श्रीरामप्रातःस्मरणम्
प्रातः स्मरामि रघुनाथमुखारविन्दं
लम्बालकावलिमधुव्रतमुग्धशोभम् ।
मन्दस्मितांशुमहनीयमरालशोभं
कारुण्यपूरितकटाक्षकृतार्तरक्षम् ॥ १॥
प्रातः शृणोमि रघुनायकवाक्यजालं
दीनौघरक्षणमहाव्रतलब्धमूलम् ।
श्रोष्यामि येन न कथञ्चन कालदूत-
वक्त्रोद्गतं जहि विदारय ताडयेति ॥ २॥
प्रातर्भजामि रघुनायकवामहस्तं
कोदण्डदण्डपरिमण्डितमद्भुताभम् ।
यद्दर्शनाद्धृदयमाशरपुङ्गवानां
सद्यस्स्फुटत्यखिललोकजयोद्धतानाम् ॥ ३॥
प्रातश्श्रयामि रघुनायकदक्षहस्तं
साधुद्रुहां विदलनोत्सुकबाणयुक्तम् ।
आर्ताभयार्पणमहाव्रतबद्धदीक्षं
दीनाल्यभीष्टवरदानसुधाशनद्रुम् ॥ ४॥
प्रातर्नमामि रघुनाथपदारविन्दं
देवासुरोरगमुनीन्द्रमनुष्यवन्द्यम् ।
यत्स्पर्शभाग्यवशतो भरतप्रियार्थम् ।
साम्राज्यमाप किल दारु च पादुकाख्यम् ॥ ५॥
इति अगस्त्यमुनिकृतं श्रीरामप्रातःस्मरणं सम्पूर्णम् ।
॥ श्रीरामशरणं मम ॥
Encoded and proofread by Rashmi R rashmirjois at gmail.com