श्रीगिरिधार्यष्टकम्
त्र्यैलोक्यलक्ष्मीमदभृत्सुरेश्वरो यदा घनैरन्तकरैर्ववर्ष ह ।
तदाकरोद्यः स्वबलेन रक्षणं तं गोपबालं गिरिधारिणं व्रजे ॥ १॥
यः पाययन्तीमधिरुह्य पूतनां स्तन्यं पपौ प्राणपरायणः शिशुः ।
जघान वातायितदैत्यपुङ्गवं तं गोपबालं गिरिधारिणं व्रजे ॥ २॥
नन्दव्रजं यः स्वरुचेन्दिरालयं चक्रे दिवीशां दिवि मोहवृद्धये ।
गोगोपगोपीजनसर्वसौख्यकृत्तं गोपबालं गिरिधारिणं व्रजे ॥ ३॥
यं कामदोग्घ्री गगनाहृतैर्जलैः स्वज्ञातिराज्ये मुदिताभ्यषिञ्चत् ।
गोविन्दनामोत्सवकृद्व्रजौकसां तं गोपबालं गिरिधारिणं भजे ॥ ४॥
यस्याननाब्जं व्रजसुन्दरीजना दिनक्षये लोचनषट्पदैर्मुदा ।
पिबन्त्यधीरा विरहातुरा भृशं तं गोपबालं गिरिधारिणं भजे ॥ ५॥
वृन्दावने निर्जरवृन्दवन्दिते गाश्चारयन्यः कलवेणुनिःस्वनः ।
गोपाङ्गनाचित्तविमोहमन्मथस्तं गोपबालं गिरिधारिणं भजे ॥ ६॥
यः स्वात्मलीलारसदित्सया सतामाविश्चकाराऽग्निकुमारविग्रहम् ।
श्रीवल्लभाध्वानुसृतैकपालकस्तं गोपबालं गिरिधारिणं भजे ॥ ७॥
गोपेन्द्रसूनोर्गिरिधारिणोऽष्टकं पठेदिदंयस्तदनन्यमानसः ।
समुच्यते दुःखमहार्णवाद्भृशं प्राप्नोति दास्यं गिरिधारिणे ध्रुवम् ॥ ८॥
प्रणम्य सम्प्रार्थयते तवाग्रतस्त्वदङ्घ्रिरेणुं रघुनाथनामकः ।
श्रीविठ्ठ्लानुग्रहलब्धसन्मतिस्तत्पूरयैतस्य मनोरथार्णवम् ॥ ९॥
॥ इति श्रीरघुनाथप्रभुकृतं समाप्तमिदं श्रीगिरिराजधार्यष्टकम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com