हर्यष्टकम्
स्वमुद्धर्तुं हरे वेत्ति किं कूपे पतितः पशुः ।
क्षिपन्नङ्घ्रिं मुहुर्क्रन्दन् कृपां जनयति प्रभो ॥ १॥
अनिच्छतोऽपि तस्याज्ञस्याङ्गं कुक्षिं च दामभिः ।
शनैर्निबध्य स्वजनैर्हरे स परमुद्धरेत् ॥ २॥
स हरे लालयेत् पङ्कं क्षालयेत् पालयेत्तृणैः ।
शमये दौषधैर्मन्त्रैः स्वगोष्ठस्तस्य वेदनाम् ॥ ३॥
तथा नरपशोरीश भवकूपेऽर्दितस्य मे ।
हरे परिहराशेष क्लेशं केशिघ्न केशव ॥ ४॥
मां हि जीवन्मृतं कर्तुं यतन्ते परितः खलाः ।
तान्निहत्य हरे शीघ्रं सेवायां ते नियुङ्क्ष्व माम् ॥ ५॥
कामाद्याऽन्तर शत्रुभ्यो बाह्य शत्रुभ्य एव च ।
भीतं हरेऽसुराद्भीतं प्रह्लादाह्लाद पाहि माम् ॥ ६॥
आधीन्व्याधीनरीन्राज्ञो द्रोहिणोऽन्यांश्च दुर्जनान् ।
क्षिप्रं नाशय सर्वज्ञ सर्वशक्ते हरे मम ॥ ७॥
कलिं खण्डय तद्भृत्यान् दण्डयाशु हरे मम ।
मनशोधय सत्तत्त्वं बोधयेष्टं प्रसादय ॥ ८॥
वादिराज यति प्रोक्तमेवं हर्यष्टकं नवम् ।
पठन् नृसिंह कृपया रिपून् संहरति क्षणात् ॥ ९॥
इति वादिराजतीर्थविरचितं हर्यष्टकं सम्पूर्णम् ।