वरदराजपञ्चाशत्
वेदान्तदेशिककृत
(काञ्च्याम्)
द्विरदशिखरिसीम्ना सद्मवान् पद्मयोनेः
तुरगसवनवेद्यां श्यामलो हव्यवाहः ।
कलशजलधिकन्या वल्लरी कल्पशाखी
कलयतु कुशलं नः कोऽपि कारुण्यराशिः ॥ १॥
यस्यानुभावमधिगन्तुमशक्नुवन्तो
मुह्यन्त्यभङ्गुरधियो मुनिसार्वभौमाः ।
तस्यैव ते स्तुतिषु साहसमश्नुवानः
क्षन्तव्य एष भवता करिशैलनाथ ॥ २॥
जानन्ननादिविहितानपराधवर्गान्
स्वामिन् भयात्किमपि वक्तुमहं न शक्तः ।
अव्याजवत्सल तथापि निरङ्कुशं मां
वात्सल्यमेव भवतो मुखरीकरोति ॥ ३॥
किं व्याहरामि वरद स्तुतये कथं वा
खद्योतवत्प्रलघु सङ्कुचितप्रकाशः ।
तन्मे समर्पय मतिं च सरस्वतीं च
त्वामञ्जसा स्तुतिपदैर्यदहं धिनोमि ॥ ४॥
मच्छक्तिमात्रगणने किमिहास्ति शक्यं
शक्येन वा तव करीश किमस्ति साध्यम् ।
यद्यस्ति साधय मया तदपि त्वया वा
किं वा भवेद्भवति किञ्चिदनीहमाने ॥ ५॥
स्तोत्रं मया विरचितं त्वदधीनवाचा
त्वत्प्रीतये वरद यत्तदिदं न चित्रम् ।
आवर्जयन्ति हृदयं खलु शिक्षकाणां
मञ्जूनि पञ्जरशकुन्तविजल्पतानि ॥ ६॥
यं चक्षुषामविषयं हयमेधयज्वा
द्राघीयसा सुचरितेन ददर्श वेधाः ।
तं त्वां करीश करुणापरिणामतस्ते
भूतानि हन्त निखिलानि निशामयन्ति ॥ ७॥
तत्तत्पदैरुपहितेऽपि तुरङ्गमेधे
शक्रादयो वरद पूर्वमलब्धभागाः ।
अध्यक्षिते मखपतौ त्वयि चक्षुषैव
हैरण्यगर्भ हविषां रसमन्वभूवन् ॥ ८॥
सर्गस्थितिप्रलयविभ्रमनाटिकायां
शैलूषवद्विविधवेषपरिग्रहं त्वाम् ।
सम्भावयन्ति हृदयेन करीश धन्याः
संसारवारिनिधिसन्तरणैकपोतम् ॥ ९॥
प्राप्तोदयेषु वरद त्वदनुप्रवेशात्
पद्मासनादिषु शिवादिषु कञ्चुकेषु ।
तन्मात्रदर्शनविलोभितशेमुषीकाः
तादात्म्यमूढमतयो निपतन्त्यधीराः ॥ १०॥
मध्ये विरिञ्चिशिवयोर्विहितावतारः
ख्यातोऽपि तत्समतया तदिदं न चित्रम् ।
मायावशेन मकरादि शरीरिणं त्वां
तानेव पश्यति करीश यदेष लोकः ॥ ११॥
ब्रह्मेति शङ्कर इतीन्द्र इति स्वराडि-
त्यात्मेति सर्वमिति सर्वचराचरात्मन् ।
हस्तीश सर्ववचसामवसानसीमां
त्वां सर्वकारणमुशन्त्यनपाय वाचः ॥ १२॥
आशाधिपेषु गिरिशेषु चतुर्मुखेष्व-
प्यव्याहता विधि निषेधमयी तवाज्ञा ।
हस्तीश नित्यमनुपालनलङ्घनाभ्यां
पुंसां शुभाशुभमयानि फलानि सूते ॥ १३॥
त्रातापदि स्थितिपदं भरणं प्ररोहः
छाया करीश सरसानि फलानि च त्वम् ।
शाखागतत्रिदशवृन्दशकुन्तकानां
किं नाम नासि महतां निगमद्रुमाणाम् ॥ १४॥
सामान्यबुद्धिजनकाश्च सदादिशब्दाः
तत्त्वान्तरभ्रमकृतश्च शिवादि वाचः ।
नारायणे त्वयि करीश वहन्त्यनन्यम्
अन्वर्थवृत्तिपरिकल्पितमैककण्ठ्यम् ॥ १५॥
सञ्चिन्तयन्त्यखिलहेयविपक्षभूतं
शान्तोदितं शमवता हृदयेन धन्याः ।
नित्यं परं वरद सर्वगतं सुसूक्ष्मं
निष्पन्दनन्दथुमयं भवतः स्वरूपम् ॥ १६॥
विश्वातिशायि सुखरूप यदात्मकस्त्वं
व्यक्तिं करीश कथयन्ति तदात्मकां ते ।
येनाधिरोहति मतिस्त्वदुपासकानां
सा किं त्वमेव तव वेति वितर्कडोलाम् ॥ १७॥
मोहान्धकारविनिवर्तनजागरूके
दोषा दिवापि निरवग्रहमेधमाने ।
त्वत्तेजसि द्विरदशैलपते विमृष्टे
श्लाघ्येत सन्तमसपर्वसहस्रभानोः ॥ १८॥
रूढस्य चिन्मयतया हृदये करीश
स्तम्बानुकारि परिणामविशेषभाजः ।
स्थानेषु जाग्रति चतुर्ष्वपि सत्त्ववन्तः
शाखाविभागचतुरे तव चातुरात्म्ये ॥ १९॥
नागाचलेश निखिलोपनिषन्मनीषा
मञ्जूषिकामरकतं परिचिन्वतां त्वाम् ।
तन्वी हृदि स्फुरति कापि शिखा मुनीनां
सौदामिनीव निभृता नव मेघगर्भा ॥ २०॥
औदन्वते महति सद्मनि भासमाने
श्लाघ्ये च दिव्यसदने तमसः परस्तात् ।
अन्तःकलेवरमिदं सुषिरं सुसूक्ष्मं
जातं करीश कथमादरणास्पदं ते ॥ २१॥
बालाकृतेर्वटपलाशमितस्य यस्य
ब्रह्माण्डमण्डलमभूदुदरैकदेशे ।
तस्यैव तद्वरद हन्त कथं प्रभूतं
वाराहमास्थितवतो वपुरद्भुतं ते ॥ २२॥
भक्तस्य दानवशिशोः परिपालनाय
भद्रां नृसिंह कुहनामधिजग्मुषस्ते ।
स्तम्भैकवर्जमधुनापि करीश नूनं
त्रैलोक्यमेतदखिलं नरसिंहगर्भम् ॥ २३॥
क्रामन् जगत्कपटवामनतामुपेतः
त्रेधा करीश स भवान् निदधे पदानि ।
अद्यापि जन्तव इमे विमलेन यस्य
पादोदकेन विधृतेन शिवा भवन्ति ॥ २४॥
येनाचलप्रकृतिना रिपुसङ्क्षयार्थी
वारां निधिं वरद पूर्वमलङ्घयस्त्वम् ।
तं वीक्ष्य सेतुमधुनापि शरीरवन्तः
सर्वे षडूर्मिबहुलं जलधिं तरन्ति ॥ २५॥
इत्थं करीश दुरपह्नवदिव्यभव्य-
रूपान्वितस्य विबुधादि विभूतिसाम्यात् ।
केचिद्विचित्रचरितान् भवतोऽवतारान्
सत्यान् दयापरवशस्य वदन्ति सन्तः ॥ २६॥
सौशील्यभावितधिया भवता कथञ्चित्
सञ्छादितानपि गुणान् वरद त्वदीयान् ।
प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टाः
पत्युस्त्विषामिव पयोदवृतान् मयूखान् ॥ २७॥
नित्यं करीश तिमिराविलदृष्टयोऽपि
सिद्धाञ्जनेन भवतैव विभूषिताक्षाः ।
पश्यन्त्युपर्युपरि सञ्चरतामदृश्यं
मायानिगूढमनपाय महानिधिं त्वाम् ॥ २८॥
सद्यस्त्यजन्ति वरद त्वयि बद्धभावाः
पैतामहादिषु पदेष्वपि भावबन्धम् ।
कस्मै स्वदेत सुखसञ्चरणोत्सुकाय
कारागृहे कनकशृङ्खलयाऽपि बन्धः ॥ २९॥
हस्तीश दुःखविषदिग्धफलानुबन्धि-
न्याब्रह्मकीटमपराहतसम्प्रयोगे ।
दुष्कर्मसञ्चयवशाद्दुरतिक्रमे नः
प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥ ३०॥
त्वद्भक्तिपोतमवलम्बितुमक्षमाणां
पारं परं वरद गन्तुमनीश्वराणाम् ।
स्वैरं लिलङ्घयिषतां भववारिराशिं
त्वामेव गन्तुमसि सेतुरभङ्गुरस्त्वम् ॥ ३१॥
अश्रान्तसंसरणधर्मनिपीडितस्य
भ्रान्तस्य मे वरद भोगमरीचिकासु ।
जीवातुरस्तु निरवग्रहमेधमानो
देव त्वदीयकरुणामृतदृष्टिपातः ॥ ३२॥
अन्तःप्रविश्य भगवन्नखिलस्य जन्तोः
आसेदुषस्तव करीश भृशं दवीयान् ।
सत्यं भवेयमधुनापि स एव भूयः
स्वाभाविकी तव दया यदि नान्तरायः ॥ ३३॥
अज्ञातनिर्गममनागमवेदिनं मां
अन्धं न किञ्चिदवलम्बनमश्नुवानम् ।
एतावतीं गमयितुः पदवीं दयालोः
शेषाध्वलेश नयने क इवातिभारः ॥ ३४॥
भूयोऽपि हन्त वसतिर्यदि मे भवित्री
याम्यासु दुर्विषहवृत्तिषु यातनासु ।
सम्यग्भविष्यति ततः शरणागतानां
संरक्षितेति बिरुदं वरद त्वदीयम् ॥ ३५॥
पर्याकुलं महति दुःखपयोनिधौ मां
पश्यन् करीश यदि जोषमवस्थितस्त्वम् ।
स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं
पारे करिष्यति दया तव दुर्निवारा ॥ ३६॥
किं वा करीश कृपणे मयि रक्षणीये
धर्मादि बाह्यसहकारिगवेषणेन ।
नन्वस्ति विश्वपरिपालनजागरूकः
सङ्कल्प एव भवतो निपुणः सहायः ॥ ३७॥
निर्यन्त्रणं परिणमन्ति न यावदेते
नीरन्ध्रदुष्कृतभवा दुरितप्ररोहाः ।
तावन्न चेत्त्वमुपगच्छसि शार्ङ्गधन्वा
शक्यं त्वयापि न हि वारयितुं करीश ॥ ३८॥
यावन्न पश्यति निकामममर्षणो मां
भ्रूभङ्गभीषणकरालमुखः कृतान्तः ।
तावत्पतन्तु मयि ते भगवन् दयालोः
उन्निद्रपद्मकलिका मधुराः कटाक्षाः ॥ ३९॥
स त्वं स एव रभसो भवदौपवाह्यः
चक्रं तदेव शितधारमहं च पाल्यः ।
साधारणे त्वयि करीश समस्तजन्तोः
मातङ्गमानुषभिदा न विशेषहेतुः ॥ ४०॥
निर्वापयिष्यति कदा करिशैलधामन्
दुर्वारकर्मपरिपाकमहादवाग्निम् ।
प्राचीनदुःखमपि मे सुखयन्निव त्वत्
पादारविन्दपरिचाररसप्रवाहः ॥ ४१॥
मुक्तः स्वयं सुकृतदुष्कृतशृङ्खलाभ्यां
अर्चिर्मुखैरधिकृतैरतिवाहिताध्वा ।
स्वच्छन्दकिङ्करतया भवतः करीश
स्वाभाविकं प्रतिलभेय महाधिकारम् ॥ ४२॥
त्वं चेत्प्रसीदसि तवास्मि समीपतश्चेत्
त्वय्यस्तभक्तिरनघा करिशैलनाथ ।
संसृज्यते यदि च दासजनस्त्वदीयः
संसार एष भगवन्नपवर्ग एव ॥ ४३॥
आहूयमानमनपायविभूतिकामैः
आलोकलुप्तजगदान्ध्यमनुस्मरेयम् ।
आलोहितांशुकमनाकुलहेतिजालं
हैरण्यगर्भहयमेधहविर्भुजं त्वाम् ॥ ४४॥
भूयो भूयः पुलकनिचितैरङ्गकैरेधमानाः
स्थूलस्थूलान् नयनमुकुलैर्बिभ्रतो बाष्पबिन्दून् ।
धन्याः केचिद्वरद भवतः संसदं भूषयन्तः
स्वान्तैरन्तर्विनयनिभृतैः स्वादयन्ते पदं ते ॥ ४५॥
वरद तव विलोकयन्ति धन्याः मरकतभूधर मातृकायमाणम् ।
व्यपगतपरिकर्मवारवाणं मृगमदपङ्कविशेषनीलमङ्गम् ॥ ४६॥
अनिभृतपरिरम्भैराहितामिन्दिरायाः
कनकवलयमुद्रां कण्ठदेशे दधानः ।
फणिपतिशयनीयादुत्थितस्त्वं प्रभाते
वरद सततमन्तर्मानसं सन्निधेयाः ॥ ४७॥
तुरगविहगराजस्यन्दनान्दोलिकादि-
ष्वधिकमधिकमन्यामात्मशोभां दधानम् ।
अनवधिकविभूतिं हस्तशैलेश्वरं त्वां
अनुदिनमनिमेषैर्लोचनैर्निर्विशेयम् ॥ ४८॥
निरन्तरं निर्विशतस्त्वदीयमस्पृष्टचिन्तापदमाभिरूप्यम् ।
सत्यं शपे वारणशैलनाथ वैकुण्ठवासेऽपि न मेऽभिलाषः ॥ ४९॥
व्यातन्वाना तरुणतुलसीदामभिः स्वामभिख्यां
मातङ्गाद्रौ मरकतरुचिं पुष्णती मानसे नः ।
भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः
भूयः श्यामा भुवनजननी देवता सन्निधत्ताम् ॥ ५०॥
इति विहितमुदारं वेङ्कटेशेन भक्त्या
श्रुतिसुभगमिदं यः स्तोत्रमङ्गीकरोति ।
करिशिखरि विटङ्कस्थायिनः कल्पवृक्षात्
भवति फलमशेषं तस्य हस्तापचेयम् ॥ ५१॥
इति वेदान्तदेशिककृत वरदराजपञ्चाशत् समाप्ता ।
Proofread by PSA Easwaran