श्रीरामकृष्णयुगलस्तुतिः
त्रातः काकोदरो येन द्रोग्धापि करुणात्मना ।
पूतनामारणख्यातः स मेऽस्तु शरणं प्रभुः ॥ १॥
मर्दितरावणकंसौ सरयूयमुनाविहारिणौ देवौ ।
अर्पितविप्रकुमारौ हरिपतिहरिकेतनप्रियौ वन्दे ॥ २॥
यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः ।
यशोदयालङ्कृतमूर्तिरव्यात्पतिर्यदूनामथवा रघूणाम् ॥ ३॥
इति श्रीरामकृष्णयुगलस्तुतिः समाप्ता ।
Proofread by PSA Easwaran