श्रीकेदारसहस्रनामस्तोत्रम्

श्रीकेदारसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीकेदारनाथाय नमः । श्रीदक्षिणामूर्तये नमः । श्रीरवलनाथाय नमः । कदाचित्सञ्चरन्योगी जामदग्न्याश्रमागतः । सत्कृतस्तेन तं प्राह श्लक्ष्णं मधुरया गिरा ॥ १॥ मुने रवलनाथस्य रत्नाचलनिवासिनः । सहस्रनामस्तोत्रं मे कथयस्व सविस्तरम् ॥ २॥ एवं स योगिना पृष्टो जामदग्न्य उवाच तम् । त्वया रवळनाथस्य यत्पृष्टो मङ्गलप्रदम् ॥ ३॥ सहस्रनामस्तोत्रं ते श‍ृणुष्व वदतो मम ॥ ४॥ अस्य श्रीकेदारसहस्रनामस्तोत्रमन्त्रस्य जामदग्न्य ऋषिः, अनुष्टुप् छन्दः, श्रीरवलनाथपरमात्मा देवता, श्रीरवलनाथप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ न्यासः - ॐ रं अङ्गुष्ठाभ्यां नमः । ॐ वं तर्जनीभ्यां नमः । ॐ लं मध्यमाभ्यां नमः । ॐ नं अनामिकाभ्यां नमः । ॐ वं कनिष्ठिकाभ्यां नमः । ॐ लं करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि - ॐ रं हृदयाय नमः । ॐ वं शिरसे स्वाहा । ॐ लं शिखायै वषट् । ॐ नं कवचाय हुम् । ॐ वं नेत्रत्रयाय वौषट् । ॐ यं अस्त्राय फट् ॥ अथ ध्यानं - ध्यायेद्देवं परेशं त्रिगुणगुणमयं ज्योतिरूपस्वरूपं वामे पात्रं त्रिशूलं डमरुकसहितं खड्गदक्षेविराजम् । शेषारूढं सुरेशं कमलपदयुगं भक्तकारुण्यगम्यं (क्रमणपदयुगम्) सर्वाङ्गेलिङ्गभूषं उपवितसहितं नाथमार्गाधिपत्यम् ॥ १॥ दैत्यघ्नं भक्तपालं सकलमघहरं ज्ञानमानन्दचित्तम् । सर्वार्थं सर्वरूपं विगुणसगुणदं श्रीपदं नाथरूपम् ॥ २॥ शेषारूढो भवेद्विष्णुः त्रिशूली शिवरूपधृक् । उपवीती भवेद् ब्रह्मा खड्गशक्तिसमन्वितः ॥ ३॥ सर्वदेवमयीमूर्तिः सर्वाराध्यस्वरूपवान् । सर्वाचरणमार्गाणां सर्वकर्मफलप्रदः ॥ ४॥ हेतुभूतशरीरस्थं हेतुसाधनवर्जितम् । अहेतुकसदानन्दं श्रीनाथप्रकृतीश्वरम् ॥ ५॥ अथ सहस्रनामस्तोत्रम् । ॐ श्रीनाथो रेणुकानाथो जगन्नाथो जनाश्रयः । श्रीगुरुर्गुरुगम्यश्च गुरुरूपो कृपानिधिः ॥ १॥ गणेशो गणनाथश्च गणपूज्यो गणाश्रयः । पीठेशः पीठरूपस्थः पीठपूज्यः सुखावहः ॥ २॥ भैरवो भैरवश्रेष्ठो भैरवायुधधारकः । सिद्धिः सिद्धिप्रदः साध्यः सिद्धमण्डलपूजितः ॥ ३॥ बटुरूपो बटुस्वामी बटुपालनकारणः । पदरूपः पदप्राप्तः पदेशः पदनायकः ॥ ४॥ दूतकर्मा दूतनाथः शाम्भवः शङ्करप्रभः । वीरो वीरप्रदः शूरो वीरेशो वरदायकः ॥ ५॥ वीरनाथो वीररूपो वीर आयुधधारकः । चतुराश्रमनिष्ठश्च चतुर्मूर्तिश्चतुर्भुजः ॥ ६॥ षष्ठीशो घण्टिकारूपः पलसङ्केतवर्धकः । (घटिकानाथः) नवनाथो नवाङ्कस्थो नवचक्रेश्वरो विभुः ॥ ७॥ वीरावलिप्रियः शान्तो युद्धविक्रमदर्शकः । पञ्चपञ्चकतत्त्वस्थः तत्त्वातीतस्वरूपकः ॥ ८॥ श्रीमयः श्रीकलानाथः श्रेयोदः श्रेयसां निधिः । (श्रेयवरिधिः) मालाधरो मुनिश्रेष्ठो मुनिमानसहंसकः ॥ ९॥ (मनश्रेष्ठो मनोमानसहंसकः) मन्त्रराजो मन्त्ररूपो मन्त्रपुण्यफलप्रदः । गुरुमण्डलरूपस्थो गुरुमण्डलकारणः ॥ १०॥ तिथिमण्डलरूपश्च वृद्धिक्षयविवर्जितः । तिथिरूपस्तिथिप्रीतस्तिथिलावण्यसुन्दरः ॥ ११॥ प्रथमः प्रथमाकारो द्वितीयः शक्तिसंयुतः । गुणत्रयतृतीयोऽसौ युगरूपश्चतुर्थकः ॥ १२॥ पञ्चभूतात्मसाक्षीश ऋतुषड्गुणभावनः । सप्तधातुस्वरूपोऽसौ अष्टमश्चाष्टसिद्धिदः ॥ १३॥ नवनाथो नवम्यस्थो दशदिग्रूपधारकः । रुद्र एकादशाकारो द्वादशादित्यदीपगः ॥ १४॥ सर्वसिद्धिस्त्रयोदश्यो मनुरूपचतुर्दशः । पूर्णरूपस्त्रिपञ्चस्थः त्रिपञ्चातीतमानसः ॥ १५॥ रकारो ब्रह्मरूपश्च वकारो विष्णुरव्ययः । लकारश्शिवरूपोऽसौ श्रीनाथः प्रकृतीश्वरः ॥ १६॥ अकारादिक्षकारान्तवर्णसङ्करमन्त्रगः । व्यञ्जनो व्यञ्जनातीतो विसर्गः स्वरभूषणः ॥ १७॥ अनन्तः चाव्ययस्त्वाद्य आदिशक्तिर्वरप्रदः । आनन्द आद्यसंस्थान आद्यकारणलक्षणः ॥ १८॥ कर्ता कारयिता कार्यः कार्यकारणभावगः । कलानाथः कलातीतः काव्यनाटकबोधकः ॥ १९॥ कालहन्ता कालसाध्यः कालवक्तृप्रवर्तकः । कालाग्नी रुद्रसन्दीप्तः कालान्तकभयङ्करः ॥ २०॥ खड्गीशः खड्गनाथश्चः खड्गशक्तिपरायणः । गर्वघ्नो दैत्यसंहर्ता गमागमविवर्जितः ॥ २१॥ घनश्यामो घनानन्दो घनधाराप्रवर्तकः । घनकर्ता घनत्राता घनबीजसमृद्धिदः ॥ २२॥ ओङ्कारबीजसाध्यश्च नादवर्णनसाङ्गकः । चत्वारकवर्णरूपः चतुराश्रमनिश्चयः ॥ २३॥ छन्दःसारश्छन्दःकर्ता छन्दसो ऽन्वयधारकः । छत्रसिंहासनाधीशो भक्तच्छत्रसमृद्धिमान् ॥ २४॥ जपो जपप्रियो जाप्यो जपसिद्धिप्रदायकः । जपसङ्ख्या जपाकारः सर्वमन्त्रजपप्रियः ॥ २५॥ झषरूपधरो देवो झषवृद्धिविवर्धकः । यमशासनकर्ता च यमपूज्यो धनाधिपः ॥ २६॥ टङ्कायुधः शिवप्रीतो ठकारलाङ्गलाश्रयः । डमरुप्रीतिडामर्यः तन्त्रडामरस्थापकः ॥ २७॥ ढकारढवलाध्यानः पशुपाशविमोचकः । नवार्णजपसुप्रीतः तन्त्रविग्रहविग्रहः ॥ २८॥ स्थगितचित्तचित्तस्थो दयारूपो दयाकरः । धनदो धननाथश्च धनधान्यप्रदायकः ॥ २९॥ नररूपो नरश्रेष्ठो नरोत्तमो नराधिपः । नरसंस्थानकर्ता च नरः सर्वत्रव्यापकः ॥ ३०॥ नादो नादप्रियो नाद्यो नादब्रह्माण्डपूरकः । नादज्ञानरतो नित्यनादान्तपददायकः ॥ ३१॥ पलरूपः पलातीतः पलक्षारविलक्षणः । पदसङ्ख्याक्षरो वर्णः सङ्ख्यासङ्केतकारकः ॥ ३२॥ फलदः फलदाता च फलकर्ता फलप्रियः । फलाश्रयः फलातीतः फलमुक्तिनिरञ्जनः ॥ ३३॥ बलरूपो बलप्रीतो बलाश्रयो निराश्रयः । बलानन्दो बलग्रामो बलिशो बलनायकः ॥ ३४॥ भविष्यज्ञो भयत्राता भयकर्ता भयारिहा । भावनारूपध्यानस्थो भावार्थफलदायकः ॥ ३५॥ मनःस्थो मनुमध्यस्थो मनोमायाविवर्जितः । मनःसन्तापहर्ता च मुनिमानसमोहनः ॥ ३६॥ मनःकल्पितकल्पस्थः कल्पनापूरणालयः । मनःसङ्कल्पसङ्कल्पो मनःसङ्कल्पपूरकः ॥ ३७॥ मनःस्वच्छन्दकर्ता च छन्दमानसतोषकः । मानसो मानसाक्षिस्थो मानसोल्लासकारणः ॥ ३८॥ मानातीतः स्वयम्मान्यो भक्तमानससंश्रयः । मनःकामादिवाचांशो मनोबुद्धिविवर्जितः ॥ ३९॥ यशस्वी च यशःकर्ता यक्षेशो यक्षनायकः । यशोमार्गो यशःप्राप्तो यशोमार्गसुदीपकः ॥ ४०॥ रकारश्चाग्निबीजस्थो रवलाख्यानकीर्तनः । रत्नप्रभो रत्नदीप्तो रत्नासुरवधोत्सवः ॥ ४१॥ रतिनाथो रतिप्रीतो रतिलावण्यसुन्दरः । रमाप्रियकरो रम्यो रमासाम्यमहोत्सवः ॥ ४२॥ रत्नाचलनिवासस्थो रत्नभूषणभूषणः । रत्नेशो रत्नदाता च रत्नविक्रमविग्रहः ॥ ४३॥ लययोगो लयध्येयो लयसाधनसाधकः । लयालयजितो लभ्यो लब्धवाञ्छाप्रवर्तकः ॥ ४४॥ वर्धमानो वृद्धरूपो वृद्धभक्तिप्रियोत्तमः । वनस्थो वनरूपस्थो वनक्रीडापरायणः ॥ ४५॥ वयोतीतो वयस्तृप्तो वरुणो वरुणालयः । वर्षाकालो वर्षरूपो वर्षान्तो वर्षणक्रमः ॥ ४६॥ शक्तिरूपः शक्तिदाता सर्वशक्तिपतिः प्रभुः । शक्तिनाथः शक्तिजितः शक्तः शक्तेरुपासकः ॥ ४७॥ षण्मासायनकर्ता च विषुवादिविभावकः । ऋतुकर्ता ऋतुप्रीत ऋतुषड्विग्रहाश्रयः ॥ ४८॥ सर्वत्रसर्वदापूज्यो सर्वपूजकरक्षकः । सर्वसौभाग्यनित्यस्थो नित्यार्चनरताश्रयः ॥ ४९॥ सदाचाररतो नित्यो नित्याश्रयो निराश्रयः । सर्ववर्णमयो वर्णो वर्णधर्मपरायणः ॥ ५०॥ सर्वज्ञः सर्वगः सर्वः सर्वजित् सर्वनायकः । सर्वान्तरः सर्वव्यापी सर्वकर्मप्रवर्तकः ॥ ५१॥ सर्वार्थसाधकः साध्यः सिद्धिसाधनसाधकः । साधनोपायदाता च साधनाश्रयदायकः ॥ ५२॥ हयासनसमारूढो हयनाथो हयाधिपः । हविर्भोक्ता हविःप्रीतो हव्यवाहनहव्यकृत् ॥ ५३॥ लकारवर्णभेदस्थो लघुरूपो लघुक्रियः । स्थूलरूपः स्थूलकार्यः स्थूलास्थूलविशालगः ॥ ५४॥ क्षमारूपो दयासिन्धुः क्षमालक्षणदायकः । क्षमाकारः क्षमानाथः क्षमापूरितलोचनः ॥ ५५॥ क्षमाचिन्तनप्रीतस्थः क्षमासाधनसाधकः । क्षमावद्भिरतिप्रीतः क्षमासञ्चरणोन्मुखः ॥ ५६॥ ओङ्कारमूलमन्त्रस्थो मातृकार्णवसम्भवः । मातृकाव्यापितब्रह्म मातृकासिद्धिदायकः ॥ ५७॥ षट्चक्रभेदकर्ता च षट्चक्राश्रयसंश्रयः । षट्चक्रमातृकाव्याप्तः षट्चक्रवर्णलक्षणः ॥ ५८॥ मूलाधारनिवासश्च गणेशः सिद्धिदायकः । स्वाधिष्ठाने ब्रह्मरूपः प्रजासृजनकारणः ॥ ५९॥ मणिपूरे महाविष्णुः इच्छाशक्तिसमन्वितः । अनाहते महादेवो द्रव्यशक्तिसमाहितः ॥ ६०॥ जीवरूपो विशुद्धस्थो प्राणशक्तिसुखाश्रयः । हंसार्णो गुरुरूपोसौ हंसमन्त्रार्थमन्त्रगः ॥ ६१॥ सहस्रारे सहस्राक्षः शीर्षपादसहस्रवान् । सहस्रायुधहस्तश्च वर्णसाहस्रकर्णिकः ॥ ६२॥ सच्चिन्मयसमाधिस्थो बिन्दुरूपसुखाश्रयः । सर्वलक्षणसम्पन्नः सर्वत्रसर्वतोमुखः ॥ ६३॥ सर्वजप्रीतिचित्तोऽसौ सर्वज्ञानप्रियोत्तमः । सर्वसंस्थानदेवस्थः सर्वशक्तिसमन्वितः ॥ ६४॥ सर्वेश्वरः सर्वकार्यः कार्यकारणवर्जितः । ज्योतिर्मयो जगत्साक्षी ज्योतिर्विज्ज्योतिराश्रयः ॥ ६५॥ ज्योतिर्लयो ज्योतिर्मूर्तिः ज्योतिःकर्ता जगन्मयः । लिङ्गचिन्हितसर्वाङ्गो लिङ्गार्चनप्रियोत्तमः ॥ ६६॥ एककालो द्विकालश्च त्रिकालः सार्वकालिकः । कालकर्ता कालनेमी कालसङ्ख्याग्निदीपकः ॥ ६७॥ उपासकप्रियोपास्य उपासकप्रियङ्करः । महाकालो महारूपो महाशूरो महोत्सवः ॥ ६८॥ महाभागो महावेगो महायोगो महानिधिः । महानिर्वाणरूपस्थः चित्तनिर्वाणदर्शकः ॥ ६९॥ महाबोधो महायोद्धो स्वास्त्रप्रत्यस्त्रवर्षकः । महायागहविर्भोक्ता महाकर्मफलप्रदः ॥ ७०॥ ब्रह्मज्ञो ब्रह्मरूपश्च ब्रह्मण्यो ब्राह्मणोत्तमः । ब्रह्मकर्मक्रियासक्तः कर्मब्रह्मस्वरूपकः ॥ ७१॥ क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रकीर्तनवर्धनः । क्षात्रधर्मप्रवीणश्च ख्यातिकर्ता क्षयातिगः ॥ ७२॥ विश्वरूपो विश्वकर्ता विश्वासफलदायकः । मुनिध्येयो मुनित्राता मुनिमानसहंसकः ॥ ७३॥ इच्छाज्ञानक्रियातीत इच्छाज्ञानक्रियाश्रयः । वाञ्छाकल्पलतारूपः कल्पनावाञ्छितप्रदः ॥ ७४॥ कल्पवृक्षः कल्पनाथः कल्पनाकारमानसः । कल्पकर्ता कल्पसाक्षी महाकल्पप्रवर्तकः ॥ ७५॥ सामगायनसुप्रीतः सामवेदप्रवर्तकः । वेदसारो वेदगम्यो वेदवेदाङ्गपारगः ॥ ७६॥ वेदान्तभाष्यरूपस्थो वेदान्तप्रीतिदायकः । भाष्यलक्षणवेदान्तः सिद्धान्तः सर्वदर्शकः ॥ ७७॥ शास्त्रार्थः शास्त्रकर्ता च शास्त्रमार्गप्रवर्तकः । शास्त्रशासनप्राप्तिस्थः शास्त्राधारजगन्मयः ॥ ७८॥ आनन्दरूपनित्यस्थः प्रकाशानन्दरूपकः । अखण्डानन्ददाता च पूर्णानन्दस्वरूपवान् ॥ ७९॥ निराधारो निराकारो निर्मलो निर्मलाश्रयः । निर्गुणो निर्गुणातीतो निष्कामो निरुपद्रवः ॥ ८०॥ नित्यमुक्तो निर्विकारो निष्प्रपञ्चो निराश्रयः । नित्यशुद्धो नित्यसाध्यो नित्यानन्दवरप्रदः ॥ ८१॥ निष्कारणो निष्कलङ्को निरुपाधिर्निरीश्वरः । निर्मदो मदहन्ता च निश्चिन्तो निरहङ्कृतिः ॥ ८२॥ निर्मोहो मोहनाशश्च निर्ममो ममताहरः । निष्पापः पापनाशश्च निष्क्रोधः क्रोधनाशकः ॥ ८३॥ निःसंशयः संशयघ्नो निर्लोभो लोभनाशकः । निर्भावो भावनाशश्च निर्विकल्पो विकल्पहृत् ॥ ८४॥ निर्भेदो भेदहन्ता च निर्नाशो मृत्युनाशकः । निन्दाद्वेषातीतकर्ता निन्दाद्वेषापहारकः ॥ ८५॥ गोपालो गोमतिप्रीतो गोधनाधिप ईश्वरः । गोसाक्षी गोप्रवर्ता च गोरक्षको गुहाश्रयः ॥ ८६॥ ग्रहनक्षत्रतारस्थः तारकज्योतिर्दायकः । तारणाश्रयरूपस्थः तारणाश्रयदायकः ॥ ८७॥ तारकः तारकस्वामी तारणस्तारणप्रियः । एकतारो द्वितारश्च त्रितारो मन्त्रकाश्रयः ॥ ८८॥ एकरूप एकनाथो बहुरूपस्वरूपवान् । लोकसाक्षी त्रिलोकेशः त्रिगुणातीतमूर्तिमान् ॥ ८९॥ यज्ञप्रियो यज्ञकर्ता यजमानस्वरूपवान् । यजुर्वेदो यजुःसाक्षी यजुर्वेदहविःप्रियः ॥ ९०॥ बालतारुण्यरूपस्थो वृद्धरूपप्रदर्शकः । अवस्थात्रयभूतस्थो अवस्थात्रयवर्जितः ॥ ११॥ वाक्चत्वारकनिर्माणो वाचातीतप्रकाशवान् । वाच्यवाचकभावार्थो वाक्यार्थप्रियमानसः ॥ १२॥ महावाक्यप्रमाणस्थो महावाक्यार्थबोधकः । अर्थसाक्ष्यर्थरूपश्च ज्योतीरूपः प्रकाशवान् ॥ ९३॥ जिताहारो जितक्रोधो जितमानसमानसः । परमाणुः प्रमाणस्थः कोटिब्रह्माण्डनायकः ॥ ९४॥ श्रीकृष्णो द्वारकानाथो गोपिकाभोगदायकः । कंसारिः पूतनाहन्ता संसारश्रमनाशकः ॥ ९५॥ मुकुन्दो मुक्तिदाता च मुक्तो मुक्तजनाश्रयः । मुचुकुन्दवरप्रीतो दैत्यसंहारकारकः ॥ ९६॥ नादासक्तो नादकर्ता वेणुवादनतत्परः । गोपिकामनःसंहर्ता गोपबालकनायकः ॥ ९७॥ गोवर्धनधरो गुप्तभावनागुप्तसंज्ञकः । भावनापूरणश्रेष्ठो भावाभावविवर्जितः ॥ ९८॥ नरनारायणो विष्णुः कार्यकारणरूपवान् । कार्यसाक्षी कार्यरूपी कार्याकार्यप्रवर्तकः ॥ ९९॥ पन्नगः पन्नगाधीशः पन्नगासनविग्रहः । पञ्चाशद्वर्णपीठस्थो पञ्चाक्षरजपप्रियः ॥ १००॥ स्वरविकृतिकर्ता च स्वरातीतः स्वयंविभुः । स्वर्गतः स्वर्गतेर्दाता नियन्ता नियताश्रयः ॥ १०१॥ भूमिरूपो भूमिकर्ता भूधरो भूधराश्रयः । भूतनाथो भूतकर्ता भूतसंहारकारकः । भूतावासो भूपतिश्च भूतभद्रप्रदायकः ॥ १०२॥ भविष्यज्ञो भयत्राता भवदो भवहारकः । वरदो वरदाता च वरप्रीतो वरप्रदः ॥ १०३॥ कूटस्थः कूटरूपस्थः त्रिकूटो मन्त्रविग्रहः । मन्त्रार्थो मन्त्रगम्यश्च मन्त्रांशो मन्त्रभागकः ॥ १०४॥ सिद्धिमन्त्रः सिद्धिदाता जपसिद्धिस्वभागकः । नामातीतो नामरूपो नामरूपगुणाश्रयः ॥ १०५॥ गुणकर्ता गुणत्राता गुणीतीतो गुणारिहा । गुणप्राप्तो गुणाधीशो गुणनिर्गुणकारकः ॥ १०६॥ अकारमातृरूपस्थ अकारातीतभावनः । परमैश्वर्यदाता च परमप्रीतिदायकः ॥ १०७॥ परमः परमानन्दः परानन्दपरायणः । वैकुण्ठपीठरूपस्थो वैकुण्ठो विष्णुविग्रहः ॥ १०८॥ कैलासवासी कैलासः शिवरूपः शिवप्रदः । जटाजूटाभूषिताङ्गो भस्मधूसरभूषणः ॥ १०९॥ दिग्विलासो दिग्विभागो दिगन्तरनिवासकः । ध्यानकर्ता ध्यानमूर्तिः धारणाधारणप्रियः ॥ ११०॥ तत्त्वस्थस्तत्त्वरूपस्थः तत्त्वातीतोऽतितत्त्ववित् । तत्त्वसाम्यस्तत्त्वगम्यः तत्त्वार्थस्तत्त्वदर्शकः ॥ १११॥ तत्त्वसारस्तत्त्वमार्गः तत्त्वान्तस्तत्त्वविग्रहः । तत्त्वेश्वरस्तत्त्वनाथः तत्त्वदस्तत्त्वकारणः ॥ ११२॥ दर्शनातीतगोदृश्यो दृश्यातीतोऽतिदर्शकः । दर्शनो दर्शनातीतो भावनाकाररूपधृक् ॥ ११३॥ मणिपर्वतसंस्थानो मणिभूषणभूषणः । मणिप्रीतो मणिस्रष्टा मणिस्थो मणिरूपकः ॥ ११४॥ (मणिश्रेष्ठो) चिन्तामणिगृहान्तस्थः सर्वचिन्ताविवर्जितः । चिन्ताक्रान्तो भक्तचिन्तः चिन्तनाकारचिन्तकः ॥ ११५॥ अचिन्त्यश्चिन्त्यरूपश्च निश्चिन्तो निश्चयात्मकः । निश्चयो निश्चयाधीशो निश्चयात्मकदर्शकः ॥ ११६॥ त्रिविक्रमस्त्रिकालज्ञः त्रिधामा त्रिपुरान्तकः । ब्रह्मचारी व्रतप्रीतो गृहस्थो गृहवासकः ॥ ११७॥ परब्रह्म पञ्चधामा परमात्मा परन्तपः । सर्वेश्वरः सर्वमयः सर्वसाक्षिविलक्षणः ॥ ११८॥ मणिद्वीपो द्वीपनाथो द्वीपान्तो द्वीपरक्षकः । सप्तसागरकर्ता च सप्तसागरनायकः ॥ ११९॥ महीधरो महीभर्ता महीपालो महीस्वकः । महीव्याप्तो व्यक्तरूपः सुव्यक्तो व्यक्तभावनः ॥ १२०॥ सुवेषाढ्यः सुखप्रीतः सुगमः सुगमाश्रयः । नारसिंहो वीरसिंहो विराजो रञ्जनाश्रयः ॥ १२१॥ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रमाः । तरुणस्तपसाराध्यः तनुमध्यस्तमोपहः ॥ १२२॥ पररूपः परध्येयः परदैवतदैवतः । ब्रह्मपूज्यो जगत्पूज्यो भक्तपूज्यो वरप्रदः ॥ १२३॥ अश्विनी चाश्वकर्ता च भरणी भरणोत्सवः । कृत्तिका कृत्यरूपश्च रोहिणी बीजरोहकः ॥ १२४॥ मृगशीर्षो मृगस्वामी चार्द्रा चार्द्रकचित्तकः । पुनर्वसुः वसुप्रीतः पुष्यः पुष्यार्क उत्तमः ॥ १२५॥ आश्लेषा श्लेषनाशश्च मघा मघवगर्जकः । पूर्वा पूर्वापरं दैवं उत्तरा चोत्तरोत्तरः ॥ १२६॥ हस्तो हस्तक्रियाशक्तिः चित्रा चित्रविचित्रगः । स्वातिः स्वस्थमनाश्चैव विशाखा विषहारकः ॥ १२७॥ अनुराधा राधिकेशो ज्येष्ठा ज्येष्ठप्रियोत्तमः । मूलकन्दः जगत्स्रष्टा पूर्वाषाढः धनाश्रयः ॥ १२८॥ उत्तराषाढ उद्योगो श्रवणः श्रवणप्रियः । धनिष्ठा धनरूपश्च शततारकतारकः ॥ १२९॥ पूर्वभाद्रपदा भद्र उत्तराभद्रदायकः । रेवती रवलेशश्च सपिण्डाक्षरविग्रहः ॥ ११३०॥ अद्वैतद्वैतचित्तस्थो द्वैताद्वैतविवर्जितः । अभेद्यः सर्वभेद्यश्च भेदाभेदकबोधकः ॥ १३१॥ लाक्षारससुवर्णाभो लक्ष्मणो लक्ष्मणाग्रजः । अयोध्यावासकर्ता च रामरूपो नृपोत्तमः ॥ १३२॥ धनुर्धरो धनुर्वेदी धनुर्भङ्गो धनुर्जितः । नृपरूपो नृपाधीशः प्लवङ्गमप्रियोत्तमः ॥ १३३॥ यागरक्षणकर्ता च हयमेधहविर्हविः । रावणान्तको रामश्च विभीषणवरप्रदः ॥ १३४॥ दैत्यसंहारकर्ता च अवतारपरो हरिः । सीतावरणकर्ता च सीताप्राणप्रियोत्तमः ॥ १३५॥ संविदीशः संविदात्मा संविज्ञानप्रदायकः । संवित्कर्ता च भक्तस्य संविदानन्दरूपवान् ॥ १३६॥ संशयातीतसर्वार्थः सर्वसंशयहारकः । निःसंशयमनोध्येयः संशयात्मातिदूरगः ॥ १३७॥ शिवमन्त्रः शिवप्रीतो दीक्षाशैवस्य भावुकः । भूपशिक्षाकृतो भूपो भूपभूपत्वदायकः ॥ १३८॥ सर्वधर्मसमायुक्तः सर्वधर्मविवर्धकः । धर्मार्थकाममोक्षस्थः चातुर्वर्गफलप्रदः ॥ १३९॥ इच्छाज्ञानक्रियाकर्ता इच्छाज्ञानस्य साधकः । इच्छामय इच्छितश्रीः इच्छितार्थोऽर्थनिश्चयः ॥ १४०॥ रविवंशकुलोत्पन्नः सर्ववंशाधिकारणः । सर्वशास्ता सर्ववेत्ता सर्वभोक्ता स्वतृप्तिमान् ॥ १४१॥ भक्तिभावावतारश्च भुक्तिमुक्तिप्रदायकः । भक्तसिद्धार्थसिद्धश्च सिद्धिबुद्धिप्रदायकः ॥ १४२॥ वाराणसीवासदाता वाराणसीवरप्रदः । वाराणसीनाथरूपो गङ्गामस्तकधारणः ॥ १४३॥ यमुनाप्रियवित्तश्च यमुनातीरवासकः । गङ्गाधरो गिरिपतिर्गजचर्मविभूषणः ॥ १४४॥ पार्वतीशो पर्वतेशो पर्वतो पर्वतालयः । पर्वताश्रयकर्ता च लिङ्गपर्वतत्र्यम्बकः ॥ १४५॥ द्वादशज्योतिर्लिङ्गश्च सर्वलिङ्गस्वरूपवान् । लिङ्गदेहो लिङ्गकर्ता लिङ्गपूज्योऽतिदुर्लभः ॥ १४६॥ रुद्रप्रियो रुद्रसेव्यो रुद्ररूपो विरावकृत् । मालारुद्राक्षभूषाङ्गो जपरुद्राक्षतोषकः ॥ १४७॥ सत्यसन्धः सत्यदाता सत्यकर्ता सदाश्रयः । सत्यसाक्षी सत्यलक्षी लक्ष्यातीतमनोहरः ॥ १४८॥ जनको जगदादीशो जननीजनकः स्वयम् । जगदो जगदाकारो जगद्रूपजनाश्रयः ॥ १४९॥ सृष्टिस्थितो सृष्टिरूपो स्थितिरूपो स्थितिप्रदः । संहाररूपो कालाग्निः कालसंहारकारकः ॥ १५०॥ पञ्चवक्त्रः पञ्चभूतः त्रिनेत्रस्त्रिपुरारिहा । सप्तपातालपादस्थो महदाकाशशीर्षवान् ॥ १५१॥ जातवेदा महादेवः सद्योजातः श्रुतिः स्मृतिः । श्रेष्ठः श्रेष्ठकरो ज्येष्ठो जयिष्णुर्जयवर्धनः ॥ १५२॥ नागभूषो नागनाथो नागरूपो नगाधिपः । नगो नगप्रियो नाम्यो नागालयो नगान्तकः ॥ १५३॥ अमृताशोऽमृताकारो चामृतामृतरूपगः । अमृताकारचित्तस्थः चामृतोद्भवकारणः ॥ १५४॥ अमृताहारनित्यस्थो चामृतद्रवरूपवान् । अमृतांशोऽमृताधीशो चामृतप्रीतिवर्धनः ॥ १५५॥ अनिर्देश्यश्चाहिशयो चानन्तो जगदाश्रयः । श्रेयोदः श्रेयोरूपश्च श्रेयोतीतफलप्रदः ॥ १५६॥ उत्तमो ऽनुत्तमध्येयो ध्येयातीतोऽतिधेयकृत् । ध्रुवसंस्थानदाता च ध्रुवनिश्चयकारणः ॥ १५७॥ निश्चयो निश्चयश्रेष्ठो निश्चयातीतनिश्चयः । निश्चिन्तश्चित्तरहितः चित्तनिश्चयकारकः ॥ १५८॥ सुरसः सुरसाक्षी च सारासारविचारणः । विचार्यमाणमानस्थो विचारातीतधारणः ॥ १५९॥ धारणातीतभावस्थो धारणान्वयगोचरः । गोचरो गोचरातीतः चातीवप्रियगोचरः ॥ १६०॥ प्रियातीतः प्रियस्वार्थः स्वार्थः स्वार्थफलप्रदः । अर्थार्थसाक्षी लक्षांशो लक्षलक्षणविग्रहः ॥ १६१॥ विग्रहो विग्रहातीतो भक्तनाथो जनार्दनः । जगदीशो जगत्त्राता जगन्मयो जगद्गुरुः ॥ १६२॥ गुरुमूर्तिः स्वयंवेद्यो वेद्यवेदकरूपकः । रूपातीतो रूपकर्ता सर्वरूपार्थदायकः ॥ १६३॥ अर्थदश्चार्थमान्यस्तु चार्थार्थी चार्थदायकः । अर्थांशश्चार्थकर्ता तु चार्थान्तरमनोगतः ॥ १६४॥ मनोगतो मनःस्वामी मनोबुद्धिपरायणः । बुद्धिप्रदो बुद्धिदाता विबुद्धजनमानसः ॥ १६५॥ मानसो मानसाकारो मानसातीतमानसः । सर्वमानससम्पूर्णः पूर्णाश्रयः जगत्प्रभुः ॥ १६६॥ विभवो वैभवश्रेष्ठो सर्ववैभवदायकः । चतुःषष्टिकलाश्रेष्ठः चतुःषष्टिकलालयः ॥ १६७॥ पुराणश्रवणाकारः पुराणपुरुषोत्तमः । पुरातनः पुराख्यातः पूर्वजः पूर्वपूर्वगः ॥ १६८॥ मन्त्रतन्त्रार्थसर्वज्ञः सर्वतन्त्रप्रकाशकः । तन्त्रवेत्ता तन्त्रकर्ता तन्त्रान्तरनिवारकः ॥ १६९॥ (तन्त्रानन्तरनिवासकः) तन्त्रगम्यस्तन्त्रमान्यः तन्त्रयन्त्रफलप्रदः । सर्वतन्त्रार्थतत्त्वज्ञः तन्त्रराजः स्वतन्त्रगः ॥ १७०॥ ब्रह्माण्डकोटिकर्ता च ब्रह्माण्डोदरपूरकः । ब्रह्मोपदेशदाता च ब्रह्मज्ञानपरायणः ॥ १७१॥ (ब्रह्मज्ञानपरायणः) जन्मकर्ता जन्मदाता जन्मकर्मफलप्रदः । जन्मनाशो जन्मवेद्यो जन्मान्तरनिवारकः ॥ १७२॥ जगद्वन्द्यो जगत्पूज्यो जङ्गमाजङ्गमाश्रयः । जगदाधारकर्ता च जगदाकारधारणः ॥ १७३॥ (जगदाकारकारणः) नरनारीशरीरस्थो नरनारीस्वभावकः । हेतुभूतो हेतुरूपो हेतुसाधनवर्जितः ॥ १७४॥ सर्वधातुस्वरूपस्थः सर्वधातुविवर्जितः । स्वयम्भूः शम्भुरूपश्च सर्वसंशयहारकः ॥ १७५॥ सोऽहम्भावस्वभावश्च सोऽहंरूपप्रदर्शकः । (हंसविग्रहनिग्रहः) सोऽहमस्मीति नित्यस्थो सोऽहंहंसःस्वरूपवान् ॥ १७६॥ सोऽहंहंसस्वरूपश्च हंसविग्रहनिस्पृहः । श्वासनिःश्वासविश्वासः केदारो रवलेश्वरः ॥ १७७॥ फलश्रुतिः । अष्टाधिकसहस्रैर्ये नामसाहस्रमुत्तमम् । कीर्तयन्ति सदा तेषामिच्छितार्थफलं भवेत् ॥ १७८॥ एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । शत्रवस्तस्य नश्यन्ति क्षमारूपो भविष्यति ॥ १७९॥ नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे । सङ्क्रान्तौ विषुवे चैव पौर्णमास्यां विशेषतः ॥ १८०॥ पौर्णमास्यां रविवारे सप्तत्रिवारपाठकः । (अर्थात् २१) स्वप्ने दर्शनमाप्नोति कार्यमार्गोऽपि दृश्यते ॥ १८१॥ (कार्यभोहोऽपि) रविवारे दशावृत्त्या रोगनाशो भविष्यति । सर्वदा सर्वकार्येषु जयः सिद्ध्यति सर्वदा ॥ १८२॥ धनार्थी धनमाप्नोति यशोर्थी यश आप्नुयात् । विद्यार्थी लभते विद्यां ज्ञानार्थी ज्ञानमाप्नुयात् ॥ १८३॥ पुत्रार्थी लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् । निष्कामं कीर्तयन्नित्यं ब्रह्मज्ञानमयो भवेत् ॥ १८४॥ बिल्वैर्वा तुलसीपत्रैश्चम्पकैर्बकुलादिभिः । कल्हारैर्जातिकुसुमैरम्बुजैर्वा तिलाक्षतैः ॥ १८५॥ एभिर्नामसहस्रैस्तमर्चयेद्भक्तिमान्नरः । कुलं तारयते तस्य कल्पकोटीसमान्वितम् ॥ १८६॥ षट्त्रिंशद्दिनपर्यन्तं त्रिरावृत्त्या पठेन्नरः । एकचित्तोऽर्थयुक्तो च तस्य वाक्सिद्धिनिश्चयः ॥ १८७॥ द्विमासञ्च त्रिमासञ्च षण्मासं एकभक्तितः । आयुः कीर्तिस्तथैश्वर्यं प्राप्नोत्येव न संशयः ॥ १८८॥ भूपो भूपत्वमाप्नोति वैश्यो धनपतिर्भवेत् । बहुसस्यं तु शूद्रस्य निश्चितार्थेन सिध्यति ॥ १८९॥ यं यं वाञ्छति यो वर्णः सिद्धिर्भवति नान्यथा । प्रातः स्नात्वा विधानेन नित्यकर्म समाप्य च ॥ १९०॥ सम्यक् पूजाविधिः कुर्यान्नामपाठस्तदन्तरम् । पूजां कर्तुमशक्तोऽपि पूजाफलमवाप्नुयात् ॥ १९१॥ इति श्रीब्रह्माण्डपुराणे केदारमाहात्म्ये जामदग्न्ययोगिसंवादे जामदग्न्यप्रोक्तं श्रीकेदारसहस्रनामस्तोत्रं सम्पूर्णम् । श्रीकेदारनाथचरणार्पणमस्तु ॥ ॥ शुभं भवतु ॥ Although it is mentioned in colophone that the stotra is in Brahmandapurana, the location is not traceable in the printed book. Proofread by Aruna Narayanan, Rajani Arjun Shankar
% Text title            : Kedara Sahasranama Stotram
% File name             : kedArasahasranAmastotram.itx
% itxtitle              : kedArasahasranAmastotram (brahmANDapurANAntargatam)
% engtitle              : kedArasahasranAmastotram
% Category              : shiva, sahasranAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan, Rajani Arjun Shankar
% Description/comments  : brahmANDapurANe kedAramAhAtmye jamadagni agasti saMvAde.  See corresponding nAmAvalI.
% Indexextra            : (Scans 1, 2, nAmAvalI)
% Latest update         : May 18, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org