १४॥
संवादं पूर्णसम्भूतमसितस्य महात्मनः ।
नैध्रुवस्याऽत्र वक्ष्यामि सर्वसिद्धिप्रदायकम् ॥ १५॥
प्रणम्य मुनिशार्दूलो नैध्रुवो वत्सरं वनम् ।
ययौ तपःप्रसिद्ध्यर्थं महाभागो महामुनिम् ॥ १६॥
स तताप तपो घोरं दिव्यवर्षसहस्रकम् ।
तपसा तस्य देवेन्द्रा भीताश्च प्रबभूविरे ॥ १७॥
किमयं तपसा साध्यं कर्तुमिच्छति वाडवः ।
न तुल्यं तपसोऽस्यात्र ब्रह्माण्डे किं भविष्यति ॥ १८॥
ततस्तस्याऽऽश्रमेऽकस्मादसितोऽभवदागतः ।
पितृव्यं मुनिरुत्थाय प्रणनाम कृताञ्जलिः ॥ १९॥
पुपूज भक्तिसंयुक्तः कृताञ्जलिपुटः स्थितः ।
तस्याऽऽज्ञया विनीतः स आसने संस्थितोऽभवत् ॥ २०॥
तमुवाच महायोगी सोऽसितो हितकारकम् ।
वचो भावेन सन्तुष्टो भ्रातृपुत्रं तपोधनम् ॥ २१॥
असित उवाच ।
देहं किं तपसा पुत्राऽतिशोषयसि तापस ।
देहशोषणरूपं यत्तपो मुख्यं न शास्त्रतः ॥ २२॥
अतो देहश्रमं त्यक्त्वा तपो मुख्यं समाचर ।
येन त्वं ब्राह्मणो भूत्वांऽते ब्रह्मणि गमिष्यसि ॥ २३॥
मुद्गल उवाच ।
असितस्य वचः श्रुत्वा नैध्रुवो भक्तिसंयुतः ।
पुनः प्रपच्छ योगीद्रं संशयेन समन्वितः ॥ २४॥
नैध्रुव उवाच ।
कृच्छ्रचान्द्रादिधर्मेण यथाविधि कृतं मुने ।
तपो ब्रुवन्ति सर्वज्ञास्तत्र मुख्यं किमप्यहो ॥ २५॥
(Page खं. ५ अ. १ पान २)
असित उवाच ।
तपश्च त्रिविधं प्रोक्तं तापदं नात्र संशयः ।
तच्छ्रुणुष्व विधानेन योगिवन्द्यो भविष्यसि ॥ २६॥
कृच्छ्रचान्द्रायणादीनि तपांसि प्रवदन्ति च ।
पञ्चाग्निसाधनादीनि वायुभक्षात्मकानि च ॥ २७॥
इत्यादिभेदा बहवस्तपसो विविधस्य च ।
तदेव बाह्यभावस्थं पुत्र जानीहि निश्चितम् ॥ २८॥
इहामुत्रप्रदं तात तपः फलमयं स्मृतम् ।
फलं भुक्त्वा पुनः सोऽपि दीनरूपो भवेत् किल ॥ २९॥
अन्यच्छ्रुणु महाभाग तपः परमदुश्चरम् ।
वायुरोधात्मकं देहे प्राणायामेन जायते ॥ ३०॥
तत्र प्राणस्य सन्तापो जायते नात्र संशयः ।
देहस्यापि तथा पुत्र तपस्तेन तदुच्यते ॥ ३१॥
षट्चक्रभेदने दक्षमन्तर्ध्यानपरायणः ।
सहस्रारे गतं वायुं रोधयेत्तत्र लालसः ॥ ३२॥
तपःप्रभावेन तेन क्षुद्रसिद्धियुतो नरः ।
भवति ज्ञानमार्गज्ञस्त्रिकालज्ञानसंयुतः ॥ ३३॥
दूरश्रवणसामीप्यं कुरुते कामगां गतिम् ।
जले स्थलं स्थले तोयमाकाशे नगरादिकम् ॥ ३४॥
अहताज्ञश्च सर्वत्र भवते परमद्युतिः ।
अपरायुः समायुक्तो ब्रह्माद्यांश्चालयत्यपि ॥ ३५॥
एककल्पस्य सर्वेषां वृत्तान्तं कथयत्यपि ।
जानाति स तपो योगादन्तर्ध्यानपरायणः ॥ ३६॥
सोऽपि गत्वा विधेर्लोकं भुनक्ति विविधं सुखम् ।
पुण्यान्ते पुनरत्रैव दीनो भवति निश्चितम् ॥ ३७॥
तृतीयं त्वं तपोरूपं शृणु मत्तो सुयोगदम् ।
द्विविधं च तपो येन साधितं गुरुमार्गतः ॥ ३८॥
तेनैकाग्रमयं चित्तं भवत्यत्र न संशयः ।
सर्वत्रात्मस्वरूपं स पश्यति ज्ञानचक्षुषा ॥ ३९॥
तत्रानुभवमात्रेण शमदमपरायणः ।
भवते तेन सन्तापो देहे मनसि जायते ॥ ४०॥
विषयान्निन्दयन् सोऽपि जडोन्मत्तपिशाचवत् ।
चरति सर्वभावज्ञ आत्मनिष्ठतया सुत ॥ ४१॥
ततो निरोधयोगेन निवृत्तिषु परायणः ।
चित्तं संरुध्य सर्वत्र निवृत्तिं लभते स्वयम् ॥ ४२॥
अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भयं भवेत् ।
न जगज्जगदात्मा वै मनो वाणीविहीनकः ॥ ४३॥
स्वत उत्थानभावो नोत्थानं परत एव न ।
न स्वतः परतस्तत्र उत्थानं वर्जितं भवेत् ॥ ४४॥
एवं निरोधयोगेन शमी दमपरायणः ।
सन्तोषेण स्वयं योगी वर्तते नित्यदा सुत ॥ ४५॥
तत्र सन्तोषभावेन स्थितस्य देहचेतसोः ।
सन्तापो जायते नित्यं तदेव तप उच्यते ॥ ४६॥
ततो निरोधभूमिं स त्यक्त्वा शान्तिपरायणः ।
त्यक्त्वा पञ्चविधं चित्तमेवं ब्रह्मैव जायते ॥ ४७॥
ततो विधिनिषेधाभ्यां हीनो योगधरः स्वयम् ।
रसहीनश्चरत्यत्र प्रारब्धानुभवेन सः ॥ ४८॥
यथा जलानि सर्वत्र सुत गच्छन्ति सागरे ।
यदृच्छया तथा सोऽपि भोक्ता भोगेन नित्यदा ॥ ४९॥
तत्रांऽतरे शरीरेऽस्य तापः सञ्जायते सदा ।
शान्त्या भोगपरत्वेन तदेव तप उच्यते ॥ ५०॥
(Page खं. ५ अ. २ पान ३)
एतद्योगात्मकं सुज्ञ तपस्ते कथितं मया ।
तृतीयं ब्रह्मदं पूर्णं तदर्थं यत्नमाचर ॥ ५१॥
तपोधना महाभागा योगिनस्तत्परायणाः ।
ब्राह्मणास्तपसा युक्ता ब्रह्मभूता भवन्ति ते ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते असितनैध्रुवसंवादे
त्रिविधतपोवर्णनं नाम प्रथमोऽध्यायः ॥ ५.१
५.२ भस्मासुरवधो नाम द्वितीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
असितस्य वचः श्रुत्वा नैध्रुवो विस्मितोऽभवत् ।
प्रणम्य तं महाभागं जगाद विनयान्वितः ॥ १॥
नैध्रुव उवाच ।
स्वामिन् वद महायोगं योगदं साधनं परम् ।
तदर्थं कस्य भक्तिर्मे कर्तव्या योगिसत्तम ॥ २॥
असित उवाच ।
शृणु पुत्र प्रवक्ष्यामि लम्बोदरकथानकम् ।
तेन सर्वं महायोगं लभसे नात्र संशयः ॥ ३॥
एकदाऽहं तथा पुत्र वत्सरस्ते पिता पुरा ।
तपसा शुद्धभावेन भवावः स्म च निर्मलौ ॥ ४॥
ततो योगस्य प्राप्त्यर्थं यत्नवन्तौ सुसंस्थितौ ।
अन्तर्ज्ञानसमायुक्तौ जडोन्मत्तादिसुप्रियौ ॥ ५॥
एकाग्रं साधयित्वा वै निरोधे संस्थितौ तथा ।
सहजावस्थया युक्तौ सुखयुक्तौ भवावहे ॥ ६॥
तत्रैव मोहहीनत्वं दृष्ट्वा परमविस्मितौ ।
शान्तिहीनौ ततो जातौ गतौ च ब्रह्मणोंऽतिकम् ॥ ७॥
तत्र स्पर्धासमायुक्तौ विश्वामित्रवसिष्ठकौ ।
समायातौ प्रणम्यैनं प्रतिष्ठन्तौ मदान्वितौ ॥ ८॥
क्रोधयुक्तौ विधातारं प्रपृच्छन्तौ विशेषतः ।
कोऽधिको वद धातस्त्वं तपसा योगसेवया ॥ ९॥
तच्छ्रुत्वा तौ जगादाऽथ ब्रह्मा सर्वपितामहः ।
येन क्रोधो जितो नूनं तं जानाम्यधिकं मुनिम् ॥ १०॥
युवां क्रोधयुतौ पूर्णौ तत्र किं विद्यते तपः ।
सर्वत्र शान्तिदं योगं तं यो जयति सोऽधिकः ॥ ११॥
ततः प्रणम्य विश्वेशं वदतः स्म तपोधनौ ।
विनयेन समायुक्तौ तपस्पर्धापरायणौ ॥ १२॥
वसिष्ठविश्वामित्रावूचतुः ।
कीदृशोऽयं प्रजानाथ क्रोधः सर्वभयङ्करः ।
कुत्र तिष्ठति देवेश किंरूपः किंस्वभाववान् ॥ १३॥
जयन्ति केन योगेन तं दुष्टं योगिनः प्रभो ।
सर्वं वद विभो तस्य तं जेष्यावो न संशयः ॥ १४॥
ब्रह्मोवाच ।
अत्राऽहं कथयिष्यामीतिहासं सर्वसिद्धिदम् ।
तेन क्रोधं च कामं चाभिमानं जयति प्रभुः ॥ १५॥
शकुनेरभवत् पुत्रः शुक्रं भस्मासुरोऽतपत् ।
उपसङ्गम्य सङ्गृह्य विद्यां पञ्चाक्षरीं पुरा ॥ १६॥
दीक्षां गृह्य महादेवमुपासनविधानतः ।
साधयामास भावेन भस्मोद्धूलितविग्रहः ॥ १७॥
सहस्रे प्रगतेष्वेव प्रभुर्वर्षेषु शङ्करः ।
तं ययौ वरदानार्थं सर्वदेवसमावृतः ॥ १८॥
आगतं शङ्करं दृष्ट्वा उत्थाय प्रणिपत्य तम् ।
(Page खं. ५ अ. २ पान ४)
पूजयित्वा प्रतुष्टाव स्तोत्रैः शैवैर्महासुरः ॥ १९॥
जगाद शङ्करो दैत्यं सन्तुष्टो भक्तमुत्तमम् ।
वरं वरय दास्येऽहं भक्त्या ते तपसाऽसुर ॥ २०॥
भस्मासुर उवाच ।
यस्य शम्भो महेशान मस्तकेऽहं धरामि सः ।
हस्तं सद्यो मृतो भूत्वा ततो भवतु भस्मसात् ॥ २१॥
अन्येभ्यः सर्वभूतेभ्यो न भयं मे कदाचन ।
भवेत् सर्वातिगा शक्तिस्तथा कुरु महेश्वर ॥ २२॥
तच्छ्रुत्वा विस्मितः शम्भुस्तं जगाद महासुरम् ।
सर्वं च ते महादैत्य भविष्यति मदाज्ञया ॥ २३॥
हस्तस्ते यस्य शिरसि दक्षिणः सम्पतिष्यति ।
स वै भस्ममयः सद्यो भविष्यति न संशयः ॥ २४॥
ततः शिवो ययौ स्थानं कैलासं गणसंवृतः ।
दैत्यस्तत्रैव तिष्ठन् स विचारमकरोत् स्वयम् ॥ २५॥
अहो शिवस्य वामाङ्गे संस्थिता जगदम्बिका ।
रूपलावण्यसंयुक्ता रत्नभूताऽतिसुन्दरी ॥ २६॥
एतादृशी मया कुत्र दृष्टा नैव सुरूपिणी ।
नग्नः शम्भुरयं तस्याऽयोग्यो नैव भवेद्रतौ ॥ २७॥
अतोऽहं यत्नमास्थाय वरदानप्रभावतः ।
शम्भुं भस्ममयं कृत्वा ग्रहीष्यामि च पार्वतीम् ॥ २८॥
एवं विचार्य दैत्येन्द्र आययौ शङ्करान्तिकम् ।
कैलासे गिरिवर्ये स वेगमास्थाय दारुणः ॥ २९॥
दक्षिणं हस्तमूर्ध्वं स कृत्वा शङ्करसन्निधौ ।
आययौ तं विलोक्यैव पपाल गिरिजापतिः ॥ ३०॥
नमस्कारादिचिह्नैश्च हीनं दृष्ट्वा स्वसन्निधौ ।
असुरं भावसंयुक्तं भयभीतः समन्ततः ॥ ३१॥
ततः सोऽपि महादैत्यः क्रोधयुक्तो विशेषतः ।
धावयित्वा तमनु वै ग्रहीतुं प्रोद्यतोऽभवत् ॥ ३२॥
ततोऽतिवेगमास्थाय शिवो भीत्या पलायत ।
अधावत् पृष्ठमास्थाय तं भस्मासुर एव च ॥ ३३॥
पलन्तं शङ्करं तत्र ददर्श कमलापतिः ।
सस्मार गणपं चित्ते किं भविष्यति विह्वलः ॥ ३४॥
सोऽपि तुष्टाव चाथर्वशिरसा विघ्ननायकम् ।
विष्णुः परमशोकार्तो महादेवस्य कारणात् ॥ ३५॥
शिवश्च भयसंयुक्तो गणेशं स्वयमस्तवीत् ।
महासङ्कटनाशार्थं शरणागतवत्सलम् ॥ ३६॥
शिव उवाच ।
किं पश्यसे नाथ विनायकस्त्वं दैत्येन सर्वत्र च मां सुत्रासितम् ।
दक्षं भुजं मस्तकगं गणेश कृत्वा स मां भस्ममयं करिष्यति ॥ ३७॥
नानाजनैः सेवितपादपद्म किं विस्मृतो मां भयभङ्गकारिन् ।
चिन्तामणे चित्तनिवासक त्वं संरक्ष विघ्नेश दयाघनात्र ॥ ३८॥
त्वदन्यदेवं शरणं गजास्य प्रभुं समर्थं न च यामि नाथ ।
न कोऽपि हेरम्ब महानुभाव क्षमो हि मां रक्षितुमीश्वरः कः ॥ ३९॥
लम्बोदरामोघ सुचिन्तनं ते स्वानन्दवासिंश्च महोदरस्य ।
रक्षस्व मां मृत्युमुपागतं त्वं त्वत्पादनिष्ठं भयभञ्जनाशु ॥ ४०॥
किं सिद्धिबुद्धिप्रविहारकेण सक्तः प्रजातोऽसि विनायक त्वम् ।
भक्तानुकम्पीति तवैव नाम वेदे कथं सङ्कथितं महात्मन् ॥ ४१॥
किं लक्षलाभप्रभवार्थमेवं संसक्तभावैरसि विस्मरंश्च ।
मां रक्ष नो चेन्निगमस्य देव व्यर्थं यशः सम्भविता परात्मन् ॥ ४२॥
(Page खं. ५ अ. ३ पान ५)
यथा दिनेशः समकालयुक्तः प्रकाशदाता भवतीति नित्यम् ।
तथा हि ते भक्तजनानपारान् क्षमोऽसि तान् रक्षितुमन्तरं किम् ॥ ४३॥
किं योगरूपातिविलम्बनेन रक्षस्व भीतं मरणे सुसंस्थम् ।
हेरम्ब विघ्नेश विनायकाशु रक्षस्व रक्षस्व महेशपुत्र ॥ ४४॥
एवं स्तुवति शम्भौ स विष्णोर्हृदि गजाननः ।
प्रविश्य बुद्धिसन्दाता बभूवे भक्तवत्सलः ॥ ४५॥
धृत्वा स्त्रीवेषकं विष्णुर्ययौ तं भस्मकारकम् ।
महासुरो मुमोहाऽसौ तां दृष्ट्वा मोहिनीं स्त्रियम् ॥ ४६॥
तां समागत्य पप्रच्छ दैत्येन्द्रो मोहसंयुतः ।
कुत्र गच्छसि सुश्रोणि किं ते कार्यमुपस्थितम् ॥ ४७॥
वद मां तत् करिष्यामि त्वद्दासोऽहं न संशयः ।
अहं सर्वेश्वरोऽत्रैव न समो मे प्रविद्यते ॥ ४८॥
भज मां भावसंयुक्ता भजन्तं ते च दासकम् ।
त्वदधीनो भविष्यामि सदा वराङ्गने मतम् ॥ ४९॥
तस्य तद्वचनं श्रुत्वा स्मित्वा सा तं जगाद ह ।
अहं मोहप्रदा नारी मोहिन्यत्र समागता ॥ ५०॥
मदाज्ञया दैत्य यदि वर्तसे त्वं निरन्तरम् ।
तदा ते गृहगा भूत्वा तिष्ठाम्यत्र न संशयः ॥ ५१॥
तथेति दैत्यराजस्तां जगाद साऽब्रवीत् पुनः ।
नृत्यं कुरु मदग्रे त्वं यथा नृत्यामि वै अहम् ॥ ५२॥
तथेति प्रतिपाद्यैव सा ननर्त कलान्विता ।
तथा दैत्याधिपस्तत्र ननर्त काममोहितः ॥ ५३॥
तया दक्षिणहस्तश्च स्थापितः शिरसि स्वके ।
तथा सोऽपि चकाराशु भ्रान्तो विघ्नेशमायया ॥ ५४॥
भस्मसादभवद्दैत्यो भस्मासुरश्च तत्क्षणात् ।
ततः सा विस्मिता भूत्वा तुष्टाव गणनायकम् ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते भस्मासुरवधो नाम द्वितीयोऽध्यायः ॥ ५.२
५.३ क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
गाणेशैः स्तोत्रमुख्यैः सन्तुष्टाव विष्टरश्रवाः ।
गणेशं सिद्धिदं पूर्णं भक्तेभ्यो भक्तवत्सलम् ॥ १॥
ततः स मोहिनीरूपमभूत् त्यक्तुं समुद्यतः ।
एतस्मिन्नन्तरे तत्राऽमरैः सम्बोधितः शिवः ॥ २॥
ज्ञात्वा भस्मासुरं शम्भुर्मृतं विस्मितमानसः ।
ननर्त भक्तिसंयुक्तो जय विघ्नेश उच्चरन् ॥ ३॥
ततः सर्वैः समायुक्तो मुकुन्दकपुरं ययौ ।
तत्र नारीस्वरूपस्थमदर्शत् केशवं शिवः ॥ ४॥
महामोहप्रदं रूपं दृष्ट्वा विष्णोः सुविस्मितः ।
तदज्ञानो महादेवस्तां ययौ कामविह्वलः ॥ ५॥
तं दृष्ट्वा मोहितं विष्णुः पपाल स्त्रीस्वरूपधृक् ।
तामन्वधावद्देवेशः शङ्करो विह्वलो भृशम् ॥ ६॥
ततस्तत्याज तद्रूपं विष्णुः स पुरुषोऽभवत् ।
(Page खं. ५ अ. ३ पान ६)
शिवः खिन्नश्च तत्रैव स्खलितोऽभूत् सुविह्वलः ॥ ७॥
ततः सर्वे ययुर्देवाः स्वस्वस्थानं मुदा युताः ।
स्तुत्वा विष्णुं महाभागं शिवः स्वस्थानगोऽभवत् ॥ ८॥
शिवस्य वीर्यसम्पातात्तद्वीर्यप्रभवोऽसुरः ।
बभूव श्यामवर्णश्च ताम्रचक्षुः प्रतापवान् ॥ ९॥
स शुक्रमुपसङ्गम्योवाच तं विनयान्वितः ।
प्रणम्य तेजसा युक्तः शिष्यं पालय मां मुने ॥ १०॥
ततो ध्यानेन स ज्ञात्वा तस्य सर्वं महामुनिः ।
पुनस्तं प्रजगादैव वचनं हर्षयन्नरम् ॥ ११॥
शुक्र उवाच ।
मोहिनीं शङ्करो दृष्ट्वा कामबाणप्रपीडितः ।
पश्चाद्विष्णुं समालोक्य स्वचित्ते क्रोधमादधे ॥ १२॥
मनो मे चञ्चलं पूर्णं तद् ग्रहीष्यामि यत्नतः ।
मनोग्रहणरूपश्च क्रोधस्तत्र प्रवर्तते ॥ १३॥
तस्मिन् काले च वीर्यस्य स्खलनं सहसाऽभवत् ।
तस्माज्जातोऽसि तेन त्वं क्रोधनामा भविष्यसि ॥ १४॥
ततो दानवमुख्यैः स कारयामास विप्रप ।
मौञ्ज्यन्तसर्वसंस्कारान् यथाविधि स शास्त्रवित् ॥ १५॥
क्रोधो वेदादिकं सर्वमभ्यस्य गुरुसन्निधौ ।
शम्बरस्य सुतां तुल्यामुपयेमे महासुरः ॥ १६॥
प्रीतिनाम्नीं महारूपां सर्वावयवशालिनीम् ।
रूपलावण्यसंयुक्तां विषयानां प्रवर्धिनीम् ॥ १७॥
ततः शुक्रं समागम्य जगाद प्रणिपत्य तम् ।
कृताञ्जलिर्महातेजा दैत्येभ्यः सुखदं वचः ॥ १८॥
क्रोधासुर उवाच ।
ब्रह्माण्डविजयं स्वामिन् करिष्यामि त्वदाज्ञया ।
मन्त्रं देहि तदर्थं मे सर्वं यशोविवर्धनम् ॥ १९॥
ब्रह्मोवाच ।
तस्य तद्वचनं श्रुत्वा काव्यः सर्वज्ञसत्तमः ।
दैत्यानां प्रहितार्थाय ददौ तस्मै महामनुम् ॥ २०॥
सूर्यस्य विधियुक्तं प्रणम्य सङ्गृह्य तं ययौ ।
वनं व्याघ्रादिसङ्कीर्णं तपसे कृतनिश्चयः ॥ २१॥
एकपादेन तिष्ठन् समजपन् मन्त्रमुत्तमम् ।
चित्ते ध्यायन्नर्यमाणमूर्ध्वदृष्टिर्महासुरः ॥ २२॥
निराहारेण देवेशं तोषयामास यत्नतः ।
शीतोष्णादिभयं त्यक्त्वा काष्ठवत् संस्थितोऽभवत् ॥ २३॥
दिव्यवर्षसहस्रेण तुष्टो भानुस्तमाययौ ।
वरं दातुं महादैत्यमुवाच घननिःस्वनः ॥ २४॥
रविरुवाच ।
वरान् वृणु महाभाग क्रोधाऽहं ते ददामि तान् ।
सन्तुष्टस्तपसोग्रेणेप्सितान् हृदि महामते ॥ २५॥
श्रुत्वा रवेर्वचो दैत्यो दृष्ट्वा तं पुरतः स्थितम् ।
प्रणनाम महाभक्त्याऽपूजयत्तेजसां निधिम् ॥ २६॥
पुनः प्रणम्य तुष्टाव कृताञ्जलिपुटोऽसुरः ।
सौरसूक्तेन देवेशं पुनः सन्नत आदरात् ॥ २७॥
तमुवाचार्यमा दैत्यं वरं वृणु महामते ।
यं यमिच्छसि तं तं ते दास्याम्यत्र न संशयः ॥ २८॥
क्रोधासुर उवाच ।
उत्पत्तिस्थितिसंहारयुक्ता ये देवनायकाः ।
तेभ्यो मे मरणं भानो न भवेद्वै कदाचन ॥ २९॥
ब्रह्माण्डजयने शक्तं मां कुरुष्व विशेषतः ।
राज्यं चराचरस्यैव देहि मेऽदितिनन्दन ॥ ३०॥
आरोग्यं मनसा यद्यच्चिन्तितं सफलं भवेत् ।
न मे समो भवेत् कुत्र तथा कुरु दिवस्पते ॥ ३१॥
श्रुत्वा तस्य वचो रम्यं सर्वेभ्यो भयदायकम् ।
(Page खं. ५ अ. ४ पान ७)
विस्मितस्तेजसां नाथस्तं जगाद सुयन्त्रितः ॥ ३२॥
भानुरुवाच ।
क्रोध त्वया च यत् प्रोक्तं तदेव सफलं भवेत् ।
तपसा यन्त्रितो दैत्य तस्माद्दत्तं मया परम् ॥ ३३॥
एवमुक्त्वार्यमा लोकमगमद्दुःखसंयुतः ।
क्रोधो हर्षसमाविष्टः प्रययौ स्वगृहं ततः ॥ ३४॥
सुहृदो नन्दयामासासुरान् सर्वान् महायशाः ।
काव्यं प्रणम्य स्वस्थाने संस्थितोऽभून मदान्वितः ॥ ३५॥
हर्षः शोकश्च पुत्रौ द्वौ प्रीत्यामुत्पाद्य दैत्यपः ।
नानाभोगान् प्रभुञ्जानो गर्वितोऽभूत्ततः परम् ॥ ३६॥
शुक्रं सकलनीतिज्ञं समानाय्य प्रपूज्य तम् ।
तस्यानुमतमागृह्य नगरं निर्ममेऽसुरः ॥ ३७॥
आवेशनामकं रम्यं सर्वशोभासमन्वितम् ।
तत्राजग्मुश्च विप्रर्षे दानवा दैत्यराक्षसाः ॥ ३८॥
चातुर्वर्ण्यसमायुक्ता निवासं चक्रिरे पुरा ।
जना हर्षयुतास्तत्र मुमुदुः ससुहृद्गणाः ॥ ३९॥
ततः काव्यः समागत्य क्रोधं चकार विप्रपैः ।
अभिषिक्तं स सर्वेषां दानवानां पदे प्रभुम् ॥ ४०॥
ततः क्रोधस्य तत्पुर्यां प्रधानाः पञ्च दारुणाः ।
बभूवुः सर्वनीतिज्ञा महामाया महाबलाः ॥ ४१॥
बलिर्जृम्भस्तथा राहू रावणो माल्यवान् परः ।
तैर्युक्तः शुशुभेऽत्यन्तं क्रोधः परमदारुणः ॥ ४२॥
अन्ये प्रहस्तमुख्याश्च राक्षसा दानवास्तथा ।
सिषेविरे भावयुक्ता महाक्रोधं महाबलाः ॥ ४३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ५.३
५.४ क्रोधासुरब्रह्माण्डविजयो नाम चतुर्थोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
ततः किञ्चिद्गते काले क्रोधो हर्षसमन्वितः ।
उवाच बलिमुख्यांश्च दानवान् गर्वपूरितः ॥ १॥
क्रोधासुर उवाच ।
शृणुध्वं दानवाः सर्वे बलिमुख्या महाबलाः ।
ब्रह्माण्डं प्रजयिष्यामि भवद्भिः संयुतो ह्यहम् ॥ २॥
तस्य तद्वचनं श्रुत्वा दैत्याः संहर्षिता नृपम् ।
जगुस्तं भक्तिसंयुक्ता कृत्वा करपुटं वचः ॥ ३॥
बल्याद्या ऊचुः ।
सम्यगुक्तं त्वया नाथ प्रजेष्यामः सुराधिपान् ।
त्वत्प्रसादेन दैत्येश आज्ञापय महासुरान् ॥ ४॥
पराक्रमतुलां ते न तिष्ठन्ति ब्रह्मगोलके ।
निर्भयोऽसि महाराज जय त्वं सर्वदेवपान् ॥ ५॥
तेषां वचनमाकर्ण्याऽसुरः क्रोधः प्रहर्षितः ।
शुक्रं नत्वा समानाय्य बभौ तेनानुमोदितः ॥ ६॥
ततो दैत्यगणान् सर्वानाजुहाव नरैः स्वकैः ।
ते सर्वे हर्षसंयुक्ता आययुस्तं नराधिपम् ॥ ७॥
ततः सैन्यसमायुक्तो निर्जगाम महासुरः ।
चतुरङ्गबलैर्युक्तोऽपारैः सर्वत्र सम्बभौ ॥ ८॥
रथस्थश्च स्वयं क्रोधो दैत्यपैः संवृतो बभौ ।
तत्रादौ पृथिवीं जेतुं ययौ भूमण्डले नृपान् ॥ ९॥
बलिमुख्यैर्महावीरैः स्थितैर्यत्र च मानदौ ।
तैर्युद्धं कः पुमान् भूमौ कर्तुं शक्तो भवेत्तदा ॥ १०॥
राजानः शरणं जग्मुर्दैत्येन्द्रभयपीडिताः ।
केचिन् मृताश्च तैर्युद्धं कृत्वाऽहङ्कारसंयुताः ॥ ११॥
केचिद्राज्यं परित्यज्य सुदारुणवनं ययुः ।
एवं वसुन्धरां जित्वा मुमुदुः सप्तसागराम् ॥ १२॥
राज्ञस्ते करदांश्चक्रुर्दैत्याः शरणमागतान् ।
मृतास्तेषां सुताः सर्वे करदान् स्थाप्य चक्रिरे ॥ १३॥
वनेषु ये गतास्तेषु दैत्याः संस्थापिताश्च तैः ।
बभुः संस्थापिता दैत्याः सर्वत्र नगरेषु वै ॥ १४॥
ततः पाताललोकेषु ययुर्दैत्येन्द्रमुख्यकाः ।
क्रोधासुरसमायुक्ता जेतुं नागान् महाबलान् ॥ १५॥
दूतमुखेन वृत्तान्तं ज्ञात्वा शेष उदारधीः ।
वरगर्वसमायुक्तं क्रोधं ज्ञात्वा ययौ स्वयम् ॥ १६॥
समागतं महानागैः शेषं ज्ञात्वा समावृतम् ।
क्रोधासुरः प्रसन्नात्मा मान्य तं सादरोऽभवत् ॥ १७॥
करभारं वार्षिकं स वृतः स्वीकृत्य नागपैः ।
दत्त्वा रत्नादिकं शेषो ययौ स्वस्थानमेव च ॥ १८॥
ततः स दैत्यपैः सर्वैर्ययौ शुक्रेण पालितः ।
देवस्थानेषु सर्वेषु देवोद्यानान्यभञ्जयत् ॥ १९॥
ततो दूतं महादैत्यः प्रेषयामास हर्षितः ।
जगाद मघवन्तं च स गत्वा चेष्टितं महत् ॥ २०॥
बृहस्पतिं च देवेन्द्रैस्तत इन्द्रः समाययौ ।
तेन संज्ञापितः सर्वैः प्रपपाल गुहान्तरम् ॥ २१॥
तज्ज्ञात्वा दैत्यपैः सर्वैर्हर्षितः क्रोधकोऽसुरः ।
आययावमरावत्यामिन्द्रासनस्थितोऽभवत् ॥ २२॥
देवस्थानानि सर्वाणि विभज्य प्रददौ स्वयम् ।
असुरेभ्यो महादैत्यस्तेषु दैत्याः स्थिता बभुः ॥ २३॥
नाना भोगान् प्रभुञ्जाना देवसौख्यकरान् मुनी ।
अन्योन्यस्नेहसंयुक्ता बभूवुः साहसप्रियाः ॥ २४॥
गन्धर्वाश्चारणाद्याश्चाप्सरसस्तान् सिषेविरे ।
दुःखयुक्ता विशेषेण देवैर्हीना महामुनी ॥ २५॥
ततः कदाचिद्दैत्येन्द्रो दैत्यपैः संवृतो ययौ ।
सत्यलोकं सुविख्यातं ज्ञात्वा ब्रह्मा पपाल ह ॥ २६॥
तत्रैव संस्थितो दैत्यः क्रोधः परमदारुणः ।
बुभुजे सत्यलोकोत्थान् भोगान् दैत्यैर्महाबलैः ॥ २७॥
ततो विकुण्ठमेवं स जगामासुरसंवृतः ।
ज्ञात्वा तत्र स्थितो विष्णुः पपाल क्रोधभीतितः ॥ २८॥
तत्र स्थित्वा विकुण्ठस्य भोगान् विष्णुकृतान् स्वयम् ।
बुभुजे ज्ञातिभिः सार्धं क्रोधः परमदारुणः ॥ २९॥
ततः कैलासकं दैत्यः शङ्करं जेतुमाययौ ।
महादेवः पपालैव क्रोधसन्तापतापितः ॥ ३०॥
तत्रस्थः क्रोधको दैत्यो ननन्द हृदि चाद्भुतम् ।
दैत्यैः समावृतः क्रूरस्तान् जगाद बलान्वितः ॥ ३१॥
क्रोधासुर उवाच ।
बले रावणमुख्याश्च शृणुध्वं मे वचो हितम् ।
अधुना न जितं स्थानं वदताऽहं जयामि तत् ॥ ३२॥
दैत्येन्द्रा ऊचुः ।
सर्वं जितं त्वया राजन् भानुरेकः सुराधिपः ।
न जितः स तदर्थं त्वं प्रयतस्वाऽसुराधिप ॥ ३३॥
जगाद क्रोधको दैत्यस्ततस्तान् हर्षसंयुतः ।
इष्टदेवं मदीयं तं भानुं त्यजत दैत्यपाः ॥ ३४॥
(Page खं. ५ अ. ५ पान ९)
तस्य तद्वचनं श्रुत्वा क्षोभयुक्ता महासुराः ।
जगुस्तं मायया युक्ताः क्रोधं भेदपरायणाः ॥ ३५॥
अस्माकमिष्टदेवोऽयं सूर्यः स्वामिन्न संशयः ।
भजिष्यामो विशेषेण तं सदा भक्तिलालसम् ॥ ३६॥
देवानां पक्षमुत्सृज्येच्छत्यस्माकं हितं यदि ।
तदा वन्द्योऽर्यमा नाथ नान्यथा जय तं बलात् ॥ ३७॥
परपक्षाश्रितं देवमस्मत्संहनने रतम् ।
जयिष्यामो वयमतो हितं राजन् समाचर ॥ ३८॥
दैत्येशानां वचः श्रुत्वा क्रोधः संहर्षितोऽभवत् ।
दूतं सम्प्रेषयामास रावणं गर्वसंयुतम् ॥ ३९॥
रावणात् सर्ववृत्तान्तं ज्ञात्वा भानुः प्रतापवान् ।
तमुवाच तदा क्रुद्धो भयभीतश्च मानदौ ॥ ४०॥
रविरुवाच ।
देवानां पक्षमुत्सृज्य क्रोधासुरपरायणः ।
न भविष्यामि भो दूत देवोऽहं नात्र संशयः ॥ ४१॥
उन्मत्तं वरसंयुक्तं क्रोधं वद महामते ।
त्यक्त्वा राज्यं वने भानुर्गतो राज्यं कुरुष्व च ॥ ४२॥
एवमुक्त्वा रावणं स सूर्यः सर्वसमन्वितः ।
पपाल लोकमुत्सृज्य रावणस्तं समाययौ ॥ ४३॥
ततोऽतिहर्षितो दैत्यः क्रोधो दुष्टैः समावृतः ।
आययौ सौरलोकं तं मुमुदे प्राप्य दुर्जनः ॥ ४४॥
आत्मानं कृतकृत्यं स मानयामास दुर्मतिः ।
ब्रह्माण्डविजयी भूत्वा भोगांश्च बुभुजे परान् ॥ ४५॥
ततः संस्थाप्य दैत्येन्द्रान् तेषु स्वर्गेषु दैत्यपः ।
पृथिव्यां नगरं मुख्यमाययौ प्रीतिसंज्ञकम् ॥ ४६॥
क्रोधासुरोऽसौ तत्रस्थः प्रशशास प्रतापवान् ।
त्रैलोक्यं भोगसंयुक्तः सुहृदानन्ददायकः ॥ ४७॥
स्त्रीमांसमदिरासक्तो बभूव विषयप्रियः ।
न बुबोध गतं कालं यथाकालेन वञ्चितः ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरब्रह्माण्डविजयो नाम चतुर्थोऽध्यायः ॥ ५.४
५.५ देवर्षिवरप्रदानं नाम पञ्चमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
ततोऽतिमदसंयुक्तोऽसुरः क्रोधः प्रतापवान् ।
दैत्यानाज्ञापयत् क्रूरान् कर्मणः खण्डनाय तान् ॥ १॥
तस्याज्ञया ययुर्दैत्या यत्र तत्र महीतले ।
ब्राह्मणांस्ताडयामासुर्वर्णाश्रमप्रवर्तकान् ॥ २॥
अन्यान् वर्णांस्तथा गृह्य कर्महीनांश्च चक्रिरे ।
देवतीर्थादिकं दैत्या बभञ्जुर्यज्ञवृक्षकान् ॥ ३॥
सर्वत्र त्रासिता लोकाः कर्महीना बभूविरे ।
न स्वाहा न स्वधा कुत्र न वषट्कार एव च ॥ ४॥
ततो विप्रानुवाचाऽथ क्रोधासुरः प्रतापवान् ।
मदीयनामसंयुक्तं कर्म कुर्वन्तु विप्रपाः ॥ ५॥
जगदीशो महाभागा अहं द्विजा न संशयः ।
भजतां पादयोर्मे नो दुर्लभं किं भविष्यति ॥ ६॥
ततो द्विजास्तपोनिष्ठा गता वनेषु मानदौ ।
त्यक्त्वा विषयजं सौख्यं सिंहव्याघ्रयुतेषु ते ॥ ७॥
केचिद् भ्रष्टास्तदाज्ञायां संस्थिता दुःखसंयुताः ।
(Page खं. ५ अ. ५ पान १०)
वर्णाश्रमविहीनाश्च जनाः सर्वे बभूविरे ॥ ८॥
सर्वत्र क्रोधकस्यैव प्रतिमा स्थापिताऽभवत् ।
गृहे गृहे तथा तस्याऽसुरैः पूजा प्रवर्तिता ॥ ९॥
एवं हा हा कृतं सर्वं त्रैलोक्यं तेन वैरिणा ।
देवाः सर्वे भयोद्विग्ना बभूवुः कर्मखण्डनात् ॥ १०॥
कर्मखण्डनभावेनोपोषणैः संयुताः सुराः ।
ततस्तस्य विनाशार्थं यत्नवन्तो बभूविरे ॥ ११॥
न प्रापुस्तस्य शान्त्यर्थमुपायं ते सुरेश्वराः ।
ततोऽतिखेदसंयुक्ता बभूवुस्त्रासकम्पिताः ॥ १२॥
एतस्मिन्नन्तरे तत्र वसिष्ठो योगिनां वरः ।
जगाद तान् सुरेशानान्निःश्वस्य हितकारकः ॥ १३॥
वसिष्ठ उवाच ।
उत्पत्तिस्थितिसंहारैर्वयं युक्ता न संशयः ।
अस्मभ्यो मरणं तस्य न भविष्यति निश्चितम् ॥ १४॥
स्वानन्दवासकरणं गणेशं ब्रह्मनायकम् ।
त्रिभिर्हीनं जगुर्वेदास्तं सेवध्वं सुरेश्वराः ॥ १५॥
हत्वा क्रोधासुरं सोऽपि स्वपदानि प्रदास्यति ।
अस्मभ्यं नात्र सन्देहं कुर्वन्तु प्रयताः सुराः ॥ १६॥
वसिष्ठवचनं श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
साधु साधु मुनि सर्वे जगुर्ज्ञाननिधिं परम् ॥ १७॥
ततस्ते मन्त्रराजं वै जेपुर्लम्बोदरस्य च ।
भक्तियुक्तास्तपोनिष्ठा ध्यानसंस्था बभूविरे ॥ १८॥
नानानुष्ठानयोगैश्चातोषयंस्ते गजाननम् ।
उपोषणपराः सर्वे विधियुक्ता महामुनी ॥ १९॥
एवं वर्षसहस्रे च प्रगते तोषसंयुतः ।
लम्बोदरः प्रसन्नात्मा तान् ययौ वरदायकः ॥ २०॥
समागतं गणेशानं दृष्ट्वा देवर्षयः पुरः ।
उत्थाय हर्षसंयुक्ताः प्रणेमुर्दण्डवद्भुवि ॥ २१॥
पुपूजुर्भक्तिसंयुक्ताः प्रभुं नानोपचारकैः ।
पुनः प्रणम्य सन्तुष्टास्तुष्टुवुः करसम्पुटैः ॥ २२॥
देवर्षय ऊचुः ।
नमस्ते गणनाथाय लम्बोदरधराय च ।
गजवक्त्राय सर्वेषां नमः पूज्याय ते नमः ॥ २३॥
स्वानन्दपतये तुभ्यं सर्वस्वानन्ददायिने ।
अनाथाय च सर्वेषां नायकाय नमो नमः ॥ २४॥
नमो विघ्नेश्वरायैव भक्तविघ्नविनाशिने ।
अभक्तानां महाविघ्नकारकाय नमो नमः ॥ २५॥
उत्पत्तिस्थितिसंहारहीनाय सर्वरूपिणे ।
अनादये परेशाय महोदर नमोऽस्तु ते ॥ २६॥
मायिनां मोहकायैव मायाविने परात्मने ।
सर्वसिद्धिप्रदायैव नानाविद्याकलात्मने ॥ २७॥
अपाराननरूपायापारहस्तपदाय च ।
गुणेशाय गुणानां ते चालकाय नमो नमः ॥ २८॥
आदिमध्यान्तरूपायादिमध्यान्तस्वरूपिणे ।
अनाकाराय ते चाकारयुक्ताय नमो नमः ॥ २९॥
ज्येष्ठराजाय ज्येष्ठानां पतये सर्वदायिने ।
आदिपूज्याय चान्ते ते संस्थिताय नमो नमः ॥ ३०॥
नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो ।
सम्भूतमुदरात्ते वै तेन लम्बोदरो भवान् ॥ ३१॥
तवोदरभवाः सर्वे त्वं न कस्योदरोद्भवः ।
तेन लम्बोदरोऽसि त्वं लम्बोदर नमोऽस्तु ते ॥ ३२॥
सर्वेषामुदराणां त्वं पारं जानासि विघ्नप ।
उदरस्य न कस्तेऽपि पारं जानाति ते नमः ॥ ३३॥
एतादृशोऽयमानन्दानामानन्दप्रदायकः ।
प्रत्यक्षं दृष्टिगो जातोऽस्माकं धन्या वयं ततः ॥ ३४॥
(Page खं. ५ अ. ५ पान ११)
मनोवाणीविहीनो न मनोवाणीमयो न च ।
लम्बोदरः समायात आश्चर्यं भाति ते नमः ॥ ३५॥
किं स्तुवीमः गणेशानं यत्र वेदादयः प्रभो ।
शान्तिं प्राप्ता वयं तत्र नः प्रसीद नमो नमः ॥ ३६॥
एवमुक्त्वा सुराः सर्वे ननृतुर्मुनयस्तथा ।
तानुवाच गणेशानो मेघगम्भीरनिःस्वनः ॥ ३७॥
लम्बोदर उवाच ।
वरं ब्रूत महाभागा देवेन्द्रा मुनयोऽमलाः ।
तपसा मनसाऽभीष्टं भक्त्या तुष्टो ददाम्यहम् ॥ ३८॥
भवत्कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् ।
पठते शृण्वते चेहामुत्र सौख्यप्रदं परम् ॥ ३९॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
नानासिद्धिप्रदं चास्तु मम भक्तिविवर्धनम् ॥ ४०॥
ब्रह्मोवाच ।
लम्बोदरवचः श्रुत्वा हृष्टा देवर्षयोऽभवन् ।
जगुस्तं प्रणिपत्यैव सर्वेशं भक्तपालकम् ॥ ४१॥
देवर्षय ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा क्रोधासुरं नाथ मारयस्वाधुना प्रभो ॥ ४२॥
स्थानभ्रष्टा वयं तेन कृताः कर्मविहीनकाः ।
ऋषयश्च जगत् सर्वं स्वधास्वाहाविवर्जितम् ॥ ४३॥
अतो लम्बोदर स्वामिंस्तवोदरसमुद्भवान् ।
एकं हत्वा तथा सर्वान् रक्ष स्वभक्तकान् प्रभो ॥ ४४॥
भक्तिं देहि त्वदीयां नः सर्वक्रोधविनाशिनीम् ।
तया शान्तिसमायुक्ता भजिष्यामो विशेषतः ॥ ४५॥
तव भक्तिर्यदा प्राप्ता लम्बोदर तदा शुभम् ।
भुनक्ति सर्वदा स्वामिन् ब्रह्मभूतः स वै स्मृतः ॥ ४६॥
सर्वं मुनीनां देवानां वचः श्रुत्वा महाप्रभुः ।
लम्बोदरश्च तान् प्राह तथेति भक्तियन्त्रितः ॥ ४७॥
ततः सोंऽतर्हितो देवो देवास्तत्रैव संस्थिताः ।
मुनयश्च भयोद्विग्नाः कालकाङ्क्षां प्रचक्रिरे ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते देवर्षिवरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५.५
५.६ देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
विश्वामित्रवसिष्ठौ च शृणुतं परमाद्भुतम् ।
चरितं गणनाथस्य महाशान्तिप्रदायकम् ॥ १॥
कदाचित् क्रोधको दैत्यः सभासनगतोऽभवत् ।
तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥ २॥
लम्बोदरश्च मुनिभिर्देवैः सार्धं वधाय ते ।
प्रार्थितः स तु हत्वा त्वां जगत् सुखि करिष्यति ॥ ३॥
तच्छ्रुत्वा मूर्च्छितं क्रोधं सहसा भयविह्वलम् ।
तं दैत्येन्द्राश्च विप्रर्षी सावधानं प्रचक्रिरे ॥ ४॥
शोकयुक्ता विशेषेण पप्रच्छुस्तं महासुराः ।
बल्याद्या भयभीताश्च किं जातं वद मानद ॥ ५॥
दैत्येशानां वचः श्रुत्वा भययुक्तो महासुरः ।
जगाद तान् स वृत्तान्तमाकाशे वाक्समुद्भवम् ॥ ६॥
तच्छ्रुत्वा कुपिता दैत्यास्तमूचुर्मदसंयुताः ।
(Page खं. ५ अ. ६ पान १२)
देवान् मुनिगणान्नाथ हनिष्यामोऽद्य निश्चितम् ॥ ७॥
अस्माकं शत्रवो देवास्तैः कृतं दारुणं महत् ।
आज्ञापय महाभाग सर्वान् देवजिघांसया ॥ ८॥
ततोऽतिहर्षितः क्रोधः स्वयं युद्धाय सज्जितः ।
दैत्येशैः संवृतः सद्यो ययौ शैलेन्द्रमुख्यकम् ॥ ९॥
समागतं महाक्रोधं दैत्येशैः संवृतं ततः ।
देवाः सर्वे भयोद्विग्नाः सस्मरुर्गणनायकम् ॥ १०॥
तेषां स्मरणमात्रेण लम्बोदरः प्रतापवान् ।
मूषकारूढ एवासावागतोऽभून् महाप्रभुः ॥ ११॥
पाशादिशस्त्रसंयुक्तं सिद्धिबुद्धिसमन्वितम् ।
नाभिशेषं त्रिनेत्रं तं ददृशुश्च सुरर्षयः ॥ १२॥
ततस्तं ते प्रणेमुर्वै भयं त्यक्त्वा सुहर्षिताः ।
स्तुत्वा वृत्तान्तमुग्रं तं कथयामासुरादृताः ॥ १३॥
श्रुत्वा वृत्तान्तमुग्रं स तान् जगाद सुराधिपान् ।
लम्बोदरः प्रसन्नात्मा मुनीन् क्रोधयुतः प्रभुः ॥ १४॥
लम्बोदर उवाच ।
मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ।
स्वधर्मस्थान् जनान् सर्वान् करिष्यामि न संशयः ॥ १५॥
ततः क्रोधासुरस्तत्र समीपे समुपागतः ।
दृष्ट्वा लम्बोदरं देवं भयभीतो बभूव ह ॥ १६॥
उवाच दैत्यपांस्तत्र सत्या वाक् सा न संशयः ।
अयं लम्बोदरो नूनं देवैः सम्प्रार्थ्यतेऽसुराः ॥ १७॥
तस्य तद्वचनं श्रुत्वा दैत्याः क्रोधारुणेक्षणाः ।
ऊचुस्तं दैत्यनाथं ते गर्वयुक्ता बलान्विताः ॥ १८॥
दैत्येशा ऊचुः ।
लम्बोदरयुतान् देवान् हनिष्यामो न संशयः ।
मा कुरुष्व वृथा चिन्तां रक्ष पृष्ठं महामते ॥ १९॥
देहधारी गणाध्यक्ष आगतो नात्र संशयः ।
उत्पत्तिनाशवान् देहः किं करिष्यति तेऽशुभम् ॥ २०॥
काव्यं दैत्यगणास्तत्र सस्मरुर्भक्तिसंयुताः ।
तेषां स्मरणमात्रेण स चापि ह्यागतोऽभवत् ॥ २१॥
तं प्रणम्य गुरुं दैत्या वृत्तान्तं सर्वमञ्जसा ।
कथयन्ति स्म तं श्रुत्वा शुक्रस्तान् प्रत्युवाच ह ॥ २२॥
शुक्र उवाच ।
सिद्धिपतिं परित्यज्य सिद्धिमिच्छति दुर्मतिः ।
तथा त्यक्त्वा बुद्धिपतिं स्फूर्तिमिच्छति मूर्खवत् ॥ २३॥
विघ्नराजं सदैकं यं तं त्यक्त्वा विघ्नहीनकाः ।
कथं भवन्ति वदत दैत्येन्द्रा मां विनिश्चयात् ॥ २४॥
अतो युद्धं परित्यज्य शरणं तस्य शोभनम् ।
भविष्यति न सन्देहो नोचेत् क्रोधो मरिष्यति ॥ २५॥
शुक्रस्य वचनं श्रुत्वा बलिस्तत्र जगाद तम् ।
कर्मणा सिद्धिदाताऽयं स्फूर्तिदाता भवत्यहो ॥ २६॥
कर्मणा विघ्नहीनत्वं सविघ्नं प्रकरोति च ।
अतो वयं महायोगिन् कर्मणा तं जयामहे ॥ २७॥
तस्य तद्वचनं श्रुत्वा सर्वे दैत्येन्द्रकादयः ।
साधु साध्वब्रुवंस्तत्र सङ्ग्रामायोद्यता बभुः ॥ २८॥
ततो भावि बलं वीक्ष्य काव्यस्तत्र मुनीश्वरौ ।
तूष्णीम्भावं समाधृत्य संस्थितोऽभूत् स योगवित् ॥ २९॥
देवाः सर्वे महास्त्रैस्ते युक्ताः क्रोधसमन्विताः ।
आययू रणभूमिं च दैत्येशाश्च तथा ययुः ॥ ३०॥
ततः परस्परं युद्धं बभूवे दारुणं महत् ।
दैत्यानां चैव देवानां परस्परविनाशनम् ॥ ३१॥
देवा दैत्या युयुधिरे कृत्वा मरणनिश्चयम् ।
(Page खं. ५ अ. ६ पान १३)
शस्त्रास्त्रैर्बलगर्वेण प्रेरिता रणदुर्मदाः ॥ ३२॥
वीराणामभवन्नादैर्वादित्राणां च वाजिनाम् ।
बृंहितानां च शङ्खानां दिशो नादयुतास्ततः ॥ ३३॥
सैन्यपादभवो रेणुश्छादयामास भास्करम् ।
नाभूत् स्वपरबोधोऽपि जघ्नुस्ते च परस्परम् ॥ ३४॥
ततो रक्तप्रवाहश्च सम्भूतः शस्त्रघाततः ।
रजःकणास्तेन सर्वे मज्जिता अभवन् मृधे ॥ ३५॥
ततः परस्परं दृष्ट्वा जघ्निरे क्रोधसंयुताः ।
देवाश्च दानवास्तद्वत् परस्परजये रताः ॥ ३६॥
दिनत्रयमभूद्युद्धं घोरं सर्वभयावहम् ।
ततो दैत्यगणाः सर्वे पपलुस्त्राससंयुताः ॥ ३७॥
देवा हर्षयुतास्तत्र जय लम्बोदर प्रभो ।
ऊचुस्तान् हन्तुमायाता दैत्येशाः क्रोधसंयुताः ॥ ३८॥
बलिश्च रावणो जृम्भो माल्यवान् कुम्भकर्णकः ।
राहुश्चान्ये महावीराः सङ्ख्यातुं न प्रशक्यते ॥ ३९॥
तैः शस्त्रनिचयैर्देवाः संहताः पपलुस्तदा ।
हित्वा सङ्ग्रामभूमिं ते छिन्नभिन्नाः समन्ततः ॥ ४०॥
तत इन्द्रश्च सङ्क्रुद्धः शङ्करो विष्णुरेव च ।
सूर्यश्चन्द्रश्च देवेन्द्रा आययुः क्रोधसंयुताः ॥ ४१॥
तैरस्त्राणां महावृष्टिः कृता परमदारुणा ।
तया दैत्यगणाः सर्वे पपलुश्च दिशो दश ॥ ४२॥
ततोऽतिक्रोधसंयुक्ता रावणाद्याः समाययुः ।
द्वन्द्वयुद्धमभूद्घोरं सर्वेभ्यो भयदायकम् ॥ ४३॥
जृम्भो ययौ महेन्द्रेण राहुः सूर्येण संयुगे ।
बलिश्च विष्णुना क्रुद्धो रावणः शङ्करेण च ॥ ४४॥
कुम्भकर्णश्च चन्द्रेण नाना दैत्येन्द्रकादयः ।
देवेन्द्रैर्वायुमुख्यैश्च युयुधुर्जयकाङ्क्षिणः ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ५.६
५.७ क्रोधासुरसमागमो नाम सप्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
एकरात्रं महाघोरं युद्धं बभूव दारुणम् ।
ततो रक्तप्रवाहैश्च नद्यो जाता जलौघवत् ॥ १॥
न जयः प्राप्यते देवैर्नासुरैर्यमसन्निभैः ।
मघवा वज्रपातैस्तांश्चूर्णयामास दानवान् ॥ २॥
ततो जृम्भोऽतिसङ्क्रुद्धो गदामादाय दारुणाम् ।
युयुधे देवराजेन महाबलपराक्रमः ॥ ३॥
गदया देवराजं स मूर्च्छितं प्रचकार ह ।
ततो हाहाकृतं सर्वैर्देवसैन्यं पपाल तत् ॥ ४॥
इन्द्रः संज्ञासमायुक्तः पुनः संयुयुधे भृशम् ।
वज्रेण पातयामास जृम्भं तं धरणीतले ॥ ५॥
त्रिशूलेन हतस्तत्र रावणः पतितो भुवि ।
शङ्करेण ततः सर्वे पपलुर्दानवा मृधे ॥ ६॥
गदया विष्णुना तत्र बलिः सम्मूर्च्छितः कृतः ।
कुम्भकर्णश्च चन्द्रेण पीडितो मूर्च्छितोऽभवत् ॥ ७॥
राहुः सूर्येण सङ्ग्रामे तेजसा पीडितो भृशम् ।
पपात मूर्च्छया भूमौ हा हा कृत्वा महामुनी ॥ ८॥
(Page खं. ५ अ. ७ पान १४)
द्वन्द्वयुद्धं परे ये ये ह्यकुर्वन्नमरैर्बलात् ।
ते ते सर्वे च देवेन्द्रैर्जिताः सर्वे पलायिताः ॥ ९॥
भक्तवत्सलभावेन शङ्करो विष्णुरञ्जसा ।
रावणं च बलिं तत्र चक्रतुर्न मृतौ मृधे ॥ १०॥
ततोऽतिकोपसंयुक्ता देवेन्द्राः शस्त्रवृष्टिभिः ।
असुरान् मारयामासुः सर्वत्र भयसंयुतान् ॥ ११॥
प्रलयं मेनिरे तत्र दैत्यास्त्राससमाकुलाः ।
देवांस्ते शरणं जग्मुः केचित् प्राणपरीप्सया ॥ १२॥
जय लम्बोदर स्वामिन् जय विघ्नेश देवप ।
हेरम्ब वक्रतुण्ड त्वं जयेत्यूचुः प्रहर्षिताः ॥ १३॥
दैत्यानां कदनं दृष्ट्वा क्रोधः परमविस्मितः ।
निःश्वस्य चिन्तया युक्तो बभूवे किं भविष्यति ॥ १४॥
पितुः शोकं विदित्वा तौ हर्षः शोकश्च संयुगे ।
ययतुः शस्त्रवर्षेण ववर्ष तौ घनौ यथा ॥ १५॥
तयोरमोघरूपैश्च शस्त्रैर्देवा हता मृधे ।
छिन्नाङ्गाः पपलुस्तत्र दैत्यसन्त्रासतापिताः ॥ १६॥
इन्द्रं च सहसाऽऽगत्य शोकः परमदारुणः ।
चकार मूर्च्छितं सद्यो गदया मूर्ध्नि घाततः ॥ १७॥
सङ्गृह्य स्वबले सोऽपि स्थापयामास देवपम् ।
ततः शुक्रेण दैत्येन्द्रा विद्यया नीरुजाः कृताः ॥ १८॥
बलिमुख्या ययुः सङ्ग्रामं पुनश्च महामुनी ।
चक्रेण सहसा हर्षश्चन्द्रं चक्रे स मूर्च्छितम् ॥ १९॥
ततः कोपसमायुक्तः शङ्करो युयुधे भृशम् ।
त्रिशूलेन महादैत्यान् जघान सकलान् प्रभुः ॥ २०॥
शङ्करस्य बलं वीक्ष्य हर्षस्तत्र समाययौ ।
युयुधे तेन दैत्येन्द्रपुत्रस्तेजस्विनां वरः ॥ २१॥
नानाविधं महाघोरं युद्धं बभूव दारुणम् ।
हर्षस्य शङ्करस्यैव परस्परजयैषिणोः ॥ २२॥
ततस्त्रिशूलघातेन शङ्करस्तं जघान ह ।
पतितं मूर्च्छितं हर्षं दृष्ट्वा दैत्या भयातुराः ॥ २३॥
पतितान् दैत्यपान् दृष्ट्वा काव्यस्तत्र समागतः ।
हर्षं मूर्च्छाविहीनं वै चकार स्वेन तेजसा ॥ २४॥
ततो हर्षसमायुक्ता दैत्येन्द्रा युयुधुर्भृशम् ।
विष्णुस्तेषां बलं वीक्ष्य चक्रं मुमोच दारुणम् ॥ २५॥
चक्रेण क्षुरधारेण हता दैत्या अनेकशः ।
प्रपेलुर्भयसंयुक्ताश्छिन्नभिन्नाङ्गका मृधे ॥ २६॥
ततः शोकः समायातः शूलं मुमोच तैजसम् ।
आगत्य सहसा विष्णोः पपात हृदि विप्रपौ ॥ २७॥
ततः सम्मूर्च्छितस्तत्र पपात च जनार्दनः ।
दैत्या हर्षयुताः सर्वे नादं चक्रुर्महारणे ॥ २८॥
ततो हर्षो महाक्रोधाद्गदया मृत्युकल्पया ।
चकार शङ्करं तत्र पतितं मूर्च्छया भृशम् ॥ २९॥
ततो हा हा रवं कृत्वा देवाः सर्वे पराजिताः ।
प्रपेलुः सर्वदेवेन्द्रा दैत्याभ्यां त्रासिता बलात् ॥ ३०॥
तद् दृष्ट्वा परमाश्चर्यं लम्बोदरः प्रतापवान् ।
अङ्कुशं क्रोधसंयुक्तो मुमोच दैत्यमण्डले ॥ ३१॥
तेजोरूपं महास्त्रं तद् दृष्ट्वा दैत्या विसिस्मिरे ।
यावत्तावच्च दैत्येन्द्रौ हतौ हर्षश्च शोककः ॥ ३२॥
मायया गणनाथश्च शुक्रं गृह्य गुहान्तरे ।
चिक्षेप च ततः सर्वे प्रपेलू राहुमुख्यकाः ॥ ३३॥
ततोऽतिकोपसंयुक्तः क्रोधः स्वयमुपागतः ।
पुत्रशोकं हठात् गृह्य बाणवृष्टिं चकार ह ॥ ३४॥
(Page खं. ५ अ. ८ पान १५)
तद्बाणैरपि तत्रस्था देवाः सर्वे महामुनी ।
छिन्नाङ्गा अपलन् सद्यो हाहाकाररवा दिशः ॥ ३५॥
लम्बोदरः समाश्वास्य देवेशस्तान् प्रतापवान् ।
आययौ रणभूमिं स पाशहस्तोऽसिधारकः ॥ ३६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरसमागमो नाम सप्तमोऽध्यायः ॥ ५.७
५.८ क्रोधासुरशान्तिवर्णनं नामाऽष्टमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
लम्बोदरं महादैत्यः समालोक्य रणं गतः ।
जगाद क्रोधसंयुक्तः क्रोधः सर्वविचारवित् ॥ १॥
क्रोधासुर उवाच ।
लम्बोदर महामूर्ख किमर्थं रणमागतः ।
देवानां हितमिच्छन् सन् मरिष्यसि च मेऽग्रतः ॥ २॥
येन ब्रह्माण्डगं पूर्णं जितं देवादयः कृताः ।
पशुतुल्या वने संस्था जेतुमिच्छसि तं मुधा ॥ ३॥
मम क्रोधो दहेत् सर्वं त्रैलोक्यं सचराचरम् ।
तत् पुरः कथमायातः सङ्ग्रामाय सुयन्त्रितः ॥ ४॥
त्वया मदीयकं सैन्यं हतं पुत्रौ हतौ तथा ।
अधुना शोकसंयुक्तो हनिष्यामि मदान्वितम् ॥ ५॥
शरणं याहि मां नो चेन् मरिष्यसि गजानन ।
उदरं स्फोटयिष्यामि बाणेनैकेन ते महत् ॥ ६॥
इत्यादि विविधैर्वाक्यैर्लम्बोदरं महासुरः ।
भर्त्सयामास तं देवो जगाद मदसंयुतम् ॥ ७॥
लम्बोदर उवाच ।
किं मां वदसि दैत्येन्द्र हनिष्यामि महाखलम् ।
त्वां धर्मस्य निहन्तारं स्वधर्मस्थापको ह्यहम् ॥ ८॥
सूर्यदत्ताद् वराद् दुष्ट दुष्टकर्मरतो भवान् ।
अतिपापैश्च तत् सर्वं निष्फलं ते बभूव ह ॥ ९॥
उत्पत्तिनाशयुक्तेभ्यो मरणं नैव ते भवेत् ।
नाऽहं जातो न दैत्येन्द मरिष्यामि कदाचन ॥ १०॥
ब्रह्मभूतं च मां विद्धि सदा स्वानन्दवासिनम् ।
कथं जेष्यसि तं दुष्ट मनोवाणीविवर्जितम् ॥ ११॥
लम्बोदरस्य वचनं श्रुत्वा तत्तस्य धीमतः ।
उवाच विस्मितो भूत्वा तं पुनर्दैत्यनायकः ॥ १२॥
क्रोधासुर उवाच ।
न जातोऽसि यदा ब्रह्मन् कथं देहधरोऽसि वै ।
मनोवाणीविहीनश्चेत् कथं पश्यामि मां वद ॥ १३॥
लम्बोदर उवाच ।
इयं मदीयवामांऽगे सिद्धिर्भ्रान्तिस्वरूपिका ।
सिद्ध्यर्थं सर्वलोकाश्च भ्रमन्ति भ्रान्तिसंयुताः ॥ १४॥
दक्षिणांऽगे स्वयं बुद्धिः संस्थिता भ्रान्ति धारिणी ।
बुध्या बुध्या पुनस्तत्र भ्रान्तो भवति मानवः ॥ १५॥
चित्तरूपा स्वयं बुद्धिः पञ्चधा परिकीर्तिता ।
पञ्चभ्रान्तिमयी सिद्धिस्तयोः पतिरहं किल ॥ १६॥
नाना विश्वं महादैत्य नाना ब्रह्म तथा सदा ।
मदीयोदरगं विद्धि तेन लम्बोदरः स्मृतः ॥ १७॥
ममोदरात् समुत्पन्नं मया सम्पालितं तथा ।
अन्ते उदरगं कृत्वा क्रीडयामि निरन्तरम् ॥ १८॥
अतो मां शरणं गच्छ जीवितुं यदि वाञ्छसि ।
(Page खं. ५ अ. ८ पान १६)
शुक्रो मां वेत्ति तेन त्वं बोधितोऽपि न बुद्ध्यसे ॥ १९॥
नाऽहं दैत्यवधाकाङ्क्षी तथा देववधप्रियः ।
स्वस्वधर्मयुतान् सर्वान् पालयामि न संशयः ॥ २०॥
पाताले दैत्यपाः सर्वे नरा भूमौ सुरा दिवि ।
संस्थिताश्चेदहं दैत्य स्वानन्दस्थो भवामि च ॥ २१॥
देवाः क्रोधसमाविष्टा जघ्नुर्दैत्यान् विशेषतः ।
पातालस्थांस्ततोऽहं वै दैत्येभ्यः सिद्धिदोऽभवम् ॥ २२॥
पुनस्तपोयुता दैत्या जित्वा देवान् महाबलान् ।
कर्मखण्डनभावेन हन्तुमिच्छां प्रचक्रिरे ॥ २३॥
तदाऽहं देवसङ्घेभ्यः सिद्धिदाताऽभवं पुरा ।
तेन च्छिद्रज्ञका देवा जघ्नुः सर्वासुरान् पुनः ॥ २४॥
त्वया सर्वं जितं दैत्य देवमूलनिकृन्तनः ।
सर्वेन्द्रस्तेन भवसि त्वां हनिष्यामि निश्चितम् ॥ २५॥
तस्य तद्वचनं रम्यं श्रुत्वा क्रोधासुरः पुनः ।
विस्मितस्तं जगादैव हर्षनिर्भरमानसः ॥ २६॥
क्रोधासुर उवाच ।
नमामि त्वां गणाध्यक्ष सुरासुरमयं परम् ।
अधुना भक्तिसंयुक्तं पालयस्व शरण्यद ॥ २७॥
दर्शय स्वात्मरूपं मे सर्वसंशयनाशनम् ।
लम्बोदरार्थसंयुक्तं ब्रह्माकारं गजाननम् ॥ २८॥
लम्बोदरस्तस्य वाक्यं समाकर्ण्य सुहर्षितः ।
भक्तियुक्तं मनस्तस्य ज्ञात्वा रूपमदर्शयत् ॥ २९॥
ज्ञानचक्षुश्च सन्दत्तं तेन दैत्याय तं पुनः ।
लम्बोदरं महाक्रोधोऽपश्यत् परमविस्मितः ॥ ३०॥
ब्रह्मेशं प्रणनामाऽथ सरोमाञ्चो महासुरः ।
लम्बोदरः पुनस्तत्र पूर्वरूपो बभूव ह ॥ ३१॥
तत्र क्रोधासुरस्तं वै पूजयन् भक्तिसंयुतः ।
नत्वा तुष्टाव संहृष्टः साश्रुनेत्रः प्रतापवान् ॥ ३२॥
क्रोधासुर उवाच ।
लम्बोदर नमस्तुभ्यं शान्तियोगस्वरूपिणे ।
सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ ३३॥
असम्प्रज्ञातरूपेयं शुण्डा ते नात्र संशयः ।
सम्प्रज्ञातमयो देहो देहधारिन्नमो नमः ॥ ३४॥
स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः ।
तेन स्वानन्दवासी त्वं नमः संयोगधारिणे ॥ ३५॥
समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो ।
ब्रह्म तद्वन्न सन्देहो लम्बोदर नमोऽस्तु ते ॥ ३६॥
त्वदीयकृपया देव मया ज्ञातं महोदर ।
त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥ ३७॥
हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे ।
आदिमध्यान्तहीनाय तन्मयाय नमो नमः ॥ ३८॥
सिद्धिबुद्धिविहारज्ञ सिद्धिबुद्धिपते नमः ।
सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः ॥ ३९॥
सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः ।
सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥ ४०॥
अतः प्रसीद विघ्नेश दासोऽहं ते गजानन ।
लम्बोदराय नित्यं नमो नमस्ते महात्मने ॥ ४१॥
स्वत उत्थानपरत उत्थाने ब्रह्म धारयन् ।
तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥ ४२॥
इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् ।
तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥ ४३॥
लम्बोदर उवाच ।
वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् ।
दास्यामि भक्तिभावेन स्तोत्रेणाऽहं हि तोषितः ॥ ४४॥
(Page खं. ५ अ. ९ पान १७)
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥ ४५॥
शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ।
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥ ४६॥
क्रोधासुर उवाच ।
यदि लम्बोदर त्वं मे प्रसन्नो वरदोऽसि भोः ।
तदा त्वत्पादपद्मे च भक्तिं देहि दृढां प्रभो ॥ ४७॥
आज्ञां कुरु महाभाग सेवार्थं तां करोम्यहम् ।
स्थानं वृत्तिं च मे देहि देहपोषणकारिणीम् ॥ ४८॥
ब्रह्मोवाच ।
क्रोधासुरस्य वाक्यं तच्छ्रुत्वा हर्षसमन्वितः ।
लम्बोदरस्तं जगाद स पुनर्दैत्यनायकम् ॥ ४९॥
लम्बोदर उवाच ।
मदीया सुदृढा भक्तिः प्रभविष्यति तेऽनघ ।
वस त्वं भयहीनश्च स्थाने ते नात्र संशयः ॥ ५०॥
यत्रारम्भे महादैत्य मदीयं स्मरणं न हि ।
तत्र त्वं दैत्यभावेन कुरु राज्यं महामते ॥ ५१॥
तदीयपुण्यजं सर्वं भुङ्क्ष्व नित्यं सुकर्मजम् ।
ज्ञानादिसकलं तद्वत् त्वदीयं नात्र संशयः ॥ ५२॥
मद्भक्ता ये महादैत्य तान् रक्षस्व यथासुखम् ।
गाणपत्यप्रियस्त्वं वै भविष्यसि न संशयः ॥ ५३॥
एवमुक्तो महादैत्यः क्रोधः परमहर्षितः ।
लम्बोदरं प्रणम्यैव ययौ स्वस्थानमुत्तमम् ॥ ५४॥
दैत्या राहुमुखाः सर्वे तं त्यक्त्वा भयसंयुताः ।
पातालं विविशुर्विप्रौ शुक्रः संहर्षितोऽभवत् ॥ ५५॥
एवं क्रोधासुरं शान्तं चकार गणनायकः ।
क्रोधो गणेशभक्तिं वै कुर्वन् सन् संस्थितोऽभवत् ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते क्रोधासुरशान्तिवर्णनं नामाऽष्टमोऽध्यायः ॥ ५.८
५.९ लम्बोदरदेवर्षिकृतस्तुतिवर्णनं नाम नवमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयोऽमलाः ।
हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥ १॥
पूजयित्वा विधानेन नेमुर्लम्बोदरं पुनः ।
ततस्तं तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ २॥
देवर्षय ऊचुः ।
श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तगं पूर्णमनन्तभावम् ।
नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं नताः स्मः ॥ ३॥
बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्तवेद्यम् ।
वैदेहयोगेन च लभ्यमेवं लम्बोदरं तं च वयं नताः स्मः ॥ ४॥
जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् ।
देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं नताः स्मः ॥ ५॥
सोऽहं सदाभेदविवर्जितं वै देहात्मयोगं सकलावभासम् ।
नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नताः स्मः ॥ ६॥
बिन्दुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् ।
नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नताः स्मः ॥ ७॥
नादस्वरूपं च गुणेशमेकं सर्वत्र चक्षुः श्रुतितुण्डभूतम् ।
(Page खं. ५ अ. ९ पान १८)
सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥ ८॥
संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं द्विविधावभासम् ।
आनन्दकन्दं तमसा विभान्तं लम्बोदरं तं च वयं नताः स्मः ॥ ९॥
सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् ।
विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥ १०॥
स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्तमाद्यम् ।
अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥ ११॥
अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाशं परमार्थभूतम् ।
देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नताः स्मः ॥ १२॥
नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेन्द्रियस्थम् ।
तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥ १३॥
ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै ।
तज्जाधिदैवप्रचुरं महान्तं लम्बोदरं तं च वयं नताः स्मः ॥ १४॥
आकाशरूपं सकलावभासं नादप्रचुरं सकलादिभूतम् ।
भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥ १५॥
वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् ।
देहप्रचारं दश नामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥ १६॥
तेजःस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् ।
सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः ॥ १७॥
जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् ।
नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥ १८॥
पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् ।
आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥ १९॥
विराट्स्वरूपस्थमनन्तपारं सर्वत्रनेत्रं च सहस्रशीर्षम् ।
सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥ २०॥
रजोयुतं सृष्टिकरं द्विजेशमादिस्वरूपं प्रपितामहं यम् ।
समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥ २१॥
सत्त्वप्रचारं हरिरूपधारं यं तामसं शङ्करवेषसंस्थम् ।
सूर्यप्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नताः स्मः ॥ २२॥
इत्यादिभेदैः सुविराजमानं सर्वैविहीनं तु कथं स्तुवीमः ।
देवाः शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं नताः स्मः ॥ २३॥
ब्रह्मोवाच ।
स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् ।
लम्बोदरस्तानुवाच महाभागान् सुसिद्धिदः ॥ २४॥
भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् ।
पठतां शृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥ २५॥
धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् ।
भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥ २६॥
मारणोच्चाटनादीनि स्तोत्रेणैव सुरर्षयः ।
भविष्यति न सन्देहः परकृत्यविनाशनम् ॥ २७॥
पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः ।
धनधान्यकलत्रादि सुखं विन्दति मानवः ॥ २८॥
कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः ।
हृदीप्सितं लभेत् सर्वमेकविंशतिवारतः ॥ २९॥
(Page खं. ५ अ. ९ पान १९)
एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति ।
स सद्यो हि फलं भुङ्क्त एकविंशद्दिनावधि ॥ ३०॥
प्रसन्नोऽहं प्रदास्यामि स्तोत्रेण मुनयोऽमराः ।
वरं ब्रूत महाभागा यद्यपि स्यात् सुदुर्लभम् ॥ ३१॥
लम्बोदरवचो देवर्षयः श्रुत्वा प्रणम्य तम् ।
जगुः प्रहृष्टचित्तास्ते साश्रुनेत्राः सुयन्त्रिताः ॥ ३२॥
देवर्षय ऊचुः ।
लम्बोदर प्रसन्नोऽसि वरदोऽसि महाप्रभो ।
तव भक्तिं सुसम्पूर्णां देहि क्रोधविवर्जिताम् ॥ ३३॥
क्रोधासुरस्त्वया नाथ कृतः सुशान्तिधारकः ।
तेन विश्वं गणाधीश वरयुक्तं कृतं प्रभो ॥ ३४॥
स्वस्वकर्मरताः सर्वे भविष्यन्ति सुधर्मिणः ।
वयं च स्वाधिकारेषु स्थास्यामस्त्वत्प्रसादतः ॥ ३५॥
मुनयो भयहीनास्ते यथाऽऽचारकराः प्रभो ।
भविष्यन्ति गणाधीश कं वरं तु वृणीमहे ॥ ३६॥
एवमुक्त्वा प्रणेमुस्ते लम्बोदरं सुखप्रदम् ।
ननृतुस्तत्पुरः सर्वे हर्षनिर्भरमानसाः ॥ ३७॥
लम्बोदरस्तानुवाच तथेत्येव प्रतापवान् ।
अन्तर्धानं चकाराऽसौ पश्यताममरर्षिणाम् ॥ ३८॥
ततो देवा द्विजास्तत्र मूर्तिं कृत्वा सुशोभनाम् ।
चतुर्भुजां गणेशस्य स्थापयामासुरादरात् ॥ ३९॥
पश्चिमे सागरे तीरे पुपूजुस्तां विशेषतः ।
तदादि तत् समुद्भूतं क्षेत्रं लम्बोदरस्य च ॥ ४०॥
अंशेन स्वाधिकारेषु स्थिता देवर्षयोऽमलाः ।
पूर्णभावेन तत्रैव भक्तिं कुर्वन्ति नित्यदा ॥ ४१॥
एतल्लम्बोदरस्यैव कथितं सुचरित्रकम् ।
विश्वामित्रवसिष्ठौ च संश्रुतं क्रोधनाशनम् ॥ ४२॥
असद्ब्रह्ममयो लम्बोदरश्चायं गणेश्वरः ।
स्वतः परत उत्थानं करोति लीलया प्रभुः ॥ ४३॥
तस्य रूपं परं केन वक्तुं नैव प्रशक्यते ।
सर्वसंयोगयोगेन लभ्यते योगसेवया ॥ ४४॥
अयं लम्बोदरश्चैव पूर्णयोगप्रवाचकः ।
संयोगायोगयोर्योगे लभ्यते योगसेवया ॥ ४५॥
उदरात्तस्य सम्भूतौ संयोगायोगरूपकौ ।
तेन लम्बोदरश्चायं कथ्यते वेदवादिभिः ॥ ४६॥
असित उवाच ।
एवमुक्त्वा स्वयं ब्रह्मा विरराम महामते ।
वसिष्ठस्तं प्रणम्यैव गतः स्वाश्रममण्डले ॥ ४७॥
विश्वामित्रश्च मेधावी निःश्वस्य स्वस्थलं गतः ।
एवं गते मया तत्र पृष्टः सोऽपि पितामहः ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे गजाननचरिते लम्बोदरदेवर्षिकृतस्तुतिवर्णनं नाम नवमोऽध्यायः ॥ ५.९
(Page खं. ५ अ. १० पान २०)
५.१० वत्सराऽसितशान्तिवर्णनं नाम दशमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
नैध्रुव उवाच ।
श्रुत्वा कथां महाभाग क्रोधशान्तिकरीं प्रभो ।
न तृप्यामि पुनः स्वामिन् वद विघ्नेशचेष्टितम् ॥ १॥
त्वया पृष्टः कथं ब्रह्मा स जगाद किमप्यहो ।
तद्वदस्व दयासिन्धो तात योगप्रदं हि चेत् ॥ २॥
मुद्गल उवाच ।
एवं पृष्टो महातेजा नैध्रुवेण पितृव्यकः ।
कथान्तरमुवाचेदं महायोगप्रदं महत् ॥ ३॥
असित उवाच ।
शृणु पुत्र प्रवक्ष्यामि योगशान्तिपदप्रदम् ।
गणेशानस्य माहात्म्यं ब्रह्मेशस्य विचक्षण ॥ ४॥
ब्रह्माणं च प्रणम्यादावपृच्छं विनयान्वितः ।
वद तात महायोगं शान्तिदं सर्वतारक ॥ ५॥
सहजे च महायोगिन् स्वाधीनत्वं प्रदृश्यते ।
स्वेच्छामयं कथं नाथ भवति ब्रह्म ते नमः ॥ ६॥
अतः शान्तिविहीनौ त्वां समागतौ न संशयः ।
शान्त्यर्थं वद किं सेव्यं करिष्यावस्त्वदाज्ञया ॥ ७॥
असित उवाच ।
वत्सरेण मया तात पृष्टः सर्वविदां वरः ।
उवाच प्रेमसंयुक्तो गाणपत्यः पितामहः ॥ ८॥
ब्रह्मोवाच ।
कर्मज्ञानं समं ब्रह्म सहजं तु चतुर्थकम् ।
तेषां संयोगभावे वै स्वानन्दो मौनधारकः ॥ ९॥
तत्र स्वाधीनगं ब्रह्म पराधीनं कुतस्त्रिधा ।
स्वसंवेद्यमयेनैव सुतो योगेन लभ्यते ॥ १०॥
संयोगो मायया युक्तः सर्वसंयोगभावतः ।
अयोगे सर्वसंयोगो नश्यति व्यतिरेकतः ॥ ११॥
निवृत्त्या स्वधिया ब्रह्म प्राप्यते नान्यथा क्वचित् ।
स्वकीयाऽभेदतस्तत्र निवृत्तिर्योगिभिर्धृता ॥ १२॥
संयोगायोगयोर्योगे योगः शान्तिप्रदायकः ।
शान्त्या स एव लभ्यश्च सुतौ भवति नान्यथा ॥ १३॥
शान्तिरूपधरं पूर्णं गणेशं संवदन्ति च ।
वेदास्तं भावसंयुक्तो मुनी यदि भजिष्यथः ॥ १४॥
तदा शान्तियुतौ योगी भवन्तौ योगिसम्मतौ ।
भविष्यथो महाभागौ नान्यथा मे वचोऽनृतम् ॥ १५॥
सम्प्रज्ञातमयो देहोऽसम्प्रज्ञातमयं शिरः ।
गजाकारं तयोर्योगे गणेशो देहधारकः ॥ १६॥
गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः ।
तेषां स्वामी न सन्देहो गणेशो नामधारकः ॥ १७॥
चित्तरूपा महाबुद्धिश्चित्तमोहकरी मता ।
सिद्धिस्तयोः पतिः साक्षाद्गणेशो वेदवादतः ॥ १८॥
चित्तं मोहयुतं त्यक्त्वा चिन्तामणिं भजिष्यथः ।
योगशान्त्या महाभागौ नित्यं तं योगरूपकम् ॥ १९॥
असित उवाच ।
एवमुक्त्वा विधाता वां विरराम महामते ।
वत्सरेण समायुक्तस्तं प्रणम्य वनेऽगमम् ॥ २०॥
आवाभ्यां साधितं पुत्र यथोद्दिष्टं च वेधसा ।
शमदमयुताभ्यां वै शान्तिः प्राप्ता सुनिश्चला ॥ २१॥
तथापि गणराजस्य भजने निरतौ पुरा ।
गते वर्षे गणाध्यक्ष आययौ वरदायकः ॥ २२॥
तं दृष्ट्वा प्रणतौ देवं पुनः पूज्य यथाविधि ।
गणेशानं तुष्टुविव भक्त्या नम्रात्मकन्धरौ ॥ २३॥
असितवत्सरावूचतुः ।
लम्बोदर नमस्तुभ्यं सततं योगरूपिणे ।
योगाकारशरीराय योगशान्तिप्रदायिने ॥ २४॥
विघ्नेशाय महाभक्तानां विघ्नहरणाय च ।
अभक्तानां महाविघ्नकारिणे ते नमो नमः ॥ २५॥
(Page खं. ५ अ. १० पान २१)
स्वानन्दवासिने तुभ्यं सदा स्वानन्ददायिने ।
मूषकवाहनायैव मूषकध्वज वै नमः ॥ २६॥
अनाथाय गणेशाय सर्वेषां नाथरूपिणे ।
नाथानां नाथरूपाय विनायक नमोऽस्तु ते ॥ २७॥
हेरम्बाय च सर्वेषां मात्रे पित्रे नमो नमः ।
ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठ ते नमः ॥ २८॥
अमेयायाऽप्रेमयायाऽनन्तखेलकराय ते ।
अनन्तानन्तरूपायानन्तदाय नमो नमः ॥ २९॥
सिद्धिबुद्धिपते नाथ भक्तसंरक्षकाय च ।
नानाशक्तिप्रपालायानन्तमायाविहारिणे ॥ ३०॥
गजवक्त्राय सर्वेषामादिपूज्याय ते नमः ।
सर्वपूज्याय सर्वेषां सिद्धिदाय नमो नमः ॥ ३१॥
वक्रतुण्डाय वीराय चैकदन्ताय ते नमः ।
महोदराय देवाय देवदेवेश ते नमः ॥ ३२॥
असुराणां सहायाय नानावरप्रदाय च ।
असुराणां निहन्त्रे त आसुराय नमो नमः ॥ ३३॥
ब्रह्मणां पतये तुभ्यं ब्रह्मणां ब्रह्मवादिने ।
ब्रह्माकाराय वै ढुण्ढे वेदवेद्याय ते नमः ॥ ३४॥
मनोवाणी विहीनाय मनोवाणीमयाय च ।
योगेशाय परेशाय सर्वामयविवर्जित ॥ ३५॥
किं स्तुवस्त्वां गणाधीश यत्र शान्तिं समागताः ।
वेदा योगीन्द्रमुख्याश्चास्तुवन्तं प्रणमावहे ॥ ३६॥
एवं स्तुतो गणाधीशस्तौ जगाद महामुनी ।
वरं संवृणुतं विप्रौ दास्यामि भक्तियन्त्रितः ॥ ३७॥
भवद्भ्यां यत् कृतं स्तोत्रं तदेव मे प्रियं भवेत् ।
सर्वसिद्धिप्रदं पूर्णं तथा मद्भक्तिदायकम् ॥ ३८॥
एवमुक्तौ महायोगिनावूचतुर्गजाननम् ।
भक्तिं देहि गणाध्यक्ष त्वत्पदे सुदृढां पराम् ॥ ३९॥
गाणपत्यप्रियत्वं नौ देहि नाथ नमोऽस्तु ते ।
नान्यं वरं गणाधीश वृणुवः सुखदं कदा ॥ ४०॥
तथेति तावुवाचाथ गणेशोंऽतर्दधे स्वयम् ।
आवां भक्तिसमायुक्तौ भजावो गणनायकम् ॥ ४१॥
इति ते कथितं वत्स ज्ञानं गणपतेर्मया ।
शमदमपरो भूत्वा भज तं गणनायकम् ॥ ४२॥
एवमुक्त्वाऽसितस्तं वै नैध्रुवं गणपस्य सः ।
मन्त्रं ददौ प्रजानाथ तस्मात् एकाक्षरं पुनः ॥ ४३॥
ततश्चान्तर्हितो योगी सोऽसितः परमार्थवित् ।
गणेशं नैध्रुवस्तेपे तपः सम्पूज्य यत्नतः ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते वत्सराऽसितशान्तिवर्णनं नाम दशमोऽध्यायः ॥ ५.१०
(Page खं. ५ अ. ११ पान २२)
५.११ लम्बोदरब्रह्मवर्णनं नाम एकादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
नैध्रुवो योगमार्गेण शमदमपरायणः ।
शान्तिं प्राप्तः क्रमेणैव योगिवन्द्यो बभूव ह ॥ १॥
ततः सोऽपि गणाधीशं न मुमोच तताप सः ।
तपः सेवापरो भूत्वा गाणपत्यप्रियार्थतः ॥ २॥
एवं तस्य तपो ज्ञात्वा तं ययौ स गजाननः ।
तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः ॥ ३॥
पुपूज भक्तिसंयुक्तः साश्रुनेत्रो महायशाः ।
सरोमाञ्चः प्रतुष्टाव सूक्तैर्गाणेशकैः प्रभुम् ॥ ४॥
ततस्तुष्टो गणाधीशस्तस्मै भक्तिं ददौ दृढाम् ।
गाणपत्यप्रियं कृत्वांऽतर्धानं स चकार वै ॥ ५॥
तदादि नैध्रुवो योगी गाणपत्यो बभूव ह ।
भजते गणनाथं सोऽधुना सर्वत्र सम्मतः ॥ ६॥
इति ते कथितं दक्ष चरित्रं सर्वदं परम् ।
लम्बोदरस्य माहात्म्यं सर्वशान्तिप्रदं प्रभो ॥ ७॥
क्रोधासुरचरित्रं तत्तथा ते कथितं मया ।
न संशयो भवेत्तस्मै श्रवणात् क्रोधशान्तिदम् ॥ ८॥
स्वस्वखण्डेषु सर्वत्र पश्चिमान्तदिगन्तरे ।
मुनिभिः स्थापितो लम्बोदरश्चैव गजाननः ॥ ९॥
तस्य दर्शनमात्रेण यथेप्सितफलं लभेत् ।
समुद्रतीरसंस्थस्य मूषकारूढकस्य वै ॥ १०॥
एवं लम्बोदरस्यांशा अनन्ता विविधाः स्मृताः ।
स्वस्वधर्मप्ररक्षार्थं जनेभ्यः सर्वदाः प्रभो ॥ ११॥
तेषां चरित्रकोट्यंशो वक्तुं नैव प्रशक्यते ।
ब्रह्मादिभिर्महाभाग तत्र कोऽहं नराकृतिः ॥ १२॥
जगद्ब्रह्मक्रियार्थं स याचितस्तैः पुरा प्रभो ।
शक्तिरूपावतारं च धृत्वा सर्वार्थदोऽभवत् ॥ १३॥
महिषासुरनाशार्थं याचितो मायया पुरा ।
विघ्नराजः स्वयं सोऽपि बभूवे धर्मपालकः ॥ १४॥
मायाकरविनाशाय शेषपुत्रो बभूव ह ।
लम्बोदरः स्वयं साक्षात् स वै मूषकगः स्मृतः ॥ १५॥
सावर्णिमनुना चैवाऽऽराधितो गणनायकः ।
बभूव वै तत्र लम्बोदरः शक्तिविनायकः ॥ १६॥
ब्रह्म नानाविधं वेदे कथितं तु प्रजापते ।
जगत्तेषां तथा भिन्नं विहारार्थं बभूव ह ॥ १७॥
तेषु स्वानन्दभावेन स्थितोऽयं ब्रह्मधारकः ।
संयोगाभेदयोगेन स वै लम्बोदरः स्मृतः ॥ १८॥
संयोगाभेदयोगेन समाधिना प्रजापते ।
नानाविधं जगद्ब्रह्म भवन्नश्यति तद्गतम् ॥ १९॥
तेषां भेदा गणेशेन तथा सृष्टाश्च पालिताः ।
हृतास्तेन समाख्यातो वेदे स ब्रह्मवाचकः ॥ २०॥
भेदा असत्यरूपाश्च तेषां ब्रह्म प्रकथ्यते ।
शक्तिर्जानीहि तां लम्बोदरमेव गजाननम् ॥ २१॥
समुत्पन्नास्तदुदरादन्ते तत्र गता बभुः ।
भेदा लम्बोदरस्तेन समाख्यातो ह्यसन्मयः ॥ २२॥
इदं लम्बोदराऽऽख्यानं कथितं ते प्रजापते ।
श्रवणात् पठनात् सर्वदायकं सर्वसम्मतम् ॥ २३॥
श्रोतुमिच्छसि किं भूयस्तद्वदस्व प्रजापते ।
कथयिष्यामि ते भावं प्रभो ज्ञात्वा गणेश्वरे ॥ २४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते लम्बोदरब्रह्मवर्णनं नाम एकादशोऽध्यायः ॥ ५.११
(Page खं. ५ अ. १२ पान २३)
५.१२ शक्तिस्वरूपावतारवर्णनं नाम द्वादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
लम्बोदरस्य माहात्म्यं त्वं जानासि सुखप्रदम् ।
मुखाम्बुजात् स्रवति च यस्यैवं शान्तिदामृतम् ॥ १॥
लम्बोदरस्य माहात्म्यं श्रुतं क्रोधहरं परम् ।
श्रोतुमिच्छा तथा मेऽपि वर्धते भावसंयुता ॥ २॥
अतो वद महाभाग पुनर्विघ्नेशसत्कथाम् ।
दक्षेण संश्रुतां पुण्यां मुद्गलाद्योगसागरात् ॥ ३॥
सूत उवाच ।
मुने शौनक धन्यस्त्वं महच्छृणु कथामृतम् ।
दक्षेण संश्रुतं पूर्णं मुद्गलेन प्रभाषितम् ॥ ४॥
लम्बोदरकथां श्रुत्वा हृष्टरोमा प्रजापतिः ।
प्रणम्य मुद्गलं विप्रमुवाच वचनं हितम् ॥ ५॥
दक्ष उवाच ।
धन्योऽसि योगिवन्द्योऽसि मुद्गल त्वं न संशयः ।
कथां वदसि कल्याणदायिनीं हर्षवर्धिनीम् ॥ ६॥
श्रुत्वा श्रुत्वा न मे तृप्तिर्जायतेऽमृतसन्निभाम् ।
अधुना वद योगीन्द्र पुनर्गणपतेः कथाम् ॥ ७॥
लम्बोदरः कथं चायं शक्तिरूपो बभूव ह ।
तस्य मुख्यं चरित्रं मे वद सर्वार्थदायकम् ॥ ८॥
शक्त्या संराधितो देवो महिषस्य वधाय च ।
कथं प्रकटरूपोऽसौ बभूवे तद्वदस्व मे ॥ ९॥
शेषपुत्रः कथं साक्षाद्बभूव गणनायकः ।
मायाकरविनाशाय कथं मूषकगः स्मृतः ॥ १०॥
सावर्णिमनुना चैव कथमाराधितोऽभवत् ।
कथं शक्तिगणेशानोऽवतारः प्रबभूव ह ॥ ११॥
एतत्सर्वं सुविस्तीर्य वद मे करुणानिधे ।
लम्बोदरावताराश्च सुखदाः श्रवणात् प्रभो ॥ १२॥
अन्यत्त्वं वद योगीन्द्र गाणपत्यस्वरूपकम् ।
दीक्षायुक्तं विशेषेण कीदृशो गणपः स्मृतः ॥ १३॥
पूजा गणपतेश्चैव कीदृशी क्रियते जनैः ।
मन्त्रः केन प्रकारेण गृह्यते गुरुवक्त्रतः ॥ १४॥
विधियुक्तं गाणपत्यमार्गं मे वद विस्तरात् ।
येनाहं गाणपत्यश्च भविष्यामि सुदीक्षया ॥ १५॥
गाणपत्यांश्च योगीन्द्र प्रभो ज्ञास्यामि दृष्टिगान् ।
तदर्थं वद विप्रर्षे सर्वज्ञोऽसि न संशयः ॥ १६॥
महाभाग्येन ते विप्र दर्शनं मेऽभवत् किल ।
तव पादस्य वैचित्र्यं सर्वसन्तोषकारकम् ॥ १७॥
सूत उवाच ।
एवं पृष्टो महायोगी दक्षेण गणपप्रियः ।
जगाद तं प्रजानाथं पुनर्भावेन तोषितः ॥ १८॥
मुद्गल उवाच ।
धन्योऽसि कृतकृत्योऽसि दक्ष त्वं नात्र संशयः ।
येन प्रीतिर्गणपतावद्भुता ते प्रजापते ॥ १९॥
प्रष्टुः श्रोतुश्च वक्तुर्वै पावनीं सर्वदां पराम् ।
गणेशं कथयिष्यामि भक्तिं दृष्ट्वा सुतोषितः ॥ २०॥
आदौ ब्रह्म च यत् प्रोक्तं तदेव ब्रह्मणि स्थितम् ।
स्वेच्छा तत्र समुत्पन्ना माया तस्य प्रजायते ॥ २१॥
स्वेच्छया द्विविधं जातं तदेवात्र न संशयः ।
स्वतः परत उत्थानात्तच्छृणुष्व सुयोगदम् ॥ २२॥
सदा स्वसुखनिष्ठं वै नानामायाविवर्जितम् ।
तद्वै परत उत्थानवाचकं कथितं मया ॥ २३॥
मायाखेलकरं यच्च ब्रह्म स्वेच्छामयं प्रभो ।
स्वत उत्थानकं प्रोक्तं पश्य वेदेषु मानद ॥ २४॥
स्वत उत्थानकं ब्रह्म विकल्पं प्रचकार ह ।
विकल्पात्तत् द्विधा भूतमेकानेकमयत्वतः ॥ २५॥
एकं देहिस्वरूपं तद्बहुरूपं शरीरकम् ।
ताभ्यां चतुर्विधं सृष्टं जगदेतच्चराचरम् ॥ २६॥
(Page खं. ५ अ. १२ पान २४)
एते ब्रह्मगणाः सर्वे क्रियासामर्थ्यहीनतः ।
न शक्ताः स्वस्वकार्येषु तपोयुक्तास्ततोऽभवन् ॥ २७॥
स्वस्वरूपं च सर्वेषां भवेत्तु किल यादृशम् ।
तादृशाय नमस्तुभ्यं मन्त्रं जेपुः परेश्वराः ॥ २८॥
दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः ।
नरकुञ्जररूपः स प्रकटोऽभूत् हृदि प्रभुः ॥ २९॥
तं दृष्ट्वा ज्ञानसम्पन्ना जाता ब्रह्मगणाः परम् ।
ततस्ते ध्यानशीलाश्च पुपूजुर्हृदि संस्थितम् ॥ ३०॥
तेषां पुरः स्वयं साक्षात् प्रकटोऽभूत् प्रजापते ।
शक्तिरूपधरो भूत्वा प्रसन्नो वरदायकः ॥ ३१॥
चतुर्बाहुधरा देवी सर्वावयवसंयुता ।
स्तनभारभराक्रान्ता शुशुभे परमात्मिका ॥ ३२॥
तां दृष्ट्वा विस्मिताः सर्वे पप्रच्छुः स्वहिते रताम् ।
का त्वं कस्मादिहायाता वद नः सकलं परे ॥ ३३॥
श्रीदेव्युवाच ।
गणेशोऽहं महाभागा यं ध्यायथ तपोन्विताः ।
तपसा तुष्टभावेन वरदाता समागतः ॥ ३४॥
एवमुक्त्वा स्वयं तत्र शक्तिः सा परमाद्भुता ।
गजवक्त्रयुतं रूपं दधे तेषां प्रपश्यताम् ॥ ३५॥
लम्बोदरं समालोक्य पुनर्विस्मितचेतसा ।
स्तोत्रं तैर्वै समारब्धं तावत् स्त्रीरूपमादधे ॥ ३६॥
दृष्ट्वा ब्रह्मगणास्तां ते विस्मिता गणपे रताः ।
गणेशकृपया सर्वे ज्ञानयुक्ता बभूविरे ॥ ३७॥
ततस्तैश्चेष्टितं तस्य ज्ञातं भक्त्या प्रजापते ।
लम्बोदरः स्वयं शक्तिरूपोऽयं नात्र संशयः ॥ ३८॥
या शक्तिः स गणेशानो गणेशः शक्तिरुच्यते ।
लम्बोदरात्मिका साक्षात् सर्वेषां जननी परा ॥ ३९॥
ततस्तां ते प्रणम्यादौ तुष्टुवुःकरसम्पुटैः ।
प्रजानाथ ब्रह्मगणाः सरोमाञ्चा विशेषतः ॥ ४०॥
ब्रह्मगणा ऊचुः ।
नमस्ते शक्तिरूपायै सर्वेषां च क्रियात्मने ।
सर्वसत्ताप्रदात्र्यै ते जगदम्ब नमोऽस्तु ते ॥ ४१॥
अपारायै च सर्वेभ्यः सर्वदायै नमो नमः ।
भक्त्या स्वाधीनरूपायै महामाये नमोऽस्तु ते ॥ ४२॥
सदा स्वानन्दसंस्थायै जगद्ब्रह्मप्रचालिके ।
नानाभेदधरायै ते विघ्नेशायै नमो नमः ॥ ४३॥
अमेयायै नमस्तुभ्यं भक्तसंरक्षरूपिणि ।
कर्त्र्यै पात्र्यै च संहर्त्र्यै गणेशायै नमो नमः ॥ ४४॥
समुत्पन्नं त्वदुदरात् जगद्ब्रह्म न संशयः ।
तदेव सृष्टिरूपं त उदरं ते नमो नमः ॥ ४५॥
स्तनपानेन देवेशि पोषणं कुरुषे सदा ।
स्थितिरूपं तदेवाङ्गे स्तनौ ते वै नमो नमः ॥ ४६॥
अन्ते प्रलयकालज्ञे त्वया ग्रस्तं मुखेन च ।
संहारकं तदेवाङ्गे मुखं ते वै नमो नमः ॥ ४७॥
मनोवाणीविहीना त्वं भक्तवत्सलभावतः ।
स्वयं देहधरा जाता भक्तेशायै नमो नमः ॥ ४८॥
किं स्तुमस्त्वां महामाये शक्तिनामधरे परे ।
सर्वत्र शक्तभावेषु संस्थितायै नमो नमः ॥ ४९॥
वेदानां योगिनां चैव शक्तत्वं तत्त्वदीयकम् ।
त्वां स्तोतुं कः समर्थः स्यादतस्ते प्रणमामहे ॥ ५०॥
इति स्तुता जगन्माता ब्रह्मणां जननी प्रभो ।
प्रसन्ना तानुवाचाऽथ भक्तिभावेन तोषिता ॥ ५१॥
शक्तिरुवाच ।
वरान् ब्रह्माणि वृणुत येषां ये मनसीप्सिताः ।
(Page खं. ५ अ. १२ पान २५)
दास्यामि तपसा तुष्टा भक्त्या स्तोत्रेण सर्वपाः ॥ ५२॥
भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् ।
भक्तिप्रदं महाभागाः सर्वसामर्थ्यदायकम् ॥ ५३॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ५४॥
एवं शक्तेर्वचः श्रुत्वा तां ब्रह्माणि प्रणम्य च ।
जगुः प्रहृष्टभावेन तां परां सर्वमातरम् ॥ ५५॥
ब्रह्माण्यूचुः ।
वरान् दास्यसि सर्वेशि तदा ते भक्तिमुत्तमाम् ।
देहि शक्ते यया मोहो नश्यत्यत्र न संशयः ॥ ५६॥
किं कर्तव्यं महादेवि तत्र सामर्थ्यमुत्तमम् ।
देह्यस्मभ्यस्ततो मातः करिष्यामश्च ते प्रियम् ॥ ५७॥
तेषां वचनमाकर्ण्य सन्तुष्टा सर्वदायिनी ।
तथेति तान्युवाचाथांऽतर्धानं सा चकार ह ॥ ५८॥
ततो वरबलेनैव सृष्ट्वा विश्वं चराचरम् ।
स्वस्वभोगप्रदं भिन्नं तेषु क्रीडन्ति नित्यदा ॥ ५९॥
पालयन्ति च विश्वानि संहरन्ति प्रजापते ।
स्वमहिम्नि स्थितान्येव ब्रह्माण्यत्र न संशयः ॥ ६०॥
इति ते कथितश्चायमवतारः पुरातनः ।
लम्बोदरस्य भो दक्ष शक्तिरूपः सुखप्रदः ॥ ६१॥
यः शृणोति नरो भक्त्या तस्मै सर्वार्थदो भवेत् ।
ब्रह्मभूतकरश्चापि भुक्तिमुक्तिप्रदः परः ॥ ६२॥
सूत उवाच ।
श्रुत्वा मुद्गलवाक्यं वै दक्षो हृष्टमनाः स्वयम् ।
जगाद तं पुनर्विप्र शृणु संशयसंयुतः ॥ ६३॥
दक्ष उवाच ।
त्वया मुद्गल माहात्म्यं कथितं शक्तिसम्भवम् ।
श्रुतं मया महाभाग तथापि नुद संशयम् ॥ ६४॥
ब्रह्माणि देहहीनानि देहिहीनानि योगिप ।
तपादिकं तेषु नाथ कथं भवति तद्वद ॥ ६५॥
साश्रुनेत्रादिकं सर्वं स्तुतिपूजादिकं प्रभो ।
कथं तेषु भवेदेतद्भ्रान्तोऽहमधुना ह्यतः ॥ ६६॥
तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः ।
जगाद तं प्रजानाथं सर्वज्ञानां शिरोमणिः ॥ ६७॥
मुद्गल उवाच ।
ब्रह्माणि ब्रह्मभूतानि तेषु नास्ति महामते ।
देहदेहिमयो भाव इति सत्यं श्रुतेर्मुखात् ॥ ६८॥
तथापि सर्वरूपाणि वदन्ते तानि निश्चितम् ।
देहविकारहीनानि देहरूपाणि सर्वतः ॥ ६९॥
देहिविकारहीनानि देहिरूपाणि सर्वतः ।
ताभ्यां हीनानि भो दक्ष द्वाभ्यां वै संयुतानि च ॥ ७०॥
ब्रह्माणि सर्वशास्त्रेषु विचारय महामते ॥
अतः सर्वं सदा तेषु सम्भवति न संशयः ॥ ७१॥
अन्यच्च शृणु वाक्यं मे सर्वसंशयनाशनम् ।
ब्रह्मणि ब्रह्मभावश्च वक्तुं केन न शक्यते ॥ ७२॥
सर्वं भोगादिकं तेषां तप आदि महामते ।
कथनीयं कथं शास्त्रैर्देहवद्वर्ण्यते ह्यतः ॥ ७३॥
शिष्यस्य बोधदानार्थं जानीहि त्वं प्रजापते ।
मा कुरुष्व वृथा तत्र संशयं वा विकारकम् ॥ ७४॥
सूत उवाच ।
मुद्गलस्य वचःश्रुत्वा हृष्टो दक्षस्तमब्रवीत् ।
संशयो मे गतःस्वामिंस्त्वदुक्तवचसाऽधुना ॥ ७५॥
लम्बोदरस्य माहात्म्यमधुना वद मानद ।
सर्वज्ञस्त्वमतो निःसंशयं सर्वं करोषि वै ॥ ७६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शक्तिस्वरूपावतारवर्णनं नाम द्वादशोऽध्यायः ॥ ५.१२
५.१३ शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
पुरा दैत्याधिपः क्रूरो ब्रह्मणो वरदानतः ।
महिषासुरनामाऽथ बभूव भुवनाधिपः ॥ १॥
जित्वा देवगणान् सर्वांस्तथा स्वर्गेषु दैत्यपान् ।
स्थापयामास दुर्बुद्धिरवध्यः सर्वभावतः ॥ २॥
ततः कर्मविहीनं वै चकार स धरातलम् ।
अभवन्नमराः सर्वे उपोषणपरास्ततः ॥ ३॥
ततो देवर्षिभिस्तत्र तपसाऽऽराधिताऽभवत् ।
शक्तिः सर्वमयी साक्षादसत्स्वानन्दवासिनी ॥ ४॥
प्रगतेषु सहस्रे वै वर्षेषु प्रकटाऽभवत् ।
वरदानैर्वृता देवी वधाय महिषस्य सा ॥ ५॥
पुरुषात्तस्य भवति न भयं महिषस्य च ।
जिता वयं महादेवि रक्ष नो महतो भयात् ॥ ६॥
तस्य नाशं कुरुष्व त्वं सर्वेषां सुखकारणात् ।
पुत्रास्ते च वयं देवि रक्ष रक्ष महाभयात् ॥ ७॥
तथेति तानुवाचैव सिंहगा क्रोधसंयुता ।
ययौ दैत्यवधार्थं सा महामाया प्रजापते ॥ ८॥
स्थिता वनान्तरे धृत्वा मोहिनीरूपकं जगौ ।
गानं रसयुतं शक्तिः शुश्रुवे तत्र कोऽसुरः ॥ ९॥
स आगत्य महाशक्तिं दृष्ट्वा मोहयुतोऽभवत् ।
गत्वा दैत्याधिपं सद्यः कथयामास विस्तरात् ॥ १०॥
न ब्रह्माण्डे समं किञ्चित्तया रूपेण तेजसा ।
स्त्रीरत्नं तद्विजानीहि राज्यभोगि गृहाण च ॥ ११॥
दैत्यस्य वचनं श्रुत्वा मोहयुक्तो महासुरः ।
प्रधानं प्रेषयामास तां समानेतुमादरात् ॥ १२॥
प्रधानेन महामाया दृष्टा मोहविवर्धिनी ।
मोहितः स उवाचाथ तां सर्वातिगरूपिणीम् ॥ १३॥
महिषो देवि सर्वस्य ब्रह्माण्डस्य पतिः परः ।
मृत्युहीनः सदा यौवनशाली शोभया युतः ॥ १४॥
तेनाऽहं प्रेषितो नूनं त्वदर्थं रूपशालिनि ।
भव पत्नी महाभागे दैत्येशस्य महात्मनः ॥ १५॥
तस्य तद्वचनं श्रुत्वा क्रोधयुक्ता बभूव ह ।
जगाद तं मदोत्सिक्तं दैत्यामात्यं प्रजापते ॥ १६॥
शक्तिरुवाच ।
परस्याऽहं महादैत्य स्त्री किं वदसि मां वचः ।
मूढवत्त्वां हनिष्यामि पुनर्भाषणसंयुतम् ॥ १७॥
तस्यास्तद्वचनं श्रुत्वा क्रोधयुक्तो महासुरः ।
दैत्यानाज्ञापयामास तां समानेतुमादरात् ॥ १८॥
तदाज्ञया महादैत्याः समाजग्मुः समन्ततः ।
तान् दृष्ट्वा क्रोधसंयुक्ता सा बभूव यशस्विनी ॥ १९॥
क्रोधानलेन सर्वान् सा ददाह च प्रजापते ।
तद् दृष्ट्वा परमाश्चर्यं पपाल सचिवो भयात् ॥ २०॥
ज्ञात्वा वृत्तान्तमुग्रं स महिषो मोहसंयुतः ।
स्वयं सैन्यसमायुक्त आययौ तां यशस्विनीम् ॥ २१॥
तां दृष्ट्वा कामबाणैः स विद्धो दैत्याधिपः स्वयम् ।
सचिवान् प्रेषयामास धर्तुं समीपसंस्थिताम् ॥ २२॥
देव्या शस्त्रप्रहारेण हताः सर्वे प्रजापते ।
ततोऽतिकोपसंयुक्तः स्वयं रणसमागतः ॥ २३॥
समागतं महादैत्यं देवी क्रोधसमन्विता ।
धनुः सज्जमथो कृत्वा बाणान् चिक्षेप दारुणान् ॥ २४॥
तद्बाणैरपि दैत्येशा मृताः केचिद्रणाजिरे ।
केचिच्छिन्नास्तथा केचिन् मूर्च्छिताः सम्बभूविरे ॥ २५॥
ततः कोपयुतो दैत्यो महिषासुरसंज्ञितः ।
(Page खं. ५ अ. १३ पान २७)
युयुधे तां महाभागां नानाशस्त्रास्त्रकैः परैः ॥ २६॥
युद्धं तत्र महाघोरं जातं तद्भयदायकम् ।
सर्वेषां च प्रजानाथ परस्परजयैषिणोः ॥ २७॥
एकवर्षं महादैत्यो युयुधे च तया पुरा ।
ततः कोपसमायुक्तः पर्वतं चिक्षिपेऽसुरः ॥ २८॥
पर्वताघातमात्रेण मूर्च्छितां जगदम्बिकाम् ।
तादृशीं तां गृहीत्वा स गन्तुं यावन्मनो दधे ॥ २९॥
तावत् सा सावधानाऽभूत् दृष्ट्वा दैत्यं महाबलम् ।
अन्तर्धाय स्वमात्मानं ययौ देवी हिमालयम् ॥ ३०॥
तत्र खेदसमायुक्ता सा चेतसि दधार ह ।
अहोऽहं मनसा सर्वं भस्म कुर्यां क्षणार्धतः ॥ ३१॥
स्त्रीहस्तेन महादैत्यो मरिष्यति न संशयः ।
तथाऽपि मां जिगायैव यशोयुक्तोऽभवत् कथम् ॥ ३२॥
अतो विघ्नेश्वरेणैव कृतो विघ्नो न संशयः ।
भ्रान्ताऽहं तमपूज्याऽऽदौ गता सङ्ग्राममण्डले ॥ ३३॥
अहो शक्तिस्वरूपाऽहं मच्छक्त्या वर्ततेऽखिलम् ।
जिता शक्तिविहीना च जाता कौतुकमुत्तमम् ॥ ३४॥
अतः शक्तिरशक्तत्वं ममाधीनं न वर्तते ।
विघ्नराजस्य सत्ता या सत्या साऽन्यत्र भ्रान्तिजा ॥ ३५॥
यदा गणेश्वरस्तुष्टस्तदा जीवा महेश्वराः ।
ब्रह्माणि शक्तिरूपाणि शक्तं नान्यत् कदाचन ॥ ३६॥
एवं मनसि सन्धार्य सती सन्तापसंयुता ।
त्यक्त्वा सर्वं तपस्तेपे निराहारपरायणा ॥ ३७॥
विन्ध्याचलं समासाद्य संस्थिता जगदम्बिका ।
विघ्नराजं हृदि ध्यात्वा जजाप मन्त्रमुत्तमम् ॥ ३८॥
एवं वर्षसहस्रेणैकाक्षरं विधिना तथा ।
तपसोग्रेण विघ्नेशः सन्तुष्टस्तां ययौ परम् ॥ ३९॥
अस्थिचर्मावशेषां तां वीक्ष्य विस्मितमानसः ।
बोधयामास शक्तिं स विघ्नेशः करुणानिधिः ॥ ४०॥
विघ्नेश उवाच ।
पश्य शक्ते च मां प्राप्तं यं ध्यायसि निरन्तरम् ।
वरं दातुं वृणुष्व त्वं दास्यामि भक्तियन्त्रितः ॥ ४१॥
भक्त्या च तपसा देवि सन्तुष्टं ते विशेषतः ।
तवाधीनं न सन्देहः पश्य मां वरदायिनम् ॥ ४२॥
तस्य तद्वचनं श्रुत्वा जगदम्बा बुबोध च ।
अपश्यद्गणराजं तमुत्थाय प्रणनाम सा ॥ ४३॥
पुपूज भक्तिसंयुक्ता तुष्टाव करसम्पुटैः ।
पुनः प्रणम्य विघ्नेशं सर्वसिद्धिप्रदायकम् ॥ ४४॥
शक्तिरुवाच ।
विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ४५॥
गणेशाय गणानां वै पालकाय परात्मने ।
गुणरूपाय सर्वत्र संस्थिताय नमो नमः ॥ ४६॥
अमेयशक्तये चैवामेयमायाप्रचालक ।
मायाहीनस्वरूपाय मायिभ्यो मोहदायिने ॥ ४७॥
ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणस्पतये नमः ।
ब्रह्मणे ब्रह्मरूपाय हेरम्बाय नमो नमः ॥ ४८॥
कर्मणां फलदात्रे ते कर्मणां कर्मधारक ।
कर्मयोगस्वरूपाय परेशाय नमो नमः ॥ ४९॥
ज्ञानानां ज्ञानरूपाय ज्ञानिनां ज्ञानधारिणे ।
सदा ज्ञानविहीनाय ज्ञानयोगाय ते नमः ॥ ५०॥
समाय च स्वरूपाय समेभ्यः साम्यदाय ते ।
(Page खं. ५ अ. १३ पान २८)
आनन्दानन्दकन्दाय समहीनाय ते नमः ॥ ५१॥
सहजाय विहीनाय सहजैः सहजात्मने ।
सहजानां तु योगाय निर्मोहाय नमो नमः ॥ ५२॥
स्वानन्दाय सदा स्वानन्दानां स्वानन्दमूर्तये ।
मायायुक्ताय देवेश सर्वाधीशाय ते नमः ॥ ५३॥
अयोगाय सदा ब्रह्मनिवृत्तिं धारिणे नमः ।
असम्प्रज्ञातभावाय लम्बोदर नमो नमः ॥ ५४॥
शान्तिरूपाय योगाय योगेभ्यो योगदाय ते ।
चित्तभूमिविहीनाय नमश्चिन्तामणे नमः ॥ ५५॥
क्षमापराधकं नाथ विस्मृत्या भ्रमसंयुता ।
अप्रपूज्य गणाधीश गता योद्धुं परात्परम् ॥ ५६॥
अधुना मे वरं देहि त्वत्पादरसदायकम् ।
महाभक्तिप्रदं नाथ येनाऽहं तोषिता त्वया ॥ ५७॥
जयं देहि गणाधीश महिषस्य वधाय वै ।
रतायै देवदेवेश नमस्ते परमेश्वर ॥ ५८॥
एवं तस्याः संस्तुवत्या भक्त्या रससमुद्भवः ।
तेन युक्ता ननर्तैव साश्रुनेत्रा प्रजापते ॥ ५९॥
लम्बोदरस्तादृशीं स निरीक्ष्यैव जगाद ताम् ।
त्वया यद्याचितं देवि तत् सर्वं सफलं भवेत् ॥ ६०॥
त्वया कृतमिदं स्तोत्रं भवेद् भक्तिरसप्रदम् ।
अपराधस्य देवेशि सहने कारणं मयि ॥ ६१॥
भुक्तिं मुक्तिं प्रदास्यामि स्तोत्रेणाऽहं हि संस्तुतः ।
यं यं चिन्तयसे कामं तं तं दास्यामि निश्चितम् ॥ ६२॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
शक्तिः खिन्नेव तत्रैव संस्थिता ध्यानसंयुता ॥ ६३॥
स्थापयामास मूर्तिं सा ब्राह्मणैर्वेदपारगैः ।
पूजयामास तां तत्र ततो योद्धुं समागता ॥ ६४॥
तदादि गणराजस्य स्थानं तत् पप्रथे भुवि ।
सर्वसिद्धिकरं पूर्णं यात्राकारि जनस्य च ॥ ६५॥
ब्रह्मभूयप्रदं पूर्णं तत्रैव मरणे सति ।
विघ्नेश्वरस्य दक्षैतद् बभूवे सर्वदा प्रियम् ॥ ६६॥
महिषासुरकं देवी जघान वरदानतः ।
युद्धं कृत्वा महाघोरं जगद्रक्षणलालसा ॥ ६७॥
पुनः समागता देवी विघ्नेशक्षेत्रके प्रभो ।
तत्र नित्यं महाभक्त्या भजते गणनायकम् ॥ ६८॥
इदं लम्बोदरस्यैव चरित्रं सर्वदं परम् ।
यः शृणोति नरो भक्त्या पठेद्वा तस्य सम्भवेत् ॥ ६९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शक्तिवरप्रदानं नाम त्रयोदशोऽध्यायः ॥ ५.१३
(Page खं. ५ अ. १४ पान २९)
५.१४ शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अन्यच्छृणु महाभाग लम्बोदरचरित्रकम् ।
शक्त्यधीनस्वभावाख्यं सर्वसिद्धिप्रदायकम् ॥ १॥
एकदा मिलिता देवाः सर्वे तत्र प्रजापते ।
विन्ध्ये देशे महाक्षेत्रे यात्रार्थं गणपस्य च ॥ २॥
तत्र वादः समुत्पन्नो मुनीनां सर्वसन्निधौ ।
पञ्च देवाः समानाश्च सगुणा निर्गुणा मताः ॥ ३॥
कथं विघ्नेश्वरो देवः सर्वपूज्यो बभूव ह ।
सर्वादौ पूजनीयः स चतुर्भिरपि निश्चितम् ॥ ४॥
अन्यदेवस्य भक्तैश्चेष्टदेवादौ गजाननः ।
पूजनीयः प्रयत्नेन किमिदं विपरीतकम् ॥ ५॥
गणेशोच्छिष्टभोक्तारो देवा विष्णुशिवादयः ।
इदं किं वेदवादेषु कथितमादिपूज्यतः ॥ ६॥
यथा देवाश्च चत्वारस्तथाऽयं गणनायकः ।
स्वस्वभक्तविधानेन पूजनीयो यदा भवेत् ॥ ७॥
तदा सर्वं समीचीनं स्वस्वमार्गपरं भवेत् ।
शुभाशुभे गणाधीशः सर्वादौ सम्मतः कथम् ॥ ८॥
इति प्राप्ते विवादे तु शक्तिः क्रोधसमन्विता ।
जगाद तान् मुनीन् सर्वान् देवांस्तद्धितकाम्यया ॥ ९॥
शक्तिरुवाच ।
लम्बोदरोऽयमेकश्च वेदे सङ्कथितोऽभवत् ।
न वयं तादृशा विप्रा लम्बोदरप्रवाचकाः ॥ १०॥
तस्योदरात् समुत्पन्नं नाना विश्वं न संशयः ।
नाना ब्रह्म तथेशाश्च तत्रान्ते संस्थिता बभुः ॥ ११॥
मध्ये कलांशरूपेण क्रीडते गणनायकः ।
अतः सर्वादिपूज्यः स सर्वपूज्यो बभूव ह ॥ १२॥
सर्वेषां जनको माता तथा सर्वप्रदायकः ।
तत्र किं संशयं विप्राः कुरुथ ब्रह्मणस्पतौ ॥ १३॥
तस्यास्तद्वचनं श्रुत्वा जगदम्बामुवाच ह ।
शङ्करः क्रोधसंयुक्तस्तथा विष्णुश्च मानद ॥ १४॥
शिवविष्णू ऊचतुः ।
किं शक्ते वदसि प्रेम्णा गणेशे भक्तिभाविता ।
वयं पञ्च समानाश्च तत्राधिक्यं न विद्यते ॥ १५॥
परस्परं च देवेशि भावयामो न संशयः ।
आधिक्यं तेन किं देवे कत्थसे त्वं गणेश्वरे ॥ १६॥
यदि लम्बोदरश्चायमेको देवो न संशयः ।
तस्योदरात् समुत्पन्ना वयं सर्वे सुनिश्चितम् ॥ १७॥
तदाधारास्तथांऽते वै तत्र लीना भवामहे ।
तदा वयं सृजामश्च जगद्ब्रह्म कथं वद ॥ १८॥
पालयामो हरामश्चाधिकं भवति किं महः ।
तथापि वेदवादेषु वयं लम्बोदरा नहि ॥ १९॥
अतो लम्बोदरस्यादौ सामर्थ्यं कीदृशं महत् ।
पश्यामस्त्वत्सन्निधाने पश्चात्तं प्रभजामहे ॥ २०॥
यदाधिक्यं प्रपश्यामस्तदा सर्वादिपूज्यकम् ।
सर्वपूज्यं करिष्यामो नान्यथा देवि निश्चितम् ॥ २१॥
ततः शिवश्च विष्णुश्च कल्पयित्वा ह्यपारकम् ।
नैवेद्यं सत्यसङ्कल्पौ पूजायां संस्थितौ परौ ॥ २२॥
एककालसमाविष्टावावाह्य गणनायकम् ।
पुपूजतुर्महाभक्त्या छलधर्मस्वरूपया ॥ २३॥
गणेश्वरस्तत्र साक्षात् समायातः प्रजापते ।
दृष्ट्वाऽपारं स नैवेद्यं विस्मितोऽभूत् स्वेचतसि ॥ २४॥
ध्यानेनालोक्य विघ्नेशो ज्ञात्वा तयोर्हृदि स्थितम् ।
सत्यसङ्कल्परूपां तां सिद्धिमाकृष्य संस्थितः ॥ २५॥
सिद्धिहीनौ विष्णुशिवौ पूजायां निरतौ मुदा ।
(Page खं. ५ अ. १४ पान ३०)
नैवेद्यं गणराजाय ददतुः परमं ततः ॥ २६॥
एकग्रासेन नैवेद्यमपारं गणनायकः ।
बभक्ष पुनरूचे तौ क्षुधितोऽहं विशेषतः ॥ २७॥
तस्य तद्वचनं श्रुत्वा शिवो विष्णुः पुनः प्रभू ।
नैवेद्यं सत्यसङ्कल्पात् कल्पयामासतुः पुरः ॥ २८॥
तथापि न च नैवेद्यं बभूवाणुस्वरूपकम् ।
तेन खेदसमायुक्तौ परस्परमथोचतुः ॥ २९॥
सत्यसङ्कल्परूपं यदैश्वर्यं क्व गतं परम् ।
आवां नरसमौ जातौ किं भविष्यति दैवतः ॥ ३०॥
ब्रह्माणामीश्वराणां च महत् ब्रह्मत्वमैश्वरम् ।
सत्यसङ्कल्पभावाख्यं तेन हीना नराः स्मृताः ॥ ३१॥
अधुना किं करिष्यावो जीवतुल्यौ न संशयः ।
अयं लम्बोदरः क्रोधान्नरके पातयिष्यति ॥ ३२॥
अथवा मृत्युलोके वै निश्चितं भयमागतम् ।
कं यावः शरणं नाथं छलनायां परायणौ ॥ ३३॥
शक्त्या सम्बोधितं पूर्वं तत्राज्ञानसमन्वितौ ।
वादं कृत्वा महाविघ्नमावाभ्यां प्रकटीकृतम् ॥ ३४॥
अधुना शरणं श्रेष्ठं शुभदं प्रभविष्यति ।
गणेशश्च विशेषेण ब्रह्मनायक एव सः ॥ ३५॥
ततस्तौ भक्षितुं तत्र क्रोधयुक्तो गजाननः ।
बभूवाद्भुतरूपश्च दृष्ट्वा तं सम्प्रपेलतुः ॥ ३६॥
शक्तेश्चरणमासाद्य पेततुर्भयविह्वलौ ।
ततः सा तौ समाश्वास्यागृह्य दूर्वां तमाययौ ॥ ३७॥
प्रणम्य गणनाथं सोवाच कृत्वा कराञ्जलिम् ।
हृष्टरोमा च सर्वेशी भक्तिनम्रात्मकन्धरा ॥ ३८॥
शक्तिरुवाच ।
क्षमापराधमत्युग्रं देवदेवेश ते नमः ।
त्वन्मायागर्वसंयुक्तयोर्विष्णुशिवयोः प्रभो ॥ ३९॥
समुत्पन्नौ त्वदुदराद् बालभावधरौ तथा ।
शिवविष्णुगणेशानतयोर्दण्डं च मा कुरु ॥ ४०॥
सर्वेषां पोषणे स्वामिंस्त्वं शक्तो नात्र संशयः ।
त्वदीयपोषणं पूर्णं त्वमेव कुरुषे सदा ॥ ४१॥
एवमुक्त्वा महामाया तस्मै दूर्वाङ्कुरं ददौ ।
मनसा कल्पयामासान्नं चतुर्विधमुत्तमम् ॥ ४२॥
ततो दूर्वाङ्कुरेणैव तृप्तोऽभूद्गणनायकः ।
महाभक्तिं ददौ तस्यै शक्तये भक्तवत्सलः ॥ ४३॥
प्रसन्नं तं गणाधीशं दृष्ट्वा तत्र समाययौ ।
हरिश्च शङ्करो देवः प्रणम्य प्रोचतुर्वचः ॥ ४४॥
क्षमापराधमुग्रं नौ गणाधीश विशेषतः ।
त्वन्मायया मोहितयोः सदा स्वानन्ददायक ॥ ४५॥
अधुना ते स्वरूपं यज्ज्ञातं पूर्णं महाप्रभो ।
सर्वादिपूज्य एकस्त्वं सर्वपूज्यो यथातथम् ॥ ४६॥
एवमुक्त्वा तुष्टुवतुर्गणेशानं महेश्वरौ ।
अथर्वशिरसा भक्त्या सन्तुष्टः स ततोऽभवत् ॥ ४७॥
शक्त्या सम्प्रार्थितस्तत्र भावयुक्तेन चेतसा ।
यथापूर्वं शिवो विष्णुस्तादृशौ स चकार ह ॥ ४८॥
सङ्कल्पसिद्धिसंयुक्तौ सम्बभूवतुरीश्वरौ ।
सदा भक्तिसमायुक्तौ भजतो गणनायकम् ॥ ४९॥
संशयेन विहीनाश्च जाता देवर्षयो जनाः ।
पूर्णभावयुतं ढुण्ढिमभजंस्ते विमत्सराः ॥ ५०॥
न गणेशात् परं किञ्चित्तस्मादादौ गणेश्वरः ।
अन्ते सोऽपि न सन्देहो मध्ये नानाविधः स्मृतः ॥ ५१॥
सर्वेषां बीजरूपोऽयमतः सर्वादिपूज्यकः ।
(Page खं. ५ अ. १५ पान ३१)
सर्वपूज्यो गणेशानो वेदेषु कथितोऽभवत् ॥ ५२॥
गाणपत्यस्वभावस्था बभूवुर्मुनयोऽमलाः ।
यत्र तत्र गणेशानं भजन्ते तेऽधुना प्रभुम् ॥ ५३॥
एतल्लम्बोदरस्यैव चरित्रं यः शृणोति वा ।
पठते तस्य विघ्नेशः सर्वदः प्रभविष्यति ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शिवविष्णुगर्वहरणं नाम चतुर्दशोऽध्यायः ॥ ५.१४
५.१५ शक्तिविनायकमाहात्म्ये पञ्चदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
सुरथो नाम राजर्षिः प्रधानैर्नयवर्जितैः ।
बलिष्ठैः पीडितोऽत्यन्तं राज्यं त्यक्त्वा वनं ययौ ॥ १॥
तत्र मुनिवरेणैवोपदिष्टः शक्तिमाभजत् ।
तस्याश्च कृपया राजा समर्थः प्रबभूव ह ॥ २॥
स्वराज्यं प्राप्य राजर्षिश्चक्रे तद्धर्मसंयुतः ।
अभजच्छक्तिमत्यन्तं भावयुक्तेन चेतसा ॥ ३॥
ततो मृतः पुनः सोऽपि सावर्णिश्च बभूव ह ।
मनुर्भानुसुतो दक्ष सर्वमान्य उदारधीः ॥ ४॥
पूर्वसंस्कारयोगेन शक्तिभक्तो बभूव ह ।
वने गत्वा महाशक्तिं पूजयामास नित्यदा ॥ ५॥
उपोषणसमायुक्तस्तताप तप उत्तमम् ।
ध्यात्वा हृदि महामायां नवार्णजपकारकः ॥ ६॥
माहात्म्यमपठन्नित्यं शक्त्या भक्तिसमन्वितः ।
एवं वर्षशते पूर्णे प्रसन्नाऽभून् महासती ॥ ७॥
अन्ते तत्तपसा युक्तं ज्ञानमार्गपरायणम् ।
ज्ञात्वा लम्बोदरस्तत्र वरदाता समाययौ ॥ ८॥
हृदि तस्य स्थितं ध्यानं शक्तेस्तत्र गणेश्वरः ।
शुशुभे रक्तवर्णाभो दृष्ट्वा तं सोऽपि विस्मितः ॥ ९॥
ततः शक्तिस्वरूपं स ददर्श पुनरञ्जसा ।
पुनर्लम्बोदरं देवं पुनः शक्तियुतं प्रभुम् ॥ १०॥
वामाङ्गे संस्थितां शक्तिं हावभावसमन्विताम् ।
भक्तियुक्तां गणेशस्य ततोऽतिविस्मितोऽभवत् ॥ ११॥
लम्बोदरार्थजं दक्ष शक्तेश्च कृपया महत् ।
ज्ञानं प्रकटरूपं तद्बभूव हृदये मनोः ॥ १२॥
ततो मनुर्विशेषेण भक्तियुक्तो हृदि स्वयम् ।
विचारमकरोत् पूर्णं तच्छृणु त्वं प्रजापते ॥ १३॥
लम्बोदरः स्वयं शक्तिः शक्तिर्लम्बोदरात्मिका ।
शक्तेर्लम्बोदरस्यैव नान्तरं विद्यते कदा ॥ १४॥
शक्तिर्वामाङ्गसम्भूता दक्षिणाङ्गाद्गणेश्वरः ।
तयोरभेदभावे यद्ब्रह्म स्वानन्दसंज्ञकम् ॥ १५॥
क्रीडार्थं भक्तरक्षार्थं देहाकृतिधराविमौ ।
बभूवतुर्न सन्देहस्ततः सर्वमिदं बभौ ॥ १६॥
एवं विचारयुक्तः स मनुर्यावत् प्रतापवान् ।
तावत्तौ बहिरायातौ वरदौ च प्रजापते ॥ १७॥
हृदि संस्थौ विस्मितः स क्व गतौ शक्तिविघ्नपौ ।
पुनर्ध्यानबलेनैव चिन्तयामास भूमिपः ॥ १८॥
(Page खं. ५ अ. १५ पान ३२)
ततस्तं तावूचतुश्च वरं वरय सुव्रत ।
तपसा भक्तिभावेन तुष्टौ दास्यावहे मुने ॥ १९॥
तयोर्वचनमाकर्ण्योन्मील्याऽपश्यद्वहिर्मनुः ।
दृष्ट्वा शक्तियुतं देवं प्रणनाम मुदायुतः ॥ २०॥
पूजयित्वा विधानेन तुष्टाव भक्तिसंयुतः ।
प्रणम्य तौ पुनर्देवौ कृत्वा करपुटं विधे ॥ २१॥
सावर्णिरुवाच ।
नमस्ते गणनाथायै नमस्ते गणपालक ।
चतुर्बाहुधरायैव चतुर्बाहुधराय ते ॥ २२॥
अनाद्यायै ह्यनाद्याय परेशायै परात्मने ।
भक्तविघ्नहरायै ते भक्तविघ्नहराय च ॥ २३॥
हेरम्बायै नमस्तुभ्यं हेरम्बाय नमो नमः ।
लम्बोदरस्वरूपायै नमो लम्बोदराय ते ॥ २४॥
नानारूपधरायैव नानारूपधराय च ।
नमो नमो महादेव्यै देवाधिपतये नमः ॥ २५॥
गजवक्त्रधरायै ते गजवक्त्रधराय च ।
शूर्पकर्णस्वरूपायै शूर्पकर्णाय ते नमः ॥ २६॥
एकदन्तधरायै चैकदन्तरूपिणे नमः ।
मायामोहहरायैव मोहहर्त्रे नमो नमः ॥ २७॥
स्वानन्दपुरसंस्थायै नमः स्वानन्दवासिने ।
परश्वादिधरायै च परश्वादिधराय ते ॥ २८॥
नमः सर्वप्रबोधायै नमः सर्वप्रबोधक ।
मायिभ्यो मोहदात्र्यै ते मायिभ्यो मोहदाय च ॥ २९॥
ढुण्ढिराज्ञ्यै नमस्तुभ्यं ढुण्ढिराजाय ते नमः ।
वक्रतुण्डधरायै ते वक्रतुण्डाय ते नमः ॥ ३०॥
सर्वादिपूज्यकायै च सर्वादिपूज्यकाय ते ।
नमस्ते सर्वपूज्यायै सर्वपूज्याय ते नमः ॥ ३१॥
अनन्तखेलकारिण्यै ह्यनन्तखेलकारिणे ।
नमो नमो महाशक्ते नमः शक्तिधराय ते ॥ ३२॥
नानाभेदकरायै ते नानाभेदमयाय च ।
नमो नमः परेशायै परेशाय नमो नमः ॥ ३३॥
या शक्तिः सैव विघ्नेशो नान्तरं विद्यते क्वचित् ।
अज्ञानेन महाभागौ स्त्रीपुम्भावः प्रदृश्यते ॥ ३४॥
यत्र वेदादयो योगिनो देवेशा विसिस्मिरे ।
तत्र स्तोतुं च कोऽहं तावल्पज्ञानप्रधारकः ॥ ३५॥
भवतोर्दर्शनेनैव बोधयुक्तोऽहमञ्जसा ।
तेन स्तुतौ गणाध्यक्षौ योगशान्तिप्रदायकौ ॥ ३६॥
प्रयच्छतं महायोगमधुना मे नमाम्यहम् ।
भक्तिं च भवतोर्मे तु सुदृढां दातुमर्हथः ॥ ३७॥
इत्युक्त्वा दण्डवद्भूमौ पपात पदयोस्तयोः ।
मनुस्तौ हर्षसंयुक्तावूचतुस्तं महीपतिम् ॥ ३८॥
शक्तिविनायकावूचतुः ।
शान्तियोगं महाभाग लभसे योगसेवया ।
भक्तिं दृढां च नौ पादे सदाऽऽदित्यकुमारक ॥ ३९॥
भुक्त्वा मन्वन्तरं पूर्णं यशः स्थाप्य जगत्त्रये ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यसि ॥ ४०॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
पठते शृण्वते चैव भविष्यति न संशयः ॥ ४१॥
एवमुक्त्वा गणाध्यक्षावन्तर्धानं प्रचक्रतुः ।
मनुः स्वगृहमागत्याऽभजत्तौ भावसंयुतः ॥ ४२॥
मन्वन्तरसमा भुक्त्वा ब्रह्मभूतो बभूव ह ।
गाणपत्यो महाभागः सावर्णिः प्रथितोऽभवत् ॥ ४३॥
मयाऽवतारः कथितो नाम्ना शक्तिविनायकः ।
सर्वसिद्धिप्रदः पूर्णो लम्बोदरस्य भक्तितः ॥ ४४॥
मायया मोहितानां वै भिन्ना शक्तिः प्रदृश्यते ।
या शक्तिः स स्वयं दक्ष लम्बोदरो न संशयः ॥ ४५॥
(Page खं. ५ अ. १६ पान ३३)
स्त्रीपुम्भावमयी माया त्यक्तव्या योगसेवया ।
तदा लम्बोदरः प्राप्तो योगिभिर्ब्रह्मनायकः ॥ ४६॥
केचिच्छक्तिं वदन्त्येनं केचिल्लम्बोदरं परम् ।
भक्त्या भिन्नं स्वरुच्यर्थं जानीह्यत्र न संशयः ॥ ४७॥
असत्स्वानन्दरूपा वै शक्तिर्वेदे प्रकीर्तिता ।
स लम्बोदर आख्यातो गणेशस्यावतारभृत् ॥ ४८॥
शक्तिविनायकस्यैतच्चरित्रं यः शृणोति वा ।
पठते भविता तस्य भुक्तिर्मुक्तिर्न संशयः ॥ ४९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शक्तिविनायकमाहात्म्ये पञ्चदशोऽध्यायः ॥ ५.१५
५.१६ शेषातिदुःखवर्णनं नाम षोडशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शेषपुत्रस्य माहात्म्यं कथयामि समासतः ।
तच्छृणुष्व प्रजानाथ योगशान्तिप्रदायकम् ॥ १॥
एकदा सत्यलोकस्थो ब्रह्मा ध्यानपरायणः ।
बभूव सर्वजन्तूनां हितार्थं मोहितः स्वयम् ॥ २॥
सदा सृष्टिर्मदीयेयमखण्डा जायते कथम् ।
तत्र तस्य स्वनिःश्वासात् पुरुषः सम्बभूव ह ॥ ३॥
स प्रणम्य विधातारं तुष्टाव विविधैः स्तवैः ।
तमुवाच तदा ब्रह्मा किं वाञ्छसि वदाऽशु मे ॥ ४॥
ब्रह्मणो वचनं श्रुत्वा हर्षयुक्तः पुमानभूत् ।
तं जगाद प्रजानाथं भक्तिनम्रात्मकन्धरः ॥ ५॥
पुमानुवाच ।
तव निःश्वाससम्भूतं पुत्रं मां पालय प्रभो ।
देहि नाम तथा स्थानं भक्ष्यं नानाविधं विधे ॥ ६॥
अन्यत् सुखकरं सर्वं देहि नाथ नमोऽस्तु ते ।
त्वं गतिः सर्वभूतानामधुना मे विशेषतः ॥ ७॥
तस्य तद्वचनं श्रुत्वा ब्रह्मा स्नेहयुतोऽभवत् ।
स जगाद तमालिङ्ग्य चुचुम्बे पुत्रवत्सलः ॥ ८॥
ब्रह्मोवाच ।
मायादर्शनमात्रेण वर्धसे त्वं महामते ।
मायाकरस्ते विख्यातमतो नाम भविष्यति ॥ ९॥
यद्यदिच्छसि तत्तत्ते सफलं च भविष्यति ।
त्रैलोक्ये वसतिः पुत्र गतिरव्याहता भवेत् ॥ १०॥
चतुःपदार्थसम्भूतं सदा वश्यं भविष्यति ।
चतुर्विधमयेभ्यस्ते मरणं न कदा भवेत् ॥ ११॥
युद्धे चतुर्विधं सर्वं प्रजेष्यसि न संशयः ।
सदाऽऽरोग्यादिसंयुक्तो भविष्यसि मदात्मज ॥ १२॥
ब्रह्मणो वचनं श्रुत्वा हर्षितोऽभूत् पुमान् स्वयम् ।
मायाकरः प्रणम्यैव तं ययौ स्वेच्छया चरन् ॥ १३॥
ततो दानवमुख्यश्च विप्रचित्तिः प्रतापवान् ।
तं दृष्ट्वा बलसंयुक्तं समागत्य ननाम सः ॥ १४॥
ज्ञात्वा वृत्तान्तमेतस्य मायाकरस्य दुर्मतिः ।
जगाद तं पुनः सोऽपि विप्रचित्तिः प्रतापवान् ॥ १५॥
विप्रचित्तिरुवाच ।
मायाकर महाभाग शृणु मे परमं वचः ।
वराः प्राप्तास्त्वया सर्वे दुर्लभा नात्र संशयः ॥ १६॥
तेषां भोगः प्रकर्तव्यस्त्वया नित्यं महामते ।
तदा शोभायुता जाता वरास्ते नान्यथा प्रभो ॥ १७॥
यथा रूपवयोयुक्ता नारी स्वपतिना युता ।
नित्यं भुक्ता विशेषेण शोभतेऽतीव मानद ॥ १८॥
मिलिता विविधा भोगा भुक्ताश्चेत् सार्थकं भवेत् ।
निक्षिप्ता भोगहीनास्ते शपन्ति पुरुषं सदा ॥ १९॥
अतो वरान् महाभाग साधयस्व विशेषतः ।
नोचेत्ते त्वां शपिष्यन्ति वरा भोगविहीनतः ॥ २०॥
वयं दानवमुख्याश्च त्वदधीना भवामहे ।
अस्माभिर्बलसंयुक्तैर्भुङ्क्ष्व भोगं महाबल ॥ २१॥
दानवा बलसंयुक्ता अजेयाः सर्वभावतः ।
त्वदाज्ञावशगा नाथ चरिष्यन्ति न संशयः ॥ २२॥
एवं मायाकरस्तेन बोधितो दुष्टधीः स्वयम् ।
तदधीनो बभूवाऽपि ययौ तेन रसातलम् ॥ २३॥
तत्र दानवमुख्यैश्च मिलितैर्यमसन्निभैः ।
तैर्मानितो विधेः पुत्रो मायाकरस्तुतोष ह ॥ २४॥
ततः शुक्रं समानीय प्रणता दानवा विधे ।
ब्राह्मणैरभिषिक्तं तं कारयामासुरादरात् ॥ २५॥
असुराणां महाराजो बभूव ब्रह्मणः सुतः ।
मायाकरोऽतिशुशुभे सर्वेभ्यो भयदायकः ॥ २६॥
नानाभोगान् प्रभुञ्जानो बलेन गर्वितोऽभवत् ।
अमन्यतासुराधीश आत्मनः कृतकृत्यताम् ॥ २७॥
ततो दानवमुख्यैः स जित्वा पृथ्वीं ससागराम् ।
ततो देवगणान् जित्वेन्द्रासने संस्थितोऽभवत् ॥ २८॥
ततः सिषेविरे सर्वे दानवास्तं विशेषतः ।
स्वर्गभोगकरा भूत्वा हर्षिताः स्वजनैः प्रभो ॥ २९॥
ततः शिवं समागम्य स युद्धायोद्यतोऽभवत् ।
त्यक्त्वा कैलासमादौ स पपाल शङ्करः स्वयम् ॥ ३०॥
ततो विकुण्ठगो भूत्वा रराजे दानवाधिपः ।
त्यक्त्वा विकुण्ठमेवं स विष्णुः पपाल भीतितः ॥ ३१॥
ततः शान्तिधरं वीक्ष्य तमूचुर्दानवाः पुनः ।
जय त्वं सत्यलोकस्थं ब्रह्माणं देवनायकम् ॥ ३२॥
सुरेभ्यः सर्वदाता स पक्षगश्च पितामहः ।
असुराणामहो हन्ता न समो वर्तते कदा ॥ ३३॥
तमाश्रित्य महादेवादयोऽभूवंश्च संस्थिताः ।
कालं प्राप्य महावेगा मारयिष्यन्ति नः खलु ॥ ३४॥
त्वया सर्वं जितं राजन् तदपि पश्य चेष्टितम् ।
ब्रह्मणा दूतवर्येण सत्कृतो न कदा भवान् ॥ ३५॥
मायाकरस्ततस्तेषां वचः श्रुत्वाऽसुरः स्वयम् ।
सत्यं विचार्य धातारमभूत् जेतुं समुद्यतः ॥ ३६॥
दानवैर्ब्रह्मलोके तमागतं वीक्ष्य वै विधिः ।
शोकयुक्तः पपालाऽसौ देवौघैः संवृतः प्रभुः ॥ ३७॥
ततः स सत्यलोकस्थः शुशुभेऽतीव तत्क्षणात् ।
दानवान् मानयन् दैत्यः सह तैर्बुभुजे सुखम् ॥ ३८॥
ततः स सत्यलोके च कैलासे वैष्णवे पदे ।
सौरे शाक्तेऽन्यदेवानां पदेष्वास्थापयत् स्वकान् ॥ ३९॥
पुनर्भूमौ समागम्य संस्थितो नगरे स्वके ।
प्रपञ्चाख्ये महादैत्यो दैत्यपैः संवृतो बभौ ॥ ४०॥
ततो दानवमुख्यांश्च पातालजयने सुरः ।
प्रास्थापयच्च ते सर्वे गताः सर्वे समन्विताः ॥ ४१॥
(Page खं. ५ अ. १७ पान ३५)
तैर्जिताः सर्पराजास्ते शेषस्ताञ्छरणं ययौ ।
स्वीकृत्य करभारं स संस्थितो नागपैर्वृतः ॥ ४२॥
तथापि दानवास्तत्र संस्थिता भयदायकाः ।
नागानधर्षयन् सर्वे यमकालनिभा बलात् ॥ ४३॥
ततोऽतिदुःखितः शेषः सस्मार गणनायकम् ।
निर्विघ्नार्थं प्रजानाथ पुत्रभावार्थमादरात् ॥ ४४॥
अन्तर्ध्यानेन विघ्नेशं तोषयामास नागपः ।
ततो वर्षे गते पूर्णे प्रकटोऽभूद् गजाननः ॥ ४५॥
हृदयाद् बहिरेवाऽसौ निर्गत्य तमुवाच ह ।
पश्य शेष महाभाग ध्यानजं ते सुतं च माम् ॥ ४६॥
दक्ष उवाच ।
स्वल्पायासेन हेरम्बः कथं पुत्रो बभूव ह ।
कथयस्व महायोगिन् शेषस्य चरितं महत् ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शेषातिदुःखवर्णनं नाम षोडशोऽध्यायः ॥ ५.१६
५.१७ शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
पुरा कश्यपविप्रेणाराधितौ तपसा प्रभू ।
शिवविष्णू च पुत्रार्थं मन्त्रध्यानसमाधिना ॥ १॥
दश वर्षे गते तौ च वरदौ तं समागतौ ।
सुतौ मुनिवरेणैव वरं दत्त्वा प्रजग्मतुः ॥ २॥
तयोरंशेन शेषश्च पुत्रस्तस्य बभूव ह ।
धराधरणभावेन पालको विष्णुरेव सः ॥ ३॥
ब्रह्मणो दिवसान्ते स ज्वालया विष्टपं महत् ।
ददाह शङ्करांशश्च महानागः प्रतापवान् ॥ ४॥
सहस्रशीर्षा पुरुषः शेष एव स उच्यते ।
मृत्युहीनो ह्यनन्तोऽयं सर्वेषामन्तकोऽभवत् ॥ ५॥
लय एकोऽवशेषश्च तेन शेषः प्रकीर्तितः ।
ब्रह्माण्डं धारयामास सर्वाधारो बभूव ह ॥ ६॥
उत्पन्नोऽभूत् स्वयं शेषः साक्षाद्धरिहरात्मकः ।
ब्रह्मणागत्य तत्रैवाऽभिषिक्तो राज्यकर्मणि ॥ ७॥
नागानामीश्वरो भूत्वा स्थितः सर्वत्र सम्मतः ।
ततः स कश्यपं नत्वा जगाद वचनं हितम् ॥ ८॥
शेष उवाच ।
ब्रह्माण्डं धारयामीश कथं सर्वसमाकुलम् ।
तदर्थं मां महायोगिन् शाधि शिष्यं पितः प्रभो ॥ ९॥
ततस्तस्मै मुनिश्रेष्ठो ददौ मन्त्रं षडक्षरम् ।
गणेशस्य यथान्यायं शोधयित्वा प्रजापते ॥ १०॥
ततस्तं प्रणिपत्यैव तताप तप उत्तमम् ।
वने गत्वा गणेशं स ध्यात्वा जपपरायणः ॥ ११॥
निराहारेण विघ्नेशं तोषयामास नित्यदा ।
पुपूज भक्तिसंयुक्तस्तुष्टाव विविधैः स्तवैः ॥ १२॥
एवं वर्षसहस्रेण प्रसन्नो गणनायकः ।
अस्थिमात्रावशेषं तं त्वचायुक्तं समाययौ ॥ १३॥
तं दृष्ट्वा नागपः शेषः प्रणम्योत्थाय चादरात् ।
पुपूज हर्षसंयुक्तस्तुष्टाव करसम्पुटैः ॥ १४॥
(Page खं. ५ अ. १७ पान ३६)
ततस्तं गणराजः स जगाद वृणु वाञ्छितम् ।
दास्यामि तपसा तुष्टो यत्ते चित्ते भविष्यति ॥ १५॥
शेषः प्रणम्य विघ्नेशं जगाद हर्षसंयुतः ।
ब्रह्माण्डधारणे शक्तिं देहि नाथ नमोऽस्तु ते ॥ १६॥
भक्तिं देहि गणाधीश भुक्तिमुक्तिप्रदायिनीम् ।
मृत्युहीनं दिशां नाथं मां कुरुष्व यशोतिगम् ॥ १७॥
तथेति गणराजस्तु तमुक्त्वांऽतरधात्ततः ।
शेषो हृष्टः स्वयं दक्ष स्वस्थानं प्रजगाम ह ॥ १८॥
तदारभ्य स्वयं नागो धराधारो बभूव ह ।
दिक्पालत्वं सदा लेभे मान्यः सर्वार्थदोऽभवत् ॥ १९॥
ततो योगबलेनैव नाना मायाविशारदः ।
नाना रूपधरः शेषः शुशुभे सर्वमण्डले ॥ २०॥
एवं बहौ गते काले हिरण्यकशिपोर्भयात् ।
ऐश्वर्यं नश्वरं मत्वाऽभवत् ज्ञानार्थमुद्यतः ॥ २१॥
विपुलं स तपस्तप्त्वा शमदमपरायणः ।
योगभूमिस्थभावेनान्तर्निष्ठश्च बभूव ह ॥ २२॥
ततः क्रमेण नागेशः समस्वानन्दगोऽभवत् ।
योगेन तत्र शान्तिं च स दृष्ट्वा संस्थितोऽभवत् ॥ २३॥
विष्णुं ज्ञात्वा परं भावं तदर्थं संयतः स्वयम् ।
वैष्णवेनैव मार्गेण तोषयामास केशवम् ॥ २४॥
ततस्तं वरदो विष्णुर्ययो शेषेण संस्तुतः ।
याचितो नित्यमेवं मे दर्शनं देहि केशव ॥ २५॥
मदीयदेहसंस्थस्त्वं भव नित्यं जनार्दन ।
तथेति तमुवाचाऽसौ नारायणो बभूव ह ॥ २६॥
शेषशायी सदा तस्य स देहे संस्थितोऽभवत् ।
तेन संहर्षितोऽत्यन्तं बभूवे नागपालकः ॥ २७॥
ततो योगबलेनाऽसौ मायामोहं ददर्श ह ।
समानन्दं द्वन्द्वमयमशान्तोऽपि बभूव ह ॥ २८॥
एवं बहौ गते काले योगमार्गरतोऽभवत् ।
समाधिना प्रजानाथ सहजं ब्रह्म संश्रितः ॥ २९॥
साहजं शङ्करं ज्ञात्वा शैवमार्गपरोऽभवत् ।
ब्रह्म स्वेच्छामयं दृष्ट्वा शान्तिं प्राप्य समास्थितः ॥ ३०॥
ततस्तं वरदः शम्भुराययौ तं प्रणम्य सः ।
शेषस्तुष्टाव संहृष्टः शैवैः स्तोत्रैः सदाशिवम् ॥ ३१॥
प्रसन्नं शङ्करं दृष्ट्वा ययाचे भक्तिमुत्तमाम् ।
सदा दर्शनभावार्थं सङ्गतिं शङ्करस्य सः ॥ ३२॥
तथेति शङ्करो देवः स चकार प्रजापते ।
मस्तके तं बबन्धाऽथ नित्यदर्शनकाङ्क्षिणम् ॥ ३३॥
ततोऽतिहर्षितोऽनन्तः शम्भुमार्गपरायणः ।
सिषेवे भावसंयुक्तः शङ्करं वृषभध्वजम् ॥ ३४॥
ततो योगबलेनैव शेषस्तत् सहजं परम् ।
मोहहीनं विदित्वा स शान्तिहीनो बभूव ह ॥ ३५॥
मनसा शाङ्करं ब्रह्म नामन्यत परं प्रभुम् ।
शिवं नत्वा महानागः पप्रच्छ योगशान्तिदम् ॥ ३६॥
पात्रं गणेशयोगे तं ज्ञात्वा शेषं सदाशिवः ।
जगाद गणनाथस्य ज्ञानं सर्वहितावहम् ॥ ३७॥
शिव उवाच ।
योगशान्तिप्रदं पूर्णं गणेशं विद्धि मानद ।
सत्यासत्यसमानानि सहजेन युतानि वै ॥ ३८॥
ब्रह्माणि यत्र लीयन्ते संयोगेन महामते ।
स्वसंवेद्यं तद्वदन्ति ब्रह्म शान्तिप्रदं परम् ॥ ३९॥
संयोगे गणनाथस्य स्वसंवेद्यात्मकं परम् ।
(Page खं. ५ अ. १८ पान ३७)
दर्शनं जायते येनाऽभवत् स्वानन्दवासिकः ॥ ४०॥
सर्वसंयोगरूपश्च दोषस्तत्र महान् स्मृतः ।
तेन शान्तिप्रदं पूर्णं न मतं योगिभिः कदा ॥ ४१॥
स्वसंवेद्यविहीनं यद्ब्रह्म योगमयं भवेत् ।
तत्र सन्दर्शनं तस्य न भवेद्व्यतिरेकतः ॥ ४२॥
स्वकीयाऽभेदतस्तत्र निवृत्तिर्जायते नृणाम् ।
तत्र शान्तिः समाख्याता सा न मुख्या मता बुधैः ॥ ४३॥
अयोगात्मकरूपश्च दोषः संवर्तते सदा ।
मायाहीनप्रभावेण तिष्ठते गणनायकः ॥ ४४॥
संयोगायोगयोर्योगे योगः शान्तिप्रदायकः ।
सा शान्तिः सर्वमान्या वै भवते वेदवादतः ॥ ४५॥
संयोगश्च गकारस्थो णकारो योगगः प्रभो ।
तयोरीशो गणेशानो वेदे पश्य विचक्षण ॥ ४६॥
पञ्चभूमिमयं चित्तं तदेव बुद्धिभावगम् ।
मोहो भ्रान्तिप्रदस्तेषु सा सिद्धिः सम्मता बुधैः ॥ ४७॥
तयोः स्वामी गणेशानः चिन्तामणिः प्रकथ्यते ।
चित्तप्रकाशकः साक्षाच्छान्तिदो योगसेवया ॥ ४८॥
तं भजस्व महानाग ततः शान्तिमवाप्स्यसि ।
नान्यथा कोटिवर्षैः कः शान्तिं प्रलभते नरः ॥ ४९॥
एवमुक्त्वा महादेवो विरराम स तं प्रभुः ।
प्रणम्य शेषनागश्च ययौ तपोवनं परम् ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ ५.१७
५.१८ शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततः शेषः स्वयं तत्र तताप तप उत्तमम् ।
शमदमपरो भूत्वा योगभूमिमशोधयत् ॥ १॥
क्रमेण पञ्चभूमीनां चित्तस्य पारमागतः ।
शान्तिं प्राप्तो महानागोऽभजत्तं गणनायकम् ॥ २॥
गाणपत्यस्वभावेनाऽपूजयद् भक्तिसंयुतः ।
एवं तपःप्रभावेण सन्तुष्टोऽभूद् गजाननः ॥ ३॥
तमाययौ महाभक्तं ध्यानस्तिमितलोचनम् ।
जगाद स वृणुष्व त्वं वरान् मत्तो सुदुर्लभान् ॥ ४॥
तस्य तद्वचनं श्रुत्वा प्रबुद्धो गणनायकम् ।
दृष्ट्वा लम्बोदरं देवं प्रणनाम कृताञ्जलिः ॥ ६॥
प्रणम्य विघ्नपं भक्तिसंयुक्तोऽपूजयत् पुनः ।
तुष्टाव सुस्थिरो भूत्वा निबद्धकरसम्पुटः ॥ ६॥
शेष उवाच ।
गणेशाय नमस्तुभ्यं सिद्धिबुद्धिपते नमः ।
चिन्तामणे महाविघ्ननाशनाय नमो नमः ॥ ७॥
सर्वादिपूज्यरूपाय सर्वपूज्याय ते नमः ।
ज्येष्ठराजाय ज्येष्ठानां मात्रे पित्रे नमो नमः ॥ ८॥
(Page खं. ५ अ. १८ पान ३८)
विनायकाय सर्वेषां नायकाय नमो नमः ।
नायकानां प्रचालाय नायकैः सेविताय ते ॥ ९॥
विघ्नेशाय च सर्वेषां पदभ्रंशकराय ते ।
अभक्तानां सुभक्तानां विघ्नहन्त्रे नमो नमः ॥ १०॥
ढुण्ढिराजाय सर्वैश्च ढुण्ढिताय सुसिद्धिद ।
ढुण्ढितानां महाराज परेशाय नमो नमः ॥ ११॥
ब्रह्मणां पतये तुभ्यं ब्रह्मेभ्यो ब्रह्मदायिने ।
ब्रह्मभ्यः सुखदायाऽथ शान्तिरूपाय ते नमः ॥ १२॥
स्वानन्दवासिने तुभ्यं सदा स्वानन्दमूर्तये ।
नाना विहारकर्त्रे ते समाधये नमो नमः ॥ १३॥
मूषकवाहनायैव मूषकप्रियमूर्तये ।
मूषकध्वजिने तुभ्यं स्तेयरूपाय ते नमः ॥ १४॥
अयोगाय सदा ब्रह्मन् ब्रह्मणे ब्रह्ममूर्तये ।
असमाधिस्थ हेरम्ब मायाहीनाय ते नमः ॥ १५॥
योगाय योगनाथाय योगेभ्यो योगदायिने ।
चित्तवृत्तिविहीनाय गणेशाय नमो नमः ॥ १६॥
किं स्तौमि त्वां गणाधीश मनोवाणीविवर्जितम् ।
मनोवाणीमयं स्वामिन् द्वाभ्यां हीनतया स्थित ॥ १७॥
अतो वेदादयः सर्वे कुण्ठिता नात्र संशयः ।
योगिनः शुकमुख्याश्चातस्त्वां पश्यामि भाग्यतः ॥ १८॥
एवं संस्तुवतस्तस्य भक्तिरससमुद्भवः ।
ननर्त तेन शेषश्च हृष्टरोमाऽश्रुलोचनः ॥ १९॥
जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् ।
वरान् वरय शेष त्वं दास्यामि भक्तिभावितः ॥ २०॥
त्वया कृतमिदं स्तोत्रं शान्तियोगप्रदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं सर्वसिद्धिदम् ॥ २१॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
श्रवणान्नाऽत्र सन्देहो भवेन् मद्भक्तिवर्धनम् ॥ २२॥
ततस्तं नागराजश्च जगाद वचनं हितम् ।
प्रणम्य भावसंयुक्तो विघ्नेशं भक्तिलालसः ॥ २३॥
शेष उवाच ।
भक्तिं देहि गणाधीश तव पादाम्बुजे पराम् ।
सदा शान्तिस्थमत्यन्तं कुरुष्व गणनायक ॥ २४॥
चित्तं पञ्चविधं प्रोक्तं तत्र त्वं सततं प्रभो ।
तिष्ठस्व स्फूर्तिरूपेण मदीयभ्रमनाशकः ॥ २५॥
मनश्चञ्चलभावेन संसारविषये रतम् ।
भविष्यति न सन्देहोऽतस्त्वं मे तनयो भव ॥ २६॥
संसारे पुत्रभावेन भजिष्यामि निरन्तरम् ।
हृदि शान्त्या तथा देव कुलदैवतरूपिणम् ॥ २७॥
गणेशक्षेत्रमत्रैव भवतु त्वत्प्रसादतः ।
सर्वसिद्धिप्रदं नाथ भक्तेभ्यः शान्तिदायकम् ॥ २८॥
चित्तभूमिधरं वीक्ष्याऽहं शान्तोऽत्र गजानन ।
धरणीधरसंज्ञं त्वां वदिष्यन्ति जनाः प्रभो ॥ २९॥
येनाऽहं वै गणाध्यक्ष त्वद्रूपो नाऽत्र संशयः ।
अतो मदीयनाम्ना त्वं धरणीधरको भव ॥ ३०॥
अहं धराधरः प्रोक्तः स्थूलशब्दप्रधारकः ।
त्वं चित्तभूमिगः स्वामिन् योगेन धरणीधरः ॥ ३१॥
एवमुक्त्वा गणेशानं विरराम च काश्यपः ।
तमुवाच गणाधीशः सन्तुष्टो भक्तवत्सलः ॥ ३२॥
श्रीगणेश उवाच ।
त्वयोक्तं सकलं शेष सफलं ते भविष्यति ।
सदा शान्तिस्वरूपस्थो मां भजिष्यसि निश्चितम् ॥ ३३॥
(Page खं. ५ अ. १८ पान ३९)
योगशास्त्रस्य कर्ता वै त्वं भविष्यसि मानद ।
न योगे त्वत्समः क्वापि भविष्यति महामते ॥ ३४॥
सदा भक्तिकरस्त्वं मे नाभौ तिष्ठ धराधर ।
भ्रमहीनः स्वभावेन मां भजस्व विशेषतः ॥ ३५॥
धराधरणदुःखश्रमादिकं वै कदाचन ।
न भविष्यति ते शेष सर्षपेण समा भवेत् ॥ ३६॥
तव विष्णुः शरीरस्थः शयिता नित्यमादरात् ।
पुष्पतुल्यो भवेद्देवः सोऽपि ब्रह्माण्डनायकः ॥ ३७॥
सदा यज्ञेषु भागस्थो भविष्यसि न संशयः ।
दिक्पालस्त्वं महाभाग सर्वमान्यो न संशयः ॥ ३८॥
एवमुक्त्वा गणाधीशो रूपं नानाविधं स्वकम् ।
दर्शयामास शेषाय नाना योगधरं परम् ॥ ३९॥
समष्टिव्यष्टिरूपं च ददर्श नादरूपकम् ।
बिन्दुं सोऽहं तथा बोधं विदेहं नागराट् प्रभो ॥ ४०॥
स्वस्वरूपमयोगस्थं योगशान्तिमयं तथा ।
ददर्श विस्मितः शेषोऽभवत् संशयवर्जितः ॥ ४१॥
अन्तर्धानं ययौ सद्यो गणेशो ब्रह्मनायकः ।
शेषस्तत्र गणेशानं स्थापयामास विप्रपैः ॥ ४२॥
धरणीधरविघ्नेशोऽभवत्तत्रैव संस्थितः ।
भक्तेभ्यः सिद्धिदाता स यात्रामात्रेण निश्चितम् ॥ ४३॥
शेषो जगाम दक्ष स्वभवनं हर्षसंयुतः ।
विघ्नराजस्य नाभौ च स्वयं तिष्ठति नागराट् ॥ ४४॥
अनन्यभावसंयुक्तोऽभजत्तं गणनायकम् ।
अथो व्यासावतारश्च बभूवे धर्मपालकः ॥ ४५॥
ब्रह्माणं शरणं गत्वा गाणेशं शुश्रुवे मुनिः ।
पुराणं स तथा देवमभजत्तपसा युतः ॥ ४६॥
प्रसन्नो गणराजः स तस्मै दत्वा ययौ वरम् ।
वेदशाखादिकं सर्वं चकार भिन्नमादरात् ॥ ४७॥
ततो बहौ गते काले मायया भ्रान्तिसंयुतः ।
योगभ्रष्टोऽभवद्योगी चित्तचञ्चलभावतः ॥ ४८॥
कदा नदीजले व्यासस्तर्पणं नित्यमाकरोत् ।
तस्याञ्जलौ स्वयं शेषः पपात सूक्ष्मरूपधृक् ॥ ४९॥
तं दृष्ट्वा विस्मितो व्यासस्तत्याज स जले भयात् ।
मुनिं तं प्रत्युवाचेदं सर्पोंऽगुष्ठप्रमाणकः ॥ ५०॥
सर्प उवाच ।
जले सत्त्वा महोग्राश्च प्रग्रसिष्यन्ति मां प्रभो ।
रक्षस्व त्वं महाभाग शरणं त्वां समागतम् ॥ ५१॥
तच्छ्रुत्वा विस्मितो व्यासस्तं प्रणम्य महायशाः ।
जगाद हर्षसंयुक्तो वचनं स्वहितावहम् ॥ ५२॥
व्यास उवाच ।
कस्त्वं वद महाभागाञ्जलौ मम समागतः ।
नरवन्नाथ वदसि न त्वां जानामि भावतः ॥ ५३॥
तस्य तद्वचनं श्रुत्वा तं जगाद पतञ्जलिः ।
हर्षयन् हेतुगर्भाभिर्वाग्भिर्हर्षसमन्वितः ॥ ५४॥
चिन्तनं यदि सन्त्यक्तं तदा कुत्र प्रवर्तते ।
अपूर्वं मुनिशार्दूल मायया पृच्छसि प्रभो ॥ ५५॥
मायया सर्पजातिस्थो नरवद्भाषणं सदा ।
करोति नात्र सन्देहो न तया दुर्लभं भवेत् ॥ ५६॥
तस्य तद्वचनं श्रुत्वा तं प्रणम्य मुनिः पुनः ।
पप्रच्छ ते स्वरूपं मे दर्शयस्व नमो नमः ॥ ५७॥
ततो नराकृतिर्भूत्वा संस्थितो भगवान् स्वयम् ।
शेषो ब्राह्मणरूपस्थस्तं जगाद महामुनिम् ॥ ५८॥
पतञ्जलिरुवाच ।
तवाञ्जलौ महाभाग पतितोऽहं हिताय ते ।
(Page खं. ७ अ. ९९ पान ४०)
पतञ्जलिं च मां विद्धि मुने शेषं धराधरम् ॥ ५९॥
गणेशाऽनेन विप्रेश प्रेरितं मां विशेषतः ।
भ्रान्तिनाशार्थमेवं ते जानीहि सहसाऽऽगतम् ॥ ६०॥
ज्ञात्वाऽतिहर्षितो व्यासः प्रणम्य तमुवाच ह ।
चिन्तनं च कथं नाथ त्यक्तव्यं चित्तगेन तु ॥ ६१॥
नानाभावमिदं दृष्ट्वा तत्र तत्तादृशं भवेत् ।
चित्तं नागेन्द्रवन्द्य त्वं वदस्वातिमहाद्भुतम् ॥ ६२॥
योगशास्त्रं स्वयं तस्मै जगाद स पतञ्जलिः ।
यथा विघ्नेश्वरेणैव दर्शितं तादृशं परम् ॥ ६३॥
विप्रेशोंऽतर्हितो योगी शेषः सर्वार्थदायकः ।
व्यासस्तत्र प्रजानाथ खेदयुक्तो बभूव ह ॥ ६४॥
शुश्राव स यथाशास्त्रं परं शेषमुखात् पुरा ।
तथा चित्तं समागृह्य योगिवन्द्यो बभूव ह ॥ ६५॥
पञ्चधा चित्तभूमिस्थस्त्यक्त्वा तच्चिन्तनं स्वयम् ।
चिन्तामणौ तदाकारो बभूव मुनिसत्तमः ॥ ६६॥
तस्य भाष्यं चकारापि व्यासो गूढार्थसिद्धये ।
नराणां प्रहितार्थाय सुगमार्थं प्रजापते ॥ ६७॥
इदं शेषस्य माहात्म्यं कथितं योगशान्तिदम् ।
अधुना शृणु दक्ष त्वं प्रकृतं यत् कथानकम् ॥ ६८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शेषाख्यानवर्णनं नामाष्टादशोऽध्यायः ॥ ५.१८
५.१९ मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
हृदयाद्बहिरागत्य शेषस्य गणनायकः ।
पुत्रभावेन संस्थोऽभून् मूषकारूढ आदरात् ॥ १॥
तत उत्थाय शेषस्तं प्रणनाम कृताञ्जलिः ।
पूजयामास सर्वेशं पुनः स प्रणतोऽभवत् ॥ २॥
अथर्वोपनिषद्भिस्तं तुष्टाव करसम्पुटैः ।
नागेशः प्रार्थयामास भक्तिनम्रात्मकन्धरः ॥ ३॥
शेष उवाच ।
योगेशस्त्वं गणाध्यक्ष ब्रह्मणां नायकः स्मृतः ।
कथं मे पुत्रभावेन संस्थितोऽसि विडम्बनम् ॥ ४॥
ततो गजाननस्तं वै मोहयामास मायया ।
मोहितो नागराजस्तं पुत्रं मेने गजाननम् ॥ ५॥
शेषः सस्त्रीक आगृह्य लालयामास बालकम् ।
क्रमेण पञ्चवर्षस्थो बभूवे तद्गृहे प्रभुः ॥ ६॥
अथ शृणु प्रजानाथ वृत्तान्तं दैत्यसम्भवम् ।
मायाकरासुरो दुष्टश्चकार कर्मखण्डनम् ॥ ७॥
आसुरं कर्म सर्वत्र कृतं तेन दुरात्मना ।
तेनोपोषणसंयुक्ता बभूवुर्देवनायकाः ॥ ८॥
ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः ।
न स्वाहा न स्वधाद्यं वै कर्तुं केनाऽपि शक्यते ॥ ९॥
ततो मुनिवराः सर्वे देवाः शम्भुपुरोगमाः ।
विचारं दैत्यनाशार्थं चक्रुर्भयसमन्विताः ॥ १०॥
तत्रोवाच महायोगी बृहस्पतिरुदारधीः ।
(Page खं. ५ अ. १९ पान ४१)
गणेशं भक्तिसंयुक्ता भजध्वं पदप्राप्तये ॥ ११॥
चतुःपदार्थसंयोगे गणेशो निजबोधकः ।
चतुर्भिर्वर्जितश्चाऽयं हनिष्यति महाखलम् ॥ १२॥
श्रुत्वा ते गुरुसंयुक्तास्तपस्तेपुर्महत् प्रभो ।
निराहारादिसंयुक्ता नानाऽनुष्ठानतत्पराः ॥ १३॥
गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः ।
आययौ तान् वरान् दातुं भक्त्या तुष्टो महायशाः ॥ १४॥
तं दृष्ट्वा हर्षसंयुक्ता देवा मुनय आदरात् ।
प्रणेमुः पूजयामासुस्तुष्टुवुर्विविधैः स्तवैः ॥ १५॥
वरयामासुरादृत्य गणेशं सर्वनायकम् ।
दैत्यं जहि गणाध्यक्ष प्रभो मायाकरासुरम् ॥ १६॥
तथा मायाविहीनां वै भक्तिं देहि त्वदीयकाम् ।
दासास्ते पादपद्मस्य वयं सर्वे न संशयः ॥ १७॥
श्रुत्वा तान् गणराजस्तु जगाद हर्षसंयुतः ।
मायाकरं हनिष्यामि शेषपुत्रोऽहमञ्जसा ॥ १८॥
यदि मे वाहनं तत्र मुख्यं भवति देवपाः ।
चतुर्देवमयं विप्रास्तदाऽऽरोहं करोम्यहम् ॥ १९॥
मदीया भक्तिरुग्रा वो भविष्यति तु निश्चितम् ।
सुदृढा मे सदा दासा भविष्यथ विशेषतः ॥ २०॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो देवनायकः ।
शेषध्यानात् समुद्भूतो भक्तानां कार्यसिद्धये ॥ २१॥
अथो देवर्षिमुख्यास्ते विचारं चक्रुरञ्जसा ।
चतुर्देवमयं तस्य वाहनं कीदृशं भवेत् ॥ २२॥
सर्वांस्तत्र शिवः साक्षादुक्तवान् वाक्यमुत्तमम् ।
वेदमूर्तिमयो देवः सर्वेषां गुरुरञ्जसा ॥ २३॥
शिव उवाच ।
अयं मूषकवाहश्च वेदेषु कथितोऽभवत् ।
मूषस्तेये तथा धातुर्ज्ञातव्यः स्तेयबह्मधृक् ॥ २४॥
नामरूपात्मकं सर्वं तत्राऽसद्ब्रह्म वर्तते ।
नामरूपेषु ये भोगास्तेषां भोक्ता स्वमायया ॥ २५॥
भोगेषु भोगभोक्ता यस्तदाकारेण वर्तते ।
अहङ्कारयुतास्ते वै न जानन्ति विमोहिताः ॥ २६॥
वयं भोक्तार एवं ते मानयन्ति विशेषतः ।
ईश्वरः सर्वभोक्ता च चौर्यवृत्तिषु संस्थितः ॥ २७॥
स एव मूषकः प्रोक्तो मनुजानां प्रचालकः ।
मायया गूढरूपो भोगान् भुनक्ति स चोरवत् ॥ २८॥
तद्वज्जीवनगो देवः सूर्य आत्मा विशेषतः ।
नाना जीवेषु भोगान् भुनक्ति वै चौरवत् स्वयम् ॥ २९॥
समेषु सर्वभोक्ता च विष्णुस्तद्वन्न संशयः ।
सदसन्मयरूपश्च चौरवन् मायया प्रभुः ॥ ३०॥
सहजेषु तथा देवः शिवो भोक्ता तुरीयगः ।
चौरवन्नाऽत्र सन्देहो युतो निर्मोहमायया ॥ ३१॥
भोक्तारं चौरभावस्थं वाहनं कुरुत प्रियाः ।
मूषकाकृतिरूपं वै दीयतां गणपाय तत् ॥ ३२॥
श्रुत्वा ते हर्षिताः सर्वे शिवं देवर्षयोऽब्रुवन् ।
साधु साधु त्वया प्रोक्तं सर्वज्ञस्त्वं सदाशिव ॥ ३३॥
ततो गणेश्वरं ध्यात्वा चतुर्भिः कल्पितं वपुः ।
तत्र स्वांशं ददुर्देवा भोक्तृरूपं प्रजापते ॥ ३४॥
तदंशेन सजीवोऽभून मूषको बलसंयुतः ।
ब्रह्मा देवर्षिभिः सार्धमभिषेकं चकार ह ॥ ३५॥
अन्तर्बाह्यादिकं स्तेयं परं सर्वत्र वर्तते ।
(Page खं. ५ अ. १९ पान ४२)
नानाविधं तथैकं च तेषु राजाऽयमुच्यते ॥ ३६॥
अभिषिक्तः स्वयं तत्र मूषको हर्षितोऽभवत् ।
यज्ञभागस्य भोक्ताऽसौ कृतो देवैः सवासवैः ॥ ३७॥
सङ्गृह्य सर्वदेवास्तं मुनयः शेषमन्दिरम् ।
आजग्मुस्तान् समालोक्य शेषश्च विस्मितोऽभवत् ॥ ३८॥
पूजयामास सर्वान् स नागराजो महायशाः ।
नानाऽऽसनेषु संस्थाप्य पुनस्तान् प्रत्युवाच ह ॥ ३९॥
शेष उवाच ।
धन्यं मे जन्म दानं वै तपो ज्ञानं स्वभावजम् ।
पितरो मुनयो देवा दर्शनाद्भवतां किल ॥ ४०॥
किमर्थमागताः सर्वे वदत मां सुरर्षयः ।
भवतां कृपया युक्तः करिष्यामि सुभक्तितः ॥ ४१॥
तस्य तद्वचनं श्रुत्वा शङ्करः सर्वनायकः ।
जगाद नागराजं तं हर्षयन् हर्षवर्धनः ॥ ४२॥
शिव उवाच ।
शेष शेष महाभाग धन्यस्त्वं सर्वमण्डले ।
तव पुत्रत्वमापन्नो ब्रह्मणां नायकः प्रभो ॥ ४३॥
मूषकगोऽवतारोऽयं पञ्चवर्षवयोन्वितः ।
मा पुत्रं तं विजानीहि तपसा ध्यानजं प्रभुम् ॥ ४४॥
तस्येदं वाहनं मुख्यं चतुर्देवकलांशजम् ।
स्तेयधर्मधरं पूर्णं सर्वेषां हृदि वर्तते ॥ ४५॥
अस्योपरि समारुह्य मूषकगः प्रतापवान् ।
मायाकरासुरं सद्यो हनिष्यति गणेश्वरः ॥ ४६॥
एवं तेषां वचः श्रुत्वा खेदयुक्तः स नागराट् ।
न किञ्चित् सञ्जगौ देवान् पुत्रवत्सलभावतः ॥ ४७॥
ततस्तं शङ्करो देव उवाच वचनं पुनः ।
मा खेदं कुरु कल्याण विघ्नहा न मरिष्यति ॥ ४८॥
तपोभिर्विविधैर्देवैः मुनिभिः प्रार्थितोऽभवत् ।
मायाकरविनाशाय तव पुत्रो गजाननः ॥ ४९॥
त्वयाऽऽदौ तपसा देव आराधितो गजाननः ।
वरदानप्रभावेण तव पुत्रो बभूव ह ॥ ५०॥
एतस्मिन्नन्तरे मूषकगस्तत्र समागतः ।
नागबालैर्महाभागैः क्रीडायुक्तो गजाननः ॥ ५१॥
समुत्तस्थुः प्रणेमुस्तं दृष्ट्वा विप्राः सदेवपाः ।
तुष्टुवुः सामवेदस्थेन स्तोत्रेण गणेश्वरम् ॥ ५२॥
ततस्तान् गणराजो वै वचनं हितकारकम् ।
उवाच वृणुत प्राज्ञा वरं मनेप्सितं परम् ॥ ५३॥
ततोऽतिहर्षसंयुक्तास्तमूचुस्ते सुरर्षयः ।
मायाकरासुरं स्वामिन् जहि सर्वभयङ्करम् ॥ ५४॥
भक्तिं देहि गणाधीश तव पादे च निश्चलाम् ।
दासा वयं गणेशान पालयस्व विशेषतः ॥ ५५॥
तथेति तानुवाचाऽथ वाहनं मे न वर्तते ।
अतो योग्यं महादेवा वाहनं दीयतां परम् ॥ ५६॥
चतुःपदार्थरूपेभ्यो मरणं न प्रविद्यते ।
मायाकरस्य दुष्टस्य कथं कार्यं मया सुराः ॥ ५७॥
चतुःपदार्थरूपं मे वाहनं यदि जायते ।
तदाऽहं तं हनिष्यामि नाऽत्र कार्या विचारणा ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः ॥ ५.१९
(Page खं. ५ अ. २० पान ४३)
५.२० मूषकगमायाकरासुरसमागमो नाम विंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
मूषकगवचः श्रुत्वा देवेन्द्रा हर्षिता बभुः ।
ऊचुः प्राञ्जलयस्तं ते विघ्नेशं विघ्नवारणम् ॥ १॥
देवर्षय ऊचुः ।
चतुर्ब्रह्ममयं देव वाहनं ते प्रवर्तते ।
स्वानन्दे मूषकाख्यं च सर्वभोगकरं परम् ॥ २॥
अधुना भोगकारं तु चतुर्भिः शिवमुख्यकैः ।
कृतं स्वस्वकलांशेन वाहनं ते गजानन ॥ ३॥
जीवेषु सर्वभोक्ता वै चौरवत् परमेश्वरः ।
तदेव वाहनं तेऽभूद् गृहाण स्तेयरूपिणम् ॥ ४॥
एवमुक्त्वा गणेशानं देवा मुनिसमन्विताः ।
तुष्टुवुस्तं महावीर्यं मूषकं मूषकाकृतिम् ॥ ५॥
देवर्षय ऊचुः ।
नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते ।
अन्तर्भोगकरायैव मूषकाय नमो नमः ॥ ६॥
मायया स्तेयरूपिण्या मोहयित्वा चराचरम् ।
चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥ ७॥
चराचरमयायैव चराचरधराय ते ।
सर्वाधीशाय लोकाय कालकालाय ते नमः ॥ ८॥
अनादये महेशाय चतुर्वर्गप्रदायिने ।
गणेशवाहनायैव गणेशध्वजसंस्थित ॥ ९॥
सर्वत्रग गणाधीशस्त्वया हृत्स्थ न संशयः ।
चालकात्मकवीर्यं यद्गणेशस्य त्वमञ्जसा ॥ १०॥
ब्रह्माकारशरीराय स्तेयानां स्वस्वरूपिणे ।
नमो नमः परेशाय चतुर्मयस्वरूपिणे ॥ ११॥
चतुर्णां गणपः पाता त्वया तद्रूपधारिणा ।
भव वाहनमुख्यं वै गणेशस्याऽधुना प्रभो ॥ १२॥
इति स्तुतः प्रसन्नात्मा मूषकस्तानुवाच ह ।
भविष्यामि महाभागा वाहनं गणपस्य च ॥ १३॥
एवमुक्त्वा गणेशानं प्रभुं तुष्टाव लब्धधीः ।
मूषको दर्शनेनैव हर्षयुक्तो महाद्युतिः ॥ १४॥
मूषक उवाच ।
देवाय योगरूपाय नमो मूषकगाय ते ।
गणेशाय परेशाय परात्परतराय ते ॥ १५॥
अनन्ताय महेशाय महेशैः संस्तुताय च ।
विघ्नेशाय महाविघ्नधारिणे ते नमो नमः ॥ १६॥
अनन्तसूनवे तुभ्यं दैत्यदानवमर्दिने ।
देवानां पालकायैव हेरम्बाय नमो नमः ॥ १७॥
स्वानन्दवासिने तुभ्यं भक्तस्वानन्ददायिने ।
ब्रह्मणे ब्रह्मणां चैव पतये ते नमो नमः ॥ १८॥
चतुर्णां चालकायैव चतुःसंयोगमूर्तये ।
चतुर्णां पददात्रे ते तैर्हीनाय नमो नमः ॥ १९॥
योगेशयोगरूपाय योगिभ्यो योगदायिने ।
शान्तिरूपाय वै तुभ्यं शान्तिदाय नमो नमः ॥ २०॥
मूषकवाहनायैव मूषकध्वजिने नमः ।
सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ २१॥
वेदवाक्यप्रमाणेन मां कुरुष्व गजानन ।
वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः ॥ २२॥
इदं मूषकगो नाम मदीयं तु त्वया धृतम् ।
अतोऽभेदमयीं भक्तिं देहि नाथ नमो नमः ॥ २३॥
मदीयनाथरूपेण नाम ते चाऽभवत् प्रभो ।
ततो मूषकगो भक्तं मां कुरुष्व महाद्भुतम् ॥ २४॥
एवं स्तुत्वा गणाधीशं प्रणनाम स दण्डवत् ।
भक्तिसंयुतमुत्थाप्य गणाधीशो जगाद तम् ॥ २५॥
मूषकग उवाच ।
वाहनं मे सदा साधो भविष्यसि महामते ।
(Page खं. ५ अ. २० पान ४४)
मदीया भक्तिरत्यन्तं सुदृढा ते भविष्यति ॥ २६॥
त्वया कृतमिदं स्तोत्रं मदीयं भक्तिदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं सर्वदं परम् ॥ २७॥
पठते शृण्वते चैतत् पुत्रपौत्रादिकप्रदम् ।
यद्यदिच्छति तत्तद्वै सफलं प्रभविष्यति ॥ २८॥
अन्यत्त्वं शृणु मे वाक्यं देवैर्विप्रैः कृतं महत् ।
स्तवनं सर्वमान्यं ते भविष्यति न संशयः ॥ २९॥
यस्त्वां स्तोष्यति चौरेशस्तोत्रेणानेन मानवः ।
स सर्वं लभते नित्यमीप्सितं नाऽत्र संशयः ॥ ३०॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ।
मदीयकृपया सोऽपि त्वत्समो मे प्रियो भवेत् ॥ ३१॥
एवमुक्त्वा महादेवं मूषकं गणनायकः ।
तमारुह्य ययौ तत्र यत्र दैत्याधिपोऽभवत् ॥ ३२॥
ते देवराजास्तमनुदेवाश्च मुनयः प्रभो ।
नागाः शेषमुखाः सर्वे ययुर्ब्रह्मसमन्विताः ॥ ३३॥
ब्रह्माणं प्रेषयामास मूषकगः प्रतापवान् ।
दूतं मायाकरस्याऽग्रे बोधार्थं नीतिपालकः ॥ ३४॥
गत्वा तमसुरं ब्रह्मा जगाद वचनं हितम् ।
आखुवाहं च शरणं याहि नो चेन् मरिष्यसि ॥ ३५॥
चतुर्णां ब्रह्मणां मूषकगो योगे प्रकीर्तितः ।
स्वानन्दवासकारी स गणेशोऽयं विचारय ॥ ३६॥
सुरासुरमयश्चायं गच्छतं भक्तिसंयुतः ।
मम पुत्रत्वमापन्नो हितं ते प्रवदाम्यहम् ॥ ३७॥
ब्रह्मणो वचनं श्रुत्वा क्रोधयुक्तस्तमब्रवीत् ।
मायाकरासुरः पापी पापयुक्तेन चेतसा ॥ ३८॥
मायाकरासुर उवाच ।
त्वं देवपक्षगो भूत्वा मोहनार्थं समागतः ।
पञ्चमं ब्रह्म सर्वत्र योगरूपं प्रतिष्ठति ॥ ३९॥
तदेव नागतं कुत्र न गतं च प्रजापते ।
समागतं गणेशानं तं हनिष्यामि सामरम् ॥ ४०॥
त्वं गच्छ दूतरूपेणागतस्तस्मान् महामते ।
सहामि तेऽपराधं वै नोचेद्धन्मि सुरप्रियम् ॥ ४१॥
ततो ब्रह्मा गणेशानमाययौ प्रणिपत्य तम् ।
वृत्तान्तं कथयामास तच्छ्रुत्वा क्रोधमादधे ॥ ४२॥
देवानाज्ञापयामास जेतुं मूषकगोऽपि तम् ।
ततस्ते शस्त्रसङ्घातैर्जघ्नुर्दैत्यगणान् मृधे ॥ ४३॥
असुराः छिन्नभिन्नास्ते पपलुर्गुल्मसंस्थिताः ।
सभासीनं समाचख्युर्वचो मायाकरासुरम् ॥ ४४॥
दैत्या ऊचुः ।
किं स्थितोऽसि महावीर देवाः क्रोधसमन्विताः ।
आगता नगरं सर्वं तेषामस्त्रैः सुपीडितम् ॥ ४५॥
तेषां तद्वचनं श्रुत्वा क्रोधयुक्तः समाययौ ।
प्रधानैरसुरैः सर्वैः संवृतो रणमण्डलम् ॥ ४६॥
मायाकरं समालोक्य पपलुर्देवसत्तमाः ।
आगम्य तं मूषकगं शशंसुश्चेष्टितं महत् ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते मूषकगमायाकरासुरसमागमो नाम विंशोऽध्यायः ॥ ५.२०
(Page खं. ५ अ. २१ पान ४५)
५.२१ मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
मायाकरासुरं वीक्ष्य तुतोष गणनायकः ।
मूषकं स समारुह्य ययौ सङ्ग्राममण्डलम् ॥ १॥
चतुरायुधसंयुक्तं दृष्ट्वा विघ्नेश्वरं खलः ।
दैत्यानाज्ञापयामास देवानां हननाय सः ॥ २॥
ततो दैत्यगणाः सर्वे क्रोधयुक्ता महाबलाः ।
ववृषुः शस्त्रधाराभिर्मेघा इव सुदुर्मदाः ॥ ३॥
दृष्ट्वा देवगणाः क्रुद्धा युयुधुस्तान् समागतान् ।
एवं युद्धं महाघोरं सैन्ययोरुभयोरभूत् ॥ ४॥
परस्परं मम्रुरेत्य सम्मुखं ते जयेप्सवः ।
रक्तौघैः सरितस्तत्र सञ्जाता भयदायिकाः ॥ ५॥
कदाचिज्जयिनो दैत्याः कदाचिदमरा मृधे ।
न रात्रौ विश्रमं ते तु चक्रिरे क्रोधसंयुताः ॥ ६॥
एवं दिनानि सप्तैव युयुधुः शस्त्रकोविदाः ।
पलायन्तामरा भिन्ना हाहारवकरा भृशम् ॥ ७॥
तद् दृष्ट्वा शङ्करः क्रुद्ध आययौ रणमण्डले ।
ततो विष्णुमुखा देवा युयुधुः क्रोधसंयुताः ॥ ८॥
तेषां शस्त्रप्रहारेण मृता दैत्या अनेकशः ।
प्रजापते पलायन्त भयभीता दिशो दश ॥ ९॥
मूर्च्छिता दैत्यराजास्ते सर्वे भूतलमाश्रिताः ।
दृष्ट्वा सिंहरवं मायाकरः कृत्वा समागतः ॥ १०॥
क्रोधयुक्तो महादैत्यः शस्त्रवृष्टिं चकार ह ।
तया देवाः क्षता भूमौ पेतुः सर्वे प्रजापते ॥ ११॥
अग्न्यस्त्रेण महादैत्यः पातयामास शङ्करम् ।
अन्ये दाहयुताः सर्वे पलायन्त दिशो दश ॥ १२॥
एवं मूषकगस्तस्य बलं दृष्ट्वा तुतोष ह ।
स्वयं समागतो हर्षाद्रणभूमौ महाबलः ॥ १३॥
दृष्ट्वा मूषकसंस्थं तमवोचद् दैत्यनायकः ।
क्रोधयुक्तः प्रहस्याऽऽदौ वचनं मद्यपो यथा ॥ १४॥
मायाकरासुर उवाच ।
किं सङ्ग्रामाय विघ्नेश मया सह समागतः ।
एकबाणेन हत्वा त्वां हनिष्यामि सुरान् मुनीन् ॥ १५॥
चतुःपदार्थरूपं वै जगत् सर्वं प्रवर्तते ।
तस्मान्मे मरणं नास्ति किं करिष्यसि देवप ॥ १६॥
ब्रह्माण्डं निर्जितं येन तेन सार्धं गजानन ।
योद्धुमिच्छसि बालः सन् बालभावान्न संशयः ॥ १७॥
नत्वा मां स्वगृहं याहि न हनिष्यामि निश्चितम् ।
त्वामज्ञानसमायुक्तं प्रेरकांस्तान्निहन्म्यहम् ॥ १८॥
नाम मूषकगस्तेचाखुतुल्यस्त्वं मतो मम ।
मूर्खवन्नैव जानासि मां सर्वभयदायकम् ॥ १९॥
एवं मायाकरं वीक्ष्य ब्रुवन्तं स्वपराक्रमम् ।
मूषकगस्तमेवं वै जगाद वचनं हितम् ॥ २०॥
मूषकग उवाच ।
किं मां वदसि दैत्येन्द्र नाऽहं बालोऽसुराधम ।
स्वानन्दवासकारी वै त्वां हन्तुं रूपवान् परः ॥ २१॥
हनिष्यामि न सन्देहश्चतुर्भिर्वर्जितोऽधुना ।
बालस्य पश्य मे मूर्ख पौरुषं दैत्यनायक ॥ २२॥
इत्युक्त्वा क्रोधसंयुक्तः कमलं निजहस्तगम् ।
बिन्दुब्रह्ममयं ज्योतिस्तत्याज मूषकेशगः ॥ २३॥
आगतं कमलं दृष्ट्वा ज्योतीरूपमयं महत् ।
मायाकरासुरस्तद्वै जग्राह बलगर्वितः ॥ २४॥
गृहीतं दैत्यराजेन हस्तगं न च हस्तगम् ।
पपात कण्ठदेशेऽस्य ममार दैत्यनायकः ॥ २५॥
कमलं गणराजस्य हस्तगं पुनरञ्जसा ।
(Page खं. ५ अ. २१ पान ४६)
बभूव चासुरेशाना विस्मिताः सम्बभूविरे ॥ २६॥
अहो मायाकरो राजा कथं ममार गर्वितः ।
शरीरं यादृशं तस्य तादृशं दृश्यतेऽधुना ॥ २७॥
तेजः समागतं ह्यत्र तेन तेजो हृतं मृधे ।
शस्त्रघातविहीनोऽयं ममार दैत्यनायकः ॥ २८॥
ततो दैत्यगणाः सर्वे भयभीताः समन्ततः ।
पातालं विविशुर्दक्ष देवा हर्षयुता बभुः ॥ २९॥
मूषकगं नमस्कृत्य मुनिभिस्तत्त्वकोविदैः ।
सर्वे पुपूजुर्देवेशास्तुष्टुवुः करसम्पुटैः ॥ ३०॥
देवर्षय ऊचुः ।
सर्वेषां भोगभोक्त्रे मूषकगाय नमो नमः ।
सर्वदेवाधिदेवाय गणेशाय नमो नमः ॥ ३१॥
लम्बोदराय विघ्नानां नायकाय परात्मने ।
भक्तानां विघ्नहर्त्रे ते विघ्नदात्रे दुरात्मनाम् ॥ ३२॥
हेरम्बाय नमस्तुभ्यं भक्तवत्सलरूपिणे ।
स्वानन्दवासिने चैव परेशाय नमो नमः ॥ ३३॥
महोदराय पूज्याय सर्वेषां सर्वरूपिणे ।
सर्वादिपूज्यकायैव वक्रतुण्डाय ते नमः ॥ ३४॥
त्रिनेत्राय चतुर्हस्तकमलस्य धराय ते ।
मूषकोपरिसंस्थाय ज्येष्ठराजाय ते नमः ॥ ३५॥
अमेयाय गणाध्यक्ष शूर्पकर्णप्रधारिणे ।
सर्वेशाय नमस्तुभ्यं ब्रह्मणे ब्रह्मरूपिणे ॥ ३६॥
अनादये तथा मध्ये नानारूपधराय ते ।
अन्ते तादृशरूपाय त्रिस्वरूपाय वै नमः ॥ ३७॥
शेषपुत्राय शैवाय पाराशर्याय ते नमः ।
सर्वेषां जनकायैव मात्रे ब्रह्मेश ते नमः ॥ ३८॥
स्रष्ट्रे पात्रे च संहर्त्रे गणेशाय नमो नमः ।
शान्तिरूपाय शान्तिभ्यः शान्तिदाय नमो नमः ॥ ३९॥
अपारगुणधाराय योगिनां हृदि संस्थित ।
तत् किं स्तुमो नः प्रसीद गणाधीश नमो नमः ॥ ४०॥
एवं स्तुत्वा गणेशानं प्रणेमुस्ते सुरर्षयः ।
प्रसन्नात्मा मूषकगस्तानुवाच प्रहर्षितः ॥ ४१॥
मूषकग उवाच ।
कृतं मे स्तवनं सर्वैर्भवद्भिः सर्वदं भवेत् ।
यद्यदिच्छथ तत्तद्दास्यामि वै भक्तितन्त्रितः ॥ ४२॥
पठतां शृण्वतां नित्यं स्वाधीनोऽहं भवामि च ।
भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ॥ ४३॥
वरं वृणुत देवेशा देवा मुनिसमन्विताः ।
दास्यामि स्तोत्रतुष्टोऽहं वाञ्छितं नात्र संशयः ॥ ४४॥
देवर्षय ऊचुः ।
मायाकरासुरस्यैव त्वया नाशः कृतो महान् ।
तेन तुष्टा गणाधीश किं वदामो वरं परम् ॥ ४५॥
भक्तिं देहि दृढां नाथ त्वदीयां शान्तिदायिनीम् ।
तया वयं गणेशान कृतकृत्या न संशयः ॥ ४६॥
तथेति तानुवाचाथ गणेशोंऽतर्दधे स्वयम् ।
देवाः खिन्ना ययुः सर्वे स्वस्वस्थानं निरामयाः ॥ ४७॥
मुनयः स्वाश्रमं जग्मुर्महाहर्षसमन्विताः ।
पूर्ववत् कर्मकर्तारो बभूवुः सर्वजन्तवः ॥ ४८॥
शेषः सम्मूर्च्छितस्तत्र पपात धरणीतले ।
हृदि तस्य गणेशानः प्रकटोऽभूच्च तत्क्षणात् ॥ ४९॥
जगाद तं महानागं मन्मूर्तिस्थापनं कुरु ।
तत्र पूजापरो भूत्वा कालं क्राम च सर्पप ॥ ५०॥
पातालविवरे क्षेत्रं भविष्यति सुसिद्धिदम् ।
तत्र मां पूजयिष्यन्ति तेभ्यः सर्वं ददाम्यहम् ॥ ५१॥
(Page खं. ५ अ. २२ पान ४७)
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
शेषः स्वगृहमागत्य तथा चक्रे स भावतः ॥ ५२॥
शतयोजनपर्यन्तं क्षेत्रं गणपतेः स्मृतम् ।
पाताले सिद्धिदं सर्वं स्वानन्दं कथ्यतेऽपरम् ॥ ५३॥
तत्र पूजनमात्रेण वाञ्छितं लभते नरः ।
अनुष्ठानविधानेन ब्रह्मभूयं लभेत्तथा ॥ ५४॥
इदं ते कथितं दक्ष मूषकगस्य चेष्टितम् ।
भुक्तिमुक्तिप्रदं पूर्णं श्रवणात् पठनान्नृणाम् ॥ ५५॥
जगत्सु ब्रह्मसु स्थित्वा चौरवद् गणनायकः ।
भुनक्ति भोगकान् सर्वांस्तेनाऽयं मूषकध्वजः ॥ ५६॥
भक्तानां स्मरणेनाऽयं पुण्यपापभवं मलम् ।
हृत्वा ब्रह्ममयांस्तांश्च कुरुते मूषकध्वजः ॥ ५७॥
ज्येष्ठशुक्लचतुर्थ्यां महोत्सवो वै प्रवर्तते ।
जनुस्तिथिर्गणेशस्याङ्गारकी मध्यगे रवौ ॥ ५८॥
स्तेयानां विविधानां स राजवाहोऽयमुच्यते ।
ततो मूषकगो लम्बोदरः प्रोक्तः प्रजापते ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः ॥ ५.२१
५.२२ शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
लम्बोदरावतारो मूषकगोऽयं प्रकीर्तितः ।
स एव शक्तिपुत्रोऽभूत्तच्छृणुष्व प्रजापते ॥ १॥
शक्तिलोकस्थिता देवी निर्ममे सकलं जगत् ।
तद्रक्षणविहारार्थं त्रिधाऽभूत् साऽपि मायया ॥ २॥
महाकाली तथा दक्ष महालक्ष्मीः प्रकीर्तिता ।
महासरस्वती प्रोक्ता भक्तानां भेदनाशनात् ॥ ३॥
ताभ्यो नानाविधा जाता देव्यो दुर्गादिकाः किल ।
देवीभिः सहिता साऽपि तताप तप उत्तमम् ॥ ४॥
एकाक्षरविधानेन दिव्यवर्षसहस्रकम् ।
ततः प्रसन्नभावन विघ्नेशो वरदोऽभवत् ॥ ५॥
स्तुतः सम्पूजितस्ताभिर्वरं चित्तेप्सितं ददौ ।
बहुत्वान्नो कथयितुं भवेच्छक्यं प्रजापते ॥ ६॥
वरस्यैव प्रभावेण स्वस्वकार्यरता बभुः ।
देव्यो लम्बोदरं नित्यं भजन्ते कुलदैवतम् ॥ ७॥
आदिशक्तिर्महामाया शान्त्यर्थं पुनरारभत् ।
तपो दुष्करमत्यन्तं ततः शान्तिमवाप सा ॥ ८॥
तथापि तपसा युक्ता पुपूज गणनायकम् ।
ततो वर्षेषु पूर्णेषु शते हृदि समागतः ॥ ९॥
तं दृष्ट्वा हृदि संस्थं सा तुष्टाव विविधैः स्तवैः ।
ततो बहिर्विनिःसृत्य जगाद जगदम्बिकाम् ॥ १०॥
पुत्रोऽहं ते महाभागे ध्यानजो नाऽत्र संशयः ।
पश्य मां त्वं महामाये स्थितं लम्बोदरं बहिः ॥ ११॥
सा प्रबुद्धा बहिर्लम्बोदरं वीक्ष्य तुतोष ह ।
(Page खं. ५ अ. २३ पान ४८)
अथर्वशिरसा देवी तुष्टवापूज्य साश्रुका ॥ १२॥
तुष्टस्तां गणराजश्च जगाद वृणु वाञ्छितम् ।
दास्यामि भक्तियुक्तायै पुत्रोऽहं पालयस्व माम् ॥ १३॥
शक्तिरुवाच ।
अनेन वपुषा नाथ स्थिरो भव गजानन ।
भक्तिं देहि दृढां वत्स तव पादाम्बुजे पराम् ॥ १४॥
योगिनां ध्यानजं ब्रह्म पुत्रो वेदे प्रकीर्तितः ।
तत्र किं चित्रमेवेदं विनायक कृतं त्वया ॥ १५॥
श्रुत्वा तां गणराजस्तु जगाद वचनं हितम् ।
मन्मूर्तिस्थापनं कृत्वा पूजयस्व निरन्तरम् ॥ १६॥
पुत्रवत्सलतां तत्र कुलदेवत्वमादरात् ।
ब्रह्मभावं तथा देवि कुरु त्वं सर्वदा मयि ॥ १७॥
तत्र पूजोपचाराद्यैः पूजयस्व निरन्तरम् ।
तया त्वं कृतकृत्या च भक्तियुक्ता भविष्यसि ॥ १८॥
एवमुक्त्वांऽतर्दधेऽसौ लम्बोदरः प्रजापते ।
शक्तिस्तथैव कृत्वा तं भजते ब्रह्मनायकम् ॥ १९॥
एवं नानाऽवताराश्च लम्बोदरस्य मानद ।
भक्तानां सर्वसिद्ध्यर्थं भजतां परमाद्भुताः ॥ २०॥
रक्तदन्तादिभिश्चैव देवीभिस्तपसा प्रभुः ।
आराधितो वधार्थाय दैत्यानां गणनायकः ॥ २१॥
देवीभिः संस्तुतो देवः प्रसन्नो वरदोऽभवत् ।
वरस्यैव प्रभावेण हता दैत्या अनेकशः ॥ २२॥
योगनिष्ठा महादेव्योऽभजंस्तं विघ्ननाशनम् ।
कुलदैवतभावेन शान्त्यर्थं च प्रजापते ॥ २३॥
ते सर्वे गणराजा वै स्मृता लम्बोदरात्मकाः ।
ज्ञातव्याः सर्वभावेन ब्रह्मभूतपदप्रदाः ॥ २४॥
इदं लम्बोदरस्यैवावतारस्य कथामृतम् ।
शृणोति पठते वापि स सर्वफलभाग् भवेत् ॥ २५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शक्तिपुत्रचरितं नाम द्वाविंशोऽध्यायः ॥ ५.२२
५.२३ गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अथो शृणु महाभाग गाणपत्यस्वरूपकम् ।
येन त्वं गाणपत्ये वै पदे सुनिपुणो भवेः ॥ १॥
नरो गणेशभक्तिं यो भवेत् कर्तुं समुद्यतः ।
गणेशप्रीतिकामार्थं दीक्षायुक्तो भवेदयम् ॥ २॥
गाणपत्यं सुशान्तिस्थं गुरुं वेदार्थपारगम् ।
नत्वा तं संवदेत् पूर्वं दीक्षां देहि महाप्रभो ॥ ३॥
त्वमेव गणराजोऽसि गाणपत्यपरायणः ।
मां कुरुष्व महाभाग गाणपत्यं सुशीलकम् ॥ ४॥
एवं पृष्टो गुरुः शिष्यं वदेद् दृष्ट्वा सुशीलगम् ।
श्रौतस्मार्तक्रियायुक्तं गणेशभावलालसम् ॥ ५॥
ततस्तं शिक्षयेदादौ धर्मान् गाणेशकान् परान् ।
तांस्तुभ्यं कथयाम्येव शृणु सर्वसुखप्रदान् ॥ ६॥
(Page खं. ५ अ. २३ पान ४९)
परान्नं भक्षयेन्नैवालोकयेन्न रजस्वलाम् ।
परस्त्रीगमनं क्वापि न कुर्यान् मनसाऽपि सः ॥ ७॥
स्वार्थाय क्रोधसंयुक्तो न भवेल्लोभसंयुतः ।
अभक्ष्यभक्षणं नैव कुर्यात् हिंसां कदापि न ॥ ८॥
गुरुद्रोहं च पैशून्यं ज्येष्ठानामपमानकम् ।
वेदशास्त्रादिमार्गेभ्यो हीनं नैव समाचरेत् ॥ ९॥
इहामुत्र विरक्तः स भवेद्ब्रह्मपरायणः ।
इत्यादिविविधान् धर्मानुपदिश्य मनुं दिशेत् ॥ १०॥
आदौ कृच्छ्रादिकं तस्मै दापयेच्च ततः परम् ।
गाणपत्यान् समाज्ञाप्य सुदिनं त्ववलोकयेत् ॥ ११॥
अथवा गणराजस्योत्सवदां तिथिमादरात् ।
चतुर्थीं शुक्लपक्षस्थां वा कृष्णामवलोकयेत् ॥ १२॥
गणेशप्रियकालं वा समालोक्य सुसिद्धिदः ।
गुरुः शिष्याय मन्त्रं वै दद्याद्भक्त्यर्थमादरात् ॥ १३॥
शृणु तत्र विधिं दक्ष कथयामि सुखप्रदम् ।
शुचौ मण्डपिकां कृत्वा गोमयेनाऽवलेपयेत् ॥ १४॥
मृन्मयां तु स्वयं तत्र वेदिं कुर्याद्विचक्षणः ।
चतुरस्रां च तन्मध्ये दिक्षु संस्थापयेद् घटान् ॥ १५॥
आदौ गणेशयन्त्रं स्वं कुङ्कुमेनात्र कारयेत् ।
स्वेष्टमष्टगणेशानान् पूजयेद् विधिपूर्वकम् ॥ १६॥
दीक्षायुक्तांश्च गाणेशान् पूजयेत् स ततः परम् ।
तेभ्यो भूषणवस्त्रादीन् दापयेच्छाठ्यवर्जितः ॥ १७॥
गाणेशेनैव मन्त्रेण स जपं कारयेत्तु तैः ।
पुरश्चरणसङ्ख्याकमथवा लक्षमादरात् ॥ १८॥
अथवा दशसाहस्रमथवा च सहस्रकम् ।
तद्दशांशेन होमं वै कुर्यात्तत्र महामतिः ॥ १९॥
ततो बलिप्रदानं वै कुर्यात् पूर्णाहुतिं ततः ।
पुनः सम्पूज्य विघ्नेशं स प्रणम्य ततो गुरुम् ॥ २०॥
प्रार्थयेत् सर्वभावेन शिष्यं मां तारय प्रभो ।
मन्त्रं देहि महाभाग गाणपत्यं विशेषतः ॥ २१॥
पुनर्गुरुं समभ्यर्च्य ततः सकलशं पुनः ।
स्थापयेत् स्वेष्टदेवाढ्यं गाणेशेनैव मन्त्रतः ॥ २२॥
तत्र विघ्नेश्वरं ध्यात्वा पूजयेत् स्वल्पमार्गतः ।
ततो वस्त्रं समाच्छाद्य मस्तके गुरुसंयुतः ॥ २३॥
प्रणम्य स्वगुरुं तत्र प्रार्थयेद्वद मन्त्रकम् ।
संसारतारणार्थाय देहि मन्त्रं द्विजोत्तम ॥ २४॥
एवं गुरुर्महर्षिश्च प्रार्थितस्तं सुशिक्ष्य वै ।
गणेशं मनसा ध्यात्वा मन्त्रं शिष्याय दापयेत् ॥ २५॥
ततस्तान् कलशान् गृह्य पूर्वदिक्क्रमतश्च तैः ।
अष्टोत्तरशतं मन्त्रं जपंस्तं स्नापयेद्गरुः ॥ २६॥
एकैकसिद्धिदः प्रोक्तः कलशः स्नानमात्रतः ।
ब्रह्मभूयकरः प्रोक्तो मध्यमः सर्वसिद्धिदः ॥ २७॥
स्नातं शिष्यं समादाय गणेशं प्रणिपत्य च ।
शिष्येण पूजयेद्देवं ततस्तं स विसर्जयेत् ॥ २८॥
प्रणमेद् गाणपत्यांस्तांस्ततो दद्याच्च दक्षिणाम् ।
पुष्कलां शाठ्यहीनः स भोजयेत्तान् महायशाः ॥ २९॥
मोदकापूपलड्डूकपायसान्नैर्महामते ।
सूक्ष्मतन्दुलसंयुक्तैर्नानापक्वान्नमिश्रितैः ॥ ३०॥
यथेष्टं भोजयित्वा वै प्रणमेत् स पुनः पुनः ।
प्रार्थयेत्तान् विशेषेण तारितोऽहं भवार्णवात् ॥ ३१॥
सम्भारं गुरवे दद्याद्गुरुवंशं नमेत् सदा ।
(Page खं. ५ अ. २४ पान ५०)
गाणपत्यान् प्रदृश्यैवोत्थाय तांश्च नमेन्नरः ॥ ३२॥
गाणपत्यान् समालोक्य न नमेद्यः प्रजापते ।
तेन विघ्नेश्वरः साक्षाद्धिंसितो नाऽत्र संशयः ॥ ३३॥
एवं दीक्षां समागृह्य गणेशं पूजयेत् सदा ।
तत्समीपे तु मन्त्रस्य पुरश्चरणकं चरेत् ॥ ३४॥
अथ धर्मान् प्रवक्ष्यामि शृणु तान् सुसमाहितः ।
दन्तकाष्ठमभुक्त्वा तु न गच्छेद्गणपालयम् ॥ ३५॥
मैथुनं यदि कृत्वा देवालयं च गमिष्यति ।
स सद्यो भ्रंशमागच्छेदतः स्नात्वा च तं व्रजेत् ॥ ३६॥
अशुद्धवस्त्रसंयुक्तो विघ्नराजं न संस्पृशेत् ।
परवस्त्रधरो भूत्वा पूजयेन्न गणाधिपम् ॥ ३७॥
छिद्रयुक्तं न वस्त्रं स धारयेद्देवपूजने ।
मौनेन पूजयेद्देवं यथाविधि गणेश्वरम् ॥ ३८॥
गणेशपूजने सक्तो यदि वाचं वदेन्नरः ।
पूजान्तरायदोषेण विघ्नयुक्तो भवेन्नरः ॥ ३९॥
अभ्यङ्गसंयुतो यस्तु स्नानहीनो यदा भवेत् ।
देवालयं समागच्छेत्तदा भ्रंशमवाप्नुयात् ॥ ४०॥
उपानत्स्पर्शसंयुक्तः पादक्षालनवर्जितः ।
गणेशानालयं गच्छेद्विघ्नयुक्तो भवेन्नरः ॥ ४१॥
गन्धादिचर्चितो भूत्वा यो नार्च्य गणनायकम् ।
देवालयं गतो दैवाल्लभेद् भ्रंशं स मानवः ॥ ४२॥
अजीर्णदोषसंयुक्तो यस्तिष्ठेद्देवसन्निधौ ।
उद्गाराधः समीरेण विघ्नयुक्तो भवेत्तु सः ॥ ४३॥
भेरीशब्दमनावाद्य गणेशालयगो भवेत् ।
स भ्रंशं च लभेद्दक्ष देवगुह्यप्रभञ्जनात् ॥ ४४॥
देवालयं समागत्याऽनृतवाचं वदेन्नरः ।
अथवा देवस्तुत्यादिहीनां स भ्रंशितामियात् ॥ ४५॥
नित्यं तत्र प्रजानाथ संयतो देवसन्निधौ ।
मर्यादां पालयंस्तिष्ठेत् स ईप्सितफलं लभेत् ॥ ४६॥
यथाशास्त्रं विचारेण गणेशं सर्वसिद्धिदम् ।
यो भजेत् गाणपत्यस्तं स गणेशो भवेन्नरः ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते गाणपत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः ॥ ५.२३
५.२४ गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
यदि क्षत्रियवंशस्थो दीक्षामिच्छति शाश्वतीम् ।
गाणेशीं शृणु वक्ष्यामि विधिं तस्य प्रजापते ॥ १॥
ब्राह्मणस्यैव हस्तेन कारयेदेतदादरात् ।
मन्त्रमात्रं जपेत् सोऽपि न होमादि स्वहस्ततः ॥ २॥
शस्त्रविद्यां परित्यज्य दण्डादिकमशेषतः ।
गाणपत्यो भवेत् सोऽपि क्षत्रियो नात्र संशयः ॥ ३॥
वैश्यः स्ववृत्तिजं कर्म क्रयविक्रयकं परम् ।
त्यजेत्ततो गणेशस्य दीक्षायां योग्यतामियात् ॥ ४॥
शूद्राणां नाममन्त्रश्च वक्तव्यो ब्राह्मणैः सदा ।
हिंसादिकमथो त्यक्त्वा शूद्रो दीक्षां लभेत् पराम् ॥ ५॥
(Page खं. ५ अ. २४ पान ५१)
नाममन्त्रेण सर्वं वै कुर्यात् शूद्रः स्वयं विधिम् ।
गणेश्वरस्य पूजादि न श्लोकादि समुच्चरेत् ॥ ६॥
न होमादिभवं कर्म प्रायश्चित्तं चरेत्तथा ।
गाणपत्यो भवेच्छूद्रो दीक्षायुक्तो महायशाः ॥ ७॥
गणेशदीक्षया युक्तो भवेद् विपथगो यदि ।
स एव विघ्नसंयुक्तो भविष्यति प्रकोपतः ॥ ८॥
अथ दीक्षितजन्तूनां चिह्नानि ते वदाम्यहम् ।
तैर्युक्तान् गाणपत्यान् वै परान् जानाति मानवः ॥ ९॥
प्रातः स्नानादिकं कृत्वा सन्ध्यां शाखोक्तमार्गतः ।
आगमोक्तां च वेदोक्तां पूजां कृत्वा समापयेत् ॥ १०॥
अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् ।
सर्वाङ्गलेपनेनैव तत्र मन्त्रान् शृणु प्रभो ॥ ११॥
गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् ।
स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२॥
ललाटं गणनाथाय नम उच्चार्य चार्चयेत् ।
दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३॥
वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः ।
अर्चयेच्च ततः कण्ठं विघ्नेशाय ततः पठन् ॥ १४॥
बाहुं दक्षिणगं तद्वद् हेरम्बाय नमोऽर्चयेत् ।
वामं समर्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥ १५॥
हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे ।
उदरं नाभिसंस्थानं नमो लम्बोदराय ते ॥ १६॥
दक्षिणं चैव कुक्षिं स वक्रतुण्डाय वै नमः ।
वामं तु चिन्तामणये ह्यर्चयेन्नात्र संशयः ॥ १७॥
पृष्ठदेशं नाभिसममर्चयेत् ढुण्ढये नमः ।
एते द्वादश मन्त्राश्च कथितास्ते प्रजापते ॥ १८॥
ललाटं चार्चयेत् सुज्ञः सर्वभद्रविधानतः ।
अङ्गानि स तथा दक्ष नाभेरूर्ध्वं समर्चयेत् ॥ १९॥
सर्वाङ्गलेपनं शस्तं गाणेशानां विशेषतः ।
रक्तचन्दनसंयुक्तो गन्धस्तेषां मतः सदा ॥ २०॥
मालां शमीभवां वाऽपि प्रभो मन्दारवृक्षजाम् ।
प्रशस्तां स्वगले बाहौ सर्वसिद्धिप्रदायिनीम् ॥ २१॥
धारयेन्नात्र सन्देहो देवकाष्ठप्रमाणतः ।
अन्यकाष्ठभवां मालां धारयेन्न कदाचन ॥ २२॥
वैष्णवानां यथा दक्ष तुलसीकाष्ठसम्भवा ।
तथा वै गाणपत्यानां शमीमन्दारसम्भवा ॥ २३॥
तदभावे प्रजानाथ विद्रुमजां तु धारयेत् ।
अथवाऽक्षमयीं मालां धारयेन् मन्दमार्गतः ॥ २४॥
सदा शुचिस्वभावस्थो मित्रशत्रुत्ववर्जितः ।
द्वन्द्वभावविनिर्मुक्तो गाणपत्यश्चरेन् महीम् ॥ २५॥
शुक्लकृष्णचतुर्थीजं व्रतं नित्यं समाचरेत् ।
गाणपत्यानि सर्वाणि व्रतानि श्रद्धयान्वितः ॥ २६॥
अन्यदेवप्रियं दक्ष व्रतं तीर्थं चरेत्तथा ।
शक्तियुक्तो भवेत् सोऽपि तदा सर्वं प्रतिष्ठितम् ॥ २७॥
क्षेत्राणि गाणपत्यानि चरेन्नियमसंयुतः ।
अन्यानि शक्तियुक्तश्चेत् निश्चितं मुनिभिः पुरा ॥ २८॥
यथा गणेश्वरो देवः सर्वेषामादिपूज्यकः ।
अन्यदेवस्य भक्तानां तथा तस्य व्रतादिकम् ॥ २९॥
गाणेशानां यथा दक्ष एक एव गणेश्वरः ।
आवश्यकेन तद्वद्व्रतादिकं च समाचरेत् ॥ ३०॥
सदा गणेशनाम्नश्च कीर्तनं तत्र वर्तते ।
(Page खं. ५ अ. २४ पान ५२)
कथा नानाविधा रम्याः कथयन्ति परस्परम् ॥ ३१॥
चरित्राणि गणेशस्य गायेयुर्हर्षसंयुताः ।
पात्रीभूतान् जनान् दृष्ट्वा बोधयन्ति सुसिद्धये ॥ ३२॥
अत्र ते कथयिष्यामि संवादं नारदेन्द्रजम् ।
एकदा नारदो योगी भ्रमन्निन्द्रं समाययौ ॥ ३३॥
इन्द्रेण पूजितः सोऽपि गाणेशं गानमाकरोत् ।
तं प्रणम्य महेन्द्रश्च जगाद वाक्यमुत्तमम् ॥ ३४॥
इन्द्र उवाच ।
वद ब्रह्मन् महाभाग चिह्नानि गणपात्मनाम् ।
कैश्चिह्नैः संयुता नित्यं गाणपत्याश्चरन्ति हि ॥ ३५॥
नारद उवाच ।
सर्वाङ्गे चन्दनालेपो रक्तचन्दनसंयुतः ।
शमीमन्दारमाला च तेषां हस्ते गले भवेत् ॥ ३६॥
सदा गणेशनाम्नश्च श्रवणे तत्पराः स्मृताः ।
कीर्तने भावसंयुक्ताः गाणपत्या इमे बुधाः ॥ ३७॥
द्वन्द्वस्य भावो हृदि नोभवेत् कदा ये निःस्पृहा योगधराः सुनिर्मलाः ।
गाणेश्वरा वन्दनशीलकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ३८॥
नित्यं स्वधर्मेण च संयुतास्तथा न मानयन्ति ह्यपवर्गकं कदा ।
भक्तौ निमग्ना गणराजवर्त्मनि तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ३९॥
न स्थानगेहादिकमाश्रयन्ति ये प्रारब्धमात्रेत्यवलम्बिनोऽपरे ।
चिन्तामणौ चित्तनिवेशकाः सदा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४०॥
श्रौते तथा स्मार्तभवे सुकर्मणि संसक्तदेहा गणराजसिद्धये ।
सर्वाणि कर्माणि समर्प्य नैज्यपे तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४१॥
निन्दां स्तुतिं वीक्ष्य विकारवर्जिताः कान्तासुवर्णादिषु भावहीनकाः ।
प्राटन्ति विघ्नेश्वरभक्तिलालसा तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४२॥
आच्छादिता ये न च केन भावितास्तिरस्कृता देववरिष्ठभोजिनः ।
जीवैर्हता दोषविहीनचेतसस्तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४३॥
नेच्छन्ति कैलासविकुण्ठकादिकं न ब्रह्मभूयं न रसां रसातलम् ।
भक्तिं सदेच्छन्ति गणेशभाविकान् तान् गाणपत्यान् प्रवदन्ति योगिनः ॥ ४४॥
मुद्गल उवाच ।
एवमुक्त्वा महेन्द्रं स नारदः स्वेच्छया मुनिः ।
ययौ विघ्नेश्वरं गायन् यत्र तत्र प्रजापते ॥ ४५॥
एतत्ते गाणपत्यानां स्वरूपं कथितं मया ।
श्रवणात् पापसम्भूतमज्ञानं नाशमाव्रजेत् ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते गाणपत्यस्वरूपवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ ५.२४
(Page खं. ५ अ. २५ पान ५३)
५.२५ शमीमन्दारवरप्रदानं नाम पञ्चविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
शमीमन्दारमाहात्म्यं वद मे करुणानिधे ।
कथं विघ्नेश्वरस्यैव प्रियौ तौ सम्बभूवतुः ॥ १॥
मुद्गल उवाच ।
और्वो नामाऽभवद्विप्रः श्रौतस्मार्तक्रियापरः ।
स्वधर्मरतया पत्न्या ब्रह्मनिष्ठो महायशाः ॥ २॥
तयोः कालेन सञ्जाता पुत्री तेजस्विनी प्रभो ।
तस्या नाम द्विजौ तौ तु शमीकेति प्रचक्रतुः ॥ ३॥
सा कन्या रूपसंयुक्ता गुणयुक्ता प्रजापते ।
सप्तवर्षवयः संस्था बभूव जनकप्रिया ॥ ४॥
तदर्थं ब्राह्मणः सोऽपि वरमिच्छन् समाययौ ।
शौनकस्याश्रमं तत्र ददर्श मुनिसत्तमम् ॥ ५॥
पूजितः शौनकेनैव मन्दारं शिष्यमुत्तमम् ।
शौनकस्य ददर्शाऽसौ विद्याढ्यं धौम्यनन्दनम् ॥ ६॥
सुशीलं गुरुसेवायां निरतं धर्मलालसम् ।
हर्षयुक्तोऽभवत्तत्र मेने जामातरं हृदि ॥ ७॥
विचार्य शौनकेनैव स्वगृहं प्रत्यपद्यत ।
सुदिने तं समानाय्य ददौ कन्यां महात्मने ॥ ८॥
तेन युक्ता शमी तत्र शुशुभे रूपसंयुता ।
रत्नकाञ्चनयोर्योगस्तथा जातः प्रजापते ॥ ९॥
पुनर्गते कियत्काले यौवनस्थां विभाव्य ताम् ।
शमीकां स समानेतुं मन्दारः प्रययौ स्वयम् ॥ १०॥
तं प्रपूज्य ददौ कन्यामौर्वो हर्षसमन्वितः ।
मन्दारः श्वशुरं नत्वा मार्गसंस्थो बभूव ह ॥ ११॥
कदा भृशुण्डिनामा यो गाणेशश्च महायशाः ।
विश्रान्तिमाश्रमे तस्य चक्रतुर्दम्पती परे ॥ १२॥
स्वकाश्रमविहारार्थं भृशुण्डी सङ्गतोऽभवत् ।
तं दृष्ट्वा शुण्डया युक्तं जहसतुश्च मूर्खवत् ॥ १३॥
शुण्डाया अपमानेन पापं प्राप्तं महाद्भुतम् ।
तेन सम्प्रेरितो योगी चुकोप रक्तलोचनः ॥ १४॥
उवाच तौ महायोगी भृशुण्डी च द्विजाधमौ ।
दृष्ट्वा जहसथुः शुण्डां पादपौ भवतं रुषा ॥ १५॥
शुण्डाया अपमानं यः करिष्यति नराधमः ।
स मे शत्रुर्न सन्देहो गजास्यस्यापमानतः ॥ १६॥
तौ तं भृशुण्डिनं विप्रौ प्रणेमतुः सुदुःखितौ ।
अज्ञानेन कृतं हास्यं क्षन्तुमर्हसि योगिप ॥ १७॥
उच्छापं वद विप्रेश दासौ ते नात्र संशयः ।
अत्यन्तं गणराजस्य प्रियौ कुरु च मानद ॥ १८॥
ततोऽतिकरुणाविष्टो जगाद मुनिसत्तमः ।
शुण्डाया अपमानेन मया शप्तौ न संशयः ॥ १९॥
अतः शुण्डाधरो देवः प्रसन्नश्च भविष्यति ।
तदा सर्वं शुभं पूर्णं युवयोर्वाञ्छितं भवेत् ॥ २०॥
ममाधीनं न किञ्चिद्वै शापदाता गजाननः ।
क्रोधहीनस्य मे क्रोधः प्रेरितस्य समाययौ ॥ २१॥
एवमुक्त्वा महायोगी स्वासनस्थो बभूव ह ।
तौ सद्यो वृक्षयोनिस्थौ बभूवतुः प्रजापते ॥ २२॥
अथ मासे गते विप्रः शौनकश्चिन्तयान्वितः ।
शिष्यान् गृह्य ययौ विप्रमौर्वं दुःखान् महामुनिः ॥ २३॥
तं पप्रच्छ शनैः सोऽपि मन्दारः कुत्र वर्तते ।
शमीकाया आनयने प्रेषितोऽयं मया सुतः ॥ २४॥
ततस्तं शोकसंयुक्तमौर्वो जगाद विस्मितः ।
दत्वा कन्यां मया सद्यः प्रेषितश्च त्वदन्तिके ॥ २५॥
(Page खं. ५ अ. २५ पान ५४)
श्रुत्वैवं शोकसंयुक्ता और्वशौनकमुख्यकाः ।
तयोः शोधनकामास्ते निसस्रुस्त्वरितास्ततः ॥ २६॥
तत्र मार्गे जनान् सर्वान् ग्रामस्थान् वनसंस्थितान् ।
पप्रच्छुस्ते समूचुस्तान् मासमात्राद् गतौ किल ॥ २७॥
एवं विचार्य ते याता भृशुण्ड्याश्रममुत्तमम् ।
तत्र विश्रान्तिकृत् स्थाने जनानां ददृशुस्तरू ॥ २८॥
अनुपेतौ ततो ज्ञात्वा शौनको ध्यानमाश्रितः ।
ज्ञात्वा भृशुण्डिना शप्तौ वृत्तान्तं तानवेदयत् ॥ २९॥
ततः सर्वान् महायोगी विसृज्य तपसि स्थितौ ।
शौनकौर्वौ महादुःखाद् गणेशाराधने रतौ ॥ ३०॥
अवायुभक्षभावेन ध्यानेन गणनायकम् ।
तोषयामासतुः प्रीत्या तयोरघविमुक्तये ॥ ३१॥
एवं द्वादशवर्षेषु गतेषु द्विरदाननः ।
आययौ तौ वरं दातुं भृशं तत् क्लेशतापितः ॥ ३२॥
दृष्ट्वा विघ्नेश्वरं तौ तु प्रणम्यापूज्य हर्षतः ।
गणाध्यक्षं तुष्टुवतुः प्रणम्य करसम्पुटैः ॥ ३३॥
शौनकौर्वौ ऊचतुः ।
नमस्ते गजवक्त्राय विघ्नेशाय परात्मने ।
अपाराय महेशाय हेरम्बाय नमो नमः ॥ ३४॥
संसारार्णवताराय मायामोहहराय ते ।
ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥ ३५॥
ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये ।
आदिपूज्याय देवाय चान्तःस्थाय नमो नमः ॥ ३६॥
अनादये च सर्वेषां मात्रे पित्रे परात्मने ।
स्वानन्दवासिने तुभ्यं गणेशाय नमो नमः ॥ ३७॥
शूर्पकर्णाय शूराय लम्बोदराय ढुण्ढये ।
विघ्नकर्त्रे ह्यभक्तानां भक्तानां विघ्नहारिणे ॥ ३८॥
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय च ।
योगेशाय सुशान्ताय शान्तिदाय नमो नमः ॥ ३९॥
गुणान्तं न ययुर्यस्य शिवविष्ण्वादयोऽमराः ।
योगिनः सगुणस्यापि निर्गुणस्याऽत्र का कथा ॥ ४०॥
नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन ।
धौम्यपुत्रं च मन्दारं शिष्यं मे तारयाऽधुना ॥ ४१॥
तारयस्व शमीमौर्वकन्यां तां नाथ विघ्नप ।
वृक्षयोनिगतौ तौ तु मानुषौ कुरु तादृशौ ॥ ४२॥
भक्तिं ते देहि हेरम्ब यया भ्रान्तिर्विनश्यति ।
दासौ ते पादपद्मस्य वाञ्छितं कुरु सर्वदा ॥ ४३॥
तयोर्वचनमाकर्ण्य जगाद गणनायकः ।
तौ भक्तौ तपसा युक्तौ भक्तिबद्धस्वभावतः ॥ ४४॥
श्रीगजानन उवाच ।
भृशुण्डिना च विप्रर्षी शप्तौ तौ दम्पती पुरा ।
ज्ञात्वा मदीयतुण्डस्यापमानान्नात्र संशयः ॥ ४५॥
भृशुण्डिनोऽतिभक्तस्य मम मिथ्यावचः कदा ।
न करोमि महाभागौ देहादधिक एव सः ॥ ४६॥
भृशुण्डिनोऽपमानश्च क्रियते विविधैर्जनैः ।
न तत्र कोपसंयुक्तो भवते मुनिसत्तमः ॥ ४७॥
मदीयमपमानं स सहते न कदाचन ।
अतोऽहं तस्य वाक्यं वै न करोमि निरर्थकम् ॥ ४८॥
भवद्भ्यां तपसा बद्धः करिष्यामि हितावहम् ।
शृणुतं मे वचो रम्यं वरं दास्यामि मुख्यकम् ॥ ४९॥
मन्दारस्य च शम्याश्च मूले स्थास्यामि निश्चलः ।
मद्रूपौ वृक्षजातीनां सर्ववन्द्यौ भविष्यतः ॥ ५०॥
(Page खं. ५ अ. २५ पान ५५)
देवास्तौ प्रणमस्यन्ति किं पुनर्जन्तवो मताः ।
दर्शनात् स्पर्शनाच्चैव पापघ्नौ तौ भविष्यतः ॥ ५१॥
मत्प्रियौ सर्वभावेन देवानां प्रियरूपिणौ ।
भविष्यतो विशेषेण वृक्षराजौ महामुनी ॥ ५२॥
शमीपत्रेण मां विप्रा पूजयिष्यन्ति मानवाः ।
तेषां वाञ्छां सदाऽहं वै पूरयिष्यामि शाश्वतीम् ॥ ५३॥
मन्दारपुष्पमेकं समर्पयिष्यति मे नरः ।
तेन हृष्टो भविष्यामि फलं दास्यामि वाञ्छितम् ॥ ५४॥
कृता नानाविधा पूजा मदीया मानवेन च ।
दूर्वाहीना वृथा सर्वा भवत्यत्र न संशयः ॥ ५५॥
अद्य प्रभृति विप्रेशौ शमीपत्रेण संयुता ।
मन्दारकुसुमेनैव सफला सा भविष्यति ॥ ५६॥
शमीपत्रं नरेणैव भवेन् मयि समर्पितम् ।
न तु ऋतुशतेनैव तुल्यं तेभ्योऽधिकं मतम् ॥ ५७॥
शमीपत्रेण सन्तुष्टो भविष्यामि निरन्तरम् ।
मन्दारपुष्पकेणैव को वदेत्तु तयोः फलम् ॥ ५८॥
नित्यं शमीं नमेद्यस्तु पूजयेद्वा तु संस्पृशेत् ।
स सप्तकुलसंयुक्तः स्वानन्दं मे गमिष्यति ॥ ५९॥
तथा मन्दारवृक्षं यो नमेत् सम्पूजयेन्नरः ।
संस्पृशेत् सोऽपि स्वानन्दं व्रजेत् सप्तकुलैर्युतः ॥ ६०॥
प्रदक्षिणां प्रकुर्वीत शमीमन्दारवृक्षयोः ।
सप्तद्वीपवती पृथ्व्याः कृता तेन प्रदक्षिणा ॥ ६१॥
यदि भावेन वृक्षस्य प्रदक्षिणा कृता भवेत् ।
शतभूमिप्रदाक्षिण्यसमं पुण्यं लभेन्नरः ॥ ६२॥
बहुनाऽत्र किमुक्तेन मद्रूपौ वृक्षजातिषु ।
तयोश्च महिमानं को भवेद्वर्णयितुं क्षमः ॥ ६३॥
वृक्षबुद्ध्या शमीं यो वै मन्दारं यदि पश्यति ।
स नारकी नरो विप्रौ भविष्यति न संशयः ॥ ६४॥
शमीं मन्दारकं वीक्ष्य न नमेद्यो नराधमः ।
दक्षिणं कुरुते नैव नष्टपुण्यो भवेत्तदा ॥ ६५॥
शमीं यश्छेदयेद्वापि मन्दारं मुनिसत्तमौ ।
नरकेषु महापापी पतिष्यति न संशयः ॥ ६६॥
शाखां पत्रं तु यः पापी छेदयिष्यति मानवः ।
नारकी स भवेन्नूनं दर्शनात् पापदो भवेत् ॥ ६७॥
शमीं यो निन्दयेद्वा यो मन्दारं वृक्षसत्तमम् ।
सर्वभाग्यविहीनः स नारकी जायते ततः ॥ ६८॥
मद्रूपेणैव मन्दारं शमीं यस्तु प्रपश्यति ।
स भुक्त्वा विविधान् भोगानन्ते स्वानन्दगो भवेत् ॥ ६९॥
मन्दारमूलमादाय मूर्तिं कृत्वा मदीयिकाम् ।
पूजयिष्यन्ति मद्भक्तास्तेषां साध्योऽहमञ्जसा ॥ ७०॥
मन्दारमूलजा मूर्तिः सद्यः सिद्धिप्रदायिका ।
तद्वन्नैवान्यसम्भूता मम मूर्तिर्भविष्यति ॥ ७१॥
मन्दारमूर्तिगं पूजेत् शमीपत्रेण भावतः ।
दूर्वामन्दारपुष्पैश्च त्रयं सुदुर्लभं मतम् ॥ ७२॥
शमी मन्दारदूर्वाश्च त्रयमेकत्र कारितम् ।
भक्तेन स तु मत्तुल्यो पूजायां मे भविष्यति ॥ ७३॥
शमीमन्दारजां मालां कृत्वा जपं समाचरेत् ।
अनन्तफलभोक्ताऽसौ भविष्यति न संशयः ॥ ७४॥
शमीमन्दारजां मालां दधानः पुरुषो भवेत् ।
तस्य देहं समालोक्य विघ्ना नश्यन्ति पापकाः ॥ ७५॥
अन्ते शमीभवं पत्रं मन्दारकुसुमं तथा ।
(Page खं. ५ अ. २६ पान ५६)
दूर्वापत्रं धृतं येन धरिष्यति यमो न तम् ॥ ७६॥
शमीमन्दारसामीप्ये पूजयेन् मां च मानवः ।
तेनाप्यसङ्ख्यका पूजा कृता मे नाऽत्र संशयः ॥ ७७॥
एवमुक्त्वा पुनस्तौ स जगाद गणनायकः ।
मद्भक्तिं यदि विप्रेशाविच्छथो भावसंयुतौ ॥ ७८॥
तदा मन्दारवृक्षस्य मूलजां मूर्तिमादरात् ।
कृत्वा पूजां प्रकुर्वाथां यथा विधिसमन्वितौ ॥ ७९॥
शमीमन्दारदूर्वाभिः सन्तुष्टोऽहं भवामि तु ।
नान्यथा पूर्णभावेन मम तुष्टिकरं भवेत् ॥ ८०॥
तुलसीवर्जितां पूजां मदीयां कुरुतं सदा ।
शमीमन्दारमालाभिर्जपं मे कुरुतं सदा ॥ ८१॥
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ।
विप्रौ बभूवतुर्हर्षसमायुक्तौ विशेषतः ॥ ८२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारवरप्रदानं नाम पञ्चविंशतितमोऽध्यायः ॥ ५.२५
५.२६ शमीमन्दारस्पर्शमहिमावर्णनं नाम षड्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो धौम्यं समागम्य शौनको हर्षसंयुतः ।
कथयामास वृत्तान्तं सोऽपि संहर्षितोऽभवत् ॥ १॥
धन्यो मे वृक्षगः पुत्रः सर्वसिद्धिप्रदायकः ।
साक्षाद्गणेशरूपश्च सर्वेषां वन्द्य आदरात् ॥ २॥
शमीसमीपगो हर्षसंयुक्तस्तत और्वकः ।
तताप तप उग्रं स शमीसंयोगकारणात् ॥ ३॥
स एव मरणे तत्र शमीगर्भस्थितो ह्यभूत् ।
अग्निरौर्वाभिधानश्च गाणपत्यो महायशाः ॥ ४॥
कल्पान्ते गणनाथं स ययौ योगसमन्वितः ।
शौनकश्च तथा ढुण्ढिमभजत् स्नेहसंयुतः ॥ ५॥
मन्दारमूलजां मूर्तिं कृत्वा पूजापरायणः ।
शमीमन्दारदूर्वाभिस्तोषयामास विघ्नपम् ॥ ६॥
शमीमन्दारमालाभिः शुशुभे ब्राह्मणोत्तमः ।
गाणपत्यस्वरूपेण तथा धौम्यो बभूव ह ॥ ७॥
भृशुण्डी तद्भवं वृत्तं श्रुत्वा हर्षसमन्वितः ।
आगत्य स्वाश्रमे संस्थौ ननाम वृक्षसत्तमौ ॥ ८॥
नित्यं पुपूज च शमीं मन्दारं भक्तिसंयुतः ।
शमीमन्दारदूर्वाभिः पूजयामास विघ्नपम् ॥ ९॥
शमीमन्दारमालाभिर्भूषितो मुनिसत्तमः ।
शुशुभे गाणपत्येषु गणराज इवापरः ॥ १०॥
एवं ये ये स्थिता दक्ष गाणपत्या विशेषतः ।
ते ते सर्वे शमीमन्दारपूजासंयुता बभुः ॥ ११॥
एतत्ते कथितं सर्वं शमीमन्दारसम्भवम् ।
माहात्म्यं पुनरन्यत्त्वं शृणु पापहरं परम् ॥ १२॥
द्राविडे शूद्रयोनिस्थो बभूवे पापकारकः ।
वनं गत्वा जनान् हत्वा द्रव्यलोभी दुरात्मवान् ॥ १३॥
एकदा वनमध्यस्थोऽभवत् व्याघ्रेण धर्षितः ।
पपात भयभीतश्च सद्यस्तेन प्रभक्षितः ॥ १४॥
तत्र वायुबलेनैव शमीपत्रं समाययौ ।
(Page खं. ५ अ. २६ पान ५७)
तस्य स्पर्शोऽभवत्तस्य दैवयोगात् प्रजापते ॥ १५॥
तं नेतुं यमदूताश्च समाजग्मुर्महाबलाः ।
गाणेशास्तत्र संयाताः समकाले नराधमम् ॥ १६॥
यमदूतांस्तिरस्कृत्य गाणेशास्तं प्रगृह्य वै ।
गन्तुं समुद्यता यावत्तावत्ते तान् प्रदुद्रुवुः ॥ १७॥
मुसलेन हताः पेतुर्यमदूता महीतले ।
गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥ १८॥
यमदूता यमं गत्वा शोकदुःखसमन्विताः ।
वृत्तान्तं कथयामासुः क्रोधेन परिपूरिताः ॥ १९॥
यामा ऊचुः ।
स्वामिन् शास्त्रकराः केचिद्बभूवुर्भूमिमण्डले ।
त्वदाज्ञावशगं सर्वं वर्तते कुत्र तद् गतम् ॥ २०॥
त्वं साक्षाद्धर्मराजश्च यथा वेदार्थवान् प्रभुः ।
वर्तसे तेन सर्वं वै त्वदाज्ञावशगं मतम् ॥ २१॥
शम्भुविष्णुमुखा देवा धर्माधारा भवन्ति वै ।
धर्मयुक्तस्वभावेन वर्तेरन्नात्र संशयः ॥ २२॥
महापापी विशालाक्षो नाम शूद्रो ममार ह ।
तं गृहीतुं वयं तत्र गताः पाशधराः प्रभो ॥ २३॥
अकस्मात्तत्र संयाता पुरुषाः परमाद्भुताः ।
शुण्डादण्डधराः सर्वे चतुर्बाहुविराजिताः ॥ २४॥
अस्मांस्ते तु तिरस्कृत्य तं शूद्रं गृह्य सूर्यज ।
गन्तुं समुद्यता यावत्तावद्योद्धुं वयं स्थिताः ॥ २५॥
निपात्य नो महावीर्या मुसलेन प्रगृह्य तम् ।
गताः कुत्र न जानीमोऽधुना सर्वे महामते ॥ २६॥
अतस्तं यत्नसंयुक्तो मदं तेषां हरस्व च ।
एवमुक्त्वा प्रणम्यैनं स्थिताः प्राञ्जलयोऽभवन् ॥ २७॥
मुद्गल उवाच ।
तेषां तद्वचनं श्रुत्वा ध्यानस्थोऽभून् महामतिः ।
यमः सर्वं विदित्वा तु भयं दध्रे महायशाः ॥ २८॥
ध्यात्वा गजाननं देवं हृष्टरोमा च साश्रुकः ।
हृदि प्रणम्य विघ्नेशमुवाच भयसङ्कुलः ॥ २९॥
मदीयकिङ्करैः स्वामिन्नपराधः कृतो महान् ।
तं क्षमस्व दयासिन्धो प्रभो ह्यज्ञानसंयुतैः ॥ ३०॥
गाणपत्यैर्महाभागैर्विवादो नैव शोभनः ।
स एव तु मया प्राप्तो भाग्यहीनबलेन च ॥ ३१॥
एवं क्षमाप्य विघ्नेशं स्थितं मनसि किङ्करान् ।
आकार्य भानुजः सर्वान् जगाद वचनं हितम् ॥ ३२॥
यम उवाच ।
मन्दारमालाशमिकाष्ठजा च यस्यैव देहे भवति प्रमाणम् ।
पुष्पं तयोः पत्रयुतं च शूराः सन्त्यज्य दूरं चरत प्रभीताः ॥ ३३॥
दूर्वायुतं विघ्नहरस्य गाथां सङ्गायमानं यदि पापयुक्तम् ।
पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरत प्रभीताः ॥ ३४॥
गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् ।
वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्तमेवं त्यजत प्रभीताः ॥ ३५॥
अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३६॥
महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विकट त्रिनेत्र ।
परेश धरणीधर एकदन्त वदन्तमेवं त्यजत प्रभीताः ॥ ३७॥
प्रमोदमोदेति नरान्तकारे षडूर्मिहन्तर्गजकर्ण ढुण्ढे ।
द्वन्द्वारिसिन्धौ स्थिरभावकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ३८॥
(Page खं. ५ अ. २५ पान ५८)
विनायक ज्ञानविघातशत्रो पराशरस्यात्मज विष्णुपुत्र ।
अनादिपूज्याखुग सर्वपूज्य वदन्तमेवं त्यजत प्रभीताः ॥ ३९॥
विधेर्ज लम्बोदर धूम्रवर्ण मयूरपालेति मयूरवाहिन् ।
सुरासुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥ ४०॥
वरिन् महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह ।
दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥ ४१॥
अणोरणीयन् महतो महीयन् रवेर्ज योगेश वरिष्ठराज ।
निधीश मन्त्रेश च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४२॥
वरप्रदातर्ह्यदितेश्च सूनो पराशरज्ञानद तारवक्त्र ।
गुहाग्रज ब्रह्मप पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ४३॥
सिन्धोश्च शत्रो परशुप्रपाणे शमीश पुष्पप्रिय विघ्नहारिन् ।
दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत प्रभीताः ॥ ४४॥
धियः प्रदातश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः ।
अमेयमायामितविक्रमेमि वदन्तमेवं त्यजत प्रभीताः ॥ ४५॥
द्विधा चतुर्थीप्रिय कश्यपाज्ज धनप्रद ज्ञानप्रदप्रकाश ।
चिन्तामणे चित्तविहारकारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४६॥
यमस्य शत्रो अभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो ।
विदेह स्वानन्द अयोगयोग वदन्तमेवं त्यजत प्रभीताः ॥ ४७॥
गणस्य शत्रो कमलस्य शत्रो समस्थ भावज्ञ च भालचन्द्र ।
अनादिमध्यान्तमयप्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥ ४८॥
विभो जगद्रूप गुणेश भूमन् पुष्टेः पते आखुगतेति बोध ।
कर्तश्च पातश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥ ४९॥
इदमष्टोत्तरशतं नाम्नां तत् प्रपठन्ति ये ।
शृण्वन्ति तेषु कुरुत भीता मा वै प्रवेशनम् ॥ ५०॥
भुक्तिमुक्तिप्रदं ढुण्ढेर्धनधान्यप्रवर्धनम् ।
ब्रह्मभूयकरं स्तोत्रं जपतो नित्यमादरात् ॥ ५१॥
यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः ।
धामानि तत्र कुरुत सम्भीता मा प्रवेशनम् ॥ ५२॥
तेन संस्थापिताः सर्वे स्वस्वकार्येषु सेवकाः ।
केशाद्यास्तत्र के यूयं वयं भजत तं सदा ॥ ५३॥
एवमुक्त्वा यमः सर्वान् किङ्करान् मौनमादधे ।
यामाः सर्वे गणेशानं भजन्ते भावसंयुताः ॥ ५४॥
इदं शमीभवं पुण्यं माहात्म्यं यः शृणोति चेत् ।
पठति सिद्धिदं तस्य मन्दारस्य भविष्यति ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारस्पर्शमहिमावर्णनं नाम षड्विंशतितमोऽध्यायः ॥ ५.२६
(Page खं. ५ अ. २७ पान ५९)
५.२७ दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
दूर्वायाश्चरितं हर्षकारकं ब्रूहि मुद्गल ।
अहो शम्यासमं नास्ति मन्दारेण पवित्रकम् ॥ १॥
मुद्गल उवाच ।
पुराऽऽदौ देवदेवेशो ब्रह्मा सृष्ट्वा चराचरम् ।
तेषामन्नार्थमत्यन्तचिन्तायुक्तो बभूव ह ॥ २॥
ध्यात्वा गजाननं देवं संस्थितः प्रपितामहः ।
तस्य रोमभ्य एका वै देवी सन्निःसृता बभौ ॥ ३॥
सर्वतः पाणिपादां तां सहस्रवदनां पराम् ।
सहस्रावयवैः सर्वैः शोभमानां ददर्श सः ॥ ४॥
ततोऽतिहर्षितो ब्रह्मा बभूवे सर्वधारकः ।
ज्ञात्वा तामन्नरूपां वै सर्वपोषणकारिणीम् ॥ ५॥
धातारं तं प्रणम्याऽसौ संस्थिता करसम्पुटा ।
आज्ञां कुरु जगद्धातः किं करोमि पितामह ॥ ६॥
ब्रह्मोवाच ।
सर्वेषामन्नभूता त्वं दूर्वानाम्नी भविष्यसि ।
तपस्व च ततः सर्वमन्नं सृज विधानतः ॥ ७॥
तथेति तं प्रणम्यैव तताप तप उत्तमम् ।
गणेशं मनसि ध्यात्वा निराहारसमन्विता ॥ ८॥
एकाक्षरस्य मन्त्रस्य जपेन द्विरदाननः ।
दिव्यवर्षसहस्रेण ययौ तां वरदायकः ॥ ९॥
तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज सा ।
अथर्वशिरसा देवं तुष्टाव करसम्पुटा ॥ १०॥
तामुवाच गणेशानः सृष्टिं नानाविधां सदा ।
करिष्यसि महाभागे सर्ववन्द्या भविष्यसि ॥ ११॥
एवमुक्त्वा गणाधीशोंऽतर्धानं प्रजगाम ह ।
साऽपि हर्षसमायुक्ता सृष्टिं कर्तुं मनो दधे ॥ १२॥
तस्या मस्तकभागाद् वै स्वर्गान्नं विविधं महत् ।
निःसृतं तेन स्वर्गस्था भुञ्जते विविधान् रसान् ॥ १३॥
उदराद् भूमिसंस्थानां निःसृतं विविधं विधे ।
अन्नं तेनैव भूमिस्था भुञ्जते विविधान् रसान् ॥ १४॥
पातालवासिनां पद्भ्यामन्नं नानाविधं परम् ।
भुञ्जते षड्रसान्नित्यं निःसृतं तेन तद्गताः ॥ १५॥
अङ्गप्रत्यङ्गरूपेभ्यो नानान्नं ससृजे प्रभो ।
देवी तेन तु सन्तुष्टा बभूवुः सर्वजन्तवः ॥ १६॥
हृष्टपुष्टजनान् वीक्ष्य ब्रह्मा सन्तोषमादधे ।
तामागत्य द्विजैर्मन्त्रैरभिषेकं चकार ह ॥ १७॥
अन्नानामाधिपत्ये चाभिषिक्ता ब्रह्मणा पुरा ।
शुशुभे सर्वमान्या सा देवी दूर्वा विशेषतः ॥ १८॥
राज्यश्रीसंयुता देवी मदयुक्ता बभूव ह ।
विसस्मार जपं मन्त्रं गणेशस्य प्रजापते ॥ १९॥
ततो विघ्नाकुला जाता स्पर्धां चक्रे विशेषतः ।
पार्वत्या नित्यमानन्दादन्नपूर्णाहमादरात् ॥ २०॥
जगदम्बा च सर्वेषामन्नपूर्णत्वकारणात् ।
साऽहमन्नस्वरूपस्था वृथेयं गर्वमादधे ॥ २१॥
तस्याश्चेष्टितमाज्ञाय क्रोधयुक्ता जगन्मयी ।
दौरात्म्यसहनं कृत्वा ह्यतिष्ठच्छिवसन्निधौ ॥ २२॥
एकदा चन्द्रगेहे वै बभूव ह महोत्सवः ।
तत्र देवादिकाः सर्वे सस्त्रीकाश्च समाययुः ॥ २३॥
तत्र दूर्वा मदोत्सिक्ता निनिन्द जगदम्बिकाम् ।
वृथेयं जगदम्बा वै नाम्ना ख्याता बभूव ह ॥ २४॥
इत्यादिविविधैर्वाक्यैर्निनिन्द जगदम्बिकाम् ।
ततः क्रोधसमायुक्ता पार्वती तां शशाप ह ॥ २५॥
पार्वत्युवाच ।
मदीयरोमकूपस्था निःसृता त्वं न संशयः ।
वृथा मां स्पर्धसे दुष्टे पतस्व तृणरूपिणी ॥ २६॥
(Page खं. ५ अ. २७ पान ६०)
पृथिव्यां तृणरूपा च सा बभूव प्रजापते ।
तदादि सर्ववन्द्येयं दूर्वा परमपावनी ॥ २७॥
ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् ।
भो क्षमस्वापराधं मे मन्त्रत्यागकृतं प्रभो ॥ २८॥
गत्वा वनान्तरे दूर्वा तताप तप उत्तमम् ।
ध्यात्वा विघ्नेश्वरं देवं मन्त्रजपपरायणा ॥ २९॥
गते वर्षशते पूर्णे प्रसन्नोऽभूद् गजाननः ।
तामाययौ वरं दातुं भक्तिस्थां भजनप्रियः ॥ ३०॥
आगतं गणराजं सा दृष्टा ननाम भावतः ।
संहृष्टा पूज्य तुष्टाव कृत्वा करपुटं विधे ॥ ३१॥
दूर्वोवाच ।
गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः ।
भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयङ्कर ॥ ३२॥
अनन्तायाप्रमेयाय नानालीलाधराय च ।
हेरम्बाय महेशानां नमः पूज्याय ते नमः ॥ ३३॥
सर्वपूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे ।
ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥ ३४॥
अनाकाराय साकारमूर्तये ब्रह्मरूपिणे ।
शान्तिभ्यः शान्तिदात्रे ते परेशाय नमो नमः ॥ ३५॥
लम्बोदराय चौरेशवाहनाय परात्मने ।
चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ३६॥
ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३७॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ ३८॥
किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे ।
अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ ३९॥
एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह ।
जगाद गणराजस्तु दूर्वां तां हर्षसंयुतः ॥ ४०॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् ।
मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥ ४१॥
यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा ।
भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥ ४२॥
वरं वरय दास्यामि चित्तस्थं भक्तितोषितः ।
क्रोधयुक्तोऽपि देवि त्वां मन्त्रत्यागकरीं पुनः ॥ ४३॥
श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् ।
दूर्वा लम्बोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥ ४४॥
दूर्वोवाच ।
वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥ ४५॥
अन्यच्च मदसंयुक्तां जगदम्बां गजानन ।
स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥ ४६॥
तृणरूपा भविष्यामि पतिष्यामि धरातले ।
तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥ ४७॥
श्रीगजानन उवाच ।
मा कुरुष्व वृथा चिन्तां दूर्वे मे शरणागते ।
सर्वं शुभं करिष्यामि भविष्यामि नियन्त्रितः ॥ ४८॥
अंशेन तृणरूपा त्वं भविष्यसि महीतले ।
देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥ ४९॥
पृथिव्यां तृणरूपा त्वममृतरूपधारिका ।
शतमूला प्रकाण्डाद् वै प्ररोहा च शताङ्कुरा ॥ ५०॥
सर्वमान्या सर्वपूज्या देवादीनां सदा प्रिया ।
(Page खं. ५ अ. २७ पान ६१)
भविष्यसि न सन्देहो मद्वरादन्ननायिके ॥ ५१॥
महामङ्गलदा प्रोक्ता मम प्रीतिविवर्धिनी ।
भविष्यसि तु लोकानां शुभमङ्गलदायिका ॥ ५२॥
त्वत्पत्रेण नरा भूमावर्चयिष्यन्ति देवपान् ।
न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥ ५३॥
शक्तेश्चैवावतारा ये लक्ष्मीललितिकादयः ।
तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥ ५४॥
शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा ।
अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥ ५५॥
मदीया भक्तिरत्यन्तं दृढा ते प्रभविष्यति ।
मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥ ५६॥
मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः ।
करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥ ५७॥
दूर्वापत्रं विना देवि पूजयिष्यन्ति मां नराः ।
तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥ ५८॥
दूर्वासमं न मे किञ्चित् पूजायां सुप्रियं भवेत् ।
विना दूर्वां निराहारी भविष्यामि निरन्तरम् ॥ ५९॥
त्यक्त्वा दूर्वादलं ये वै पूजयिष्यन्ति मानवाः ।
शत्रवस्ते मता नित्यं नरकेषु पचन्तु ते ॥ ६०॥
येनार्पितं च पूजायां दूर्वापत्रं महामते ।
तेनापारमयं सर्वं दत्तं मह्यं विशेषतः ॥ ६१॥
दूर्वापत्रेण सन्तुष्टो दास्यामि सकलं च मे ।
ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥ ६२॥
ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् ।
पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥ ६३॥
एवमुक्त्वा गणेशानोंऽतर्दधे च प्रजापते ।
दूर्वा हर्षसमायुक्ता विघ्नेशं भजते परम् ॥ ६४॥
यथा लम्बोदरेणैव कथितं तादृशं नराः ।
देवेशाद्यास्ततश्चक्रुः पार्वती सा विशेषतः ॥ ६५॥
सर्वमङ्गलरूपा सा बभूवे पापनाशिनी ।
गणेशवरदानेन गाणपत्या तथाऽभवत् ॥ ६६॥
एतत्ते कथितं सर्वं दूर्वामाहात्म्यमुत्तमम् ।
शृण्वते पठते तस्मै भुक्तिमुक्तिप्रदं भवेत् ॥ ६७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते दूर्वोत्पत्तिकथनं नाम सप्तविंशतितमोऽध्यायः ॥ ५.२७
५.२८ दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अत्र ते वर्णयिष्येहमितिहासं पुरातनम् ।
दूर्वाया महिमा यत्र ज्ञायते मानवैः परः ॥ १॥
दण्डकारण्यदेशस्थो बभूवान्त्यजजः पुमान् ।
पिशुनो नाम दुर्बुद्धिः पापकर्मपरायणः ॥ २॥
चौरकर्मा वने गत्वा जनान् जघान दारुणः ।
क्वचित् परस्त्रियं दृष्ट्वैकाकिनीमयभत् खलः ॥ ३॥
शिश्नोदरपरो भूत्वा विचचार वनान्तरे ।
ग्रामे च नगरे वाऽपि शस्त्रधारी दुरात्मवान् ॥ ४॥
ब्रह्महत्यादिकं पापमपारं स चकार ह ।
न वक्तुं शक्यते दक्ष मया तस्य चरित्रकम् ॥ ५॥
एकदा वनसंस्थोऽयं द्विजं दृष्ट्वा महाखलः ।
कोटरात् स विनिःस्मृत्याधावच्छस्त्रधरः स्वयम् ॥ ६॥
तमागतं समालोक्य कालं दण्डधरं यथा ।
(Page खं. ५ अ. २८ पान ६२)
पपाल स द्विजस्तस्मात् हाहाकारकरो भृशम् ॥ ७॥
द्विजशब्दं समाकर्ण्य क्षत्रिया आगता वनात् ।
दैवयोगेन पञ्चैव समीपे मार्गयायिनः ॥ ८॥
तैः शस्त्रैः स हतः पापी ममार च पपात ह ।
ब्राह्मणो हर्षसंयुक्तः स्वाश्रमं चागतोऽभवत् ॥ ९॥
ततो यामाः प्रगृह्यैव पिशुनं तं महाखलम् ।
रौरवे ते विनिक्षिप्य नरके पाचयंस्तदा ॥ १०॥
पञ्चमे दिवसे प्राप्ते तत्राश्चर्यं बभूव वै ।
नरकः शान्तरूपश्च यातनावर्जितोऽभवत् ॥ ११॥
तं दृष्ट्वा परमाश्चर्यं यमदूता यमं ययुः ।
वृत्तान्तं कथयामासुर्नरकस्य सुशान्तिजम् ॥ १२॥
तच्छ्रुत्वा विस्मितो धर्मो ध्यानसंस्थो बभूव ह ।
ज्ञात्वा तान् कथयामास स्मृत्वा लम्बोदरं प्रभुः ॥ १३॥
धर्मराज उवाच ।
पिशुनोऽयं महापापी चाण्डालो नाऽत्र संशयः ।
न योग्यो नरके दूता अधुना पुण्यवानभूत् ॥ १४॥
यत्राऽयं तु मृतस्तत्र गाणपत्यः समागतः ।
तस्य मस्तकगा दूर्वा पपात पिशुनोपरि ॥ १५॥
यस्य स्पर्शो भवेद् दूता अस्थिकस्य शवस्य वा ।
तस्य पापं लयं सर्वं गमिष्यति न संशयः ॥ १६॥
पुण्यराशिर्भवेत् सोऽपि सर्वमान्यो विशेषतः ।
अत एनं तु निष्कास्यानयन्तु मम सन्निधौ ॥ १७॥
यमस्य वचनं श्रुत्वा विस्मितास्ते समाययुः ।
निष्कासितुं समुद्युक्तास्तावच्चित्रं बभूव ह ॥ १८॥
गणेशदूतसंयुक्तं विमानं नेतुमाययौ ।
तं गृह्य गाणपत्यास्ते ययुः स्वानन्दकं पुरम् ॥ १९॥
पिशुनं ब्रह्मभूतं ते चक्रुर्हर्षसमन्विताः ।
पूर्वदेहस्य दूर्वायाः स्पर्शे भक्तिपरायणाः ॥ २०॥
धर्मोऽतिविस्मितो भूत्वा तान् जगाद स्वसेवकान् ।
अहो पश्यत दूतेशा दूर्वामाहात्म्यमुत्कटम् ॥ २१॥
धन्योऽयं पिशुनो पापी यस्य देहे समागता ।
दूर्वा यया विशेषेण योगिनां पदगोऽभवत् ॥ २२॥
महिमानं तु दूर्वायाः को जानाति समग्रकम् ।
शवस्पर्शेन दूतेशा ब्रह्मभूतपदप्रदम् ॥ २३॥
तानुक्त्वा साश्रुनेत्रः स बभूव रविनन्दनः ।
गणेशं मन्यते नित्यं भजते भक्तिसंयुतः ॥ २४॥
इदं दूर्वाभवं चित्रं माहात्म्यं यः शृणोति चेत् ।
पठति तस्य विघ्नेशो वाञ्छितं ददते सदा ॥ २५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते दूर्वापत्रस्पर्शमहिमावर्णनं नामाष्टाविंशतितमोऽध्यायः ॥ ५.२८
(Page खं. ५ अ. २९ पान ६३)
५.२९ त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अन्यत्त्वं शृणु माहात्म्यं दूर्वायाः स्वसुखप्रदम् ।
यया तृप्तिसमायुक्तो बभूव द्विरदाननः ॥ १॥
एकदा नारदो योगी जगाम जनकालयम् ।
पूजितो जनकं सोऽपि जगाद हर्षसंयुतः ॥ २॥
नारद उवाच ।
धन्यस्त्वं गणनाथस्य भक्तः परमभाविकः ।
मनेप्सितं गणाध्यक्षो ददते ते नियन्त्रितः ॥ ३॥
नारदस्य वचः श्रुत्वा तं प्रहस्य महामुनिम् ।
जगाद जनको वाक्यं योगयुक्तं स योगवित् ॥ ४॥
जनक उवाच ।
याज्ञवल्क्येन योगश्च कथितो मे शुभप्रदः ।
पूर्णशान्तिप्रदो विप्र गाणेशो नात्र संशयः ॥ ५॥
एकाक्षरं गणेशस्य ददौ मन्त्रं सुसिद्धिदम् ।
मह्यं स कृपया योगिन् साधनं प्रजगाम ह ॥ ६॥
तथा मया महायोगिन् साधितं ज्ञानमुत्तमम् ।
गणेशकृपयाऽहं तु योगी जातो गुरुर्यथा ॥ ७॥
अतोऽहं गणनाथश्च न भिन्नौ मुनिसत्तम ।
गणेशस्य कृपा कुत्र वर्तते भेददायिनी ॥ ८॥
मया यच्चिन्तितं तत्तत् कथं ददाति विघ्नपः ।
अयोगिनामिदं सर्वं भ्रान्तिदं भवतीत्यहो ॥ ९॥
पञ्चधा चित्तवृत्तिश्च तासां प्रकाशकारकः ।
चिन्तामणिः स्वयं साक्षात् खेलति हृदि संस्थितः ॥ १०॥
जनकः कुत्र योगीन्द्र वर्तते वद साम्प्रतम् ।
तस्योपरि गणेशस्य कृपादिकमिदं मुने ॥ ११॥
अहं हर्ता अहं कर्ताऽहं पाता च मदात्मनाम् ।
भ्रान्तवद्भाषणं योग्यं नैव ते योगिसत्तम ॥ १२॥
जनकस्य वचः श्रुत्वा नारदः क्रोधसंयुतः ।
उवाच तं महाभागं निर्भर्त्स्य जनकं पुनः ॥ १३॥
नारद उवाच ।
ज्ञानमत्तोऽसि राजेन्द्र नश्वरस्त्वं कथं भवेः ।
गणेशाकाररूपश्च देहवान् भ्रमधारकः ॥ १४॥
ब्रह्मणस्पतिनामा वै गणेशो वेदवादतः ।
शरीरे तस्य सा सत्ता वर्तते पूर्णभावतः ॥ १५॥
योगिदेहेन सा सत्ता कदापि नृप वर्तते ।
समाधिना च योगीन्द्रो गणेशः कथितो बुधैः ॥ १६॥
प्रारब्धदेहधारित्वान्नरो योगी न संशयः ।
नरतुल्या शरीरेस्य भवेत् सत्ता हि सर्वदा ॥ १७॥
गर्विष्ठो योगमाहात्म्याज्जनक त्वां विशेषतः ।
भविता गर्वभङ्गस्ते गजाननप्रसादतः ॥ १८॥
एवमुक्त्वा नृपं योगी कैलासे गणपं ययौ ।
तं प्रणम्य विनीतः स वृत्तान्तं प्रजगाद ह ॥ १९॥
पुनः प्रणम्य विघ्नेशं ययौ स्वेच्छाचरो मुनिः ।
नारदो गणनाथस्य गानासक्तो महामतिः ॥ २०॥
ततो गजाननो भूपं वृद्धब्राह्मणरूपधृक् ।
आययौ जनकं कुष्ठी कृमिभाराकुलः पतन् ॥ २१॥
कम्पेन संयुतः सोऽपि दुर्गन्धेन समावृतः ।
पूयशोणितघर्मौघैर्व्याप्तश्च मक्षिकावृतः ॥ २२॥
द्वारपालेन राज्ञश्चाज्ञया तत्र प्रवेशितः ।
ययाचे तं नृपं विप्रो भोजनं तोषकारकम् ॥ २३॥
राज्ञा सम्पूजितो विप्रो बुभुजेऽन्नं समागतम् ।
अन्नं पुनर्ययाचे तं पुष्कलं प्रददौ नृपः ॥ २४॥
तदेव तेन सम्भुक्तं पुना राजा भयाकुलः ।
अयुतानां समं तस्मै ददावन्नं सुतुष्टिदम् ॥ २५॥
(Page खं. ५ अ. २९ पान ६४)
भक्षयित्वा तदपि स ययाचेऽन्नं महामुनिः ।
ततोऽपक्वं ददौ तस्मै तद् बभक्ष द्विजोत्तमः ॥ २६॥
ततो राजा पुरे संस्थं भूमिस्थं प्रददौ पुनः ।
अन्नं बभक्ष तत् सोऽपि ययाचे तं धरापतिम् ॥ २७॥
पुरप्रान्ते स्थिता ग्रामास्तेभ्यो राज्ञा समाहृतम् ।
अन्नं दत्तं च विप्रेण भक्षितं सकलं प्रभो ॥ २८॥
ययाचे स नृपं विप्रो देह्यन्नं राजसत्तम ।
राज्ञा लज्जासमायुक्तो न किञ्चित्तमुवाच ह ॥ २९॥
राजानं मुनिवर्यश्च जगाद प्रहसन्निव ।
त्वं गणेशो न सन्देहः कथं सत्ताविवर्जितः ॥ ३०॥
अकर्तुं कर्तुमद्यैवान्यथा कर्तुं गजाननः ।
समर्थस्त्वं कथं राजंस्तूष्णीं तिष्ठसि तद् वद ॥ ३१॥
भ्रान्तो योगमदेनासि राजेन्द्रात्र न संशयः ।
प्रत्यक्षं नरतुल्योऽसि न गणेशो मतः कदा ॥ ३२॥
एवमुक्त्वा गणेशानो ब्राह्मणस्य स्वरूपधृक् ।
बहिर्निःसृत्य लोकान् स ययाचेऽन्नं क्षुधातुरः ॥ ३३॥
लोकाः सर्वे समूचुस्तं सर्वेषां गृहगं मुने ।
राज्ञा समाहृतं चान्नं त्वया सर्वं प्रभक्षितम् ॥ ३४॥
नास्मद्गेहेऽधुना किञ्चिदन्नं त्वं गच्छ वाडव ।
सर्वभक्षः कुतो यातः कोऽसि न ज्ञायते जनैः ॥ ३५॥
श्रुत्वा सोऽपि हसन् विप्रो बभ्राम यत्र तत्र तु ।
पुरप्रान्ते गतो दैवाद् ददर्शद् वाडवालयम् ॥ ३६॥
त्रिशिरा मुनिवर्यश्चायाचिता वृत्तिधारकः ।
गाणपत्याग्रणीः पत्न्या स विरोचनया युतः ॥ ३७॥
तं ददर्श गणेशानः प्रविवेश तदाश्रमम् ।
सर्वापकारसंयुक्तं धातुधान्यादिवर्जितम् ॥ ३८॥
ययाचे तं महाभागमन्नं तृप्तिकरं मुने ।
दीयतां मे क्षुधार्ताय गाणपत्यस्वरूपधृक् ॥ ३९॥
जगाद त्रिशिरास्तत्र ब्राह्मणं वाक्यमुत्तमम् ।
मद्गृहे नैव विप्रेन्द्र धान्यं किञ्चित् प्रवर्तते ॥ ४०॥
दरिद्राणां महाराजोऽहमेको नात्र संशयः ।
मत्समो मानवो युक्तो दारिद्र्येण न तिष्ठति ॥ ४१॥
दूर्वाङ्कुराः समानीता गणेशपूजनाय च ।
तेष्वेको विद्यते विप्र नान्यत् किञ्चिद् विचारय ॥ ४२॥
तस्य तद् वचनं श्रुत्वा जगाद क्षुधितो द्विजः ।
भक्त्या देहि महाभाग दूर्वाङ्कुरं क्षुधापहम् ॥ ४३॥
ततो विरोचना विप्रं ददौ नत्वा गजाननम् ।
ध्यात्वा दूर्वाङ्कुरं तस्मै नानान्नं कल्प्य तत्र सा ॥ ४४॥
भक्त्या दत्तं तया विप्रो बभक्ष प्रीतिसंयुतः ।
तेन दूर्वाङ्कुरेणैव सन्तृप्तोऽभून् महामते ॥ ४५॥
भक्त्या तुष्टो ददौ विप्रं दर्शनं गणनायकः ।
गजवक्त्रादिचिह्नैश्च युतं रूपं परात्परम् ॥ ४६॥
दृष्ट्वा लम्बोदरं तौ तु प्रणेमतुः पुनः पुनः ।
तं साश्रुनयनौ पूज्य तुष्टुवतुः कृताञ्जली ॥ ४७॥
विरोचनात्रिशिरसावूचतुः ।
गणेशाय नमस्तुभ्यं नमः सर्वप्रियङ्कर ।
ब्रह्मणे ब्रह्मनाथाय विघ्नेशाय नमो नमः ॥ ४८॥
हेरम्बाय परेशाय मूषकध्वजिने नमः ।
आत्मनेऽनात्मने तुभ्यं नमो लम्बोदराय वै ॥ ४९॥
अनामय ह्यनाधार सर्वाधार सुमूर्तये ।
(Page खं. ५ अ. २९ पान ६५)
वक्रतुण्डाय सर्वेषां नमः पूज्याय ते नमः ॥ ५०॥
आदिमध्यान्तहीनाय तदाकाराय ढुण्ढये ।
ज्येष्ठराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ५१॥
सर्वादिशूर्पकर्णाय पूर्णाय धरणीधर ।
शेषनाभिविभूषाय नमश्चिन्तामणे नमः ॥ ५२॥
सिद्धिबुद्धिप्रदात्रे ते स्वानन्दे वासकारिणे ।
भक्तेभ्यः शान्तिदात्रे वै शान्तिस्थाय नमो नमः ॥ ५३॥
सिद्धिबुद्धिवरायैव नमो मूषकवाहन ।
गजाननाय ज्येष्ठेभ्यः पदज्येष्ठप्रदायिने ॥ ५४॥
धन्यौ माता पिता नाथ कुलशीलादिकं च मे ।
येन दृष्टो गणाधीशो वेदान्तागोचरो विभुः ॥ ५५॥
वेदा विदुर्नो न च योगिनोऽयं ब्रह्मादयो वेदविदः शिवादयः ।
शान्त्या प्रलभ्यं गणनाथमेवं पश्यावहे चित्रमिदं न संशयः ॥ ५६॥
परात्परस्त्वं परमप्रमेयः कथं महात्मन् सदने गतो मम ।
न मत्समो ह्यण्डकटाहमध्ये गणेश ते पादसमीपगादहो ॥ ५७॥
एवं संस्तुवतस्तस्य सस्त्रीकस्य महामुने ।
अत्यन्तभक्तिमाहात्म्यात् कण्ठरोधः समाभवत् ॥ ५८॥
ननर्त परमानन्दयुक्तस्तत्र प्रजापते ।
सरोमाञ्चो न सस्मार यथा भ्रान्तश्च साश्रुकः ॥ ५९॥
ततस्तं गणनाथो वै जगाद वचनं हितम् ।
स्वयं साश्रुः सरोमाञ्चो भक्तिं दृष्ट्वा महामुने ॥ ६०॥
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं बहु ।
भविष्यति जनानां वै मुने मद्भक्तिवर्धनम् ॥ ६१॥
यः पठिष्यति यो मर्त्यः श्रोष्यते सर्वमालभेत् ।
भुक्तिं मुक्तिं ब्रह्मभूयं सर्वदा मत्प्रियो भवेत् ॥ ६२॥
वरान् वृणु महायोगिंस्त्रिशिरो मनसीप्सितान् ।
सर्वं दास्यामि भक्त्या ते तोषितोऽहं न संशयः ॥ ६३॥
गणेशवचनं श्रुत्वा सस्त्रीकस्त्रिशिराः पुनः ।
उवाच तं प्रणम्यादौ भक्त्या नम्रो महामुनिः ॥ ६४॥
त्रिशिरा उवाच ।
मां मोहयसि किं नाथ न वृणोमि गजानन ।
सर्वं भ्रान्तिप्रदं मत्वा भक्तिं याचे त्वयि स्थिराम् ॥ ६५॥
श्रुत्वा जगाद तं विघ्नराजोऽसौ विस्मितोऽभवत् ।
अहो यः सुदृढां भक्तिमेकां वृणोति वाडवः ॥ ६६॥
श्रीगणेश उवाच ।
पूर्णां भक्तिं महायोगिन् लभसे नात्र संशयः ।
मदीयां ते वशे नित्यं भविष्यामि तया किल ॥ ६७॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
सस्त्रीकस्त्रिशिरास्तत्र खेदयुक्तो बभूव ह ॥ ६८॥
गणेशकृपया तत्र गृहं तस्य महामुनेः ।
शुशुभे रत्नसंयुक्तं सुवर्णभित्तिराजितम् ॥ ६९॥
द्वारि नाना जनास्तत्र सुवर्णयष्टिधारकाः ।
स्थितास्तथा स्त्रियो दासाः सेवां कर्तुं सुलालसाः ॥ ७०॥
नानासम्पत्तिसंयुक्तं दृष्ट्वाऽसौ विस्मितोऽभवत् ।
तावद्दासाश्च तं गृह्य सेवां चक्रुः सुभाविकाः ॥ ७१॥
तद् दृष्ट्वा परमाश्चर्यं मुनिः पत्नीं समब्रवीत् ।
माया भक्तिप्रणाशार्थं दत्ता विघ्नेश्वरेण च ॥ ७२॥
अतो यत्नसमायुक्ता भुङ्क्ष्व भोगान् महासति ।
एवं मदविहीनौ तौ परं बुभुजतुः सुखम् ॥ ७३॥
(Page खं. ५ अ. ३० पान ६६)
दानमार्गेण स ददौ द्रव्यं नानाविधं विधे ।
तथापि तादृशं तत्र रेजे सोऽपि सुविस्मितः ॥ ७४॥
एतत्ते कथितं किञ्चित् दूर्वामाहात्म्यमुत्कटम् ।
गणेशतोषकं पूर्णं सर्वसिद्धिप्रदायकम् ॥ ७५॥
गणेशरोमकूपेषु ब्रह्माण्डानि ह्यनेकशः ।
ब्रह्म नानाविधं देहे स्थितं तस्य प्रजापते ॥ ७६॥
तत्सर्वं तृप्तिमायाति तृप्ते विघ्नेश्वरे परे ।
फलं तस्य च लोके को वर्णयेद्वद मानद ॥ ७७॥
त्रैलोक्यादिकमेतस्मान्न तुल्यं दूर्वया भवेत् ।
अपारपुण्यदा प्रोक्ता गणेशे तोषकारिणी ॥ ७८॥
दूर्वाया महिमा दक्ष कथितो ब्रह्मदायकः ।
भुक्तिमुक्तिप्रदः पूर्णः पठते शृण्वते भवेत् ॥ ७९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते त्रिशिरसश्चरितवर्णनं नाम एकोनत्रिंशत्तमोऽध्यायः ॥ ५.२९
५.३० दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
श्रुतं दूर्वार्पणस्याऽपि माहात्म्यं सर्वसिद्धिदम् ।
न दूर्वया समं किञ्चिद् दृश्यते भुवनेषु वै ॥ १॥
तथापि तृप्तिं नो यामि योगामृतपरायणः ।
अतो मे वद योगीन्द्र जनकस्य कथानकम् ॥ २॥
गणेशेन महायोगी जनकश्छलितोऽभवत् ।
किं चकार ततः सोऽपि गते विघ्नेश्वरे वद ॥ ३॥
मुद्गल उवाच ।
शृणु प्रजापते चित्रं चरित्रं जनकस्य च ।
गते गणेश्वरे सोऽपि दुःखयुक्तो बभूव ह ॥ ४॥
शुशोच हृदि सङ्क्षुब्धो जगाद स्वस्य चेतसि ।
अहो नारदविप्रेण कथितं सत्यमेव तत् ॥ ५॥
देहो भक्तिकरः प्रोक्तो न भजेद्यस्तमाप्य सः ।
गजाननं नरो नित्यं वञ्चितो मायया परम् ॥ ६॥
कर्मनिष्ठैर्गणेशानः सेव्यः स्वहितकारणात् ।
तपःफलप्रदः सेव्यः तपोनिष्ठैस्तथाऽपि सः ॥ ७॥
ज्ञाननिष्ठैः सदा सेव्यो ज्ञानसिद्धिप्रदायकः ।
योगिभिर्योगदाता स सेव्यो ब्रह्ममयः प्रभुः ॥ ८॥
अहो देहधरः साक्षाद्ब्रह्मणस्पतिवाचकः ।
वेदेषु कथितश्चायं गणेशो नात्र संशयः ॥ ९॥
सन्त्यज्य मूर्खवद्भ्रान्तोऽहं गणेशं प्रभावतः ।
योगस्य चावदं मिथ्या नरतुल्यस्वभाववान् ॥ १०॥
गणेशभजनं मुख्यं धृतं येन महात्मना ।
स योगीन्द्रगुरुः साक्षात्तत्समं नैव विद्यते ॥ ११॥
एवं क्षोभसमायुक्तो जनकः स्वगृहे स्थितः ।
समाययुश्च योगीन्द्रास्तं नवर्षभनन्दनाः ॥ १२॥
नग्नाः सर्वत्र पूज्याश्च सदा यौवनधारकाः ।
अव्याहतास्त्रिलोकेषु भ्रमन्तः स्वेच्छयाचराः ॥ १३॥
सर्ववन्द्याः सदा दक्ष ब्रह्मभूयपरायणाः ।
(Page खं. ५ अ. ३० पान ६७)
विधिनिषेधहीनाश्च योगरूपधरा इव ॥ १४॥
गणेशस्य चरित्राणि कथयन्तः परस्परम् ।
तद्रूपास्तस्य नामानि वदन्तो हर्षसंयुताः ॥ १५॥
स्वपरभ्रान्तिशून्याश्च समलोष्टाश्मकाञ्चनाः ।
भेदाभेदविहीना वै वर्णाश्रमविवर्जिताः ॥ १६॥
स्वेच्छया कर्म कर्तारः स्वेच्छया ज्ञानधारकाः ।
स्वेच्छया समशीला वै स्वेच्छया सहजप्रियाः ॥ १७॥
स्वेच्छया स्वस्वरूपस्था स्वेच्छया योगतत्पराः ।
स्वेच्छया पूर्णयोगस्था वर्णवन्तश्च स्वेच्छया ॥ १८॥
स्वेच्छयाऽऽश्रमसंयुक्ताः स्वेच्छया विधिधारकाः ।
निषेधे स्वेच्छया युक्ताः स्वाधीनास्ते च योगिनः ॥ १९॥
विधिनिषेधहीनाश्च स्वेच्छया वै विनायकाः ।
दण्डादिभिर्विहीनास्ते गणेशगानतत्पराः ॥ २०॥
तान् दृष्ट्वा जनको राजा सम्भ्रमाकुलचेतसा ।
समुत्थाय ननामाऽऽदौ दण्डवत् पृथिवीतले ॥ २१॥
उत्थाय तान् प्रपूज्याऽथ भोजयामास चान्धसा ।
पादसंवाहने संस्थो जगाद वचनं हितम् ॥ २२॥
जनक उवाच ।
धन्यौ मे पितरौ विद्या तपःस्वाध्यायकादयः ।
ब्रह्मणस्पतिरूपाणां भवतां दर्शनात् किल ॥ २३॥
निःस्पृहाः सर्वभावेषु भवन्तो नात्र संशयः ।
तथापि भवदाज्ञां वै कर्तुमीहे च योगिनः ॥ २४॥
भवतां किञ्चिदाज्ञायां संस्थितो यदि मानवः ।
सकृत्तस्य पुनर्जन्म विद्यते नैव भक्तिभाक् ॥ २५॥
अवमानेन सद्यो वै नारकी जायते नरः ।
साक्षाद्योगस्वरूपाश्च भवन्तः कृपयाऽऽगताः ॥ २६॥
न मत्समस्त्रिलोकेषु भवतां दर्शनाद्भवेत् ।
अधुना कृतकृत्योऽस्मि जातोऽहं भाग्यगौरवात् ॥ २७॥
मुद्गल उवाच ।
जनकस्य वचः श्रुत्वा साधु तं ते प्रजापते ।
जगुः प्रहृष्टभावेन राजानं शान्तिदायकाः ॥ २८॥
नवयोगिन ऊचुः ।
धन्यस्त्वं मानवो राजा विदेहोऽसि न संशयः ।
साधुत्वे देहसंस्थोऽपि त्वयि चित्रं न सम्भवेत् ॥ २९॥
साधुदर्शनकामाश्च वयं ते गृहमागताः ।
दृष्ट्वा त्वां योगिनं पूर्णं तृप्ताः स्मः श्रुतकीर्तयः ॥ ३०॥
गच्छामो राजशार्दूल नेच्छामः किञ्चिदप्यहो ।
पूजां त्वया कृतां दृष्ट्वा सन्तुष्टाः स्मो महामते ॥ ३१॥
तेषां तद्वचनं श्रुत्वा तान् जगाद नृपः पुनः ।
प्रणम्य भक्तिसंयुक्तो हितं सर्वजनप्रियः ॥ ३२॥
जनक उवाच ।
वदेत योगसंसिध्यै किं कर्तव्यं जनैः सदा ।
येन योगीन्द्र वन्द्यास्ते भवन्ति मानवा बुधाः ॥ ३३॥
कविरुवाच ।
स्वधर्मपालको नित्यं भवेद्योगपरायणः ।
रजस्तमस्तिरस्कृत्य सत्त्वयुक्तो मुमुक्षुकः ॥ ३४॥
गणेशार्पणबुद्ध्या वै कर्माणि सततं नरः ।
कुर्याच्छ्रौतानि स्मार्तानि व्रतादीनि विशेषतः ॥ ३५॥
आन्तराणि महाराज वायुसाधनकानि वै ।
स्मृतानि तानि सर्वाणि कुर्यात् ध्यानपरायणः ॥ ३६॥
गणेशस्य सदा ध्यानं कुर्यात् स्वहृदि भूमिप ।
एकाक्षरादिमन्त्राश्च तेष्वैकजपकारकः ॥ ३७॥
सम्प्रज्ञातसमाधिस्थः सम्भवेद्यदि मानवः ।
तथापि गणराजस्य ध्यानं नैव परित्यजेत् ॥ ३८॥
असम्प्रज्ञातयोगस्थः भवेद्यदि स मानवः ।
तथापि विघ्नराजस्य सदा ध्यानं समाचरेत् ॥ ३९॥
गणेशध्यानसंयुक्तो योगभूमिं नृपात्मज ।
स च स्वल्पेन कालेनोल्लङ्घयेद्विघ्नहानतः ॥ ४०॥
ततो योगी भवेन्नूनं शान्तियोगपरायणः ।
चित्ते चिन्तामणौ सोऽपि तदाकारः सुसाधनात् ॥ ४१॥
न गणेशसमं किञ्चिज्जगत्सु ब्रह्मदं भवेत् ।
सर्वेभ्यो योगदानार्थं बभूवे देहधारकः ॥ ४२॥
एतत्ते कथितं भूप योगप्राप्तौ सुसिद्धिदम् ।
भजनं सिद्धिनाथस्य योगसिद्धिप्रदायकम् ॥ ४३॥
जनक उवाच ।
कथं चिन्तामणिः प्रोक्तो गणेशानो वदन्तु मे ।
तस्य रूपं कथं ज्ञेयं नरैश्चित्ते विशेषतः ॥ ४४॥
हरिरुवाच ।
चित्तं पञ्चविधं प्रोक्तं तत्र चिन्तामणिः स्थितः ।
चित्तप्रकाशकत्वाद्वै विघ्नेशानः प्रकथ्यते ॥ ४५॥
क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
पञ्चधा चित्तमेवं तु भवते शृणु भूमिप ॥ ४६॥
यत्र क्षिप्तं मनः सर्वैस्तत्र ज्ञानयुतं भवेत् ।
तदेव कर्तुमुद्युक्तं समर्थं सम्भवेत् कथम् ॥ ४७॥
क्षिप्तं चित्तं विजानीहि स्मृतस्तत्र प्रकाशकः ।
चिन्तामणिर्गणाधीशस्तं भजस्व महामते ॥ ४८॥
यत्र क्षिप्तं नरेणैव चित्तं तत्र न गच्छति ।
ज्ञानहीनतया तस्य मूढवन् मूढसंज्ञितम् ॥ ४९॥
अन्यच्च भ्रान्तियुक्तानां पिशाचवत् स्थितं सदा ।
चित्तं तदेव मूढं च ज्ञातव्यं जनवत्सल ॥ ५०॥
तत्र प्रकाशकर्ता स नानाखेलपरायणः ।
चिन्तामणिर्गणाध्यक्षः स तिष्ठति भजस्व तम् ॥ ५१॥
सत्वभावसमायुक्तो मानवो मोक्षकामुकः ।
ब्रह्मार्पणतया सर्वं कुरुते कर्म नित्यदा ॥ ५२॥
ब्रह्मानुभवहीनो न जगत्सु सुखलालसः ।
ब्रह्मार्थं तस्य चित्तं वै विक्षिप्तं कथितं बुधैः ॥ ५३॥
संसारे क्षिप्तभावश्च तस्माद्विगतक्षेपणम् ।
कर्तुं समुद्यतः सोऽपि सदा साधनतत्परः ॥ ५४॥
अनेन विधिना राजन् विक्षिप्तं चित्तमुच्यते ।
तत्र प्रकाशकर्तारं चिन्तामणिं भजस्व तम् ॥ ५५॥
ज्ञानदृष्टिः समुत्पन्ना हृदि सर्वत्र भूमिप ।
साक्षाद्भावस्यैक्यकरावयवादिकवर्जिता ॥ ५६॥
तया सोऽपि नरस्तत्र यत्र पश्यति योगवित् ।
आकाररहितं भाति विश्वं सर्वं न संशयः ॥ ५७॥
अष्टधा सा समाख्याता सम्प्रज्ञातस्वरूपिका ।
एकभावकरा वृत्तिरेकाग्रा कथिता बुधैः ॥ ५८॥
तत्र चिन्तामणिः साक्षात् प्रकाशकारकः स्मृतः ।
तं भजस्व विधानेन सर्वसिद्धिप्रदायकम् ॥ ५९॥
जगदवयवैर्युक्तं चतुर्देहमयं नृप ।
बिन्दुस्तस्य परा काष्ठा ब्रह्मकायाप्रधारकम् ॥ ६०॥
देही भेदविहीनश्च देहचालक उच्यते ।
सोऽहं मात्रात्मकः सोऽपि कथितो वेदवादिभिः ॥ ६१॥
तयोर्योगे निरोधश्च सदा भवति चेतसः ।
तस्य भेदौ समाख्यातौ संयोगायोगरूपिणौ ॥ ६२॥
स्वत उत्थानयुक्तं परत उत्थानधारकम् ।
स्वतः परत उत्थानवर्जितं ब्रह्म उच्यते ॥ ६३॥
एतत् संयोगकं प्रोक्तं समाधेर्धारकं परम् ।
सर्वेषां तत्र संयोगो ब्रह्माकारेण जायते ॥ ६४॥
(Page खं. ५ अ. ३० पान ६९)
अन्यदयोगरूपं वै निवृत्तेर्धारकं परम् ।
ब्रह्म मायाविहीनं तु व्यतिरेकप्रभावतः ॥ ६५॥
केषाञ्चित्तत्र संयोगो ब्रह्मणां जगतां भवेत् ।
नैव केषु च तस्यापि ब्रह्मायोगं प्रकथ्यते ॥ ६६॥
स्वकीयभेदनाशेन लभ्यते नात्र संशयः ।
तदेव ब्रह्मभूतत्वं निरोधवृत्तिजं मतम् ॥ ६७॥
निरोधे चित्तके राजन् प्रकाशदगणेश्वरम् ।
चिन्तामणिं भजस्व त्वं परं तत् खेललालसम् ॥ ६८॥
पञ्चधा चित्तभूमिस्थं त्यक्त्वा योगपरो भवेत् ।
स्वयं चिन्तामणिः साक्षाद्भवते चित्तनाशनात् ॥ ६९॥
शान्त्या सर्वत्र राजेन्द्र चित्तेषु नित्यमादरात् ।
चिन्तामणिः प्रलभ्येत त्यक्त्वा सद्यश्च चिन्तनम् ॥ ७०॥
एतत्ते कथितं पूर्णं चिन्तामणिस्वरूपकम् ।
तं भजस्व विधानेन शान्त्या योगपरायणः ॥ ७१॥
जनक उवाच ।
एतादृशो गणेशानः कथं देहधरोऽभवत् ।
तत्र श्रद्धादिकं नाथास्तादृशं जायते कथम् ॥ ७२॥
अन्तरिक्ष उवाच ।
वामभागे राजसश्च दक्षिणे तामसः स्मृतः ।
मध्ये सत्त्वमयः प्रोक्तस्तेषां योगे तुरीयकः ॥ ७३॥
चतुर्विधमयो देहस्तत्राहङ्कारधारकः ।
देही च तन्मयः साक्षात् कण्ठाधो गणनायकः ॥ ७४॥
यस्मात् सर्वं समुत्पन्नं यत्र गच्छति भूमिप ।
समाधिना महोग्रेण प्रलये तद्गजः स्मृतः ॥ ७५॥
कदा न जायते भूप लयं गच्छति नो कदा ।
तदेव गजशब्दाख्यं ब्रह्म वेदैः प्रकथ्यते ॥ ७६॥
तदेव मस्तकं तस्य गणेशस्य महात्मनः ।
तयोर्योगे गणाध्यक्षः साकारो भवतीत्यहो ॥ ७७॥
सम्प्रज्ञातमयो देहः कण्ठाधस्तस्य कीर्तितः ।
असम्प्रज्ञातरूपं च कण्ठादूर्ध्वं शिरः स्मृतम् ॥ ७८॥
तयोर्योगे स्वयं साक्षाद्भक्तानुग्रहकारणात् ।
देहधारी बभूवाऽपि गणेशो ब्रह्मनायकः ॥ ७९॥
न सर्वसमभावाख्यो देहस्तस्य महात्मनः ।
देहधारी गणाधीशो भक्तिभोगार्थमञ्जसा ॥ ८०॥
न भक्तेश्च समं तस्य प्रियं राजेन्द्र वर्तते ।
तदर्थं सकलं हित्वा भक्ताधीनो भवेत् स्वयम् ॥ ८१॥
मायया भ्रान्तचित्तानां देहधारी यथा नरः ।
तथाऽयं भवति प्राज्ञ साक्षाद्योगस्वरूपधृक् ॥ ८२॥
जनक उवाच ।
कीदृशी गणराजस्य माया भ्रान्तिकरी मता ।
तां मे वदत योगीन्द्रा ब्रह्मभूयार्थमञ्जसा ॥ ८३॥
प्रबुद्ध उवाच ।
वामाङ्गात् सिद्धिरुत्पन्ना वामभागप्रकाशिनी ।
दक्षिणाङ्गात्तथा बुद्धिर्दक्षिणाङ्गधरा बभौ ॥ ८४॥
सिद्धिपुत्रः स्वयं लक्षो बुद्धिपुत्रो महामते ।
लाभस्तयोश्च चित्तात्तौ सञ्जातौ खेलकौ परौ ॥ ८५॥
मायामोहितचित्तानां भ्रामकौ नात्र संशयः ।
तयो रूपं प्रवक्ष्यामि शृणु लोकहिताय च ॥ ८६॥
पापेषु च नरा राजन् यदा लक्षं प्रकुर्वते ।
तदा नरकदो लाभो भवते पापकारिणाम् ॥ ८७॥
यदा पुण्येषु लक्षं वै कुर्वते मानवा नृप ।
तदा स्वर्गप्रदो लाभो जायते पुण्यकर्मणाम् ॥ ८८॥
यदा ब्रह्मणि लक्षं वै कुर्वते मानवा नृप ।
तदा योगमयो लाभः सदा भवति योगिनाम् ॥ ८९॥
हृदि लक्षः स्थितो नित्यं सर्वत्र लक्षदायकः ।
पदार्थेषु स्थितो लाभो मतो नाना फलप्रदः ॥ ९०॥
ताभ्यां स युवराजाभ्यां विघ्नेशो मायया चरन् ।
बन्धहीनः खेलति च स्वेच्छाचारिस्वरूपधृक् ॥ ९१॥
तत्र भ्रान्तिकरी प्रोक्ता सिद्धिः सर्वत्र वर्तते ।
सिद्ध्यर्थं सर्वलोकाश्च बभ्रमुस्त्वं विचारय ॥ ९२॥
धर्मसिद्धिस्तथार्थस्य सिद्धिः कामप्रदायिनी ।
मोक्षसिद्धिस्तथा राजन् ब्रह्मभूयकरी मता ॥ ९३॥
अहं गणेशरूपश्चेत् कथमत्र प्रवर्तते ।
भुक्तिमुक्तिब्रह्मभूयं सिद्धिः सुभ्रान्तिदा मता ॥ ९४॥
भ्रान्तिधारकरूपा सा बुद्धिः सर्वत्र वर्तते ।
बुद्ध्या बुद्ध्वा तु राजेन्द्र पश्चान् मोहो निवर्तते ॥ ९५॥
पञ्चचित्तमयी बुद्धिः स्वयं विश्वात्मिका मता ।
ब्रह्माकारा तथा भिन्नं पदमिच्छति दुःखदम् ॥ ९६॥
सकामा चैव निष्कामा ब्रह्मभूयपरायणा ।
बुद्धिर्भवति सा भ्रान्त्या भ्रान्तिधारकतां गता ॥ ९७॥
नानाभ्रान्तियुतं सर्वं चकार सिद्धिमञ्जसा ।
नानामोहयुतं तद्वद् बुद्धिश्चकार खेलया ॥ ९८॥
ताभ्यां सम्मोहितं सर्वं लक्षलाभयुतं भवेत् ।
नानालक्षसमायुक्तं नानालाभफलैर्युतम् ॥ ९९॥
अतो मायायुतः सोऽपि गणेशो ब्रह्मनायकः ।
बिम्बे खेलति बिम्बीव जानीहि नृपसत्तम ॥ १००॥
एतन् मायास्वरूपं ते कथितं मोहकारकम् ।
यज्ज्ञात्वा योगिवन्द्यश्च जायते मानवः क्षणात् ॥ १०१॥
जनक उवाच ।
भक्तिप्रियो गणेशश्चेत् कथं मोहयुतान् जनान् ।
स्वभक्तान्न स योगीन्द्राः करोति वदत प्रियाः ॥ १०२॥
न पराधीनता तस्य स्वप्रियं गणनायकः ।
पराधीनसमानं न न करोति महाद्भुतम् ॥ १०३॥
पिप्पलायन उवाच ।
गणेशेन महाराज क्रीडार्थं रचितं जगत् ।
मायामयं विशेषेण नानाखेलयुतं तथा ॥ १०४॥
तत्रादौ द्विविधं तेन तदर्थं रचितं पुरा ।
तच्छ्रुणुष्व विधानेन सर्वसंशयहारकम् ॥ १०५॥
स्वस्वस्वार्थयुतं पूर्णं मायासुखकरं मतम् ।
तदर्थं सर्वलोकाश्च ब्रह्माणि सम्भ्रमन्ति वै ॥ १०६॥
योगमार्गस्तथा राजन् गाणेशः शान्तिदः परः ।
रचितो मोहनाशार्थं मायानाशकरो मतः ॥ १०७॥
योगेन गणपं ज्ञात्वा नरः पूर्णं ततो नृप ।
भजतेऽनन्यभावेन तन्निष्ठस्तत्परायणः ॥ १०८॥
यस्य भावो भवेद्यत्र यादृशस्तादृशं चरेत् ।
तत्र विघ्नेश्वरः साक्षादाग्रहं न करोति च ॥ १०९॥
यदा गणेश्वरो विश्वं भक्तियुक्तं निरन्तरम् ।
करोति चेद्गणेशस्य तदा खेलः कुतो भवेत् ॥ ११०॥
न पराधीनता तस्य क्रीडार्थं गणनायकः ।
विश्वं तु द्विविधं कृत्वा परां पश्यति भावनाम् ॥ १११॥
एतत्ते कथितं राजन् श्रोतुमिच्छसि किं परम् ।
स्वाधीनं तु पराधीनं मायया दृश्यते सदा ॥ ११२॥
जनक उवाच ।
किं कर्म किमकर्मापि विकर्मापि कथं भवेत् ।
कर्मयोगश्च विप्रेन्द्राः कीदृशो वदत प्रियाः ॥ ११३॥
आविर्होत्र उवाच ।
स्वस्वधर्मयुतं कर्म विधियुक्तं महामते ।
(Page खं. ५ अ. ३० पान ७१)
देहसौख्यप्रदं प्रोक्तं जन्ममृत्युप्रदं भवेत् ॥ ११४॥
स्वस्वधर्मविहीनं यद्विधिहीनं विशेषतः ।
विकर्म विद्धि राजेन्द्र तदेवं पापरूपकम् ॥ ११५॥
पापाचरणमात्रेण नरो दुर्गतिमाप्नुयात् ।
देहदुःखकरं प्रोक्तं परिणामे न संशयः ॥ ११६॥
सत्कर्म मुक्तिकामार्थं कुरुते नित्यमादरात् ।
ब्रह्मार्पणस्वभावेनाकर्म विद्धि महामते ॥ ११७॥
शुक्लगत्या नरो वेदे मुक्तिं प्राप्नोति शाश्वतीम् ।
अकर्मणः प्रभावेण स निष्कामपरो मतः ॥ ११८॥
कर्मयोगमयं विश्वं सर्वं जानीहि पार्थिव ।
क्रियायां यत् स्थितं ब्रह्म स एव कर्मयोगकः ॥ ११९॥
क्रियमाणं च यत्प्रोक्तं तदेव कर्म उच्यते ।
तस्य भेदान् प्रवक्ष्यामि समाहितमनाः शृणु ॥ १२०॥
मौनं यदि धृतं तेन तदा जातं नृपात्मज ।
अतः कर्ममयं विद्धि धारणान्नात्र संशयः ॥ १२१॥
वायुबन्धनयोगेन प्राणो नीतः स्वमस्तके ।
तदेव कर्मरूपं वै वायुचालनतः परम् ॥ १२२॥
ध्यानं करोति चेच्चित्ते दमयित्वा मनः स्वयम् ।
तदेवं कर्मरूपं तु मनोनिग्रहकारणात् ॥ १२३॥
जागृतिर्जागरं कर्म स्वप्नः सुप्तिमयं भवेत् ।
अज्ञानं विद्धि सौषुप्तं कर्मरूपं न संशयः ॥ १२४॥
इत्याद्या बहवो भेदा मया वक्तुं न शक्यते ।
नामरूपधरः कोऽपि कर्महीनो न वर्तते ॥ १२५॥
उत्पत्तिश्च स्थिती राजन् संहारस्त्रिविधं परम् ।
सर्वं कर्ममयं विद्धि कर्मयोगेन जायते ॥ १२६॥
असद्ब्रह्म च यत् प्रोक्तं वेदे तन्मायया बभौ ।
कर्मरूपं न सन्देहो नामरूपप्रधारणात् ॥ १२७॥
नामरूपपरित्यागे ह्यसत् स्वानन्दगं भवेत् ।
मानवो ब्रह्मरूपः स कर्मयोगी प्रकथ्यते ॥ १२८॥
एतत् कर्मस्वरूपं ते कथितं ब्रह्मवाचकम् ।
कर्माधीनं जगत् सर्वं ब्रह्म नानाविधं तथा ॥ १२९॥
जनक उवाच ।
ज्ञानं च कीदृशं प्रोक्तं तन्मे वदत योगिनः ।
येन योगी भवेज्जन्तुर्ज्ञानयोगपरायणः ॥ १३०॥
द्रुमिल उवाच ।
हृदि स्फूर्तिमयं ज्ञानं ज्ञातव्यं विबुधैः सदा ।
स्फूर्तिदातृस्वरूपेण ब्रह्म तत्र स्थितं भवेत् ॥ १३१॥
नामरूपविहीनं यत् सदाऽमृतमयं भवेत् ।
आद्यन्तभावहीनं वै तद्विद्धि ज्ञानमुत्तमम् ॥ १३२॥
ज्ञानचक्षुः स्वभावेन ब्रह्मानुभवकारकम् ।
नानाज्ञानलयं कृत्वा ज्ञानयोगी भवेत्ततः ॥ १३३॥
सत्यस्वानन्दरूपं त्वं जानीहि ज्ञानमूलकम् ।
ज्ञानानां योगभावेन लभ्यते योगसेवया ॥ १३४॥
जनक उवाच ।
आनन्दः कीदृशः प्रोक्तः सहजं कीदृशं मतम् ।
ब्रह्मभूयं च योगीन्द्राः कीदृशं कथयन्तु मे ॥ १३५॥
चमस उवाच ।
बाह्यान्तरविभेदेनानन्दः सर्वत्र वर्तते ।
उभयात्मकभावस्थः समरूपधरो मतः ॥ १३६॥
नानाद्वन्द्वेषु राजेन्द्र स्थितमानन्दरूपकम् ।
समं विद्धि च सर्वत्र जगत्सु ब्रह्मसु परम् ॥ १३७॥
सत्यासत्यमयं तद्धि समस्वानन्दगं परम् ।
ब्रह्म राजन् सदानन्दरूपं तदेव सम्मतम् ॥ १३८॥
द्वन्द्वेषु त्वासमन्ताद्यन्नन्दनात्तन् महीपते ।
आनन्दः परमानन्दो ब्रह्मानन्दः प्रकथ्यते ॥ १३९॥
समभावस्थितानां च योगेन ब्रह्म लभ्यते ।
(Page खं. ५ अ. ३० पान ७२)
आनन्दाख्यं प्रजानाथ योगसाधनतः परम् ॥ १४०॥
एतत्ते कथितं पूर्णमानन्दस्य स्वरूपकम् ।
आनन्दानां समायोगे समस्वानन्दगो भवेत् ॥ १४१॥
द्विविधा तस्य माया तु द्वन्द्वभावधरा मता ।
तयोः संयोगभावे स उभयात्मक उच्यते ॥ १४२॥
तदेव द्विविधेष्वेव मोहयुक्तं नराधिप ।
समं सर्वत्र जानीहि द्वन्द्वमोहादिदायकम् ॥ १४३॥
त्रिषु मोहविहीनं यत् सदा नेति स्वरूपकम् ।
स्वाधीनं सहजं विद्धि चतुर्थं राजसत्तम ॥ १४४॥
स्वेच्छया सत् समायुक्तं स्वेच्छया सत् परायणम् ।
स्वेच्छयाऽऽनन्दसंयुक्तं त्रिभिर्हीनं निजेच्छया ॥ १४५॥
आज्ञया त्रिविधं ब्रह्म वर्तते नात्र संशयः ।
सर्वेषां नाशकं तुर्यं सहजं नेति भावतः ॥ १४६॥
न तस्य नेति कर्ता वै विद्यते योगभावतः ।
तेन नेतिमयं स्वच्छन्दगं प्रोक्तं सनातनम् ॥ १४७॥
स्वेच्छया बन्धयुक्तश्च स्वेच्छया बन्धवर्जितः ।
स्वेच्छया समभावस्थो भवते सहजाख्यकः ॥ १४८॥
अव्यक्तेन त्रिभावेषु तेन योगेन लभ्यते ।
सहजं ब्रह्म वेदेषु यत् प्रोक्तं वेदवादिभिः ॥ १४९॥
स्वाधीनानां समायोगे व्यक्तः स्वानन्द उच्यते ।
अव्यक्तयोगभावत्वान्निराकर्तुं न शक्यते ॥ १५०॥
एतत्ते कथितं भूप सहजं मोहवर्जितम् ।
अधुना शृणु योगं त्वं ब्रह्मभूयप्रकाशकम् ॥ १५१॥
स्वानन्दः सर्वसंयोगे भवति ब्रह्मधारकः ।
चतुर्णां तत्र संयोगः कर्तव्यः स्वसमाधिना ॥ १५२॥
त्रिविधं मोहयुक्तं च मोहहीनं चतुर्थकम् ।
नैव ब्रह्मणि राजेन्द्र मोहयुक्तविहीन ते ॥ १५३॥
स्वाधीनं न भवेत्तत्तु पराधीनं न वर्तते ।
ब्रह्मणां जगतां तत्र संयोगो जायते परः ॥ १५४॥
स्वसंवेद्यमयो भूत्वा यस्तु तिष्ठति मानवः ।
तत्र किं भिन्नभावाख्यं वर्तते योगनाशकम् ॥ १५५॥
संयोगे नाशभूते तु ब्रह्मायोगः प्रकीर्तितः ।
न तत्र जगतां भूप संयोगो ब्रह्मणां भवेत् ॥ १५६॥
अयोगस्य न संयोगः केषु ब्रह्मसु कीर्तितः ।
योगिभिर्योगप्राप्त्यर्थं व्यतिरेकाद्विचारय ॥ १५७॥
संयोगे मायया युक्तो भवते गणनायकः ।
मायाधीनस्वरूपेण सदाऽयोगः प्रवर्तते ॥ १५८॥
मायया सर्वभावस्थो भवति द्विरदाननः ।
संयोगाभेदभावेन निजमायामयः स्मृतः ॥ १५९॥
स्वानन्दे गणनाथस्य दर्शनं योगिनां भवेत् ।
संयोगाभेदकं तेन विदुः स्वानन्दवासिनम् ॥ १६०॥
अयोगे माययाहीनो गणेशः सर्वदा मतः ।
यादृशस्तादृशः सोऽपि नागतो न गतो भवेत् ॥ १६१॥
वृथा भ्रान्तिमयं सर्वं भासते मायया किल ।
भ्रान्तानां तेन सर्वत्र निवृत्तिर्जायते परा ॥ १६२॥
स्वकीया भेदभावाच्च निवृत्तिं व्यतिरेकतः ।
धृत्वा ह्ययोगयोगस्थः स्वयं भवति मानवः ॥ १६३॥
अयोगे मायया हीनः संयोगे मायया युतः ।
नरो भवति राजेन्द्र पञ्चपञ्चस्वरूपया ॥ १६४॥
ब्रह्मणि ब्रह्मभूतस्य संयोगः कुत्र वर्तते ।
(Page खं. ५ अ. ३० पान ७३)
अयोगश्च महीपाल नान्वयव्यतिरेकतः ॥ १६५॥
चित्तं पञ्चविधं त्यक्त्वा चित्तभ्रान्तिं च पञ्चधा ।
स्वयं चिन्तामणिः साक्षाद् ब्रह्मभूतो नरो भवेत् ॥ १६६॥
संयोगात्मा गकारश्च णकारोऽयोगवाचकः ।
तयोः स्वामी गणाधीशः संयोगायोगवर्जितः ॥ १६७॥
इति ते कथितं भूप ब्रह्मभूतस्वरूपकम् ।
किं श्रोतुमिच्छसि प्राज्ञ गमिष्यामो यदृच्छया ॥ १६८॥
जनक उवाच ।
गणेशो भक्तिभावेन नराधीनो भवेत् स्वयम् ।
न भक्तिसमभावाख्यं मोहदं तस्य सम्भवेत् ॥ १६९॥
अतो वदत मे भक्तिस्वरूपं योगिसत्तमाः ।
तया विघ्नेश्वरं नित्यं भजिष्यामि विशेषतः ॥ १७०॥
करभाजन उवाच ।
भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी ।
कथयामि समासेन स्वरूपं रसदायकम् ॥ १७१॥
श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ १७२॥
नवधा मानसी राजन् गतिः सर्वत्र वर्तते ।
भावेषु रससंयुक्ता दशमी नैव विद्यते ॥ १७३॥
यदा भक्तौ नरस्यैव रसः पूर्णः प्रवर्तते ।
तदाऽस्य नवधा नित्यं चित्तं तस्यां वसेत् स्वयम् ॥ १७४॥
यदा मुक्तौ तथा जन्तो रसः पूर्णो जनाधिप ।
तदा मुक्तिपदार्थेषु चित्तं तु नवधा भवेत् ॥ १७५॥
यदा च ब्रह्मभूतेषु रसस्तस्य प्रवर्तते ।
तदा नरस्य योगेषु चित्तं तन्नवधा भवेत् ॥ १७६॥
योगी भूत्वा नरो यस्तु भजते गणनायकम् ।
तस्यैव नवधा चित्तं गणेशे सर्वदा भवेत् ॥ १७७॥
योगिनां हृदि विघ्नेशः पूर्णरूपधरो वसेत् ।
अयोगिनां कलांशश्च तस्माद्योगी भवेन्नरः ॥ १७८॥
ततो गणेशरूपस्य भजनं पूर्णभावतः ।
भवत्यत्र न सन्देहो रसयुक्तं विशेषतः ॥ १७९॥
गणेशगुणवादानां प्रीत्या सम्पूर्णभावतः ।
प्रकुर्यात् स नरो नित्यं श्रवणं रससंयुतः ॥ १८०॥
सर्वश्रवणजातीनां रसं ज्वाल्य महामतिः ।
गणेशगुणवादेषु रसं पूर्णं स पश्यति ॥ १८१॥
एवं श्रवणभक्तिं त्वं प्राप्तां जानीहि भूमिप ।
समतो योगिषु श्रेष्ठो बुधैर्नृप न संशयः ॥ १८२॥
तथा कीर्तनभावश्च उत्पद्येत नराधिप ।
गाणेशकीर्तने भक्तिः प्राप्ता तेन विनिश्चितम् ॥ १८३॥
गणेशार्थं च या किञ्चिद्विस्मृतिस्तत्र नो भवेत् ।
तदा स्मरणभक्तिः सा प्राप्ता सम्पूर्णभावतः ॥ १८४॥
गणेशपादपद्मं यो मत्वा शाश्वतकं परम् ।
तत्रैव सकलो यत्नो भवेत्तत् पादसेवनम् ॥ १८५॥
(Page खं. ५ अ. ३० पान ७४)
साङ्गं गाणेश्वरं सर्वं कुरुते नित्यमादरात् ।
अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामतिः ॥ १८६॥
गणेशान्न परं श्रेष्ठं वेदशास्त्रविचारतः ।
न चलेत् क्वापि जानीहि तदा वन्दनवान् भवेत् ॥ १८७॥
गाणपत्यानि चिह्नानि धृत्वा तत्परचेतसा ।
तदा दास्यात्मिका भक्तिः प्राप्ता तेन नराधिप ॥ १८८॥
अन्तर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः ।
अन्तर्भयेन भक्तिर्या सा प्रोक्ता सख्यरूपिणी ॥ १८९॥
पञ्चधा मोहयुक्तं स चित्तमुत्सृज्य योगतः ।
न भिन्नोऽहं गणेशानान् मत आत्मनिवेदकः ॥ १९०॥
मनोगतिः प्राज्ञ यत्र तत्र विघ्नेश्वरं सदा ।
भजते रससंयुक्तः स वै भक्तः प्रकीर्तितः ॥ १९१॥
रसरूपा स्वयं भक्तिर्यत्र पूर्णस्वभावतः ।
यस्य तिष्ठति जन्तुः स तद्भक्तः सम्मतो नृप ॥ १९२॥
भोगेषु न रसोत्पत्तिर्मुक्तौ च ब्रह्मभूयके ।
गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति ॥ १९३॥
आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् ।
ब्रह्माकारैर्महाचिह्नैः संयुक्तं योगदायकम् ॥ १९४॥
तत्र विश्वासभावेन तादृगुत्पद्यते रसः ।
तदा भक्तो महाराज भवते योगिवन्द्यकः ॥ १९५॥
नारदेनैव राजेन्द्र बोधितस्त्वं न बुद्ध्यसे ।
तव भावपरीक्षार्थं भक्तिदानार्थमञ्जसा ॥ १९६॥
प्रेषितस्तेन विघ्नेशो वृद्धः कुष्ठयुतो द्विजः ।
समायातः सर्वभक्षी छलयामास साधुपम् ॥ १९७॥
नरदेहं समासाद्य गणेशं भजेत न यः ।
पशुतुल्यः स राजेन्द्र तस्य धिक् जन्म निश्चितम् ॥ १९८॥
मुद्गल उवाच ।
एवमुक्त्वा विदेहं तं जनकं योगिनो नव ।
अनुज्ञाप्य ययुस्तस्मात् स्वेच्छया गणपे रताः ॥ १९९॥
जनकस्तान्नमस्कृत्य स्वगृहे गणनायके ।
योगी नवविधां भक्तिमकरोद्भावसंयुतः ॥ २००॥
अहर्निशं गणेशानमभजन्नान्यचेतसा ।
जनकः सर्वभावेन योगिवन्द्यो बभूव ह ॥ २०१॥
तिष्ठन् स्वपन् पिबन् वाऽदन् गच्छन् विघ्नेश्वरे रतः ।
अतो गणेशसन्तुष्ट्या तद्वंशे जनका बभुः ॥ २०२॥
सर्वज्ञानसमायुक्ताः सर्वे साधुगुणान्विताः ।
गणेशभजने सक्ता बभूवुश्च प्रजापते ॥ २०३॥
नवयोगिषु यातेषु जनकस्त्रिशिरोभवम् ।
वृत्तान्तं परिशुश्राव गणेशगमनात्मकम् ॥ २०४॥
स्वयं तस्य गृहं गत्वा ननाम मुनिपुङ्गवम् ।
दैवीसमृद्धिसंयुक्तं योगपारङ्गतं परम् ॥ २०५॥
तेन सम्बोधितो राजा नित्यं दूर्वापरायणः ।
पुपूज गणनाथं तं सदा भक्तिसमन्वितः ॥ २०६॥
दूर्वाहीनां न पूजां स चकार मरणावधि ।
अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ॥ २०७॥
इदं जनकमाहात्म्यं कथितं ते प्रजापते ।
भुक्तिमुक्तिप्रदं नृभ्यः श्रवणात् पठनाद्भवेत् ॥ २०८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ ५.३०
(Page खं. ५ अ. ३१ पान ७५)
५.३१ तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया ।
किमर्थं पावनी सा तु दोषयुक्ता बभूव ह ॥ १॥
तुलस्या किं कृतं विप्र गणेशानस्य विप्रियम् ।
येन रुष्टोऽमरेशानस्तां तत्याज यशस्विनीम् ॥ २॥
मुद्गल उवाच ।
धर्मध्वजो महीपालो बभूवे धर्मसंयुतः ।
दाता मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः ॥ ३॥
तस्य पुत्री बभूवाऽसौ रूपलावण्यसंयुता ।
न तया सदृशी कुत्र वर्तते कामिनी विधे ॥ ४॥
वृन्दा नाम्नी च विख्याता प्रणम्य पितरं कदा ।
जगाद भावगम्भीरा चतुरा सुवयोयुता ॥ ५॥
वृन्दोवाच ।
तात विष्णुं परित्यज्य वृणोम्यन्यं न निश्चितम् ।
वरं तदर्थमेवं मां देहि तस्मै महामते ॥ ६॥
धर्मध्वज उवाच ।
विष्णुर्देववरः साक्षाद् भगवान् विश्वभावनः ।
स कथं च त्वया लभ्यो वरो लक्ष्मीपतिः सुते ॥ ७॥
मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितम् ।
नरा वयं स वै साक्षाद् भगवान् भगधारकः ॥ ८॥
एवं नानाविधैर्भावैर्बोधिता न बुबोध सा ।
तदर्थं मन्त्रराजं सङ्गृह्य विष्णोर्वनं ययौ ॥ ९॥
ध्यात्वा चतुर्भुजं विष्णुं निराहारपरायणा ।
तताप तप उग्रं सा पतिं विष्णुमभीप्सितम् ॥ १०॥
तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद ।
तपस्तताप वृन्दोग्रं नानामार्गपरायणा ॥ ११॥
शुष्कपत्राणि वायुं सा जलं मूलं फलं तथा ।
भुक्त्वा सन्तोषयामास विष्णुं देववरं विधे ॥ १२॥
वर्षाणि लक्षसङ्ख्यानि गतानि तपसो बलात् ।
राजपुत्र्याश्च वृन्दाया न तुतोष जनार्दनः ॥ १३॥
अतीव तपसा तस्या अन्तर्ज्ञानं बभूव ह ।
आत्माकारं जगत् सर्वमपश्यद् बोधसंयुता ॥ १४॥
कदा विघ्नेश्वरं वृन्दा ददर्श नियमे रतम् ।
सम्पूज्य गणनाथं वै हृदि ध्यानपरायणम् ॥ १५॥
तं दृष्ट्वा कुञ्जरास्यं सा शिवपुत्रं नृपात्मजा ।
भागीरथीसन्निधिस्थं विस्मिताऽभूत् प्रजापते ॥ १६॥
गणेशार्थं समालोक्य मोहिताऽभूत् स्वचेतसि ।
अहो गणेश्वरः साक्षाद् ब्रह्मणां नायकः स्मृतः ॥ १७॥
अस्य कलांशसम्भूताः शिवविष्ण्वादयोऽपरे ।
पूर्णभावात्मकः साक्षाद् गणेशो नात्र संशयः ॥ १८॥
शिवेन तपसोग्रेणाराधितो गणनायकः ।
पुत्रोऽभूद्योगशान्तिस्थो भक्तभक्तिपदप्रदः ॥ १९॥
खेलत्यात्मानमाभज्य चतुर्धाऽनन्यभावतः ।
अयं विष्णुस्तथा शम्भुः शक्तिः सूर्यो न संशयः ॥ २०॥
पूर्णभावमविज्ञायाऽहं विष्णुपरमाऽभवम् ।
अधुना तं समालोक्य बोधयुक्ता न संशयः ॥ २१॥
तपःप्रभावसामर्थ्याद् वृणोमि गणनायकम् ।
व्यभिचारो न मे भावी विष्णुरूपोऽयमञ्जसा ॥ २२॥
एवं विचार्य विघ्नेशमाययौ ध्यानसंस्थितम् ।
ध्यानभङ्गार्थमुद्युक्ता वृन्दा तं प्रत्युवाच ह ॥ २३॥
वृन्दोवाच ।
त्वं साक्षाद् गणराजश्च तपसाऽऽराधितो भवान् ।
शिवपुत्रत्वमापन्नः किं ध्यायसि वदस्व माम् ॥ २४॥
शिवविष्ण्वादयो देवास्त्वां भजन्ति निरन्तरम् ।
(Page खं. ५ अ. ३१ पान ७६)
कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकम् ॥ २५॥
गणेश्वरं समास्थाप्य कथं पूजयसेऽप्यहो ।
गणेश्वरो विशेषेण स्वयं ध्यायसि तं प्रभो ॥ २६॥
अहो चित्रं मया दृष्टं गणेशो गणनायकम् ।
भजतेऽनन्यभावस्थः शिवपुत्रत्वकारणात् ॥ २७॥
न त्वं शिवसुतः स्वामिन् न ते विघ्नेश्वरः कदा ।
कुलदेवस्तथाऽपि ध्यायसि किं गणपं प्रभो ॥ २८॥
तव स्मरणमात्रेण ब्रह्मभूता भवन्ति ते ।
नरा देवेन्द्रमुख्याश्च योगिनो वेदकादयः ॥ २९॥
स्वयं शान्तिप्रदाता त्वं किं ध्यायसि गणेश्वरम् ।
गणेश्वराशु वद मां वाक्यं सगुणनिर्गुण ॥ ३०॥
कामबाणार्दिता सा तं वृन्दा नानाप्रकारतः ।
बोधयामास विघ्नेशो ध्यानस्थो न बुबोध ताम् ॥ ३१॥
ततः सा जलबिन्दुं वै चिक्षेप गणपोपरि ।
तथापि ध्यानसंस्थो नालोकयत्तां गजाननः ॥ ३२॥
जघान मोहसंयुक्तांऽगुल्या तं सा ततोऽसकृत् ।
ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत् पुरः स्थिताम् ॥ ३३॥
गणेशाय नम इति मन्त्रमुच्चार्य विघ्नपः ।
जगाद तां सकामां स निष्कामो गणपे रतः ॥ ३४॥
श्रीमहागणपतिरुवाच ।
काऽसि त्वं वद मातर्मां चापल्यगुणसंयुते ।
ध्यानभङ्गो न कर्तव्यः साधुभिश्च कदाचन ॥ ३५॥
गणेशकर्मसंस्थं तं नरं यश्च नराधमः ।
पृच्छते बोधयति वा स वै नरकगो भवेत् ॥ ३६॥
ध्यानभङ्गस्य दोषस्ते माऽस्तु बाले सुलक्षणे ।
मा कुरुष्व पुनस्त्वं च कर्म चापल्यसंयुता ॥ ३७॥
किमर्थमागता बाले वद मां काममोहिते ।
निष्कामं गणपे संस्थं गच्छ वा यत्र ते रुचिः ॥ ३८॥
वृन्दोवाच ।
धर्मध्वजस्य पुत्रीं मां विद्धि नानातपोयुताम् ।
वरो मम भव स्वामिन् भर्ता त्वं सर्वनायक ॥ ३९॥
सर्वासां त्वं विशेषेण भर्ताऽस्यत्र न संशयः ।
तथापि मां भजस्व त्वं भजमानां गजानन ॥ ४०॥
तस्यास्तद्वचनं श्रुत्वा प्रहस्य गणनायकः ।
उवाच कामबाणैस्तामर्दितां शान्तिधारकः ॥ ४१॥
श्रीमहागणपतिरुवाच ।
नाहं वृणोमि धर्मज्ञे स्त्रियं मोहयुतां कदा ।
तपसा त्वं वरं तुल्यं सुतुष्टं वरयस्व च ॥ ४२॥
सकामं पुरुषं पश्य सकामा त्वं नृपात्मजे ।
अहं गणेश्वरस्यैव दासो देवं भजामि तम् ॥ ४३॥
वृणोमि नैव निष्कामः सकामां देवि निश्चितम् ।
शान्तिस्था मे भवेत् पत्नी गच्छातो यत्र ते समः ॥ ४४॥
तस्य तद्वचनं श्रुत्वा पुनः सा तमुवाच ह ।
अहं शान्तिसमायुक्ता मां भजस्व दयानिधे ॥ ४५॥
तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंश्चलि ।
तथाऽपि तं हठाद्देवी चालिलिङ्ग सुविह्वला ॥ ४६॥
अङ्कुशं गणनाथस्याकृष्य तं काममोहिता ।
नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशाप ह ॥ ४७॥
दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः ।
असुरीव स्पृशसि च मां दुष्टे हठसंयुता ॥ ४८॥
मूढेव मां समाकृष्य नग्नं कर्तुं समुद्यता ।
अतो वृक्षस्वरूपा त्वं मूढयोनौ पतिष्यसि ॥ ४९॥
(Page खं. ५ अ. ३२ पान ७७)
गणेशवचनं श्रुत्वा दारुणं भयसंयुता ।
त्यक्त्वा तं कम्पमानाङ्गी ननाम रुदती भृशम् ॥ ५०॥
उवाच तं गणाधीशं मां क्षमस्व महागसाम् ।
न योग्याऽहं गणाधीश तव वामाङ्गके कदा ॥ ५१॥
कम्पन्तीं रुदतीं वीक्ष्य दयायुक्तो गजाननः ।
जगाद तां प्रजानाथ परां ज्ञात्वा तपोयुताम् ॥ ५२॥
श्रीमहागणपतिरुवाच ।
गच्छ देवि न ते दुःखं भविष्यति कदाचन ।
असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥ ५३॥
तत्र त्वां केशवः क्वापि शङ्खचूडस्वरूपधृक् ।
यप्स्यते स तदा दैत्यः शम्भुहस्तान् मरिष्यति ॥ ५४॥
ज्ञात्वा तं देहसन्त्यागं करिष्यसि हुताशने ।
पुनर्वृक्षस्वरूपस्था भविष्यसि न संशयः ॥ ५५॥
त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् ।
तेन सार्धं सदा देवि रंस्यसे त्वं निरन्तरम् ॥ ५६॥
पतिस्ते भविता विष्णुः सदा सुखप्रदायकः ।
मदीयकृपया देवि सर्वमान्या भविष्यसि ॥ ५७॥
देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यन्तं भविष्यसि ।
त्वत्काष्ठसम्भवां मालां धरिष्यन्ति गले जनाः ॥ ५८॥
त्वामन्यकाष्ठवत् सर्वे मानयिष्यन्ति निश्चितम् ।
त्रिलोकस्था जना नैव मा चिन्तां कुरु भामिनि ॥ ५९॥
देवानां त्वं प्रिया भूया विष्णोरत्यन्तभावतः ।
पत्रैः पुष्पैश्च वृन्दे त्वां पूजयिष्यन्ति मानवाः ॥ ६०॥
मम वर्ज्या सदा देवि भविष्यसि न संशयः ।
गच्छ त्वं यत्र भावस्ते चिन्तां त्यक्त्वा विशेषतः ॥ ६१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥ ५.३१
५.३२ तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
यथा गजाननः प्राह तथा जातं प्रजापते ।
वृन्दा तं प्रणिपत्यैव तपसे वनमाययौ ॥ १॥
चिन्ताक्रान्ता स्वयं देवी गणेशे भावलालसा ।
गणेशं मनसि ध्यात्वा तताप तप उत्तमम् ॥ २॥
नाममन्त्रं जजापैव पूजयामास सादरम् ।
एवं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ॥ ३॥
ततस्तां गणराजस्तु वरदः सहसाऽऽययौ ।
प्रणम्य तं प्रपूज्यैव वृन्दा तुष्टाव हर्षिता ॥ ४॥
वृन्दोवाच ।
नमस्ते विघ्नराजाय भक्तविघ्नहराय च ।
अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥ ५॥
परेशाय पराणां ते परात्परतराय च ।
भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥ ६॥
ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे ।
ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥ ७॥
अमेयायाप्रतर्क्याय सदा स्वानन्दवासिने ।
(Page खं. ५ अ. ३२ पान ७८)
शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥ ८॥
अनाथाय च सर्वेषां नाथाय परमात्मने ।
वक्रतुण्डाय सर्वेषामादिपूज्याय ते नमः ॥ ९॥
विनायकाय वीराय शूर्पकर्णाय ढुण्ढये ।
गजाननाय चिन्तामणये हेरम्ब ते नमः ॥ १०॥
अनन्तगुणधाराय नानाखेलकराय ते ।
परेषां तु परेशाय मूषकध्वजिने नमः ॥ ११॥
पूर्णानन्दाय सर्वेषां मात्रे पित्रे नमो नमः ।
ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥ १२॥
किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् ।
अतस्त्वां प्रणमाम्येवं तेन तुष्टो भव प्रभो ॥ १३॥
गाणेशं देहि मे योगं गाणपत्यां च मां कुरु ।
क्षमस्व मेऽपराधं त्वं त्वदुल्लङ्घनभावजम् ॥ १४॥
अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके ।
पूजने किञ्चिदल्पेन भावेन वरदायक ॥ १५॥
क्वाऽहं ते समतां नाथ सम्प्राप्नोमि कदापि न ।
तथा तपोमदेनैतत् कृतं क्षन्तुं त्वमर्हसि ॥ १६॥
एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते ।
वृन्दा तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १७॥
श्रीगणेश उवाच ।
मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः ।
गाणपत्या महाभागे भविष्यसि सदा सुते ॥ १८॥
भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः ।
पूजयिष्यन्ति मां भक्त्या तत्र त्वां धारयाम्यहम् ॥ १९॥
एकविंशतिपत्राणि ह्यर्पयिष्यन्ति मानवाः ।
तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥ २०॥
उल्लङ्घनसमं पापं न भूतं न भविष्यति ।
स्वल्पोल्लङ्घनमात्रेण त्वं त्यक्ता च मया सदा ॥ २१॥
ये मामुल्लङ्घयिष्यन्ति तांस्त्यजामि निरन्तरम् ।
तत्रापि तपसा बद्धो वृन्दे त्वां मानयाम्यहम् ॥ २२॥
त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
ब्रह्मभूयप्रदं पूर्णं पठते शृण्वते सदा ॥ २३॥
तुलसीं ये नरा मह्यमर्पयन्ति कदा सुते ।
तत्पापहरणं स्तोत्रं भविष्यति कृतं त्वया ॥ २४॥
उल्लङ्घनाघहं नित्यं भविष्यति विशेषतः ।
अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥ २५॥
एवमुक्त्वा गणाधीशोंऽतर्धानमगमत् स्वयम् ।
तुलसी हर्षसंयुक्ता बभूवे च प्रजापते ॥ २६॥
तदादि सा महाभागा बभूव विगतज्वरा ।
क्रमेण तुलसी जाता विष्णुपत्नी सुपूतिता ॥ २७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ॥ ५.३२
(Page खं. ५ अ. ३३ पान ७९)
५.३३ तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
अज्ञानेन महायोगिन् ज्ञानेन तुलसीयुतम् ।
पूजनं गणनाथस्य कृतं तस्य फलं वद ॥ १॥
श्रुत्वा कथामृतं त्वत्तो न तृप्तोऽहं भवामि भोः ।
अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः ॥ २॥
मुद्गल उवाच ।
अत्र ते कथयिष्यामि इतिहासं पुरा भवम् ।
श्रवणात् संशयः सर्वो नाशं यास्यति तत्त्वतः ॥ ३॥
ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे काश्यपे कुले ।
स तु नित्यं गणपतिं तुलस्याऽपूजयद्धठात् ॥ ४॥
अन्ये तत्र द्विजास्तं वै वारयन्तो विशेषतः ।
न वाक्यं जगृहे तेषां ज्ञानं बौद्धं खलोऽब्रवीत् ॥ ५॥
गणेशः सर्वरूपश्चेत् कुतस्तत्र प्रवर्तते ।
विधिनिषेधकाद्यं हि मा वदेत क्रियात्मकाः ॥ ६॥
ततः सर्वे भयोद्विग्ना बभूवुस्ते द्विजोत्तमाः ।
परस्परं समूचुर्वै गाणपत्याः प्रजापते ॥ ७॥
अहो गाणेश्वरे देहे तुलसी मस्तकेऽथवा ।
दृष्टा सद्यश्च निष्कास्या गाणपत्यैर्विशेषतः ॥ ८॥
अन्यैरपि न सन्देहो नो चेन्नरकगामिनः ।
उपानदादिसंयुक्तैरशुचिभिस्तदप्यहो ॥ ९॥
तत्र विलम्बभावेन पापभागी नरो भवेत् ।
किं कर्तव्यं द्विजैरन्यैर्दुष्टोऽयं कथ्यतां द्विजाः ॥ १०॥
यथा वज्रेण पीडां तु बुभुजुः पर्वतादयः ।
तथा विघ्नेश्वरः साक्षात्तुलस्या पीडितो भवेत् ॥ ११॥
ततः सर्वैर्विनिश्चित्य स गाणेशालयात्तदा ।
बहिष्कृतो महापापी स्वगृहे तादृशे रतः ॥ १२॥
ततः स्वल्पेन कालेन ममार काश्यपाधमः ।
नरकेषु च तं यामाः पातयामासुरञ्जसा ॥ १३॥
एककल्पसमं कालं नरकेषु स्थितोऽभवत् ।
क्रमेण सकलान् भुक्त्वा राक्षसोऽभूत् सुदारुणः ॥ १४॥
सदा क्षुधा समाविष्टो दाहरोगादिसंयुतः ।
अशक्तः सर्वकार्येषु वनेषु विचचार ह ॥ १५॥
एकदा तत्र गार्ग्यश्च समायातो निजेच्छया ।
गणेशभक्तमुख्यः स महायोगी प्रजापते ॥ १६॥
तं दृष्ट्वा राक्षसो दुष्टो भक्षितुं च समाययौ ।
गार्ग्यो गणेशमन्त्रेण मन्त्रितं जलमाक्षिपत् ॥ १७॥
जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सः ।
धर्मध्रुक् राक्षसो जातिस्मरस्तत्र बभूव ह ॥ १८॥
ततोऽतिखेदसंयुक्तः स रुरोद प्रणम्य तम् ।
जगाद प्राञ्जलिं बद्ध्वा हाहाकाररवाऽऽकुलः ॥ १९॥
धर्मध्रुगुवाच ।
रक्ष मां मुनिशार्दूल गाणपत्य महायशाः ।
त्वत्पादप्रवणं गार्ग्य मोचयाशु भवार्णवात् ॥ २०॥
ततः स सर्ववृत्तान्तं कथयामास राक्षसः ।
पूर्वजन्मभवं तस्मै गार्ग्याय भयसङ्कुलः ॥ २१॥
त्वदीयदर्शनेनैव मन्त्रितेन जलेन च ।
जातिस्मरत्वमापन्नो दुःखं ते कथयाम्यहम् ॥ २२॥
श्रुत्वा शरणगं वीक्ष्य दयायुक्तो महामुनिः ।
गणेशनाममन्त्रं स ददौ तस्मै हितावहम् ॥ २३॥
जगाद तं महायोगी जप त्वं नाममन्त्रकम् ।
नित्यं तथा तुलस्या वै कृतं स्तोत्रं पठस्व च ॥ २४॥
एवमुक्त्वांऽतर्दधेऽसौ गार्ग्यः परमपावनः ।
दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा भयाकुलः ॥ २५॥
(Page खं. ५ अ. ३४ पान ८०)
ततः क्षुधा सुशान्ता वै बभूवे तस्य दुर्मतेः ।
रोगहीनः सशक्तश्च गाणपत्यप्रियोऽभवत् ॥ २६॥
अन्ते गणेश्वरं सोऽपि जगाम दुःखवर्जितः ।
तत्र योगस्वभावेनाऽभजद्विघ्नेश्वरं विधे ॥ २७॥
एतत्ते कथितं सर्वं सङ्क्षेपेण चरित्रकम् ।
तुलसीवर्जने भूतं सर्वसंशयनाशनम् ॥ २८॥
तुलसीं गणनाथाय समर्पयति यो नरः ।
स चाण्डालो न सन्देहो नारकीभूमिसंस्थितः ॥ २९॥
वंशहानिर्भवेत्तस्य लक्ष्मीनाशस्तथा विधे ।
रोगाद्यैः पीडितोऽत्यन्तमन्ते नरकगो भवेत् ॥ ३०॥
तस्य स्पर्शं न कुर्यात् कः कृत्वा स्नानं समाचरेत् ।
सचैलस्नानहीनश्चेत् ज्ञात्वा पापी सदा भवेत् ॥ ३१॥
नाम तस्य प्रजानाथ न ग्राह्यं पापदायकम् ।
बहुनाऽत्र किमुक्तेन पापरूपः स वै स्मृतः ॥ ३२॥
इदं ते कथितं सर्वं पृच्छते च यथातथम् ।
श्रोतुमिच्छसि किं भूयश्चरित्रं वद साम्प्रतम् ॥ ३३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ५.३३
५.३४ रुक्माङ्गदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
वद पूजां विधियुतां गणेशस्य सविस्तराम् ।
मानसीं बाह्यरूपां च सर्वसिद्धिप्रदायिनीम् ॥ १॥
गणेशलोकगं सर्वं माहात्म्यं कथयस्व मे ।
कीदृशोऽयं निजो लोको मुने केनैव लभ्यते ॥ २॥
मुद्गल उवाच ।
अत्र ते कथयिष्यामि पुरातनभवं शुभम् ।
इतिहासं महाभाग सर्वसिद्धिप्रदायकम् ॥ ३॥
पुरा ते कथितं स्थानं गणेशस्य महात्मनः ।
कार्तिकेयवराज्जातं लक्षवैनायकात्मकम् ॥ ४॥
तत्र राजा बभूवाऽपि सर्वशास्त्रविशारदः ।
ऐलः शस्त्रास्त्रतत्त्वज्ञो धर्मशीलश्च सत्यवाक् ॥ ५॥
सदा गणेशभक्तश्चाभजद्विघ्नेश्वरं सदा ।
सार्वभौमः सुविख्यातो गाणपत्यप्रियोऽभवत् ॥ ६॥
तत्राऽऽजगाम गाणेशो गार्ग्यः सर्वार्थकोविदः ।
तं प्रणम्य प्रपूज्यैव पप्रच्छैलो महायशाः ॥ ७॥
ऐल उवाच ।
स्वामिंस्त्वं गणराजस्य भक्तस्तादृशयोगधृक् ।
साक्षाद्गणपतिः किं वा त्वमेवात्र न संशयः ॥ ८॥
मयूरेशावतारे त्वं मयूरेशसमन्वितः ।
स्थितस्तत्र त्वया विप्र मयूरेशो निरीक्षितः ॥ ९॥
धन्यस्त्वं योगिनां मध्ये प्रत्यक्षं गणनायकम् ।
मित्रं कृत्वा सुहर्षेणाऽहो तिष्ठसि विशेषतः ॥ १०॥
मयूरेशस्य विप्रेशाज्ञया योगविदांवर ।
भाष्यं कृतं गणेशस्य गीतायाः शान्तिदं परम् ॥ ११॥
(Page खं. ५ अ. ३४ पान ८१)
त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः ।
बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मता मुने ॥ १२॥
यादृशं गणनाथेन कथितं तादृशं प्रभो ।
त्वया ज्ञातं न सन्देहो गणेशस्त्वमतो मतः ॥ १३॥
गणेशगीताहार्दं यद्गणेशश्च वरेण्यकः ।
त्वं त्रयः सम्मताः शास्त्रे जानते पूर्णयोगतः ॥ १४॥
धन्येन येन भाग्येन दृष्टं ते पादपङ्कजम् ।
विद्याव्रततपोदानं पितरौ कुलमेव मे ॥ १५॥
यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनात् ।
न ह्यल्पपुण्ययोगेन दर्शनं योगिनां भवेत् ॥ १६॥
अधुना वद मे ब्रह्मन् गणेशस्य यथाविधि ।
पूजां बाह्यां तथांऽऽतर्यां गाणपत्यप्रकारतः ॥ १७॥
एवं पृष्टो महायोगी गार्ग्यः सर्वार्थकोविदः ।
तं जगाद सुहर्षेण गाणपत्यो महायशाः ॥ १८॥
गार्ग्य उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
गृत्समदस्य विप्रस्य चरित्रसंयुतं नृप ॥ १९॥
वाचक्नविस्तपोनिष्ठो बभूव परमार्थवित् ।
तस्य पत्नी मुकुन्दा वै रूपयौवनशालिनी ॥ २०॥
वनमध्ये स्थितौ चोभौ तत्राकस्मात् समागतः ।
रुक्माङ्गदो नृपो भूप मृगयासक्तचेतसा ॥ २१॥
क्षुधातृषायुतो राजा भ्रष्टसार्थो द्विजाश्रमम् ।
प्रविश्य तं प्रणम्यैव सस्त्रीकं संस्थितोऽभवत् ॥ २२॥
तस्मिन् काले द्विजः सोऽपि मध्याह्ने कर्मकारणात् ।
निर्जगामाश्रमाद्वाचन्कविस्तस्मान् महायशाः ॥ २३॥
गते मुनौ नृपस्तत्र जगाद देहि मे जलम् ।
मातर्मुकुन्दे श्रान्ताय चाकुलाय क्षुधातृषा ॥ २४॥
तस्य तद्वचनं श्रुत्वा मुनिपत्नी सुविह्वला ।
दृष्ट्वा नृपवरं तं च कामबाणार्दिताऽवदत् ॥ २५॥
मुकुन्दोवाच ।
त्वत्समं पुरुषं क्वापि न पश्यामि नृपात्मज ।
त्रैलोक्येऽतो महाभाग मां भजस्व सुविह्वलाम् ॥ २६॥
नो चेत् प्राणा गमिष्यन्ति कामबाणैर्हता मम ।
इत्युक्त्वा तं नृपं सा तु चुचुम्बे हठतत्परा ॥ २७॥
ततोऽतिक्षोभितो राजा धृत्वा दूरे समाक्षिपत् ।
जगाद तां मुनेः पत्नीं व्यभिचाररतां वचः ॥ २८॥
रुक्माङ्गद उवाच ।
सर्वेषां गुरवो देवि ब्राह्मणा नात्र संशयः ।
पुत्रतुल्या वयं सर्वे त्वदीयाः पापकारिणि ॥ २९॥
तत्र विघ्नेश्वरे सक्ता न चलन्ति कदाचन ।
परस्त्रियं समालोक्य मातृबुद्धिकरा मताः ॥ ३०॥
एवं निर्भर्त्स्य तां राजा निःसृतः शोकसङ्कुलः ।
आश्रमात् सा शशापैव तं नृपं काममोहिता ॥ ३१॥
कुष्ठी भव महादुष्ट सकामां त्यजसि स्त्रियम् ।
मोहितां पापकर्मा त्वं कठिनोऽसि सुदुर्मते ॥ ३२॥
तस्याः शापस्य योगेन श्वेतकुष्ठी बभूव ह ।
रुक्माङ्गदो वने गत्वा सस्मार द्विरदाननम् ॥ ३३॥
ततो रात्रौ महायोगी नारदस्तत्र चागतः ।
तं दृष्ट्वा प्रणनामादौ पप्रच्छ विनयान्वितः ॥ ३४॥
रुक्माङ्गद उवाच ।
कुष्ठनाशकरं तीर्थं क्षेत्रमौषधमेव च ।
वद मे सर्वधर्मज्ञ गाणपत्यप्रिय प्रभो ॥ ३५॥
नारद उवाच ।
इन्द्रेण तपसा देवो गणेशः पूजितोऽभवत् ।
(Page खं. ५ अ. ३४ पान ८२)
सहस्रभगनाशार्थं स देवो वरदोऽभवत् ॥ ३६॥
गणेशवरदानेन महेन्द्रस्तेजसा युतः ।
योगयुक्तोऽपालयत त्रैलोक्यं सचराचरम् ॥ ३७॥
तत्र तीर्थं सुविख्यातं गणेशपदलाञ्छितम् ।
चिन्तामणिर्गणेशश्च तेन संस्थापितोऽभवत् ॥ ३८॥
तत्र गत्वा महीपाल कुरु स्नानं च तत्क्षणात् ।
कुष्ठहीनः सुवर्णस्त्वं भविष्यसि न संशयः ॥ ३९॥
तत्र तीर्थप्रभावेण कुष्ठरोगविवर्जिताः ।
भवन्ति स्वानन्दगास्तु नृप नास्त्यत्र संशयः ॥ ४०॥
एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।
गतः सोऽपि महाबुद्धिर्हर्षयुक्तो बभूव ह ॥ ४१॥
ततः प्रातः समायाता सेना तस्य महात्मनः ।
तया सार्द्धं जगामाऽसौ विदर्भे तीर्थसेवकः ॥ ४२॥
चिन्तामणिभवं तीर्थं दृष्ट्वा राजा प्रजापते ।
कुष्ठहीनो बभूवाऽथ सर्वैः संहर्षितोऽभवत् ॥ ४३॥
ततः स्नात्वा ससैन्येन यथाविधियुतः स्वयम् ।
पूजयामास हर्षेण चिन्तामणिं नृपात्मजः ॥ ४४॥
पूजयित्वा यथान्यायं दत्त्वा दानानि कृत्स्नशः ।
संस्थितो मण्डपे राजा गणेशे भक्तिसंयुतः ॥ ४५॥
तत्राकस्माद्विमानं तु समायातं सुखप्रदम् ।
तत्र दूता गणेशस्य जगुस्तं नृपसत्तमम् ॥ ४६॥
गाणपत्या ऊचुः ।
इदं विमानमारुह्य ससैन्यो नृपसत्तम ।
चल स्वानन्दलोके त्वं तीर्थस्नानप्रभावतः ॥ ४७॥
ततोऽतिहर्षसंयुक्तस्तान् प्रणम्य महायशाः ।
पूज्योवाच विचारज्ञो गाणपत्यो नृपात्मजः ॥ ४८॥
रुक्माङ्गद उवाच ।
भीमं मे गाणपत्यास्तु पितरं चारुहासिनीम् ।
मातरं त्यज्य विघ्नेशं कथं यामि त्वरान्वितः ॥ ४९॥
गाणेशानौ विशेषेण तथा तं ते समब्रुवन् ।
तयोः स्नानं नृपाध्यक्ष कुरु तीर्थेऽधुना किल ॥ ५०॥
ततस्तावपि नेष्यामो मा चिन्तां कुरु सत्तम ।
स्नानमात्रेण स्वानन्ददायकं तीर्थमुच्यते ॥ ५१॥
ततोऽतिहर्षितो राजा कुशान् गृह्य तयोः पुनः ।
नाम्ना ग्रन्थिं समाबध्य चक्रे स्नानं यथाविधि ॥ ५२॥
ततोऽतिहर्षिता लोका नगरस्थास्तथा पुनः ।
स्नानं चक्रुर्जनानां ते आबालं श्वपचावधि ॥ ५३॥
ततस्ते यानमारुह्य कौण्डिन्यनगरं ययुः ।
पुण्यं दत्वा च तान् सर्वान् गृह्य स्वानन्दमाययुः ॥ ५४॥
एवं तीर्थप्रभावेण नगरस्थजना नृप ।
गत्वा विघ्नेश्वरं दृष्ट्वा ब्रह्मभूता बभूविरे ॥ ५५॥
धर्मयुक्तो गणेशस्य भक्तो रुक्माङ्गदः स्वयम् ।
स्वल्पकालेन निर्विघ्नो बभूव छलितोऽपि सः ॥ ५६॥
गणेशभक्तमत्युग्रं ये छलन्ति नराधमाः ।
तेषां तु निष्कृतिर्नास्ति दुःखं भुञ्जन्ति दारुणम् ॥ ५७॥
रुक्माङ्गदं मुकुन्दा सा छलयित्वा विशेषतः ।
या गतिश्च तया प्राप्ता तां शृणुष्व महीपते ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते रुक्माङ्गदचरितं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ५.३४
(Page खं. ५ अ. ३५ पान ८३)
५.३५ गृत्समदगणेशसमागमो नाम पञ्चत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गार्ग्य उवाच ।
मुकुन्दा कामदग्धा सा पपात धरणीतले ।
न किञ्चित् सुखदं तस्या बभूव पृथिवीतले ॥ १॥
ततोऽतिशोकसंयुक्ता तमेवाचिन्त्य संस्थिता ।
निद्रां लेभे ततस्तां सोऽबोधयद्देवनायकः ॥ २॥
तस्याः शान्तिप्रदानार्थं स्वयं तत्राजगाम ह ।
रुक्माङ्गदस्वरूपी स बुभुजे तां सुराधिपः ॥ ३॥
सा हर्षिता जगामैव स्वगृहं गर्भसंस्थिता ।
इन्द्रः स्वर्गं ययौ भूप हर्षयुक्तो विहायसा ॥ ४॥
वाचक्नविः समायातः कृत्वा नित्यक्रियां मुनिः ।
न बुबोध मुकुन्दायाश्चरितं स तपोरतः ॥ ५॥
ततः पूर्णे च गर्भे सा सुषुवे पुत्रमुत्तमम् ।
जातकर्मादिकं सर्वं चकार मुनिसत्तमः ॥ ६॥
गृत्समदेति पुत्रस्य नाम चक्रे सुखप्रदम् ।
चकार व्रतबन्धं तु पञ्चमे हर्षसंयुतः ॥ ७॥
वेदानध्यापयामास श्रवणग्राहकाय वै ।
स्वयं तस्मै ददौ मन्त्रं गणानां त्वेति ऋग्भवम् ॥ ८॥
तेन मन्त्रेण विघ्नेशं ध्यात्वा गृत्समदो मुनिः ।
तोषयामास भावेन नित्यं जपपरायणः ॥ ९॥
कदाचित्तत्र राजा स मगधस्तं जुहाव च ।
पितुः श्राद्धे सुदान्तं वै तपोयुक्तं यशस्विनम् ॥ १०॥
तत्र वसिष्ठमुख्याश्च मुनयो योगपारगाः ।
समागताः सभायां ते विविशुः पूजिता नृप ॥ ११॥
तत्र शास्त्रप्रसङ्गे स गृत्समद उवाच ह ।
योगमयोगिभावस्थः श्रुत्वाऽत्रिस्तं वचोऽब्रवीत् ॥ १२॥
अयोगी योगिनां मध्ये रुक्माङ्गदसुतस्तथा ।
वदसि त्वं न योग्योऽसि पङ्क्तौ गच्छ निजाश्रमम् ॥ १३॥
ततोऽतिकोपसंयुक्तः स्वं गृत्समद आश्रमम् ।
जगाम सोऽपि जननीमपृच्छद्रक्तलोचनः ॥ १४॥
वद तातं मदीयं त्वं कामुके निरपत्रपे ।
कथं रुक्माङ्गदाज्जातोऽहं नोचेत्त्वां शपामि तु ॥ १५॥
जगाद शापभीता तं ततः सा कम्पसंयुता ।
वृत्तान्तं पूर्वसम्भूतं रुक्माङ्गदविहारजम् ॥ १६॥
तच्छ्रुत्वा कोपसंयुक्तः शशाप जननीं सुतः ।
कण्टकी भव मातस्त्वं दुष्टकर्मपरायणा ॥ १७॥
अतितिक्तफलां तत्र भक्षिष्यन्ति नरा न ताम् ।
अरण्ये निन्दिता नित्यं भुङ्क्ष्व पापं पुरा कृतम् ॥ १८॥
ततः सापि स्वपुत्रं तं शशाप क्रोधपूरिता ।
त्वत्तः पुत्रो महादैत्यो भविष्यति सुदारुणः ॥ १९॥
ततो देहं समुत्सृज्य मुकुन्दा साऽभवन्नृप ।
कण्टकी श्यामसंज्ञा सा पापकर्मपरायणा ॥ २०॥
गणेशभक्तविक्षेपदातृत्वादघमुत्तमम् ।
तया प्राप्तं चिरं पूर्णं तेन शापयुताऽभवत् ॥ २१॥
कल्पे कल्पे च शापात् सा सदा वृक्षत्वमागता ।
पश्य विघ्नस्वरूपं त्वं महाभयकरं नृप ॥ २२॥
ततो गृत्समदः क्षुब्धो देहत्यागे समुद्यतः ।
तत आकाशवाणी तं जगाद प्रेमसंयुता ॥ २३॥
इन्द्रो रुक्माङ्गदीभूतस्तस्माज्जातोऽसि मानद ।
भज लम्बोदरं नित्यं ततः सौख्यमवाप्स्यसि ॥ २४॥
श्रुत्वा सोऽपि वने गत्वा तताप तप उत्तमम् ।
निराहारेण संस्थश्च गणेशमभजत् सदा ॥ २५॥
ब्रह्मणस्पतिसूक्तैश्चाभिषिञ्चन् मण्डले स्थितम् ।
(Page खं. ५ अ. ३५ पान ८४)
जपं चकार भावेन ब्राह्मणत्वस्य कारणात् ॥ २६॥
ऐल उवाच ।
ब्रह्मणस्पतिसूक्तानां मण्डलं कीदृशं स्मृतम् ।
फलं च कीदृशं तत्र लभते मानवः प्रभो ॥ २७॥
कथयस्व विधानेन सर्वज्ञोऽसि दयानिधे ।
येन विघ्नेश्वरः प्रीतो भवेत् सर्वार्थदायकः ॥ २८॥
गार्ग्य उवाच ।
ब्रह्मणस्पतिसूक्तानां विधिं शृणु महामते ।
यथा गृत्समदः सिद्धो बभूवे तस्य सेवनात् ॥ २९॥
गणानां त्वेति मन्त्रेण षोडशाङ्गेषु भूमिप ।
न्यासं कुर्यात्तथा पूज्याऽभिषेकं तु समाचरेत् ॥ ३०॥
एकविंशतिभिर्भूपा वृत्तिभिरेकविंशतिः ।
समाख्याता च सूक्तानामभिषेके तथा जपे ॥ ३१॥
एतादृशाश्च राजेन्द्र भवन्त्येकाधिकास्ततः ।
विंशत्यो मण्डलं ह्येकं ज्ञातव्यं विबुधैः परम् ॥ ३२॥
मण्डलानि महाभाग एकविंशन्मितानि च ।
भवन्ति चेत् समाख्यातं महामण्डलकं बुधैः ॥ ३३॥
अभिषेके समाख्यातं जपे वा राजसत्तम ।
सर्वसिद्धिप्रदं पूर्णं महामण्डलकं सुरैः ॥ ३४॥
धर्मार्थकाममोक्षेषु प्रशस्तं कर्म सिद्धिदम् ।
गणेशप्रीतये भक्त्या ब्रह्मभूतकरं भवेत् ॥ ३५॥
ब्राह्मणत्वस्य कार्यार्थं कृतं तेन महात्मना ।
गृत्समदेन सूक्तानां महामण्डलकं नृप ॥ ३६॥
एतत्ते कथितं भूपाधुना शृणु कथानकम् ।
विघ्नेशप्रापकं गृत्समदस्य दुरितापहम् ॥ ३७॥
स्वयं गृत्समदस्तत्र नित्यं कृत्वा यथाविधि ।
गणानां त्वेति मन्त्रेण पुपूज विघ्ननायकम् ॥ ३८॥
एकविंशतिमेकां स नित्यं चकार भूमिप ।
अभिषेकार्थमेवं तु ततो जपपरोऽभवत् ॥ ३९॥
गणानां त्वेति मन्त्रस्य जपं चकार नित्यदा ।
शतानि ध्याननिष्ठः स सैकविंशतिकानि तु ॥ ४०॥
नासाग्रन्यस्तदृष्टिश्च सदा यत्नपरायणः ।
महोग्रतपसा देवं तोषयामास विघ्नपम् ॥ ४१॥
एवं वर्षसहस्रैस्तु दिव्यैर्विघ्नेश्वरो ययौ ।
मुनिं तं भक्तवात्सल्यादुवाच ध्यानसंस्थितम् ॥ ४२॥
श्रीगणेश उवाच ।
पश्य मां मूनिशार्दूल ब्रह्मणस्पतिमागतम् ।
वरयस्व वरान् मत्तो दास्यामि तुभ्यमादरात् ॥ ४३॥
गणेशवचनं श्रुत्वा गृत्समदः सुहर्षितः ।
उन्मील्य लोचने ढुण्ढिमपश्यन्निकटे स्थितम् ॥ ४४॥
ततोऽतिहर्षसंयुक्तः प्रणनाम विनायकम् ।
भक्त्या सम्पूज्य तुष्टाव साश्रुनेत्रो नराधिप ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते गृत्समदगणेशसमागमो नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ५.३५
(Page खं. ५ अ. ३६ पान ८५)
५.३६ गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे ।
ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥ १॥
ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने ।
ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥ २॥
कर्तॄणां कतृरूपाय कवये कविनायक ।
कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥ ३॥
जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते ।
उपमान्नप्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥ ४॥
सदा मोहयुतायैव मोहमोहकराय ते ।
जीवाय बृहतां नाथाय बृहस्पतये नमः ॥ ५॥
सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे ।
गुहाहिताय साङ्ख्याय बृहस्पतिसखाय ते ॥ ६॥
स्वसंवेद्यमयायैव स्वानन्दे योगधारिणे ।
जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥ ७॥
सत्यायायोगरूपाय मनोवाणीविवर्जित ।
भद्राणां भद्रकायैव सत्यसत्याय ते नमः ॥ ८॥
सर्वेषां पोषकायैव सोमायामृतरूपिणे ।
सोमानां सोमदात्रे ते पुष्टिनाथाय ते नमः ॥ ९॥
उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च ।
त्रयीमयाय तूर्याय तूर्यातीताय ते नमः ॥ १०॥
इन्द्रादिदेवतानां वै सहायाय नमो नमः ।
धर्मपालकभावाय धर्माधीशाय ते नमः ॥ ११॥
सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः ।
अराज्याय परेशाय संसारार्णवतारिणे ॥ १२॥
योगेभ्यो योगदात्रे च योगयोगाय ते नमः ।
शान्तिदाय सदा शान्तिस्थाय तत्पतये नमः ॥ १३॥
इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः ।
तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥ १४॥
किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् ।
भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥ १५॥
एवं गृत्समदः स्तुत्वा गणेशानं महीपते ।
हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥ १६॥
दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः ।
वरं मत्तस्त्वं वरयाधुना स्तोत्रेण तोषितः ॥ १७॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति न सन्देहो मम भक्तिविवर्धनम् ॥ १८॥
सदा शान्तिमयो भूत्वा मां भजिष्यसि मानद ।
त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥ १९॥
पुत्रपौत्रादिकं सर्वं धनधान्यादिवर्धनम् ।
प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥ २०॥
तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह ।
नियम्य हर्षमुग्रं स प्रणनाम गजाननम् ॥ २१॥
उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् ।
गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः स्वयम् ॥ २२॥
गृत्समद उवाच ।
धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः ।
विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ २३॥
अहो साक्षाद्गणेशानो ब्रह्मेन्द्रो दृष्टिमागतः ।
मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥ २४॥
एतादृशं गणेशानं दृष्ट्वा त्वां किं वृणोम्यहम् ।
तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥ २५॥
ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः ।
(Page खं. ५ अ. ३६ पान ८६)
अतो मां ब्राह्मणं नाथ कुरु योगीन्द्र वन्द्यकम् ॥ २६॥
यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् ।
नाथो भवामि विघ्नेश योगीन्द्राणां गुरोर्गुरुः ॥ २७॥
त्वदीयपादपद्मे वै भक्तिं देहि गजानन ।
सुदृढां गाणपत्येषु सङ्गं देहि सदा च मे ॥ २८॥
गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः ।
गृत्समदसमो नास्ति गाणपत्यस्वभावधृक् ॥ २९॥
एवमुक्त्वा गणेशानं प्रणनाम महामुनिः ।
तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥ ३०॥
श्रीगणेश उवाच ।
गणानां त्वेति मन्त्रस्य जपः खलु कृतस्त्वया ।
सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥ ३१॥
ऋषिर्भव महाभाग गणानां त्वास्य मन्त्रतः ।
सूक्तस्यापि विशेषेण ब्राह्मणेन्द्रो भवापि तु ॥ ३२॥
आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति ।
पश्चान् मे देवतायाश्च मुख्यो भव मदीयके ॥ ३३॥
न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने ।
मानयिष्यन्ति विप्रास्त्वामत्रिमुख्या न संशयः ॥ ३४॥
त्वदीयस्मरणं नास्ति मन्त्रे वैदिकगे च मे ।
गणानां त्वा जपिष्यन्ति फलहीना भवन्तु ते ॥ ३५॥
शिवविष्ण्वादयो देवा ब्रह्माद्या ब्राह्मणा नराः ।
शेषाद्याश्चासुराद्याश्च त्वां नमस्यन्ति नित्यदा ॥ ३६॥
त्वदीयावज्ञया क्रुद्धो दहिष्यामि चराचरम् ।
त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥ ३७॥
त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् ।
भविष्यति मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥ ३८॥
भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद ।
तेन क्षेत्रं समाख्यातं पुष्यकं मत्समाश्रितम् ॥ ३९॥
यद्यच्चिन्तयसि प्राज्ञ तत्तत्ते सफलं भवेत् ।
स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥ ४०॥
एवमुक्त्वांऽतर्दधेऽसौ ब्रह्मणस्पतिरञ्जसा ।
स्वयं गृत्समदः खिन्नोऽभवत्तत्रैव संस्थितः ॥ ४१॥
ततः स ब्राह्मणैः सार्धं स्थापयामास विघ्नपम् ।
ब्रह्मणस्पतिनामानं चकार क्षेत्रसंस्थितम् ॥ ४२॥
ततो गृत्समदो योगी सर्वमान्यो बभूव ह ।
ब्रह्मणस्पतिभक्तश्च ब्राह्मणैः पूजितोऽभवत् ॥ ४३॥
यथा गजाननः प्राह तथा सर्वं बभूव ह ।
मुनिस्तत्र महीपालाऽभजत्तं स विनायकम् ॥ ४४॥
नित्यं च मानसीं पूजां बाह्यां चकार विप्रपः ।
गणेशस्याऽतिभक्तो गृत्समदः सर्वतो बभौ ॥ ४५॥
इदं गृत्समदाख्यानं कथितं सर्वसिद्धिदम् ।
सर्वपापहरं पुण्यं श्रवणात् पठनान्नृणाम् ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते गृत्समदवरप्रदानं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ५.३६
(Page खं. ५ अ. ३७ पान ८७)
५.३७ गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ऐल उवाच ।
कथं नित्यं महायोगी गाणपत्याग्र्य एव च ।
महापूजां गृत्समदो द्विविधां प्रचकार ह ॥ १॥
तन्मे विस्तरतो ब्रूहि धन्योऽयं ब्राह्मणेषु वै ।
गणेशेन कृतो विप्रो ऋषिः स्वसूक्तकस्य च ॥ २॥
गार्ग्य उवाच ।
शृणु तस्य मुनीन्द्रस्य चरित्रं भक्तिसंश्रितम् ।
यथा गजाननं सोप्यभजत्तं नित्यमादरात् ॥ ३॥
प्रातः काले समुत्थाय गुरुं नत्वा स्वमस्तके ।
मानस्या पूजया पूज्य तथा हृदि गणेश्वरम् ॥ ४॥
गाणेशांश्च तथा स्मृत्वा विभूतिरूपधारकान् ।
क्षमाप्य धरणीं पश्चात् पादं चिक्षेप विप्रपः ॥ ५॥
शौचाचारमशेषं च चकार शास्त्रमार्गतः ।
दन्तकाष्ठं ततो भक्ष्य स्नानं चक्रे यथाविधि ॥ ६॥
आदावाभ्यन्तरं स्नानं चकार शृणु तन्नृप ।
वक्ष्यामि सिद्धिदं पूर्णमज्ञानमलनाशनम् ॥ ७॥
सहस्रारे समासीनं गजाननमनामयम् ।
अङ्गुष्ठपर्वमात्रं तं प्रभुं ध्यायेच्चतुर्भुजम् ॥ ८॥
पाशाङ्कुशधरं पूर्णं दन्ताभयसमन्वितम् ।
त्रिनेत्रं भूषणैर्युक्तमनर्घ्यवस्त्रराजितम् ॥ ९॥
पादाङ्गुष्ठाग्रसम्भूतां तस्य तीर्थमयीं पराम् ।
सरितं चिन्तयेत् पूर्णामासमन्तात् प्रसारिणीम् ॥ १०॥
सर्वान्तर्गतजं पूर्णमज्ञानं मलरूपकम् ।
तया सङ्क्षालयेच्चित्ते नृप सर्वगया सुधीः ॥ ११॥
एवमान्तरगं स्नानं यः करोति नरोत्तमः ।
स सर्वमलहीनश्च भुक्तिं मुक्तिं लभेत् पराम् ॥ १२॥
बाह्यं ततः समाख्यातं वैदिकं तान्त्रिकं द्विधा ।
स्वशाखोक्तविधानेनादौ वैदिकं समाचरेत् ॥ १३॥
ततः स्वमूलमन्त्रेण युक्तं तान्त्रिकमाचरेत् ।
स शुद्धः सर्वकर्मार्हो भवते देवतासमः ॥ १४॥
एवं गृत्समदः सर्वं चकार राजसत्तम ।
गणेशप्रीतिकामार्थं भक्तियुक्तो महामुनिः ॥ १५॥
शुचिवस्त्रे तथा गृह्य सन्ध्यां चकार वैदिकीम् ।
तत आगमसम्भूतां गाणेशीं सर्वसिद्धिदाम् ॥ १६॥
तत्राचमनकं प्रोक्तं त्रिविधं विबुधोत्तमैः ।
वैदिकं तान्त्रिकं पौराणिकं चैव सुसिद्धिदम् ॥ १७॥
व्याहृत्या वैदिकं प्रोक्तं मूलमन्त्रेण तान्त्रिकम् ।
पौराणिकं चतुर्थ्यन्तं तं गणेशनामसंयुतम् ॥ १८॥
तत्र पौराणिकं वक्ष्ये महत् शुचिकरं शृणु ।
यथा गृत्समदो विप्रेन्द्रश्चकार महायशाः ॥ १९॥
गणेशो ढुण्ढिराजश्च हेरम्बो वक्रतुण्डकः ।
शूर्पकर्णश्च विघ्नेशश्चिन्तामणिर्गजाननः ॥ २०॥
लम्बोदरश्चैकदन्तो ब्रह्मणस्पतिरेव च ।
विनायको ज्येष्ठराजो विकटः कपिलस्तथा ॥ २१॥
धरणीधर आशापूरको महोदरस्तथा ।
धूम्रकेतुर्मयूरेशः स्वानन्दवासकारकः ॥ २२॥
त्रिभिराचम्य हस्तौ वै द्वाभ्यां सङ्क्षालयेन्नरः ।
द्वाभ्यामोष्ठौ सम्पुटं चैकेन वै संस्पृशंस्ततः ॥ २३॥
पादौ तथैव नाम्ना वै शिरश्च चिबुकं नृप ।
द्वाभ्यां दक्षिणवामे तु नासिके संस्पृशेत्ततः ॥ २४॥
द्वाभ्यां नेत्रे तथा कर्णौ नाभिं चैकेन हृत्तथा ।
ललाटमेकनाम्ना तु बाहू चैकेन संस्पृशेत् ॥ २५॥
जलयुक्तेन नाम्ना यो नरश्चैवं समाचरेत् ।
आचमनं भवेत् साक्षाद्गणेशो भूमिमण्डले ॥ २६॥
(Page खं. ५ अ. ३८ पान ८८)
ततो न्यासादिकं कुर्यात् कलशस्थापनं चरेत् ।
पीठपूजां ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥ २७॥
आगमोक्तेन मार्गेण मुनिर्गृत्समदो महान् ।
चकार सकलं राजन् देवतुल्योऽपि नित्यशः ॥ २८॥
ध्यात्वा गजाननं चित्ते पूजां चक्रे स मानसीम् ।
स्थिरचित्तेन योगीशो गणेशस्य विधानवित् ॥ २९॥
मानस्यां स्थिरचित्तत्वं कारणं परमं मतम् ।
न वर्णाश्रमभागश्च वर्तते नृपसत्तम ॥ ३०॥
वर्णाश्रमयुतानां चात्रावर्णाश्रमरूपिणाम् ।
अधिकारः सदा शास्त्रे वर्तते स्थिरचेतसाम् ॥ ३१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते गृत्समदनित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ५.३७
५.३८ गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
विघ्नेश वीर्याणि विचित्रकाणि सुमागधैर्बन्दिजनैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलगं कुरुष्व ॥ १॥
एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥ २॥
शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोञ्छ्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥ ३॥
द्विजादिसर्वैरभिवन्दितं च शुकादिभिर्मोदसुमोदकाद्यैः ।
सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ ४॥
रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि ॥ ५॥
सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः ।
तोयं सुवासै रचितं गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ ६॥
शुद्धेन वस्त्रेण गणेश पादौ सम्प्रोञ्छ्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो चित्तं विलीनं कुरु ते पदाब्जे ॥ ७॥
कर्पूरकैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन त्वं कृपाकटाक्षेण विलोकयाऽऽशु ॥ ८॥
प्रवालमुक्ताफलहारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥ ९॥
शुद्धं त्रियुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुतं गृहाण ।
तोयेन चाचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ १०॥
द्रव्यैर्युतं चम्पकजातिकाद्यैः तैलं मया कल्पितमेव ढुण्ढे ।
दत्तं गृहाणाऽऽशु विमर्दयामि सर्वाङ्गमानन्दद सेवनाय ॥ ११॥
(Page खं. ५ अ. ३८ पान ८९)
देवं सुखोष्णेन जलेन चाऽहं सर्वाद्यतीर्थाहृतकेन ढुण्ढिम् ।
चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ १२॥
ततः पयःस्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामय त्वं प्रकल्पितं नाथ जलस्य चाथ ॥ १३॥
ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४॥
सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तर्गणेश मायाभ्रमवारणाशु ॥ १५॥
सुयक्षपङ्कस्थमथो गृहाण स्नानं परेशाधिपते ततश्च ।
कमण्डलौ सम्भवजं कुरुष्व स्नानं विशुद्धं परिकल्पितं ते ॥ १६॥
दुग्धेन सूक्तैर्मनसा सुतीर्थैः सम्पूज्य दूर्वादिभिरल्पभावैः ।
सङ्ख्यातिगैर्मण्डलभूतब्राह्मणस्पत्यकैस्त्वामभिषेचयामि ॥ १७॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन चाचान्तमेव ढुण्ढे कुरु विघ्नराज ॥ १८॥
अग्नौ विशुद्धे प्रगृहाण वस्त्रे मौल्यातिगे ते मनसा मया वै ।
दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९॥
आचम्य विघ्नेश पुनस्त्वमेवं चित्तेन दत्तं सुखमुत्तरीयम् ।
भक्त्या गृहाण प्रतिपालयाऽऽशु नभो यथा तारकसंयुतं किम् ॥ २०॥
यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं सौत्रं गृहाणोद्धृतिकारणाय ॥ २१॥
आचान्तमेवं मनसा कुरुष्व दत्तं मया तीर्थजलेन ढुण्ढे ।
भावेन कामण्डलवेन पाहि विश्वं प्रभो खेलकृतं सदा ते ॥ २२॥
उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादरात्त्वं हेरम्ब चित्तेन कुरुष्व पूर्णम् ॥ २३॥
साहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै ।
अनन्तरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४॥
विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५॥
शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत् सफलं कुरुष्व ॥ २६॥
सुवर्णरत्नैश्च युतानि सम्प्रकल्प्यैकदन्ताभरणानि ढुण्ढे ।
गृहाण चूडाकृतिनी परेश समर्पिते ते रदशोभनार्थम् ॥ २७॥
रत्नैः सुवर्णेन कृतानि यानि चत्वारिसङ्कल्प्य गृहाण तानि ।
सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८॥
विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गृह्य मया प्रदत्तम् ।
तथाङ्गुलिष्वेव यदङ्गुलीयं गणेश संशोभय तत्परेश ॥ २९॥
रत्नैर्विचित्रैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३०॥
प्रवालमुक्ताफलरत्नजास्त्वं सौवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला हृद्योदरे शोभय विघ्नराज ॥ ३१॥
(Page खं. ५ अ. ३८ पान ९०)
चन्द्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२॥
चिन्तामणिं चिन्तितदं परेश हृद्देशगं कान्तिमयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च विघ्नेश दीनानथ पालयस्व ॥ ३३॥
नाभौ फणीशं च सहस्रशीर्षं संवेष्टनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन दत्तं वरं तं सफलं परेश ॥ ३४॥
देशे कटौ रत्नसुवर्णयुक्तां काञ्चीं सुचित्तेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपिनीं ते पाहि प्रभक्तं कुरु मां दयाब्धे ॥ ३५॥
गणेश ते रत्नसुवर्णयुक्ते मञ्जीरके नूपुरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६॥
इत्यादि नानाविधभूषणानि भक्तेच्छया मानसकल्पितानि ।
सुभूषयाम्येव तवाङ्गकेषु रत्नादिधातुप्रभवाणि ढुण्ढे ॥ ३७॥
सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टसुगन्धमुख्यैः ।
मया युतं कल्पितमेकदन्त गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८॥
लिप्तेषु वैचित्रमथाष्टगन्धैरङ्गेषु तेऽहं प्रकरोमि चित्रम् ।
मां पाहि चित्तेन विनायक त्वं रक्तं ततो वर्तुलमेव भाले ॥ ३९॥
आज्येन वै कुङ्कुमकेन रक्तान् सूक्ष्माक्षतांस्ते परिकल्पयामि ।
भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४०॥
गृहाण भोश्चम्पकमालतीस्थलपङ्कजान्यम्बुजपङ्कजानि ।
मया प्रदत्तानि च मल्लिकाश्च गणेश पुष्पाणि च रक्तकानि ॥ ४१॥
पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि ।
दत्तानि चित्तेन सुकल्पितानि सङ्ख्यातिगानि प्रणवाकृते ते ॥ ४२॥
दूर्वाङ्कुरान् वै मनसा प्रदत्तान् पञ्चत्रिपत्रान्वितकार्द्रभूतान् ।
श्वेतांश्च विघ्नेश्वर सङ्ख्यया त्वं हीनांश्च सर्वोपरि सङ्गृहाण ॥ ४३॥
दशाङ्गभूतं मनसा मया ते धूपं प्रदत्तं गणराज चाग्नौ ।
मां पाहि सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह सङ्गृहाण ॥ ४४॥
दीपं सुवर्त्यायुतमादरात्ते दत्तं मया मानसकं गृहाण ।
विघ्नेश कर्पूरभवं गृहाण तैलादिसम्भूतममोघदृष्टे ॥ ४५॥
भोज्यं तु लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् ।
हेरम्ब नैवेद्यमथो गृहाण सङ्कल्पितं पुष्टिपते ह्यपारम् ॥ ४६॥
सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण ।
सदात्मतीर्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७॥
ततः करोद्वर्तनकं गृहाण सुगन्धयुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन सुकल्पितं भक्तियुतं च ढुण्ढे ॥ ४८॥
आचम्य सर्वेश सुवासितं च दत्तं मया तीर्थजलं पिबस्व ।
सङ्कल्प्य विघ्नेश ततः परं ते सम्प्रोञ्छनं हस्तमुखे करोमि ॥ ४९॥
द्राक्षादिरम्भाफलचूतकानि खर्जूरकर्कन्धुकदाडिमानि ।
स्वादेन युक्तानि मया गृहाण सङ्कल्प्य दत्तानि फलानि ढुण्ढे ॥ ५०॥
पुनर्जलेनैव करादिकं क्षालयामि तेऽहं मनसा गणेश ।
सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१॥
अष्टाङ्गयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै ।
(Page खं. ५ अ. ३८ पान ९१)
सुकल्प्य विघ्नेश्वर सङ्गृहाण नाथासकृत्तुण्डविशोधनार्थम् ॥ ५२॥
ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते ।
शमीशकार्पासकयुक्तवस्त्रैरनर्घ्यसञ्छादितके प्रसीद ॥ ५३॥
भक्त्या त्वदीयावरणं परेश सम्पूजयामि मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४॥
गृहाण लम्बोदर दक्षिणां तामसङ्ख्यभूतां मनसा प्रदत्ताम् ।
सुवर्णरत्नादिकमुख्यभूतां प्रभो जगत्कृस्नमिदं सुपाहि ॥ ५५॥
राजोपचारान्विविधान् गृहाण छत्राश्वहस्त्यादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६॥
दानस्य नानाविधरूपकांस्ते दत्तान् मया वै मनसा गृहाण ।
गोभूमिकाद्यान् स्थिरजङ्गमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७॥
मन्दारपुष्पाणि शमीदलानि दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल सङ्गृह्य भक्तं कुरु मां पदस्ते ॥ ५८॥
ततो हरिद्रामबिरं गुलालं सिन्दूरकं ते परिकल्पयामि ।
सुवासितं वस्तु सुवासभूतैर्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९॥
ततः शुकाद्याः शिवविष्णुमुख्यामराधिपाः शेषमुखास्तथान्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६०॥
वामाङ्गके भक्तियुता गणेशं सिद्धिश्च नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ ६१॥
ब्रह्मेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेशा माया सुसाङ्ख्यप्रदचित्तरूपा ॥ ६२॥
प्रमोदमुख्याः प्रभुपृष्ठभागे गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ ६३॥
गन्धर्वमुख्या मधुरं जगुश्च विश्वेशगीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४॥
इत्यादि नानाविधभावयुक्तैः संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु नीराजनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५॥
चतुर्भुजं पाशधरं गणेशं तथांऽकुशं वै दधतं च दन्तम् ।
त्रिनेत्रयुक्तं ह्यभयन्धरं तं महोदरं चैकरदं गजास्यम् ॥ ६६॥
सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् ।
ध्याये गणेशं विविधप्रकारैः सम्पूजितं शक्तियुतं परेशम् ॥ ६७॥
ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् ।
असङ्ख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८॥
आरार्तिकं त्वेतदपारदीपं कर्पूरभूतं प्रकरोमि पूर्णम् ।
चित्तेन लम्बोदर तत् गृहाण ह्यज्ञानध्वान्ताघहरं निजानाम् ॥ ६९॥
गणेश वैघ्नेश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलप्रभूतम् ।
गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७०॥
अनन्तवृत्त्या स्तुतिमेकदन्त विघ्नेश चित्तेन कृतां गृहाण ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया वै ॥ ७१॥
प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः ।
(Page खं. ५ अ. ३८ पान ९२)
असङ्ख्यभूता विविधस्वरूपा दासान् सदा रक्ष भवार्णवाद्वै ॥ ७२॥
नतिं ततो विघ्नपते गृहाण साष्टाङ्गकाद्यां विविधस्वरूपाम् ।
सङ्ख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३॥
न्यूनातिरिक्तं तु मया कृतं चेदं ते तदर्थं मनसा गृहाण ।
दूर्वाङ्कुरान् विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४॥
क्षमस्व विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् ।
मदीयभक्तिं सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५॥
मह्यं प्रसन्नेन गजाननेन दत्तं प्रसादं च शिरोभिवन्द्यम् ।
स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६॥
गणेश उत्थाय सभां विहाय गतस्ततस्त्वन्तरधामशक्तया ।
शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥ ७७॥
सर्वान्नमस्कृत्य ततो भजामि चित्तेन भक्त्या च गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ ७८॥
एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं महान्तम् ॥ ७९॥
विघ्नेशपादोदकपानकं मे तत्त्यक्तगन्धस्य सुलेपनं तु ।
निर्मात्यसन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८०॥
करोमि यद्यच्च तदेव दीक्षा गणेश्वरस्यास्तु सदा परेश ।
प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ ८१॥
शय्यामनर्घां परिकल्पयामि मन्दारकार्पासकवस्त्रयुक्ताम् ।
नानासुपुष्पादिभिरर्चितां ते विघ्नेश निद्रां कुरु सङ्गृहाण ॥ ८२॥
सिद्ध्या च बुद्ध्या सहितं गणेशं सुनिद्रितं वीक्ष्य तथाऽहमेव ।
गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३॥
एतादृशं सौख्यममोघशक्ते देहीश यन् मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो भवामि भक्ते रसलालसोऽहम् ॥ ८४॥
गार्ग्य उवाच ।
एवं नित्यं महाराज गृत्समदो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५॥
य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६॥
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७॥
यद्यदिच्छति तत्तद्वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तमानसपूजाकथनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ५.३८
(Page खं. ५ अ. ३९ पान ९३)
५.३९ गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ऐल उवाच ।
बाह्यां पूजां गृत्समदकीर्तितां वद मे विभो ।
तेन मार्गेण विघ्नेशं भजिष्यामि निरन्तरम् ॥ १॥
गार्ग्य उवाच ।
आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः ।
चकार विधिवद्बाह्यां तां शृणुष्व सुखप्रदाम् ॥ २॥
हृदि ध्यात्वा गणेशानं परिवारादिसंयुतम् ।
नासिकारन्ध्रमार्गेण बाह्यगं तं चकार सः ॥ ३॥
आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् ।
पश्चात् श्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४॥
गृत्समद उवाच ।
चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ।
पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तये ॥ ५॥
आगच्छ ब्रह्मणां नाथ सुरासुरवरार्चित ।
सिद्धिबुद्ध्यादिसंयुक्त भक्तिग्रहणलालस ॥ ६॥
कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो ।
विघ्नेशानुगृहीतोऽहं सफलो मे भवो भवेत् ॥ ७॥
रत्नसिंहासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥ ८॥
सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो ।
शीतोष्णाभिस्ते करोमि गृहाण पाद्यमुत्तमम् ॥ ९॥
सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।
आचमनं च तेनैव कुरुष्व गणनायक ॥ १०॥
रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो ।
अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११॥
दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ १२॥
पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे ।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥ १३॥
चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् ।
अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४॥
यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल ।
उद्वर्तनं कुरुष्व तं मया दत्तैर्महाप्रभो ॥ १५॥
नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः ।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ १६॥
कामधेनुसमुद्भूतं पयः परमपावनम् ।
तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ १७॥
पञ्चामृतस्य मध्ये तु जलस्नानं पुनः पुनः ।
कुरु त्वं सर्वतीर्थेन ब्रह्मकमण्डलूद्भवैः ॥ १८॥
दधिधेनुपयोभूतं मलापहरणं परम् ।
गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९॥
सन्तोषकारकं ढुण्ढे घृतं धेनुसमुद्भवम् ।
महामलापघातार्थं तेन स्नानं कुरुष्व भोः ॥ २०॥
पूर्णं मधुरसोद्भूतं सरघासंस्कृतं मधु ।
गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१॥
इक्षो रससमुद्भूतां शर्करां मलनाशिनीम् ।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ २२॥
यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ।
आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३॥
ततो गन्धाक्षतादीन् दूर्वां कुरांश्च गजानन ।
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४॥
ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः ।
अभिषेकं ते करोमि गृहाण द्विरदानन ॥ २५॥
तीर्थैराचमनं देव सुवस्त्वभिसुवासितैः ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६॥
(Page खं. ५ अ. ३९ पान ९४)
वस्त्रयुग्मे गृहाण त्वमनर्घे रक्तवर्णके ।
लोकलज्जाहरायैव विघ्नराज नमोऽस्तु ते ॥ २७॥
उत्तरीयं सुचित्रं ते नभस्ताराङ्कितं यथा ।
गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८॥
उपवीतं गणाध्यक्ष गृहाण त्वं ततः परम् ।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९॥
ततः सिन्दूरकं देव गृहाण गणनायक ।
अङ्गलेपनभावार्थं सदानन्दविवर्धन ॥ ३०॥
भूषणानि विचित्राणि सर्वाङ्गे भूषणाय ते ।
सुवर्णरत्नकाद्यैश्च निर्मितानि गृहाण भोः ॥ ३१॥
अष्टगन्धं समायुक्तं गन्धं रक्तं गजानन ।
द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२॥
रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान् ।
गणराज गृहाण त्वमक्षतान् भालमण्डले ॥ ३३॥
कह्लारचम्पकादीनि रक्तानि च गजानन ।
पुष्पाणि शमीमन्दारदूर्वादीनि गृहाण च ॥ ३४॥
दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् ।
गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५॥
नानाजातिभवं दीपं गृहाण गणनायक ।
अज्ञानं मानसं दोषं हरन्तं ज्योतिरात्मकम् ॥ ३६॥
चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् ।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७॥
सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् ।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ ३८॥
भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९॥
खर्जूरं दाडिमं द्राक्षां रम्भादीनि फलानि वै ।
गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४०॥
अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् ।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१॥
दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् ।
रत्नाद्यैः संयुतां ढुण्ढे गृहाण सकलप्रिय ॥ ४२॥
राजोपचारकाद्यानि गृहाण गणनायक ।
दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३॥
तत आवरणं तेऽद्य पूजयामि विधानतः ।
उपचारैश्च विविधैस्तेन तुष्टो भव प्रभो ॥ ४४॥
ततो दूर्वाङ्कुरान् ढुण्ढे एकविंशतिसङ्ख्यकान् ।
गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ ४५॥
नानादीपसमायुक्तं नीराजनं गजानन ।
गृहाण भावसंयुक्तं सर्वाज्ञानविनाशन ॥ ४६॥
गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् ।
गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७॥
कर्पूराद्यां महार्तिं च नानादीपमयीं प्रभो ।
गृहाण ज्योतिषां नाथ तया नीराजयाम्यहम् ॥ ४८॥
पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो ।
एकं तु सप्तवारं वै सर्वाङ्गेषु नीराजनम् ॥ ४९॥
चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन ।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५०॥
गाणपत्यैः पञ्चविधमयैः स्तोत्रैर्गणाधिप ।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१॥
एकविंशतिसङ्ख्याकां त्रिसङ्ख्यां वा गजानन ।
प्रदक्षिणां गृहाण त्वं ब्रह्मब्रह्मेशभावतः ॥ ५२॥
साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् ।
हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३॥
(Page खं. ५ अ. ३९ पान ९५)
न्यूनातिरिक्तभावार्थं काञ्चित् दूर्वाङ्कुरान् प्रभो ।
समर्पयामि तेन त्वं साङ्गां पूजां कुरुष्व मे ॥ ५४॥
त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ।
शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५॥
अपराधानसङ्ख्यातान् क्षमस्व गणनायक ।
भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ ५६॥
त्वं माता त्वं पिता त्वं वै सुहृत् सम्बन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ ५७॥
जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम् ।
सांसर्गिकं च यत् कर्म गणेशाय समर्पये ॥ ५८॥
बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् ।
गणेशपादतीर्थस्य मस्तके वन्दनात् किल ॥ ५९॥
पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् ।
सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ॥ ६०॥
गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु योऽर्चयेत् ।
गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥ ६१॥
यदि गणेशपूजादौ गन्धं भस्मादिकं चरेत् ।
गणेशोच्छिष्टगन्धं तु नोचेत्तत्र विधिं चरेत् ॥ ६२॥
द्वादशाङ्गेषु विघ्नेश नाममन्त्रेण चार्चयेत् ।
तेन सोऽपि गणेशस्य समो भवति भूतले ॥ ६३॥
गणेश्वरं मूर्ध्नि चादौ ललाटे विघ्ननायकम् ।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ ६४॥
वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् ।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५॥
बाहौ दक्षिणके चैव हेरम्बं वामबाहुके ।
विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥ ६६॥
कुक्षौ दक्षिणभागे तु मयूरेशं समर्चयेत् ।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७॥
सर्वाङ्गलेपनं शस्तं चित्रितं गन्धमष्टकैः ।
गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ ६८॥
भुक्तशेषं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९॥
गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासो गजानन सदाऽस्तु मे ॥ ७०॥
गार्ग्य उवाच ।
एवं गृत्समदो विप्रश्चकार बाह्यपूजनम् ।
त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ ७१॥
तथा कुरु महीपाल गाणपत्यो भविष्यसि ।
यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ ७२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ५.३९
(Page खं. ५ अ. ४० पान ९६)
५.४० स्वानन्दलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
ऐल उवाच ।
श्रुत्वा गृत्समदस्यैव चरितं सर्वदायकम् ।
न तृप्तोऽहं महायोगिन् भवाम्यमृतपानवत् ॥ १॥
न गृत्समदतुल्यं तु पश्यामि ब्रह्मगोलके ।
धन्योऽयं योगिनां मध्ये गाणपत्येषु मानद ॥ २॥
अधुना वद योगीश गणेशलोकवर्णनम् ।
कीदृशोऽयं गणेशस्य निजलोको विशेषतः ॥ ३॥
गार्ग्य उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
मुद्गलस्य मुनेः संवादयुक्तं कपिलस्य वै ॥ ४॥
एकदा मुद्गलो योगी गाणपत्याग्रणीर्नृप ।
जगाम कपिलस्यैवाश्रमं गङ्गातटे स्थितम् ॥ ५॥
प्रणम्य स जगादापि कपिलं हर्षसंयुतः ।
कृत्वा करपुटं चाङ्गिरस आदौ वराग्रणीः ॥ ६॥
मुद्गल उवाच ।
साक्षाद्विष्णुस्वरूपस्त्वं शुक्ल सर्वार्थदायक ।
गाणपत्येषु मुख्यस्त्वं साङ्ख्यानां परमा गतिः ॥ ७॥
त्वद्दर्शनजपुण्येन कृतकृत्योऽहमञ्जसा ।
कुलं धन्यं यशो विद्या ज्ञानं मे तेऽद्य दर्शनात् ॥ ८॥
एवं वदन्तमत्यन्तं कपिलस्तं ननाम च ।
पूजयामास हर्षेण मुद्गलं भावभावितम् ॥ ९॥
ततस्तं कपिलो योगी जगाद वचनं हितम् ।
तात ते दर्शनेनाद्य पवित्रोऽहं च साम्प्रतम् ॥ १०॥
पूर्णभक्तस्त्वमेवैको गणेशस्य महामुने ।
साक्षान् मुद्गल शस्त्रेशो गाणेशो नात्र संशयः ॥ ११॥
यथा मुद्गरशस्त्रेण चूर्णयित्वा पदार्थकान् ।
नामरूपविहीनांश्च कुरुते मानवः परान् ॥ १२॥
तथा त्वया महायोगिंस्तपसा योगसेवया ।
अभिमानः समाचूर्ण्य कृतो मूलविवर्जितः ॥ १३॥
नानायोगिन एवं तं योगेन स्वाभिमानकम् ।
चूर्णयन्ति महाभाग तथापि हृदि तिष्ठति ॥ १४॥
तेन त्वं मुद्गलो योगी जगत्येको विनिश्चितम ।
वयं न तादृशा वत्स ह्येकमार्गसमाश्रयात् ॥ १५॥
त्वदीयकृत्याङ्गिरसं पुराणं सम्भविष्यति ।
सर्वेषां मान्यमेकं तद्योगप्रदं न संशयः ॥ १६॥
अभिमानेन युक्तानि पुराणानि विशेषतः ।
शास्त्राणि नात्र सन्देहः कारणं शृणु मुद्गल ॥ १७॥
ज्ञातं गुह्यं तत्तथापि सङ्गोप्य स्वमतं पुनः ।
स्थापयित्वा विशेषेणाञ्जसा तथ्यं वदन्ति ते ॥ १८॥
गणेशभक्तः संस्त्वं तु तथापि गणनायकम् ।
रहस्येन विशेषार्थं न करोषि कदाचन ॥ १९॥
त्वदीयं वचनं श्रेष्ठं सर्वमान्यं न संशयः ।
अभिमानेन हीनत्वाद्वेदगुह्यप्रकाशकम् ॥ २०॥
त्वया कृतं पुराणं यत्तदान्त्यं प्रभविष्यति ।
पुराणानां महत् श्रेष्ठं मुद्गलं मुद्गलाकृति ॥ २१॥
त्वयोक्तं निन्दयेद्यो वै भवेत् स निरयप्रदः ।
अन्येभ्यस्तु स्वयं मूर्खो नरकेषु पतिष्यति ॥ २२॥
वेदशास्त्रपुराणानां मुद्गलस्त्वत्कृतो महान् ।
ग्रन्थो भविष्यन् नूनं निरभिमानत्वकारणात् ॥ २३॥
न मुद्गलसमो योगी न मुद्गलसमः कदा ।
गाणपत्यो महायोगी त्रिकालेषु विनिश्चितम् ॥ २४॥
स्वागतं ते महाभाग स्थीयतां मे प्रसन्निधौ ।
त्वद्दर्शनेन संहृष्टो भवामि गणपप्रिय ॥ २५॥
(Page खं. ५ अ. ४० पान ९७)
कपिलेन महायोगी सत्कृतस्तत्र भूमिप ।
मुद्गलस्तत्र सान्निध्ये न्यवसद्भावसंयुतः ॥ २६॥
एकदा सुखमासीनं कपिलं योगिनां वरम् ।
पप्रच्छ मुद्गलो हर्षात् विनयावनतोऽभवत् ॥ २७॥
मुद्गल उवाच ।
स्वामिंस्त्वदीयगेहे स चिन्तामणिः समागतः ।
पुत्रभावेन साक्षात्तु ब्रह्मणां नायकः परः ॥ २८॥
त्वया भावेन सर्वेश आराधितो निरन्तरम् ।
गुह्यं तस्य त्वमेवेह जानास्यत्र न संशयः ॥ २९॥
न त्वत्समो महासिद्धः साक्षाद्विष्णुस्त्वमञ्जसा ।
गाणपत्यः स्वयं योगी गणेशजनकः पुनः ॥ ३०॥
परिपृच्छाम्यतस्त्वाहं वद सर्वं महाप्रभो ।
भवादृशा जनानां तु तारणाय भवन्ति हि ॥ ३१॥
स्वानन्दवसतिः स्वामिन् कीदृशी तत्र किं सुखम् ।
विस्तारः कीदृशस्तस्याः केन योगेन लभ्यते ॥ ३२॥
न कोऽपि तस्य लोकस्य जानाति त्वदृते परम् ।
रहस्यं वद सर्वेश गाणपत्यस्य विस्तरात् ॥ ३३॥
गार्ग्य उवाच ।
एवं पृष्टो महासिद्धस्तं प्रहस्य प्रशंसयन् ।
जगाद कपिलो हर्षाद्गाणपत्याग्रणीर्वचः ॥ ३४॥
कपिल उवाच ।
शृणु मुद्गल माहात्म्यं सङ्क्षेपेण ब्रवीम्यहम् ।
स्वानन्दलोकगं पूर्णं सारं सर्वत्र सम्मतम् ॥ ३५॥
गणासुरं गणाध्यक्षो हत्वा परमदुर्जयम् ।
गन्तुं समुद्यतस्तत्र निजलोके यदाऽभवत् ॥ ३६॥
ततो मयाऽतिभक्त्या वै प्रार्थितो गणनायकः ।
उवाच मां वरं योगिन् वृणु दास्यामि मानद ॥ ३७॥
ततश्चिन्तामणिं विप्र प्रणम्योचेऽतिदुःखितः ।
वद स्वानन्दलोकस्य माहात्म्यं गणनायक ॥ ३८॥
नानालोकाः श्रुताः स्वामिन् न स्वानन्दं गजानन ।
जानाति कोऽपि यत्र त्वं प्रभो वससि नित्यदा ॥ ३९॥
चिन्तामणिरुवाच ।
स्वानन्दं यच्च वेदेषु ब्रह्म योगीन्द्रसत्तम ।
तदेव मायया पूर्वं बभूव नगरं महत् ॥ ४०॥
स्वसंवेद्येन योगेन लभ्यते नान्यथा क्वचित् ।
अथवा मे व्रताद्यैश्चोपासनेन महामुने ॥ ४१॥
न जपैस्तपसा दानैर्नानाकर्मपरायणैः ।
लभ्यते निजलोको वै जानीहि मुनिसत्तम ॥ ४२॥
न तत्र विष्णुशम्भ्वाद्याः शुकाद्या योगिनोऽपरे ।
गच्छन्ति मार्गहीनत्वादगम्यः सम्मतः सदा ॥ ४३॥
चतुर्विधमयैर्भावैर्लभ्यते न कदाचन ।
अगम्यस्तैर्न सन्देहो मम लोको महामते ॥ ४४॥
दशसाहस्रकं विप्र योजनानां प्रविस्तरः ।
अत ऊर्ध्वं च सर्वत्र तावन्मानः प्रकीर्तितः ॥ ४५॥
वर्तुलः सर्वतः सोऽपि स्वस्थाधारेण तिष्ठति ।
सदा ज्योतिर्मयः साक्षाज्ज्योतिषां ज्योतिरुच्यते ॥ ४६॥
न तत्र सगुणं सर्वं निर्गुणं नैव विद्यते ।
पुमान् नपुंसकं न स्त्री वर्तते मुनिसत्तम ॥ ४७॥
चतुर्विधेषु सर्वेषु नानाभावगतेषु च ।
स्वसंवेद्यं निजात्मस्थं संस्थितं मेऽत्र सन्निधौ ॥ ४८॥
चतुर्विधेषु सर्वेषु मायायुक्तमिह स्थितम् ।
सदा भ्रान्तं विजानीहि स्वस्वरूपं महामते ॥ ४९॥
तेषु मोहविहीनं यत् साक्षिरूपं सदा स्थितम् ।
(Page खं. ५ अ. ४० पान ९८)
निर्गुणेन स्वभावेन सदा खण्डमयं परम् ॥ ५०॥
तयोर्योगे निजानन्दो ढुण्ढिलोकग एव सः ।
बभूव तत्र भक्त्या मे भक्तास्तिष्ठन्ति सन्निधौ ॥ ५१॥
मम लोके महाभाग न क्षुधा न तृषादिकम् ।
सदा स्वानन्दभोगस्था वसन्ति मम सेवकाः ॥ ५२॥
न कृत्रिमं सुखं तत्र विद्यतेऽकृत्रिमं न हि ।
स्वानन्देन निमग्नास्ते सर्वं भुञ्जन्ति नित्यदा ॥ ५३॥
सगुणं तु सुखं सर्वे भुञ्जते निर्गुणं तथा ।
स्वानन्दसम्भवं तत्स्था एककाले महामते ॥ ५४॥
अत्र यत् संस्थितं सर्वं नानाभेदमयं मुने ।
तदेव ज्योतीरूपेण मम लोके प्रतिष्ठति ॥ ५५॥
अत्रैव न स्थितं यच्च निर्गुणं विप्र तत्र तत् ।
ज्योतीरूपेण मे लोके किल तिष्ठति सर्वदा ॥ ५६॥
स्वानन्दसम्भवं सर्वं तत्र तिष्ठति नित्यदा ।
मायया मेऽत्र लोकेऽतः सदाऽऽश्चर्यमयो बभौ ॥ ५७॥
सगुणो नैव विप्रेश सगुणं तत्र वर्तते ।
निर्गुणो न स नैर्गुण्यं वर्तते मे च लोकगम् ॥ ५८॥
सगुणैर्निर्गुणैर्हीनं वर्तते तत्र सर्वदा ।
अत आश्चर्यसंयुक्तो मम लोको विशेषतः ॥ ५९॥
न तत्राऽहं स्वभावश्च नाऽहं भावविवर्जितः ।
मम लोके महायोगिन् सदा तिष्ठन्ति मत्प्रियाः ॥ ६०॥
सगुणाऽमृतरूपं यद्भोगदं मृततुल्यकम् ।
निर्गुणामृतरूपं यदमृते भोगकारकम् ॥ ६१॥
तयोर्योगे महायोगिन्नमृतं स्वस्वरूपकम् ।
तन्मयः सागरस्तत्र स्वस्थाधारेण वर्तते ॥ ६२॥
मिष्टं नानाविधं तस्मान्निःसृतं सगुणात्मकम् ।
निर्गुणात्मकमेतस्मादिक्षुसागर उच्यते ॥ ६३॥
स्वस्वरूपात्मकं तत्र जलं रक्तस्वरूपकम् ।
तस्य नश्यति पानेन नैर्गुण्यं सगुणात्मकम् ॥ ६४॥
तस्माद्धारा समुद्भूता मधुधारा प्रकथ्यते ।
तया सगुणनैर्गुण्यं वर्तते तृप्तिसंयुतम् ॥ ६५॥
तत्राऽहं सिद्धिबुद्धिभ्यां सदा क्रीडामि मानद ।
ब्रह्मप्रियाद्यकास्तत्र गणा मे निवसन्ति हि ॥ ६६॥
शुण्डादण्डादिचिह्नैश्च संयुतोऽहं सदा मुने ।
गणा मेऽन्ये तथा भक्ताः स्वेच्छारूपाः वसन्ति ते ॥ ६७॥
एतत्ते कथितं सर्वं मम लोकसुखं महत् ।
मानयुक्तं मानहीनं हृदये पश्य मां मुने ॥ ६८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते स्वानन्दलोकवर्णनं नाम चत्वारिंशत्तमोऽध्यायः ॥ ५.४०
(Page खं. ५ अ. ४१ पान ९९)
५.४१ स्वानन्दस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कपिल उवाच ।
त्वदीयभक्तिसंयुक्ता नराः स्वानन्दगा बभुः ।
गच्छन्ति केन मार्गेण तद्वदस्व गजानन ॥ १॥
चिन्तामणिरुवाच ।
मदीयोपासनायुक्ता मन्निष्ठा मत्परायणाः ।
अन्ते मेऽत्र स्मृतिं कृत्वा गच्छन्ति मम लोककम् ॥ २॥
विमानं स्वस्वरूपाढ्यं प्रेषयामि महामुने ।
शिवविष्ण्वादिदेवानामदृश्यं निजलोकतः ॥ ३॥
तमारुह्य गणैर्युक्तं भक्तो मे देहधृक् स्वयम् ।
स्वर्गान् पश्यंश्च सर्वान् स विस्मितो भवतीत्यहो ॥ ४॥
न तं पश्यति देवाद्या योगिनो यानसंस्थितम् ।
स्वानन्दचक्षुषा हीना मृतदेहमया मुने ॥ ५॥
शक्तेर्लोकमतिक्रम्य तथा सौरं च वैष्णवम् ।
शैवं ततः परं सोऽपि मम लोकं प्रविन्दति ॥ ६॥
तत्राज्ञानमयश्चादावन्धकारः प्रदृश्यते ।
नरेण न गणैर्विप्र देहधारणकारणात् ॥ ७॥
विमानप्रभया तत्र मदीयस्मरणेन वै ।
योजनान्ययुतं गत्वा प्रकाशस्तेन दृश्यते ॥ ८॥
तत्र भ्रामरिका देवी प्रचण्डदेहधारिणी ।
ज्योतिर्मयस्वरूपेणाज्ञानिभ्यो भयदा बभौ ॥ ९॥
जन्ममृत्यभयं सर्वं नानाभेदकरं भ्रमम् ।
तया संरचितं पूर्णं मम जानीहि मायया ॥ १०॥
भ्रामयेत् सर्वभूतानि सा स्थिता भ्रामरी स्वयम् ।
स्वस्याधारेण तत्रैव स्वानन्दमयकायभृत् ॥ ११॥
तां पश्य भयभीतः स मां सस्मार विशेषतः ।
ततो गणैः समाश्वास्याऽग्रे निन्ये मानवोत्तमः ॥ १२॥
तस्या मस्तकगा शक्तिर्ज्योतिराधाररूपिणी ।
अज्ञानिभ्यो सदा विप्र भयदा सा बभूव ह ॥ १३॥
जीवरूपं सदा सर्वभेदमोहधरं परम् ।
शिवरूपं तथा साक्षि तदाधारं प्रवर्तते ॥ १४॥
देहादीनां महायोगिन्नाधारो जीवसंज्ञितः ।
स्वयमाधारहीनत्वात् परमात्मा तदेव च ॥ १५॥
सर्वेषां पूर्ण आधारस्तया क्लृप्तो महामुने ।
आधारशक्तिरेवं सा नाम्ना तस्य स्थिताऽभवत् ॥ १६॥
तयाऽहं द्विविधश्चित्ते भवाम्यज्ञानिनां सदा ।
जीवात्मपरमात्मस्थो माया तत्र बभौ परा ॥ १७॥
मदीयध्यानजेनैव तामतिक्रम्य मानवः ।
गणैर्निन्ये पुरोभागे मम दर्शनकारणात् ॥ १८॥
ततोऽतिज्योतिषा रूपा शक्तिर्वै कामदायिनी ।
तस्या मस्तकगा विप्र शोभते हर्षदायिनी ॥ १९॥
जन्ममृत्युयुतं सर्वं भेदरूपं तथा परम् ।
आत्माकारं तयोर्योगे योगरूपा तु सा स्मृता ॥ २०॥
तथा कामयुतं विप्र द्विविधं प्रकृतं सदा ।
तेन देहात्मनोर्योगः परस्परयुतोऽभवत् ॥ २१॥
उत्पत्तिस्थितिसंहारयुक्तं भ्रान्तिधरं स्मृतम् ।
नानाभेदमयं पूर्णं क्षयवृद्ध्यादिसंयुतम् ॥ २२॥
आत्मा सदाऽमृताधार उत्पत्तिस्थितिनाशकैः ।
हीना वृद्धिक्षयादिभ्यो वदन्ति वेदवादिनः ॥ २३॥
किमर्थं भेदयुक्तं च सर्वदाऽऽत्मानमिच्छति ।
तथा पश्यात्मवैचित्र्यं विरुद्धे सतिमानद ॥ २४॥
कामयुक्तं ह्यसिपदेन द्वन्द्वस्थं कृतं सदा ।
तेन मोहप्रभावेण परस्परहितं जगत् ॥ २५॥
अतः सा शक्तिराख्याता कामदा सर्वमोहिनी ।
असिरूपा विशेषज्ञ महामाया मदीयिका ॥ २६॥
भ्रामर्या भ्रामिका काऽपि शक्तिर्नात्र प्रदृश्यते ।
त्वं पदस्थां महामायां तां जानीहि प्रभावतः ॥ २७॥
आधाराया महायोगिन्नाधारान्या न विद्यते ।
शक्तिः कुत्र ततः सापि तत्पदस्थाऽत्र कथ्यते ॥ २८॥
कामदायाश्च का शक्तिः कामदान्या न विद्यते ।
सर्वदा सर्वरूपासि पदमय्यापि सा बभौ ॥ २९॥
तस्या मस्तकगं विद्धि लोकं मे स्वस्वरूपकम् ।
मायया रचितं विप्र मया स्वानुभवात्मकम् ॥ ३०॥
तत्रागत्य महाभक्तः पिबेदिक्षु समुद्रजम् ।
जलं तेन स वै सद्यो ज्योतीरूपधरो भवेत् ॥ ३१॥
भेदाभेदादिहीनश्च भूत्वा पश्यति मां ततः ।
मद्दर्शनजयोगेन ब्रह्मभूतो भवेन्नरः ॥ ३२॥
स्वेच्छया निजलोकस्थो यत्र तत्र स सञ्चरेत् ।
सगुणो निर्गुणो भूत्वा सदा स्वानन्दगः परः ॥ ३३॥
ततस्तस्य पुनर्भ्रान्तिर्न भवेन् मुनिसत्तम ।
कल्पकोटिशतैर्वाऽपि निश्चितं वेदवादिभिः ॥ ३४॥
महालये चतुर्भेदा मयि चैकत्वमागताः ।
verse 35 missing in the original
अज्ञानेन युताः सर्वे पुनस्तान् संसृजाम्यहम् ॥ ३६॥
एतत्ते कथितं सर्वं मम लोकागमे मुने ।
सङ्क्षेपेणैव जानीहि मार्गहीनं सुसिद्धिदम् ॥ ३७॥
कपिल उवाच ।
त्वदीयोपासनं कृत्वा बहवस्ते गजानन ।
लोकं गच्छन्ति विघ्नेश तथा योगिन एव च ॥ ३८॥
ब्रह्मभूताश्च ते ख्याताः कदाचिन्न पतन्ति चेत् ।
तदा जगदिदं स्वामिन् क्षीणरूपं भवेत् क्रमात् ॥ ३९॥
पुनः पुनः सुस्रष्टा त्वं क्षीणे क्षीणे कथं प्रभो ।
पूर्णं विश्वमिदं नित्यमञ्जसा भाति खेलसि ॥ ४०॥
चिन्तामणिरुवाच ।
यथाऽहं मायया विप्र युद्धकाले विशेषतः ।
भूत्वा ह्यनन्तरूपेण प्रयुद्ध्ये विश्वपालनात् ॥ ४१॥
हत्वा दैत्यादिकान् सर्वान् पुनरेकस्वरूपधृक् ।
भवामि सर्वभावज्ञो लीलार्थमवतारधृक् ॥ ४२॥
तथा मायाबलेनैव नूतनं संसृजाम्यहम् ।
न न्यूनाधिकमेवेदं विश्वं भवति सर्वदा ॥ ४३॥
कपिल उवाच ।
ब्रह्मभूता नरा नार्यः स्वानन्दे संस्थिता बभुः ।
अनन्तास्ते प्रभक्त्या वै पुनः स्वानन्दगामिनः ॥ ४४॥
तेषां वासः सदा तत्र नगरं नियतं प्रभो ।
सङ्कीर्णता भवेन्नूनं कुत्र तिष्ठन्ति तद्वद ॥ ४५॥
चिन्तामणिरुवाच ।
स्वानन्दे कल्पपर्यन्तमवसन्नित्यमादरात् ।
महालये समुत्पन्ने मद्देहे सङ्गता बभुः ॥ ४६॥
मया भिन्नं कृतं सर्वं युगादौ मुनिसत्तम ।
युगान्ते योगभावेन मद्रूपं भवतीत्यहो ॥ ४७॥
मद्देहे योगभावेनाज्ञानेनैव समागताः ।
सा योगनिद्रा विप्रेन्द्र मदीया कथ्यते बुधैः ॥ ४८॥
स्वानन्दस्था जनाः सर्वे ज्ञानयुक्ता मदीयके ।
देहे लीना वै भवन्ति योगीन्द्रा योगभावतः ॥ ४९॥
पुनः सृष्टियुगे विप्र निःसृतं विश्वमञ्जसा ।
अज्ञानेन युतं लीनं मायया मे न संशयः ॥ ५०॥
ज्ञानेन ये समायाता मद्देहे ते पुनः कदा ।
भवन्ति भिन्नरूपा न सृष्ट्यादौ योगभाविताः ॥ ५१॥
(Page खं. ५ अ. ४१ पान १०१)
एवं वसन्ति ये तत्र स्वानन्दे मुनिसत्तम ।
कल्पे कल्पे मदीये ते देहे सायुज्यमागताः ॥ ५२॥
कपिल उवाच ।
भक्तिमिच्छन्ति विघ्नेश त्वदीयां नित्यमादरात् ।
न योगे प्रेमभावेन तेषां कुत्र स्थितिं वद ॥ ५३॥
कल्पे कल्पे महाभागा भक्तास्ते पूर्णभावतः ।
भवन्ति ये क्रमेणैवापाराः कुत्र वसन्ति ते ॥ ५४॥
चिन्तामणिरुवाच ।
दशयोजनसाहस्रं मानं तस्य प्रकीर्तितम् ।
योगिनां च मुमुक्षूणां न भक्तानां कदाचन ॥ ५५॥
अपारयोजनाकारो मम लोको न संशयः ।
स्वानन्दस्तत्र मे भक्ता वसन्ति सेवनोत्सुकाः ॥ ५६॥
सङ्ख्याहीनाश्च मद्भक्ताः सदा प्रेमरसाऽऽप्लुताः ।
नवधा मां भजन्ते ते कल्पे कल्पे गतव्यथाः ॥ ५७॥
भवन्ति तु भविष्यन्ति बभूवुर्ये महामुने ।
मद्भक्ता मे प्रसान्निध्ये वसन्ति मोहदाः सदा ॥ ५८॥
महाभागा प्रियं भक्तिसमं मे नैव विद्यते ।
भक्त्यधीनो महानन्दाद् भ्रमेयं भक्तसन्निधौ ॥ ५९॥
यत्र कुत्र तु तिष्ठन्ति भक्ता मे तत्र सर्वदा ।
तिष्ठामि सर्वभावेन तान् रक्षामि सुविह्वलः ॥ ६०॥
नवधा चित्तभावेन भक्तसामीप्यगो मुदा ।
भजामि भक्तमाहात्म्यं मोहितश्चेष्टितः सदा ॥ ६१॥
न स्वानन्दप्रियो मे वै सिद्धिर्बुद्धिः सुतौ तथा ।
मम देहो न विप्रेश प्रिया भक्ता यथा च मे ॥ ६२॥
कपिल उवाच ।
स्वानन्दस्था गणास्ते ये भक्तान्नेतुं समागताः ।
ज्योतीरूपाश्च भक्तैस्ते दृश्यन्ते कथमप्यहो ॥ ६३॥
चिन्तामणिरुवाच ।
मायया मे महायोगिन् दुर्लभं किं भवेद्वद ।
कृपया मेऽत्र पश्यन्ति भक्तास्तान् चर्मचक्षुषा ॥ ६४॥
स्वानन्दः सर्वरूपश्च तत्र मार्गं वदामि ते ।
भेदयुक्तैर्गणा मे वै दृश्यन्ते भेदसंयुताः ॥ ६५॥
भेदहीनैः सदात्मस्थैर्निर्गुणा मे गणा मुने ।
दृश्यन्ते स्वात्मसंस्थैश्च स्वसंवेद्यात्मकास्तथा ॥ ६६॥
जलादिषु यथा बिम्बं भवते तादृशं किल ।
तथा मदीयलोकस्था दृश्यन्ते सर्वमण्डले ॥ ६७॥
एतत्ते कथितं सर्वं ममलोकविचेष्टितम् ।
अधुनाऽहं गमिष्यामि निजलोकं महामुने ॥ ६८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते स्वानन्दस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ५.४१
(Page खं. ५ अ. ४२ पान १०२)
५.४२ चिन्तामण्यन्तर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कपिल उवाच ।
एतादृशी महाभक्तिस्त्वदीया गणनायक ।
यदा सर्वे प्रकुर्वन्ति तदा विश्वं कथं भवेत् ॥ १॥
सर्वेभ्यः श्रेष्ठभावेन जानन्ति त्वां यदा नराः ।
तदा त्वां सर्वभावेन भजन्ते ते न संशयः ॥ २॥
श्रेष्ठार्थिनो नराः सर्वे भजन्ते शीघ्रसिद्धये ।
देवेन्द्रास्त्वां परित्यज्यान्यान् ब्रह्मप कथं वद ॥ ३॥
चिन्तामणिरुवाच ।
मया सृष्टं जगत् सर्वं नानाभावमयं मुने ।
नानाभावयुताः सर्वे न भजन्ते तु मां सदा ॥ ४॥
चतुर्णां देवमुख्यानां कृत्वा भजनमुत्तमम् ।
तेन शुद्धान्तरात्मानो मां भजन्ते ततः परम् ॥ ५॥
अन्यच्च शृणु मे वाक्यं मया माया प्रकाशिता ।
सर्वश्रेष्ठतमं मां ते न जानन्ति प्रमोहिताः ॥ ६॥
यदाऽहं मायया विप्र छादयामि न मे वपुः ।
तदा मोहविहीनाश्चेच्छ्रेष्ठं मां प्रवन्दति च ॥ ७॥
मया नानावताराश्च कृतास्त्रैलोक्यगेषु वै ।
देवादीनां प्रगेहेषु तादृशं मां वदन्ति ते ॥ ८॥
अग्रपूज्यत्वमेवं यत् सर्वपूज्यत्वमञ्जसा ।
शिवेन दत्तमस्मै तद्गणेशाय वदन्ति ते ॥ ९॥
मायया मोहिता मे मां पार्वतीमलसम्भवम् ।
शिवपुत्रं शिवेनैव स्थापितं प्रवदन्ति ते ॥ १०॥
शिवगणस्वरूपोऽयं मुक्तिं दातुं न च क्षमः ।
कार्यसिद्धिस्वभावेन कामपूरो गणेश्वरः ॥ ११॥
इत्यादिभावा बहवो मया विप्र प्रकाशिताः ।
क्रीडार्थं तेन मां त्यक्त्वा श्रेष्ठं जानन्ति चापरम् ॥ १२॥
नो चेत् स्वानन्दगाः सर्वे भवन्त्यत्र न संशयः ।
निर्मोहात् कल्पपर्यन्तं जगन्नैव प्रवर्तते ॥ १३॥
अन्यच्च कर्मणा सर्वं ब्रह्माण्डं जनसंयुतम् ।
नानाभावात्ममोहस्थं भवतेऽनेकनिश्चयात् ॥ १४॥
अन्ते मदीयभावस्था भवन्ते शुद्धचेतसः ।
वेदशास्त्रार्थतत्त्वज्ञाः स्वयमेव महामुने ॥ १५॥
अहं साक्षाद् बुद्धिपतिः कृत्वा बुद्धेश्च चालनम् ।
गोपयामि गणेशस्य स्वरूपं देहिनां हृदि ॥ १६॥
तेन मां नैव जानन्ति जना परमगं कदा ।
विवेकमार्गं ते तत्र वदामि शृणु यत्नतः ॥ १७॥
कृते मां पूर्णभावेन भजन्ते सर्वमानवाः ।
अज्ञानावरणैर्हीनाः श्रेष्ठं ते प्रवन्दति हि ॥ १८॥
त्रेतायां पादहीनेन मां भजन्ते नरा मुने ।
पञ्चायतनभावेन पञ्च श्रेष्ठान् वदन्ति ते ॥ १९॥
तत्र सर्वेषु साम्येन मां भजन्ते न संशयः ।
चर्तुभ्यः श्रेष्ठभावाख्यं ज्ञानं नष्टं मदीयकम् ॥ २०॥
द्वापरे द्विपदा हीनं मां भजन्ते सुरादयः ।
वदन्ति न्यूनरूपं तु चतुर्भ्यः शङ्करात्मजम् ॥ २१॥
वेदशास्त्रे पुराणेषु श्रेष्ठं जानन्ति मानवाः ।
मोहेन युगमानेन मां न्यूनं प्रवदन्ति ते ॥ २२॥
सर्वं ब्रह्मेति वेदेषु कथितं तत्र किं भवेत् ।
सत्ता समानरूपा तु तथाऽयं गणनायकः ॥ २३॥
कलौ त्रिपादहीनेन मां ज्ञानेन भजन्ति ते ।
वदन्ति वै नरास्तत्र मलजोऽयं गजाननः ॥ २४॥
शिवस्य वरदानेनाग्रपूज्योऽयं गणेश्वरः ।
सर्वपूज्यो यथा दैत्या जन्तवो वरसंयुताः ॥ २५॥
सर्वं ब्रह्मेति वेदेषु कथितं तेन विघ्नपः ।
(Page खं. ५ अ. ४२ पान १०३)
वर्णितोऽयं शिववरबलेनैव मुनीन्द्रकैः ॥ २६॥
स्वसत्तासंयुतो देवो नाऽयं चिन्तामणिः कदा ।
शिवभक्तिबलेनाद्यो वरयुक्तो बभूव ह ॥ २७॥
कलिप्रान्ते मुने लोका न भजिष्यन्ति मां कदा ।
एकपादमयी भक्तिर्नाशं यास्यति निश्चितम् ॥ २८॥
मतभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः ।
शिवविष्ण्वादिकान् सर्वे भजन्ते त्वग्रपूज्यकान् ॥ २९॥
सर्वपूज्याग्रपूज्यत्वं नष्टं भवति मे ततः ।
अन्ते विघ्नयुताः सर्वे नरकेषु पचन्ति वै ॥ ३०॥
युगमानप्रसिद्ध्यर्थं कृतं मेऽत्र महामुने ।
कर्माकर्मविकर्माणि स्थापितानि विभागशः ॥ ३१॥
न करोमि यदाऽहं चेत्तदा मे वरदानकम् ।
कर्मभ्यश्च युगेभ्यश्च निष्फलं भवतीत्यहो ॥ ३२॥
नरकादय आख्याताः स्वर्गाश्चैव महामुने ।
भवन्ति निष्फलाः सर्वे तदर्थं खेलयाम्यहम् ॥ ३३॥
शुभाशुभमयं सर्वं मया स्ववरदानतः ।
स्थापितं तेन मोहेन मां न जानन्ति मूलगम् ॥ ३४॥
एतत्ते सर्वमाख्यातं मदीयं चेष्टितं महत् ।
मा संशयं मुने त्वं तु कुरु मां भज भावतः ॥ ३५॥
कपिल उवाच ।
एवमुक्त्वा गणेशानो मामन्तर्धानमाकरोत् ।
अहं खेदसमायुक्तो हृदये तमलोकयम् ॥ ३६॥
मयाऽसौ स्थापितश्चिन्तामणिर्विप्र परेश्वरः ।
पूजयामि भजे नित्यं भक्तिभावसमन्वितः ॥ ३७॥
एतत्ते कथितं सर्वं रहस्यं तस्य धीमतः ।
लोकस्य तेन यत् प्रोक्तं भज तं भक्तिसंयुतः ॥ ३८॥
त्वं साक्षाद्गाणपत्यश्च देहधारी न संशयः ।
तवदर्शनमात्रेण सर्वे पूता भवन्ति च ॥ ३९॥
गार्ग्य उवाच ।
श्रुत्वैवं मुद्गलो योगी महत् स्वानन्दलोकगम् ।
माहात्म्यं विस्मितो भूत्वा प्रणनाम महामुनिम् ॥ ४०॥
चिन्तामणिं समभ्यर्च्य प्रणम्य कपिलं पुनः ।
मुद्गलः स्वाश्रमं राजन् प्रययौ गणपे रतः ॥ ४१॥
एवं ते सर्वमाख्यातं भज तं भावसंयुतः ।
अनेन जडदेहेन स्वानन्दं लभसे नृप ॥ ४२॥
मुद्गल उवाच ।
एवमुक्त्वा महीपालमैलं गार्ग्यो महामुनिः ।
अनुज्ञातश्च भूपेन ययौ स्वस्याश्रमं विधे ॥ ४३॥
ऐलोऽपि गणराजं तं लक्षसंज्ञं निरन्तरम् ।
सेव्यस्वानन्दगो भूत्वा भजते तं प्रजापते ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते चिन्तामण्यन्तर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ५.४२
५.४३ भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानन्दजां कथाम् ।
विस्मितो योगिराजेन्द्र न समं तस्य विद्यते ॥ १॥
अधुना ब्रूहि मे सर्वं यश ऐलस्य भक्तिजम् ।
गार्ग्येण नृपशार्दूल उपदिष्टः किमाचरत् ॥ २॥
गणेशलोकगः सोऽपि बभूव वद तत्कथम् ।
अत्र तत्र गणेशानं भजते कथमप्यहो ॥ ३॥
मुद्गल उवाच ।
गार्ग्येण नृपवर्यश्च गाणपत्येन शिक्षितः ।
गाणपत्येन मार्गेणाभजत्तं गणनायकम् ॥ ४॥
स्कन्देन स्थापितस्तत्र लक्षो नाम गजाननः ।
तं नित्यं सेवयामासानन्यभावेन विघ्नपम् ॥ ५॥
न गणेशात् परं किञ्चिज्जानाति नृपसत्तमः ।
एकनिष्ठः स्वभावेनाभजत्तं लक्षविघ्नपम् ॥ ६॥
दक्ष उवाच ।
एकनिष्ठात्मिकां भक्तिं वद मेऽन्यां च मुद्गल ।
यया विघ्नेश्वरः साक्षात् सन्तुष्टो जायते नृणाम् ॥ ७॥
मुद्गल उवाच ।
पञ्चायतनपूजां वै तथाग्नेः सेवनं परम् ।
द्विजानां नित्यमेतत्ते कथितं सर्वसम्मतम् ॥ ८॥
विघ्नरूपं महाघोरं परत्रेह च बन्धकम् ।
ब्रह्ममार्गस्य संरोधकारकं विद्धि सर्वदा ॥ ९॥
तं जयेद्विघ्नराजस्य पूजनेन नरोत्तमः ।
विद्यार्थं शङ्करं सोऽपि पूजयेन्नित्यमादरात् ॥ १०॥
यशोर्थं केशवं चैवारोग्यार्थं रविमञ्जसा ।
सौभाग्यार्थं नरस्तद्वत् पूजयेज्जगदम्बिकाम् ॥ ११॥
अग्निं होमादिमार्गेण पूजयेत् कर्मसिद्धये ।
देवादीनां विभागार्थं सर्वेषां तोषकारकम् ॥ १२॥
एवं मत्वा तु यो मर्त्यः करोति सेवनं सदा ।
स्वधर्मस्य प्रजानाथ ब्रह्मार्पणतया किल ॥ १३॥
अथवा कामनायुक्तः स चेत्तदपि तादृशम् ।
कुर्यात् कर्माङ्गदेवेभ्यः समर्प्य सकलां क्रियाम् ॥ १४॥
सर्वे समानरूपाश्च तस्य प्रोक्ताः प्रजापते ।
स्वधर्माचरणं श्रेष्ठं जानीते सर्वसौख्यदम् ॥ १५॥
तत्र विघ्नेश्वरं साक्षान् मध्ये संस्थाप्य सर्वदा ।
ईशान्यां विष्णुमेव त्वाग्नेय्यां शम्भुं प्रपूजयेत् ॥ १६॥
नैरृत्यां जगदम्बां च वायव्यां रविमादरात् ।
पञ्चायतनभावेन पूजयेत् पञ्च देवताः ॥ १७॥
सर्वेषां पूज्यभावाद्वै सर्वाग्रे पूज्य भावतः ।
ज्येष्ठराजस्वरूपाच्च मध्ये तिष्ठति विघ्नपः ॥ १८॥
अथवा पञ्चदेवेषु मन्त्रं गृह्य स्वभावजम् ।
एकस्य तस्य मध्ये स स्थापनं कुरुते स्वयम् ॥ १९॥
सर्वं कलांशरूपस्थं पञ्चायतनकस्य वै ।
पूजितेषु प्रजानाथ पञ्चसु पूजितं जगत् ॥ २०॥
देवेन कार्यसिद्ध्यर्थं नाना देवाः कृताः पुरा ।
ते सर्वे तत्स्वरूपाश्च पूजनीया नरेण वै ॥ २१॥
इयं सर्वात्मिका भक्तिः कथिता च प्रजापते ।
स्वेष्टभावेन सर्वत्र परात्तत् ध्यानकारणात् ॥ २२॥
अधुना शृणु दक्ष त्वमेकनिष्ठां महाद्भुताम् ।
स्वल्पकालेन भक्तस्य सिद्धिदां परमप्रियाम् ॥ २३॥
स्वस्येष्टदेवतायां तु विश्वं सर्वं प्रतिष्ठितम् ।
तस्य पूजनमात्रेण सर्वं सम्पूजितं भवेत् ॥ २४॥
अनन्तरूपभावेन सर्वत्र कलया स्वयम् ।
तिष्ठति पूजनं तेषां न भवेद्देहधारिणाम् ॥ २५॥
चराचरमयो देवः पूजनीयं चराचरम् ।
(Page खं. ५ अ. ४३ पान १०५)
केनाऽपि तत्र विप्रेन्द्र भवेच्चासङ्ख्यभावतः ॥ २६॥
चराचरं पूजितं चेत्तदपि तस्य रोमगम् ।
ब्रह्माण्डकूटमेवेदं वदन्ति मुनयोऽपरे ॥ २७॥
यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः ।
अतः सम्पूर्णदेहस्य पूजनं न भवेत् कदा ॥ २८॥
भक्तवात्सल्यभावार्थं देहधारी बभूव ह ।
देवस्तस्य भवेत् सर्वं पूजनेन सुपूजितम् ॥ २९॥
अनेन निश्चयेनैव पूजयेत् स्वेष्टदैवतम् ।
अन्येषां क्षोभतोषौ स सदा नेच्छति चेतसा ॥ ३०॥
नान्यान्निन्देन्न वै दक्ष स्तुयादेकत्वमाश्रितः ।
स्वेष्टदेवपरो भूत्वा भक्तिं कुर्याद्विशेषतः ॥ ३१॥
नरो विघ्नेश्वरेणैव सदा युक्तं प्रजापते ।
स्वेष्टदेवं समापूज्य सिद्धिं स लभते पराम् ॥ ३२॥
एकनिष्ठा महाभक्तिर्न भवेत्तत्र खण्डिता ।
तत्र मार्गं प्रवक्ष्यामि सर्वसंशयनाशनम् ॥ ३३॥
यथा स्वशाखया संयुक्तं सन्ध्यादिकमाचरेत् ।
तथाऽग्रपूज्यभावेन पूजयेद्गणनायकम् ॥ ३४॥
सर्वेषामादिपूज्योऽयं सर्वादौ वेदवादतः ।
अन्यथा वेदवैरुध्यात् सकला नश्यति क्रिया ॥ ३५॥
शिवविष्णुमुखादीनामग्रपूजा न विद्यते ।
सर्वादौ तेन ते त्याज्या न त्याज्योऽयं गजाननः ॥ ३६॥
अन्यच्च शृणु मे वाक्यं सर्वेभ्यः फलदायकः ।
गणेशो नात्र सन्देहः सिद्धिबुद्धिसमन्वितः ॥ ३७॥
धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमञ्जसा ।
सिद्ध्यधीनं प्रजानाथ पञ्चकं वेदवादतः ॥ ३८॥
कर्ता बुद्ध्या समायुक्तः स्वेष्टदेवस्तया युतः ।
बुद्ध्यधीनं जगत् सर्वं ज्ञानं देहादिकं परम् ॥ ३९॥
तयोः स्वामी गणेशानो ब्रह्मणस्पतिवाचकः ।
सर्वादौ तमसम्पूज्य नारकी स भवेन्नरः ॥ ४०॥
यदा गणपतिर्दक्ष सर्वादौ पूजितो न चेत् ।
पतिव्रते सिद्धिबुद्धी तत्र नैवागमिष्यतः ॥ ४१॥
सर्वसिद्धिविहीनश्च भवेत् दुर्बुद्धिसंयुतः ।
देहान्ते नरकेष्वेव स पचेन्नात्र संशयः ॥ ४२॥
शिवविष्णुमुखानां स ज्येष्ठश्चैव प्रकीर्तितः ।
तस्योल्लङ्घनमात्रेण भ्रंशयिष्यन्ति देवताः ॥ ४३॥
यथा गणपतिद्वेषाद्बलिं वैष्णवमुत्तमम् ।
नरकेषु निबद्ध्यैवोद्यतो विष्णुर्बभूव ह ॥ ४४॥
सन्ध्यादि कर्मवच्चायं सर्वादौ सम्मतो बुधैः ।
तस्य पूजनमात्रेणैकनिष्ठा नैव खण्डिता ॥ ४५॥
गणेश एकनिष्ठश्चेत्तदा गणपतिः सदा ।
एकः पूज्यो न सन्देहोऽन्येषामावश्यखण्डनात् ॥ ४६॥
एकनिष्ठसमा भक्तिर्विद्यते नैव निश्चितम् ।
ब्रह्म नानाविधं तेन विश्वं भक्त्या प्रपूजितम् ॥ ४७॥
जगद्ब्रह्मयुतो देवः स्वेष्टः सम्पूर्णभावतः ।
पूजितस्तेन भवति सन्तुष्टे सकलं सदा ॥ ४८॥
एकनिष्ठो यथा भक्तस्तथा देवोऽपि मानद ।
एकभक्ताश्रितो भूत्वाऽभवत्तत्रैव संस्थितः ॥ ४९॥
एतत्ते कथितं दक्ष भजनं त्रिविधं मया ।
अनेन भक्तिमार्गेण वाञ्छितं लभते नरः ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ५.४३
(Page खं. ५ अ. ४४ पान १०६)
५.४४ ध्यानदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एवमैलः स राजर्षिरेकनिष्ठापरायणः ।
गणेशमभजन्नित्यं यथा गृत्समदस्तथा ॥ १॥
ध्यात्वा गजाननं देवमेकान्ते तद्गताऽखिलः ।
मानसे राज्यभोगे स निःस्पृहः सम्बभूव ह ॥ २॥
पुत्रे राज्यं परित्यज्य पूजयित्वा गजाननम् ।
ध्यानयुक्तः स्वभावेनातिष्ठत्तत्रैव नित्यदा ॥ ३॥
दक्ष उवाच ।
गणेशस्य ध्यानमैलकृतं मे वद साम्प्रतम् ।
तथाऽहं ध्यानसंयुक्तो भजिष्यामि निरन्तरम् ॥ ४॥
मुद्गल उवाच ।
यथैलो नृपवर्यः स गार्ग्याज्ज्ञात्वा गणेश्वरम् ।
अभजत् ध्यानयुक्तश्च तत् ध्यानं शृणु मानद ॥ ५॥
ऐल उवाच ।
नमामि विघ्नेश्वरपादपङ्कजं सुचिह्नितं चाखिलदं निजात्मनाम् ।
ध्वजासिपद्माभयवज्रलाञ्छनैः परश्वधेनैव सुकोमलं परम् ॥ ६॥
सुरक्तपादाङ्गुलकैः सुकोमलैर्नखप्रभाताम्रतया सुराजितम् ।
सुगुल्फयुक्तं मृदुमांसलं महन् मोहं हरेत् तत्तिमिरं हृदि स्थितम् ॥ ७॥
जङ्घे परे रक्तसुभामये ततो ध्यायामि मांसेन युते सुकोमले ।
तज्जानुनी मांसलके सुरोमभिराकोमलैर्वक्रशिखैः सुसंवृते ॥ ८॥
ऊरू सुमांसेन समावृतौ परौ रम्भासमानौ सुविराजितौ तथा ।
रक्तौ हृदा चिन्तनमात्रभावतो भक्तिप्रदौ विघ्नहरस्य चिन्तये ॥ ९॥
कटिं सदा मांसलरक्तरञ्जितां सुवर्तुलां मध्यमभागसंश्रिताम् ।
गणेश्वरस्यैव तु चिन्तयाम्यहं सदा सुखानन्दकरस्य नित्यदा ॥ १०॥
वस्त्रं सुरक्तं हृदि चिन्तयाम्यहमनन्तमौल्यं कटिभागसंस्थितम् ।
नाभिं सुवृत्तां परमश्रिया युतां शेषस्य संवासकरीं तु चिन्तये ॥ ११॥
महोदरं मांसलभावसंयुतं सुरोमयुक्तं प्रभया विराजितम् ।
विचिन्तयेऽहं सकलप्रकाशकं त्रयीप्रमूलं परमव्ययं परम् ॥ १२॥
श्रीवक्रतुण्डस्य विशालरूपकं वक्षस्तथा रक्तमयं सुमांसलम् ।
रक्तं स्तनाभ्यां हृदयं तु चिन्तये चिन्तामणिं तत्र सुखप्रदं परम् ॥ १३॥
कण्ठं त्रिरेखायुतमेव मांसलं रक्तं गणेशस्य च तेजसा युतम् ।
स्कन्धौ वृषस्कन्धसमौ सुकोमलौ ध्यायामि चित्ते सततं सुरक्तकौ ॥ १४॥
बाहू सदा मांसलकौ प्रभासितौ स्वानन्दनाथस्य मनोऽतिसौख्यदौ ।
हस्तौ तथा रक्तसुतेजसा युतौ वामौ हृदा दक्षिणकौ तु चिन्तये ॥ १५॥
कराङ्गुलीर्विंशतिकाः सुवर्तुला नखैः सुरक्तैश्च सुतेजसा युताः ।
गणेश्वरस्यैव हृदि प्रचिन्तये स्वभक्तरक्षाकरिकाः सुभूषिताः ॥ १६॥
मुखं तु शुण्डायुतमेव चिन्तये त्रिनेत्रयुक्तं परमप्रकाशकम् ।
सदैकदन्तस्य च तीक्ष्णदन्तकं स्वभक्तकान् प्रेमरसेन सौख्यदम् ॥ १७॥
कर्णौ विशालौ हृदि चिन्तये परौ भक्ताय निष्कामसुकामदौ तथा ।
शूर्पाकृती चञ्चलभावधारिणौ विघ्नेश्वरस्यैव च वेदरूपिणौ ॥ १८॥
कपोलकौ षट्पदरूपधारिभिर्मुनीश्वरैर्ब्रह्ममदद्रवार्थिभिः ।
सुसंवृतौ नादयुतैर्निरन्तरं गणेश्वरस्यैव हृदा विचिन्तये ॥ १९॥
भालं सुतेजोयुतमेव चिन्तये श्रीढुण्ढिराजस्य निशाकरस्थलम् ।
(Page खं. ५ अ. ४४ पान १०७)
रक्ताष्टगन्धैश्च सुचित्रितं प्रभोर्बिन्दुप्रयुक्तं त्वथ तण्डुलैर्युतम् ॥ २०॥
केशैः समाच्छादितमस्तकं तथा सञ्चिन्तये विघ्नविनाशकारिणः ।
ब्रह्माण्डमूले प्रभुमस्तकाश्रिते कुम्भस्थले ब्रह्मवरस्य सौख्यदे ॥ २१॥
गणेशदेहं परिचिन्तयाम्यहं सुभूषणैर्भूषितकं विचित्रकैः ।
अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥ २२॥
विचित्रगन्धैः परिलेपितं तथा सुचित्रितं भक्तवरैः सुयोगिभिः ।
गणाधिपं साधु हृदि स्थितं सदा विचिन्तयेऽहं निजभक्तिलालसम् ॥ २३॥
पाशाङ्कुशाद्यैश्च सुसंस्तुतं परं ढुण्ढिं प्रमोदादिभिरेव नित्यदा ।
गणेश्वरं दवेवरैस्तथोन्दुरुराजेन पूज्यं च सुचिन्तये हृदि ॥ २४॥
वेदैः पुराणैः स्मृतिभिश्च शास्त्रकैः स्तोत्रैः स्तुतं देहधरैर्विचिन्तये ।
ब्रह्मप्रियाद्यैश्च गणैरसङ्ख्यकैर्भक्त्या तथा मुद्गलमुख्यकैः परम् ॥ २५॥
सर्वाङ्गसंशोभनरूपयुक्तया सिद्ध्या गणेशं परिचिन्तये हृदि ।
संसेवितं वामगया सुशक्तिभिः सिद्ध्यादिभिः संवृतया स्वमायया ॥ २६॥
बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिराराद्गणनायकं हृदि ।
सर्वाङ्गसंशोभनया स्वमायया सञ्चिन्तये दक्षिणभागभूषया ॥ २७॥
लक्षेण लाभेन च विघ्ननायकं संसेवितं शोभनशोभनेन तु ।
सञ्चिन्तये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः ॥ २८॥
अनन्तमन्त्रैः कथितं स्वरूपकं विचिन्तये वक्तुमशक्यभावतः ।
हृदि स्थितं ध्यानसुलोलुपं परं गणेश्वरं ब्रह्ममयागधारिणम् ॥ २९॥
मुद्गल उवाच ।
एवमैलः स राजर्षिर्गणेशभजने रतः ।
ध्यानं कृत्वा सदाऽतिष्ठद्गणेशस्य निवृत्तितः ॥ ३०॥
प्रातः काले समुत्थाय सस्त्रीकः स महीपतिः ।
धर्मयुक्तं चकाराऽपि नित्यं कर्म निरन्तरम् ॥ ३१॥
ततो गणेश्वरं भक्त्याऽपूजयद्भक्तिसंयुतः ।
यथा गार्ग्येण भो दक्ष शिक्षितः स तथाऽकरोत् ॥ ३२॥
शमीमन्दारदूर्वाश्चापूजयद्भक्तिसंयुतः ।
प्रार्थ्य पत्राङ्कुराद्यं स पुष्पं चैवाऽऽचिनोन्नृपः ॥ ३३॥
दक्ष उवाच ।
शमीमन्दारदूर्वाणां पूजनं वद मुद्गल ।
सिद्धेर्बुद्धेश्च विपेन्द्र सुतयोर्लक्षलाभयोः ॥ ३४॥
शमीमन्दारदूर्वाणां प्रार्थना कीदृशी भवेत् ।
तां कृत्वा पुष्पपत्रादींश्चिनोम्यहं त्वदाज्ञया ॥ ३५॥
केन मन्त्रेण योगीन्द्र शमीमन्दारकांस्तदा ।
नरोत्तमो गणेशाय परेशाय समर्पयेत् ॥ ३६॥
मुद्गल उवाच ।
शृणु दक्ष महाप्राज्ञ गाणपत्यपरायण ।
सन्तुष्टोऽहं विशेषेण प्रश्नेन च वदामि ते ॥ ३७॥
गणेशस्यैव मन्त्रेण पूजनीया इमे मताः ।
वस्तुभिर्गाणपत्यैश्च अभवंस्तोषसंयुताः ॥ ३८॥
स्त्रीपुम्भावात्मकं दक्ष नास्ति तत्र विचारतः ।
गकारः सिद्धिरूपश्च णकारो बुद्धिरुच्यते ॥ ३९॥
तयोः स्वामी गणेशः स त्रेधारूपधरो बभौ ।
गणास्तस्य तथा पूज्या गाणपत्यैश्च मन्त्रकैः ॥ ४०॥
गकाराद्बिम्बभावाख्यो लक्षः पुत्रः प्रकथ्यते ।
तथा गकाररूपाद्वै लाभस्तौ तन्मयौ मतौ ॥ ४१॥
(Page खं. ५ अ. ४५ पान १०८)
शमीमन्दारकौ दक्ष वरदानाद्विशेषतः ।
गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥ ४२॥
दूर्वां देवीं गणेशस्य मन्त्रेणापूजयेन्नरः ।
अथवा वैदिकैर्मन्त्रैः काण्डादिभिः प्रपूजयेत् ॥ ४३॥
नाममन्त्रेण शूद्रस्तान् पूजयेत् सर्वभावतः ।
एतदेव रहस्यं ते कथितं सर्वमञ्जसा ॥ ४४॥
प्रार्थनां ते प्रवक्ष्यामि शृणु दक्ष महामते ।
स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमन्दिरे ॥ ४५॥
यत्र दूर्वा च मन्दारः शमी तिष्ठति तत्र सः ।
गत्वा प्रणम्य तानादौ प्रार्थयेद्भक्तिसंयुतः ॥ ४६॥
दूर्वेऽन्नब्रह्मरूपे चामृतरूपे शताङ्कुरे ।
गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः ॥ ४७॥
शमी सर्वप्रदे देवि गणेशरूपधारिणि ।
चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहम् ॥ ४८॥
मन्दारवाञ्छितार्थस्य दातर्विघ्नेशरूपक ।
क्षमस्व प्रीणनार्थाय गणेशस्य चिनोम्यऽहम् ॥ ४९॥
एवं प्रार्थ्य प्रजानाथ शमीमन्दारकौ पुरा ।
दूर्वापत्राणि पुष्पाणि विभुं ह्यानाय्य पूजयेत् ॥ ५०॥
सहस्रनाममन्त्रैश्च अष्टोत्तरशतैर्नरः ।
एकविंशतिकैश्चैव नामभिस्ताः समर्पयेत् ॥ ५१॥
अथवा मूलमन्त्रेण नाममन्त्रेण वा तथा ।
गाणेशैर्विविधैर्मन्त्रैर्दूर्वादीनि समर्पयेत् ॥ ५२॥
एतत्ते कथितं सर्वं रहस्यं पावनात्मकम् ।
गाणपत्यप्रदं पूर्णं किं भूयः श्रोतुमिच्छसि ॥ ५३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते ध्यानदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ५.४४
५.४५ श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् ।
मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ १॥
मुद्गल उवाच ।
कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः ।
आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २॥
तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः ।
भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ ३॥
समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् ।
सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥ ४॥
अस्य श्रीगणेशकीलकस्य ।
शिव ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीगणपतिर्देवता ।
ॐ गं योगाय स्वाहा ।
ॐ गं बीजम् ।
विद्याऽविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः ।
छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् ।
एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५॥
ततो ध्यायेद् गणेशानं ज्योतीरूपधरं परम् ।
मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ ६॥
शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते ।
विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७॥
(Page खं. ५ अ. ४५ पान १०९)
एवं ध्यात्वा गणेशानं मानसैः पूजयेत् पृथक् ।
पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८॥
एकविंशतिवारं तु जपं कुर्यात् प्रजापते ।
ततः स्तोत्रं समुच्चार्य पश्चात् सर्वं समाचरेत् ॥ ९॥
रूपं बलं श्रियं देहि यशो वीर्यं गजानन ।
मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ १०॥
यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः ।
तदा त्वं तान् निहत्य स्म कुरुषे वीर्यसंयुतान् ॥ ११॥
तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः ।
शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२॥
शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो ।
ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३॥
चराचरं जगत् सर्वं सत्ताहीनं यदा भवेत् ।
त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४॥
तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप ।
स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५॥
ब्रह्माणि योगहीनानि जातानि स्मरणेन ते ।
यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६॥
इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो ।
सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ १७॥
तथा मन्त्रा गणेशान वीर्यहीना बभूविरे ।
स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान् कुरुष्व ते ॥ १८॥
सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो ।
मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ १९॥
उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः ।
सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ २०॥
गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने ।
स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१॥
गणेशकीलकमिदं कथितं ते प्रजापते ।
शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ २२॥
यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् ।
स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ २३॥
एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा ।
स सर्वफलहीनश्च जायते नाऽत्र संशयः ॥ २४॥
सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् ।
पुराऽनेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ २५॥
विष्णुब्रह्मादयो देवा मुनयो योगिनः परे ।
अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६॥
ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः ।
गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ २७॥
सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु ।
गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ २८॥
दक्ष उवाच ।
ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् ।
ब्रह्माण्डं स ददर्शैव तन् मे वद कुतूहलम् ॥ २९॥
पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते ।
अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३०॥
मुद्गल उवाच ।
विमानस्थः स्वयं राजा कृपया तान् ददर्श ह ।
गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ ३१॥
स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे ।
योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२॥
एतत्ते कथितं सर्वमैलस्य चरितं शुभम् ।
यः शृणोति स वै मर्त्यो भुक्तिं मुक्तिं लभेत् ध्रुवम् ॥ ३३॥
खण्डं लम्बोदरस्यैतद्यः शृणोति नरोत्तमः ।
पठति ब्रह्मभूतः श्रावयते जायते स्वयम् ॥ ३४॥
नानेन सदृशं किञ्चिद्भुक्तिमुक्तिप्रदं मतम् ।
योगरूपो महाभाग यत्र लम्बोदरः स्तुतः ॥ ३५॥
नानाश्रुतिस्मृतीनां यच्छ्रवणेन फलं लभेत् ।
तदस्यैकस्य खण्डस्य श्रवणेन भवेदिह ॥ ३६॥
नानादानानि ये दद्युस्तीर्थेषु स्नानकारकाः ।
तेभ्यः शताधिकं पुण्यं लभेदस्य तु संश्रयात् ॥ ३७॥
व्रतानि यज्ञकान् सर्वान् कुरुते मानवः प्रभो ।
अस्य श्रवणमात्रेण लभेत् तस्माच्छताधिकम् ॥ ३८॥
नानातपांसि सर्वाणि यः करोति नरोऽसकृत् ।
अस्य श्रवणमात्रेण लभेत् पुण्यमपारकम् ॥ ३९॥
पुत्रपौत्रादिसंयुक्तो धनधान्यादिभाग्यवान् ।
श्रवणेन नरः सद्यो भवत्यत्र न संशयः ॥ ४०॥
यद्यदिच्छति तत्तत्तु सफलं जायते क्षणात् ।
श्रवणेन प्रजानाथ खण्डस्यास्य न संशयः ॥ ४१॥
बहुनात्र किमुक्तेन साक्षाद्योगप्रदः परः ।
सर्वसिद्धिप्रदः खण्डः कथितस्ते प्रजापते ॥ ४२॥
इदं लम्बोदरस्यैव चरितं सर्वसिद्धिदम् ।
कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥ ४३॥
सूत उवाच ।
यथा दक्षाय विप्रेश मुद्गलेन प्रकाशितम् ।
मया तव तथाग्रेऽपि कथितं भार्गवाग्रणीः ॥ ४४॥
चरितं शौनकाद्याश्च श्रुतं लम्बोदरस्य यत् ।
धन्योऽहं भवतां योगाद्गणेशचरिते रतः ॥ ४५॥
विस्तरेण शिवाद्याश्च वेदाद्याः शेषमुख्यकाः ।
नैव वर्णयितुं शक्ता बभूवुस्तत्र कोप्यहम् ॥ ४६॥
व्यासेन कथितं सर्वं चरितं यादृशं पुरा ।
तादृशं कथितं विप्र श्रोतुमिच्छसि किं पुनः ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
पञ्चमे खण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ५.४५
॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे पञ्चमः खण्डः समाप्तः ॥
Proofread by Yash Khasbage