श्रीशाण्डिल्यकृतं श्रीहरिमङ्गलाष्टकम्
श्रीशाण्डिल्य उवाच ।
अथ स्तोत्रवरं दिव्यं मङ्गालानां च मङ्गलम् ।
श्रीनन्दनन्दनहरेः कालिन्द्या समुदीरितम् ॥ १॥
जय जयाजय मङ्गलश्रुतिगणेन्दुमुखीव्रजसंस्तुत ।
जय जयात्मपदाम्बुजसंश्रितनतसुरेन्द्रमतानुमहेन्दिर ॥ २॥
जय जयाजय मङ्गलमङ्गलविकचनीलकुशेशयसुन्दर ।
विधृतकाञ्चनकान्तनवाम्बर विविधभूषणभूषितभूषण ॥ ३॥
जय जयाजय मङ्गलमङ्गल विकचनीलकुशेशयसुन्दर ।
तव यदाब्जरजोऽभसिता जनाः जगति मङ्गल जयन्ति शुचिप्रभाः ॥ ४॥
जय जयाजय मङ्गलमङ्गल मुनिवरैः परिणूत्तमहोदय ।
सकलविश्वकुलानि कुलाणुभिस्तव कृतानि वदन्ति मनीषिणः ॥ ५॥
जय जयाजय मङ्गलमङ्गल जयति मङ्गलमङ्गलमिदं तव ।
तदनु मङ्गलमेव विभूषणं वर सुमाल्यमुखं विधृतं विभो ॥ ६॥
जय जयाजय मङ्गलमङ्गल व्रजजनीव्रजमङ्गल निजव्रजम् ।
मुरलिका मुकुटं लकुटं स्रजः सकलमेव विभो तव मङ्गलम् ॥ ७॥
जय जयाजय मङ्गलमङ्गल जगति ते भवनं विपिनं गिरिः ।
सरिदलं वचनं चरितं श्रुतं निखिलमङ्गलमस्ति न चापरम् ॥ ८॥
जय जयाजय मङ्गलमङ्गल कुरु विभो भवमङ्गलमङ्गलम् ।
तव मुखाम्बुजदर्शनतः परं भवति आर्य सुमङ्गलमङ्गलम् ॥ ९॥
इति श्रीमङ्गलस्तोत्रं हरेरद्भुतकर्मणः ।
पठेदुषसि यस्तस्य मङ्गलं ह्याष्टयामिकम् ॥ १०॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये
श्रीहरिमङ्गलाष्टकं सम्पूर्णम् ।
Proofread by Manish Gavkar