श्रीरामस्तम्भनाचार्यप्रणीतं पादुकापञ्चकं
प्रणम्य राघवं रामानन्दाचार्यं तथा गुरुम् ।
पापापहारकं कुर्वे पादुकापञ्चकं शुभम् ॥ १॥
श्रीयुतजानकीनाथप्रपन्नत्राणदीक्षिताम् ।
भरताराधितां वन्दे भरताग्रजपादुकाम् ॥ २॥
वन्दितां मुनिभिर्देवैः पद्मजेन्द्रशिवादिभिः ।
भरताराधितां वन्दे भरताग्रजपादुकाम् ॥ ३॥
भुक्तिदां भुक्तिकामानां मुक्तिदां मुक्तिकामिनाम् ।
भरताराधितां वन्दे भरताग्रजपादुकाम् ॥ ४॥
शरण्यामशरण्यानां करुणावरुणालयम् ।
भरताराधितां वन्दे भरताग्रजपादुकाम् ॥ ५॥
सर्वपापहरां चाथ सर्वकर्मफलप्रदाम् ।
भरताराधितां वन्दे भरताग्रजपादुकाम् ॥ ६॥
श्रीरामस्तम्भनाचार्यद्वाराचार्येण निर्मितम् ।
पादुकापञ्चकं भूयात् पठतां मङ्गलप्रदम् ॥ ७॥
इति श्रीरामस्तम्भनाचार्यप्रणीतं पादुकापञ्चकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey