शिव पूजन वैदिक षोडशोपचार
१ ध्यानम् --
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्चलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
ॐ नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥
२ आसनम् --
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥
३ पाद्यम् --
यामिषुं॑ गिरिशंत॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे ।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सीः॒ पुरु॑षं॒ जग॑त् ॥
४ अर्घ्यम् --
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि ।
यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥
५ आचमनीयम् --
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीꣳ॑श्च सर्वा᳚ञ्ज॒म्भय॒न्त्सर्वा᳚श्च यातुधा॒न्यः॑ ॥
६ स्नानम् --
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ ।
ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ॒ हेड॑ ईमहे ॥
७ वस्त्रम् --
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॑ गो॒पा अ॑दृश॒न्न॒दृ॑शन्नुदहा॒र्यः॑ ॥
८ यज्ञोपवीतम् --
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मीढुषे᳚ ॥
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न् नमः॑ ।
९ गन्धम्-चन्दनम् --
प्रमु॑ञ्च॒ धन्व॑न॒स्त्व-मु॒भयो॒रार्त्नि॑यो॒र्ज्याम् ॥
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ।
१० पुष्पम् --
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त ॥
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ ।
११ धूपम् --
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ॥
तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ।
१२ दीपम् --
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ॥
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।
१३ नैवेद्यम् --
अ॒व॒तत्य॒ धनु॒स्तवꣳ सह॑स्राक्ष॒ शते॑षुधे ॥
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।
१४ ताम्बूलम् --
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ ॥
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्या॒म् तव॒ धन्व॑ने ।
१५ प्रदक्षिणाम् --
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं
मा न॒ उक्ष॑न्त-मु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा
न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ १०-५॥
१६ मन्त्र पुष्पाञ्जलीम् --
मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒
मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धी-र्ह॒विष्म॑न्तो॒
नम॑सा विधेम ते ॥ १०-६॥