श्रीरामचन्द्रवन्दना
॥ श्रीसीतारामचन्द्रपरब्रह्मणे नमः ॥
धरित्रिजाधराम्बुजामृताशनीमधुव्रतं
तदास्यपूर्णशर्वरीशचन्द्रिकाशयाजुषम् ।
मखाग्निगर्भजाहृदम्बुजन्मसप्तवाजिगं
भजामि नित्यसुन्दरं शशिन्कलाब्दविग्रहम् ॥ १॥
जामदग्न्यदर्पशिङ्गजामदग्न्यशस्त्रकं
निर्जरेशदर्पतुङ्गनिर्जरेश्वरायुधम् ।
दिग्रथालयक्रतूग्रपिङ्गतस्कराच्युत-
मानराहुमुण्डहर्तृहेतिराजचक्रकम् ॥ २॥
वातजातजातघातभूतिभूतलङ्किनी-
प्रेतकेतकेततुङ्गपुङ्गवङ्गमङ्गलम् ।
वारिजन्मजन्मजन्मसुग्रहाररान्तक-
हृत्सरोवरेऽवलीलहंसब्रह्मणे नमः ॥ ३॥
कलशश्रुतिनीरदनादमुखासुरकुञ्जरपञ्चमुखोग्ररदम् ।
दयिताक्षपदाश्मकुरूपहरं हरभीहरणिं हरकार्मुकहम् ॥ ४॥
स्यन्दनाङ्गपाणबाणपाणसेवनार्थभू-
लक्ष्मणाभिधेयलक्ष्मिमन्दिरस्य पूर्वजम् ।
दत्तकैकयीजमूर्तिधारिनर्कपादुकं
शत्रुहन्तृभावगन्तृविघ्नहन्तृशंसितम् ॥ ५॥
प्रजेशपूर्वकीटशेषजीवमध्यमासनं
प्रचेतसान्तरेऽतिभीतिदातृशल्यपाणिनम् ।
प्रफुल्लपङ्कसम्भवाभनीललोललोचनं
प्रमोददावरासकर्तृवारिवाहभं भजे ॥ ६॥
दिङ्मुखान्तसिद्धियुद्धे धारितातिभीषण-
ताण्डवाकृतिञ्च घूर्णनेत्रवन्तदिङ्मुखम् ।
रावणाभिधेयकाननान्तरत्नधातमं
जानकीप्रणीतदिग्धरङ्गनायकं भजे ॥ ७॥
निस्सीमब्रह्माण्डजनित्रीपात्रीहर्त्रीतिरोधानकर्त्र्यादिशक्तेः ।
सीराक्रपुण्यागगर्भोद्गताहिर्बुध्न्यार्धगायाः प्राणाधिकेष्टम् ॥ ८॥
कश्चिदेकभक्तचित्तसागरोत्थितं त्विदं
रामचन्द्रवन्दनेन्दिरासहोदरं वरम् ।
द्वैतमोहजन्यबन्धहारि यस्य चन्द्रिका
हंसदर्शनं विमानरामभद्रभारतीम् ॥ ९॥
॥ प्रार्थना ॥
भवभानोस्त्रितापांशुकूलितोऽहं रघूत्तम ।
एवं ज्ञात्वाचलाजेश कुरु मां तव सर्वदा ॥ १॥
मत्समो मार्गणः नास्ति प्रदाता त्वत्समो न हि ।
रामायं याचकं दातुं तव भक्तिमहद्धनम् ॥ २॥
राजा रामेति विख्याताहो त्वं मच्चित्तचोरक ।
हे मद्धृदिकवाटघ्न तिष्ठस्येकात्र सर्वदा ॥ ३॥
नमस्साकेतकेताय जननचक्रभङ्गिने ।
वैदेहीसक्तचित्ताय रामचन्द्राय ते नमः ॥ ४॥
जननी जानकी देवी पिता देवो रघूत्तमः ।
बान्धवाः रामभक्ताश्च स्वदेशो भुवनत्रयम् ॥ ५॥
इति दासोपाख्य-शङ्खदीपरचितं श्रीरामचन्द्रवन्दना सम्पूर्णम् ॥
॥ श्रीसीतारामचन्द्रपरब्रह्मणे नमः ॥
Composed and prepared by Sankhadeep Das sankhadeepd04 at gmail.com