श्रीधन्वन्तरीनवकम्
दैवासुरैर्भावगणैरजस्रं
प्रमथ्यमाने जनजीविताब्धौ ।
समुद्गतं नूतनकालकूटं
प्रतारकं मोहनबाह्ररूपम् ॥ १॥
लोकस्तदासेवननष्टबोधः
प्रपद्यते हन्त महाविपत्तिम् ।
त्रातुं न चेष्टे वत नीलकण्ठः
स्वयं कृतानर्थकदर्थितं तम् ॥ २॥
धन्वन्तरं श्रीभगवन् प्रसन्न-
स्वयं सन्निधेहि द्रुतमार्तबन्धो ।
पश्यात्र लोकान् विषवेगतप्तान्
नितान्तरुग्णान् करणत्रयेऽपि ॥ ३॥
केचिन्महामोहवशं प्रयाताः
संशेरते देव! परेतकल्पाः ।
उन्मत्तचित्ताः परितो भ्रमन्ति
जगद्रुहश्चासुरशक्तयोऽन्ये ॥ ४॥
मन्दस्मिते सुन्दरशातकुम्भ-
कुम्भे तथा लोलविलोचनान्ते ।
नवाभृतं, किञ्च करे जाळृकां
समाददानों भगवन्नुपेहि ॥ ५॥
विभो समाखासयतावदुद्य-
न्मृदुस्मितार्द्रैर्मधुरावलोकैः ।
विषोग्रवेगोत्थरूजासहस्रै-
र्निपीडितं विश्वमिदं कृपात्मन्! ॥ ६॥
करस्थयादिब्यजळूकयाशु
लोकस्य दूरीकुरु दृष्टरक्तम् ।
हरे, सिराः पूरय हेमकुम्भ-
निर्यत्सुधात्वादजशुद्धरक्तैः ॥ ७॥
उल्लाधतालाभसुहृष्टचित्तो
लोकः समुत्तिष्ठतु शुद्धसत्वः ।
देवी च सम्पद्विजयं प्रयातु
मानुष्यके त्वत्करुणाकटाक्षैः ॥ ८॥
भिषग्वरैर्नित्यमुपास्यमान-
पादाब्ज, धन्वन्तरिरूप, विष्णो ।
नारायणारोग्यसुखप्रदायि-
न्नपूर्ववैद्याय नमोऽस्तु तुभ्यम् ॥ ९॥
इति श्रीवासुदेवन् एलयथेन विरचितं श्रीधन्वन्तरीनवकं सम्पूर्णम् ।