श्रीरङ्गनाथाष्टकम्
ॐ
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ रङ्गनाथाय विद्महे । क्षेत्रज्ञाय च धीमहि ।
तन्नः श्रीपः प्रचोदयात् ॥
अथ श्रीरङ्गनाथाष्टकम् ।
महाविष्णुं सदात्राणं भक्ताभयवरप्रदम् ।
सुधावीक्षं सलक्ष्मीकं रङ्गनाथं नमाम्यहम् ॥ १॥
भूवैकुण्ठनिवासं कं श्रीरङ्गनायकीसहम् ।
मुत्याभासविकासं सं रङ्गनाथं नमाम्यहम् ॥ २॥
मुत्याङ्गिसेवसंहर्षं नेत्रोत्सवसुवैभवम् ।
एकादशीमहोत्साहं रङ्गनाथं नमाम्यहम् ॥ ३॥
नागराजसुशैय्यं तं कारुण्यनेत्रसुस्मितम् ।
पाददर्शनसन्मोक्षं रङ्गनाथं नमाम्यहम् ॥ ४॥
विभीषणप्रतिष्ठार्थं पुराणालय संस्थितम् ।
श्रीरङ्गक्षेत्रमाहात्म्यं रङ्गनाथं नमाम्यहम् ॥ ५॥
रामावतारलीलस्वं कावेरीतीरवासनम् ।
गुरुकीर्तनसन्नूतं रङ्गनाथं नमाम्यहम् ॥ ६॥
त्यागराजगुरुस्वामिकाम्भोजरागकीर्तितम् ।
रङ्गशायिहरिं वन्दे बहुकीर्तनसंस्तुतम् ॥ ७॥
मङ्गलं रङ्गनाथाय सलक्ष्मीकाय मङ्गलम् ।
मङ्गलं गुरुगेयाय श्रीरामाय(१) सुमङ्गलम् ॥ ८॥
त्यागराजगुरुस्वामिशिष्यापुष्पासमर्पितम् ।
गुरुस्फूर्तिस्फुटस्तोत्रं रङ्गनाथाष्टकं शुभम् ॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया श्रीवैकुण्ठैकादशीदिने
गुरौ समर्पितम् गुरुस्फूर्तिस्फुटस्तोत्रम् श्रीरङ्गनाथाष्टकम् ॥
ॐ
शुभमस्तु
(१) श्रीराम SrI RAma / the Delight of SrI / LakShmI
Composed and translated by Pushpa Srivatsan (Copyright)
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan