कालञ्जरक्षेत्रे भीमेश्वरमाहात्म्य
ईश्वरः -
भीमेश्वरं महादेवि स्थानं भीमरथीतटे ।
यत्र कालो मया जीर्णः क्षेत्रं कालञ्जरं हि तत् ॥ १॥
भीमेश्वरं महालिङ्गं तत्रास्त्येकं वरानने ।
तत्र शैवाश्च देवेशि वसन्ति भसितोज्ज्वलाः ॥ २॥
भवभावनया त्यक्तभवभावाश्च ते सदा ।
भीमेश्वरं बिल्वदलैर्मामभ्यर्च्य वसन्ति ते ॥ ३॥
तत्र विष्णुः समभ्यर्च्य भीमेशं बिल्वपल्लवैः ।
निधनेत्यादिभिर्मन्त्रैर्नैवेद्यैर्विविधैरपि ॥ ४॥
तुष्टाव प्रणतो लिङ्गं दर्शनादिष्टकामदम् ।
तत्र लक्ष्म्या विष्णुसवं यज्ञं तत्राहरद्धरिः ॥ ५॥
भीमारथ्यां तदा स्नात्वा तस्मिन्नवभृथे शिवे ।
हरिः -
शम्भो त्वं मरुतां पिता त्रिजगतामाराध्य ईशो हर
ते सोमो नमसातिभिक्ष्महि विभो रुद्र क्षयद्वैरिणम् ।
शम्भो सोममिमं पिब त्वमधुना गौरो यथा तर्षितः
त्वत्तृष्त्या जगदेतदद्य भगवन् इन्द्रादिभिस्तृप्यते ॥ ७॥
इन्द्रस्यात्मा परमस्त्वं महेशः यज्ञस्यात्मा दक्षिणा तेऽद्य पत्नी ।
सहैव त्वा सन्तं न विदन्ति देवाः सर्वात्मा त्वं सर्वगतश्च नित्यः ॥ ८॥
इत्थं भीमेश्वरं स्तुत्वा विष्णुर्नत्वा पुनर्हि माम् ।
अपाचत वरं मत्तस्त्वत्समीपे वसाम्यहम् ॥ ९॥
सुरासुरैरहं युद्धे श्रान्तोऽस्मि परमेश्वर ।
त्वया सह वसाम्यद्य भीमरथ्यास्तु दक्षिणे ॥ १०॥
कुणिकुम्भात् प्रतीच्यां हि स्नात्वा कालञ्जरे हरिः ।
प्रभाते स सदा देवि मल्लिङ्गं शिरसा दधत् ॥ ११॥
इति स्तुत्वा तदा देवि गच्छेत्यभिहितो मया ।
तत्रावसत् स मल्लिङ्गं दधन्मूर्ध्ना हरिस्तदा ॥ १२॥
उवास दक्षिणे तीरे भीमरथ्यास्तदाम्बिके ।
तत् पाण्डुरङ्गक्षेत्रं हि विष्णोः प्रियकरं सदा ॥ १३॥
देवी -
कुत्र कालस्त्वया जीर्णः किमर्थ वद मे शिव ।
कुणिकुम्भमिति क्षेत्रं किं तत् क्षेत्रं वद शिव ॥ १४॥
सूतः -
तदा देवीं महादेवः तत्क्षेत्रस्य च वैभवम् ।
कथयामास विप्रेन्द्राः गौरीं प्रति महेश्वरः ॥ १५॥
ईश्वरः -
पश्चिमाम्भोनिधेस्तीरे कुणीकुम्भं महेश्वरम् ।
समभ्यर्च्यैव नियतं कुणिर्नाम महामुनिः ॥ १६॥
उवास तस्य नाम्नैव क्षेत्रं तत्प्रथमं शिवे ।
स मां तुष्टाव हृष्टात्मा कुणिकुम्भेश्वरं हि माम् ॥ १७॥
---
कुणिः -
विश्वनाथ मम नाथ सुनाथ घोरसंसृतिभयं प्रममाथ ।
स्वर्गपान्थकृतपाथ सुनीथ पाहि मां सुरगणाधिपनाथ ॥ १८॥
तत्स्तुत्या तस्य नाम्नाहमभवं गिरिजे तदा ।
श्वेतो नामाभवद्राजा कालमृत्युप्रपीडिताः ॥ १९॥
मृत्युञ्जयं मामाराध्य तत्र काले महेश्वरम् ।
रुद्रमन्त्रैः समभ्यर्च्य बिल्वपत्रैर्मनोरमैः ॥ २०॥
तुष्टाव भक्तिमान् राजा तस्य मृत्युं हराम्यहम् ॥
श्वेतः -
मृत्युञ्जय महादेव जगदीश्वर शङ्कर ।
मृत्युग्रस्तं मोचयाशु त्रियम्बक नमोऽस्तु ते ॥ २१॥
देवदत्तकृतनेत्र सुमित्रीभूत यक्षसख दक्षसुशिक्ष ।
पक्षिवाहनुत पूज्यपदाब्ज ध्वस्तपूष भगनेत्र पाहि माम् ॥ २२॥
---
तत्स्तुत्याऽहं तदा कालो विगीर्णः परमेश्वरि ।
कालञ्जरमभूत् क्षेत्रं ततः प्रभृति शङ्करि ॥ २३॥
भीमेश्वरं मां दृष्ट्वैव भीमपापैः प्रमुच्यते ।
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे कालञ्जरक्षेत्रे भीमेश्वरमाहात्म्य ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३६॥ -
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 36.. -
Notes:
Bhimeshwara Linga is situated on the banks of Bhimarathi River. The Shiva Kshetra (at the Western seaside) here was established by Rishi Kuni, and came to be known as Kunikumbheshwaram. The same also came to be known as Kalanjara after King Shweta, who with his worship of Shiva at this place, defied Kala (Time). Vishnu worshipped Shiva at the Southern banks of Bhimarathi river at the Panduranga Kshetra.
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan