ऋग्वेद श्लोक
Selected verses from Rigveda
१०८९१५०११ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
१०८९१५०१२ देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥
१०८९१५०२१ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नोनि वर्तताम् ।
१०८९१५०२२ देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥
१०८९१५०३१ तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
१०८९१५०३२ अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस् करत् ॥
१०८९१५०४१ तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत्पिता द्यौः ।
१०८९१५०४२ तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥
१०८९१५०५१ तमीशानं जगतस्तस्थुषस् पतिं धियंजिन्वमवसे हूमहे वयम् ।
१०८९१५०५२ पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
१०८९१६०६१ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुषा विश्ववेदाः ।
१०८९१६०६२ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
१०८९१६०७१ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषुजग्मयः ।
१०८९१६०७२ अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
१०८९१६०८१ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
१०८९१६०८२ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ॥
१०८९१६०९१ शतमिन् नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
१०८९१६०९२ पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
१०८९१६१०१ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
१०८९१६१०२ विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥
१०९०१७०११ ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
१०९०१७०१२ अर्यमा देवैः सजोषाः ॥
१०९०१७०२१ ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
१०९०१७०२२ व्रता रक्षन्ते विश्वाहा ॥
१०९०१७०३१ ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः ।
१०९०१७०३२ बाधमानाप द्विषः ॥
१०९०१७०४१ वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
१०९०१७०४२ पूषा भगो वन्द्यासः ॥
१०९०१७०५१ उत नो धियो गोअग्राः पूषन् विष्णवेवयावः ।
१०९०१७०५२ कर्ता नः स्वस्तिमतः ॥
१०९०१८०६१ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
१०९०१८०६२ माध्वीर्नः सन्त्वोषधीः ॥
१०९०१८०७१ मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः ।
१०९०१८०७२ मधु द्यौरस्तु नः पिता ॥
१०९०१८०८१ मधुमान् नो वनस्पतिर्मधुमानस्तु सूर्यः ।
१०९०१८०८२ माध्वीर्गावो भवन्तु नः ॥
१०९०१८०९१ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
१०९०१८०९२ शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥
Verses 1-89-15-1 through 1-90-18-9-