श्रीरङ्गनाथसुप्रभातम्
अम्भोरुहाणि विकसन्त्यरुणस्य भासा
शक्रस्य दिग्भवति पाटलिता तथैव ।
म्लाना भवत्युडुगणस्य रुचिर्जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ १॥
भृङ्गाः पतन्ति कुमुदानि विहाय पद्मे-
ष्वार्तं रथाङ्गमिथुनं समुपैति योगम् ।
रौतीह पक्षिपरिषत्परितो जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ २॥
उद्यानसद्मसु विहृत्य सह प्रियाभि-
र्नक्तं युवान उपयान्ति पुनर्गृहाणि ।
चन्द्रो न भाति सह दीपगणैर्जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ३॥
नक्तं प्रपासु पथिकाः सुखसुप्तिभाजो
निद्रां विहाय परितः स्वपथान् प्रयान्ति ।
शोश्रूयते निगमपाठरवो जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ४॥
विप्रा गृहीतसकलोपकराः प्रयान्ति
स्नानादिकर्मकरणाय कवेरकन्याम् ।
सङ्कल्पयन्ति वनिता वसतीर्जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ५॥
सह्याद्रिजापयसि चोषसि यायजूकाः
स्नात्वाग्निहोत्रशरणे प्रणयन्ति वह्नीन् ।
वीथ्यां परिभ्रमति भक्तततिर्जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ६॥
गोवाजिहस्तिगणिकाः पुरतः स्थितास्ते
वीणाध्वनिः परिजना जलपूर्णकुम्भः ।
सज्जार्चकाश्च सकला इतरे जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ७॥
वेदान्तयुग्ममुभये विबुधाश्च सर्वे
त्वां बोधयन्ति मुदिताः स्तुतिभिः प्रियाभिः ।
उत्तिष्ठ शेषशयनादव तान् जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ८॥
इति श्रीरङ्गनाथसुप्रभातं सम्पूर्णम् ।
Proofread by Aruna Narayanan