श्रीयोगानन्दाचार्यकृतं भागवतानुशासनम्
नत्त्वा भाष्यकृतं रामानन्दाचार्यं च राघवम् ।
कल्याणकारकं कुर्वे भागवतानुशासनम् ॥ १॥
आत्मीयमथ चात्मानं श्रीरामाय समर्प्यताम् ।
रामे रम्यं ममत्वं च सर्वं त्याक्त्वा विधीयताम् ॥ २॥
लाभेऽलाभे तथा दुःखे सुखे मानेऽपमानके ।
द्वन्द्वे मित्रे तथाऽमित्रे सदा साम्यं निरीक्ष्यताम् ॥ ३॥
लोकद्वयसुखाकाङ्क्षा सर्वथा परिहीयताम् ।
चेतसि च स्थिता सर्वा वासना हि निरस्यताम् ॥ ४॥
रामनामामृतं पीत्वा निर्भयेनात्र भूयताम् ।
योगिध्यानास्पदं रामः सर्वदाऽथानुचिन्त्यताम् ॥ ५॥
गर्वं त्यक्त्वा हि रामाग्रे सदा दैन्यमवाप्यताम् ।
कायेन रामकैङ्कर्यम्प मुक्तिदं सुविधीयताम् ॥ ६॥
श्रीरामश्चाभिरामो हि सर्वभूतेषु वीक्ष्यताम् ।
चिदचिदीशतत्त्वानां स्वरूपमवबुध्यताम् ॥ ७॥
सत्यं प्रियं हितं चाथ सर्वदा चाभिधीयताम् ।
अधर्ममपहायाथ सद्धर्मश्चावलम्ब्यताम् ॥ ८॥
तुलसीमालिके धृत्वा चोर्ध्वपुण्ड्रं विधीयताम् ।
श्रीरामचापबाणाभ्यां बाहुद्वयं समङ्क्यताम् ॥ ९॥
प्रायश्चित्तं हि शास्त्रेषु यस्य क्वापि न दृश्यते ।
गार्हस्थ्यं तद् विरक्तेन सर्वथा परिहीयताम् ॥ १०॥
विशिष्टाद्वैतसिद्धान्तो दोषशून्योऽवबुध्यताम् ।
प्रस्थानतृतयानन्दभाष्यं नित्यं सुचिन्त्यताम् ॥ ११॥
विधाय पूजनं रामो दण्डवत् सुप्रणम्यताम् ।
यथा रामस्तथा नित्यं स्वाचार्यः समुपास्यताम् ॥ १२॥
रामानन्दार्यशिष्य श्रीयोगानन्दार्यनिर्मितम् ।
कल्याणपरकं भूयाद् भागवतानुशासनम् ॥ १३॥
इति श्रीयोगानन्दाचार्यकृतं भागवतानुशासनं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey