तिरुचेन्दूर् षण्मुखस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
आदिशङ्कर प्रोक्तम् -
नारदादिदेवयोगिवृन्दहृन्निकेतनं
बर्हिवर्यवाहमिन्दुशेखरेष्टनन्दनम् ।
भक्तलोकरोगदुःखपापसङ्घभञ्जनं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ १॥
तारकारीमिन्द्रमुख्यदेववृन्दवन्दितं
चन्द्रचन्दनादि शीतळाङ्कमात्मभावितम् ।
यक्षसिद्धकिन्नरादिमुख्यदिव्यपूजितं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ २॥
चम्पकाब्जमालतीसुमादिमाल्यभूषितं
दिव्यषट्किरीटहारकुण्डलाद्यलङ्कृतम् ।
कुङ्कुमादियुक्तदिव्यगन्धपङ्कलेपितं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ३॥
आश्रिताखिलेष्टलोकरक्षणामराङ्घ्रिपं
शक्तिपाणिमच्युतेन्द्रपद्मसम्भवाधिपम् ।
शिष्टलोक चिन्तितार्थसिद्धिदानलोलुपं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ४॥
वीरबाहु पूर्वकोटिवीरसङ्घसौख्यदं
शूरपद्ममुख्यलक्षकोटिशूरमुक्तिदम् ।
इन्द्रपूर्वदेवसङ्घसिद्धनित्यसौख्यदं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ५॥
जम्बवैरिकामिनीमनोरथाभिपूरकं
कुम्भसम्भवाय सर्वधर्म सारदायकम् ।
तं भवाब्धिपोतमम्बिकेयमाशु सिद्धिदं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ६॥
पूर्णचन्द्रबिम्बकोटितुल्यवक्त्रपङ्कजं
वर्णनीयसच्चरित्रमिष्टसिद्धिदायकम् ।
स्वर्णवर्णगात्रमुग्रसिद्धलोकशिक्षकं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ७॥
पूर्वजन्मसञ्चिताघसङ्घभङ्गतत्परं
सर्वधर्मदानकर्मपूर्वपुण्यसिद्धिदम् ।
सर्वशत्रुसङ्घभङ्गदक्षमिन्द्रजापतिं
भावयामि सिन्धुतीरवासिनं षडाननम् ॥ ८॥
इति तिरुचेन्दूर् षण्मुखस्तोत्रं अथवा षण्मुखाष्टकं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan
Proofread by Sivakumar Thyagarajan, PSA Easwaran