विरक्तवैष्णवविवेचनम्
(श्रीटीलाचार्य)
अङ्गददास उवाच -
वैष्णवानां विरक्तानां सम्प्रदायस्य का भिदाः ।
रीतिं च भव्यनीतिं च प्रब्रूहि योगिपुङ्गवः ॥
श्री साकेतनिवासाचार्य उवाच -
रामानन्दश्च निम्बार्को विष्णुस्वामी च मध्वकः ।
चत्वारः सम्प्रदायास्तु निर्णीता धर्मशास्त्रतः ॥ १॥
विष्णोश्च विष्णुभक्तानां सेवां कुर्वन्ति वैष्णवाः ।
स्वाध्यायं निरतं चैव विशेषः गुरुपूजनम् ॥ २॥
प्रचारकाश्च धर्मस्य सत्साहित्यस्य सर्जकाः ।
भवन्ति वैष्णवाः सर्वे विद्वद्भिर्निश्चिता मताः ॥ ३॥
त्यजन्ति गृहसम्बन्धं दानं तपश्च नैव च ।
कुर्वन्ति सर्वदाभ्यासं धर्मशास्त्रप्रमाणतः ॥ ४॥
भृत्यकार्यं न कुर्वन्ति कुर्वन्ति देवपूजनम् ।
बाणी-विनायकानां च कार्यं कुर्वन्ति सर्वथा ॥ ५॥
विरक्तानां च साधूनां रामानन्दानुयायिनाम् ।
गृहस्थत्वं निषिद्धं हि धर्मज्ञैः साधुभिर्जनैः ॥ ६॥
विरक्तस्य च गार्हस्थ्ये धर्मकृत्याग्रहिष्कृतिः ।
आरूढपतितस्यात्र प्रायश्चित्तं न तस्य हि ॥ ७॥
विरक्तगृहितां प्राप्तो भ्रष्टो धर्माधिकारतः ।
मठ-मन्दिरसम्पत्तौ चाधिकारो न तस्य हि ॥ ८॥
स्वामित्वे चाधिकारो न मठस्य मन्दिरस्य च ।
अस्माकं सम्प्रदायस्य चासौ प्रथा हि विद्यते ॥ ९॥
स्वाधिकारान् जनः सर्वानारूढपतितस्त्यजेत् ।
स्थापनीयो हि तत्स्थाने विरक्तश्चापरो बुधैः ॥ १०॥
विवाहो नैव कर्तव्यो विरक्तैः साधुभिः खलु ।
सम्प्रदायस्य नीतिर्हि कथिता मुनिपुङ्गवैः ॥ ११॥
सम्प्रदायस्य रूढिश्च रामानन्दस्य निश्चिता ।
भाषितं शास्त्रकारेण योगाद्रूढिर्बलीयसी ॥ १२॥
सपत्नीको भवेन्नैव दुर्व्यसनी भवेन्न च ।
न भवेल्ललनासङ्गी स्वाध्यायं च त्यजेन्न हि ॥ १३॥
देवालये विरक्तानां स्त्रीनिवासो विवर्जितः ।
नो चेद् घृताग्नि संयोगात् प्रदाहोऽपि भवेत् ध्रुवः ॥ १४॥
प्राणिसङ्घे दयां कुर्याद् धेनुषु च विशेषतः ।
तेषां संरक्षणं कार्यं जलभोजनदानतः ॥ १५॥
सदाचारी च विद्वाश्च शिष्यः कार्यो हि साधुभिः ।
उद्धारः सम्प्रदायस्य सतां सेवा यतो भवेत् ॥ १६॥
विज्ञः सर्वत्र पूज्यस्तु कथितो नीति वेदिभिः ।
यथा चन्द्रस्तमो हन्ति तथा शिष्यो विचक्षणः ॥ १७॥
सम्प्रदायहिते मग्ना ये तु शिष्या भवन्ति हि ।
ते शिष्याः कथिताः श्रेष्ठाः सम्प्रदायस्य देशिकैः ॥ १८॥
धूम्रपानं न कुर्याच्च तद्धि बुद्धिविनाशकम् ।
न द्यूताचरणं कुर्यात् कथितं साधुबुद्धिभिः ॥ १९॥
सत्साहित्यप्रचारी च शिष्यस्तु बुद्धिमाञ्च्छ्रुतः ।
सम्प्रदायस्य तस्मात्तु शिष्यो भवति रक्षकः ॥ २०॥
ये शिष्या गुरुवर्याणां सुकीर्तिं वर्धयन्ति हि ।
पूजनीयश्च ते नित्यं वन्द्याश्च भुवनत्रये ॥ २१॥
जपस्तु राममन्त्रस्य रामनाम्नश्च कीर्त्तनम् ।
शिखया चोपवीतेन मालोर्ध्वपुण्ड्रधारणम् ॥ २२॥
प्रतिदिनं च कर्तव्यमाचार्यग्रन्थचिन्तनम् ।
सायं प्रातर्विधेया च श्रीसीतारामसंस्तुतिः ॥ २३॥
चतुर्थ आश्रमो ज्ञेयः श्रीयुतं स्वेतचन्दनम् ।
शुक्लकाषायवस्त्रे च विरक्तानामिति श्रुताः ॥ २४॥
कौपीनं मुञ्जसंयुक्तमथवा तूलजं तथा ।
वैष्णवस्तु सदा धार्यं हीदं चाप्तसमीरितम् ॥ २५॥
अस्माकं सम्प्रदायस्य इतिहासस्य सर्जिका ।
भविष्यति अवश्यं वै टीलाद्वारपरम्परा ॥ २६॥
इति श्रीसाकेतनिवासाचार्यविरचितं विरक्तवैष्णवविवेचनं समाप्तम् ।
Encoded and proofread by Mrityunjay Pandey