ज्ञानसङ्कलिनीतन्त्रम्
॥ ॐ श्रीगणेशाय नमः ॥
अथ ज्ञानसङ्कलिनीतन्त्र योगशासन ।
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
पृच्छति सा महादेवी ब्रूहि ज्ञानं महेश्वर ॥ १॥ (स्म)
देव्युवाच -
कुतः सृष्टिर्भवेदेव कथं सृष्टिर्विनश्यति । (सृष्टिर्भवेद्देव)
ब्रह्मज्ञानं कथं देव सृष्टिसंहारवर्जितम् ॥ २॥
शिवोवाच -
अव्यक्ताच्च भवेत्सृष्टिरव्यक्ताच्च च विनश्यति ।
अव्यक्तं ब्रह्मणो ज्ञानं सृष्टिसंहारवर्जितम् ॥ ३॥
ओङ्कारादक्षरा सर्वास्त्वेता विद्याश्चतुर्दश । (ओङ्कारादक्षरात्)
मन्त्रपूजातपोध्यानं कर्माकर्मौ तथैव च ॥ ४॥ (कर्माकर्म)
षडङ्गं वेदाश्चत्वारि मीमांसा न्यायविस्तरः । (वेदाश्चत्वारो)
धर्मशास्त्रपुराणानि एता विद्याश्चतुर्दश ॥ ५॥
तावद्विज्ञा भवेत्सर्वा यावद्ज्ञानं न जायते । (तावद् विद्या)
ब्रह्मज्ञानपदङ्गत्वा सर्वविद्या: स्थिरा भवेत् ॥ ६॥ (ब्रह्मज्ञानं पदं ज्ञात्वा सर्वविद्या)
वेदशास्त्रपुराणानि सामान्यगणिका इव ।
या पुनः शाम्भवी विद्या गुप्ता कुलवधूरिव ॥ ७॥
देहस्थाः सर्वविद्याश्च देहस्थाः सर्वदेवताः ।
देहस्थ सर्वतीर्थानि गुरुवाक्येन लभ्यते ॥ ८॥ (देहस्थाः)
अध्यात्मविद्या हि नृणां सौख्यमोक्षकरी भवेत् ।
धर्म कर्म तथा जप्यमेतत्सर्वं निवर्तते ॥ ९॥
काष्ठमध्ये यथा वह्निः पुष्पे गन्धः पयोऽमृतम् ।
देहमध्ये तथा देवः पुण्यपापविवर्जितम् ॥ १०॥ (पुण्यपापविवर्जितः)
इडा भगवती गङ्गा पिङ्गला यमुना नदी । (जमुना)
इडापिङ्गलयोर्मध्ये सुषुम्ना च सरस्वती ॥ ११॥
त्रिवेणीसङ्गमो यत्र तीर्थराजो स उच्यते । (तीर्थराजः)
तत्र स्नानं प्रकुर्वीत सर्वपापैः प्रमुच्यते ॥ १२॥
देव्युवाच -
कीदृशी खेचरी मुद्रा विद्या च शाम्भवी पुनः ।
कीदृश्यध्यात्मविद्या च तन्मे ब्रूहि महेश्वर ॥ १३॥
शिवोवाच -
मनः स्थिरं यस्य विनावलम्बनं वायुः स्थिरं यस्य विनानिरोधनम् । (वायुः स्थिरो)
दृष्टिस्स्थिरा यस्य विनावलोकनं सा एव मुद्रा विचरन्ती खेचरी ॥ १४॥
बालस्य मूर्खस्य यथैव चेतः स्वप्नेन हीनोऽपि करोति निद्रा । (निद्राम्)
ततो गतः पथो निरावलम्बः सा एव विद्या विचरन्ती शाम्भवी ॥ १५॥ (यथो) (निद्रावलम्ब ?)
देव्युवाच -
देवदेव जगन्नाथ ब्रूहि मे परमेश्वर ।
दर्शनानि कथं देव भवन्ति च पृथक्पृथक् ॥ १६॥
शिवोवाच -
त्रिदण्डी च भवेद्भक्तो वेदाभ्यासरतः सदा ।
प्रकृतिवादरत: सक्तो बौध्य: शून्येतिवादिनः ॥ १७॥ (प्रकृतिवादरताः शाक्ता बौद्धा शून्यातिवादिनः)
अतोर्ध्वं गमिनो जीवाः तत्त्वज्ञोऽपि तादृशः । (अतोर्ध्वं गामिनो ये वा तत्त्वज्ञा अपि तादृशाः)
सर्वं नास्तीति चार्वाका जल्पन्ति विषयाश्रिताः ॥ १८॥ (विषयेस्थिताः)
उमा पृच्छति हे देव पिण्डब्रह्माण्डलक्षणम् ।
पञ्चभूत कथं देव गुणाः के पञ्चविंशतिः ॥ १९॥ (पञ्चभूतं)
शिवोवाच -
अस्थि मांसं नखं चैव त्वग्लोमानि च पञ्चमम् । (त्वङ्लोमानि? नखं चैव च पञ्चमम्)
पृथ्वी पञ्चगुणा प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २०॥
शुक्रशोणितमज्जा च मल मूत्रं च पञ्चमम् । (मलं)
अपां पञ्चगुणा प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २१॥ (पञ्चगुणाः)
निद्रा तृषा क्षुधा चैव क्लान्तिरायुष्य पञ्चकम् । (क्षुधा तृषा) (क्लान्तिरालस्यपञ्चमम्)
तेजः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २२॥
धारणं चालनं क्षेपं सङ्कोचं प्रसरं तथा ।
वायो पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २३॥ (वायोः)
कामं क्रोधं तथा मोहं लज्जा लोभञ्च पञ्चमम् ।
नभः पञ्चगुणः प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २४॥ (पञ्चगुणाः)
आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः ।
रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही ॥ २५॥
मही विलीयते तोयं रवौ तोयं विलीयते । (मही विलीयते तोये तोयं विलीयते रवौ)
रविर्विलीयते वायौ वायुर्विलीयते तु खे ॥ २६॥
पञ्चतत्त्वाद्भवेत्सृष्टिस्तत्त्वात्तत्त्वे वीलीयते । (पञ्चतत्त्वाद्भवेत्सृष्टिस्तत्त्वात्तत्त्वं)
पञ्चतत्त्वात्परं तत्त्वं तत्त्वातीतं निरञ्जनम् ॥ २७॥
स्पर्शनं रसनं चैव घ्राणं चक्षुश्च श्रोत्तरम् । (श्रोत्रकम्)
पञ्चेन्द्रियमिदं तत्त्वं मनोसाधनमिन्द्रियम् ॥ २८॥ (मनः साधकमिन्द्रियम्)
ब्रह्माण्डलक्षणं सर्वं देहमध्ये व्यवस्थितम् ।
साकारास्य विनश्यन्ति निराकारो न नश्यति ॥ २९॥ (साकाराश्च)
निराकारो मनो यस्य निराकारो शमो भवेत् । (निराकारं मनो यस्य निराकारसमो भवेत्)
तस्मात्सर्वप्रयत्नेन साकारं तु परित्यजेत् ॥ ३०॥
देव्युवाच -
आदिनाथ मयि ब्रूहि सप्तधातुः कथं भवेत् ।
आत्मा चैवान्तरात्मा च परमात्मा कथं भवेत् ॥ ३१॥
शिवोवाच -
शुक्रशोणितमज्जा च मेदो मांसं च पञ्चमम् ।
अस्थि त्वक्चैव सप्तै ते शरीरेषु व्यवस्थिताः ॥ ३२॥
शरीरं चैवमात्मानमन्तरात्मा मनोभवेत् ।
परमात्मा भवेच्छून्यं मनो यत्र विलीयते ॥ ३३॥
रक्तधातुर्भवेन्माता शुक्रधातुर्भवेत्पिता ।
शून्यधातोर्भवेत्प्राणो गर्भपिण्डं प्रजायते ॥ ३४॥ (शून्यधातुर्भवेत्प्राणो)
देव्योवाच -
कथमुत्पद्यते वाचा कथं वाचा विलीयते ।
वाक्यस्य निर्णयं ब्रूहि पश्य ज्ञानंमुदाहर ॥ ३५॥ (ज्ञानमुदाहर)
शिवोवाच -
अव्यक्ताज्जायते प्राणः प्राणादुत्पद्यते मनः ।
मनसोत्पद्यते वाचा मनो वाचि विलीयते ॥ ३६॥ (वाचा)
देव्युवाच -
कस्मिन्स्थाने वसेत्सूर्यो कस्मिन्स्थाने वसेच्छशिः । (वसेत्सूर्यः) (वसेच्छशी)
कस्मिन्स्थाने वसेद्वायुः कस्मिन्स्थाने वसेन्मनः ॥ ३७॥
शिवोवाच -
तालुमूले स्थितश्चन्द्रो नाभिमूले दिवाकरः ।
सूर्याग्रे वसते वायुश्चन्द्राग्रे वसते मनः ॥ ३८॥
सूर्याग्रे वसते चित्तं चन्द्राग्रे जीवितं प्रिये ।
एतद्युक्तिर्महादेवि गुरुवाक्येन लभ्यते ॥ ३९॥ (एतद्युक्तं महादेवि)
देव्योवाच -
कस्मिन्स्थाने वसेच्छक्तिः कस्मिन्स्थाने वसेच्छिवः ।
कस्मिन्स्थाने वसेत्कालो जरा केन प्रजायते ॥ ४०॥
शिवोवाच -
पाताले वसते शक्तिर्ब्रह्माण्डे वसते शिवः ।
अन्तरिक्षे वसेत्कालो जरा तेन प्रजायते ॥ ४१॥
देव्युवाच -
आहारं काङ्क्षते कोसौ भुञ्जते पिबते कथम् । (कोऽसौ)
जाग्रत्स्वप्नसुषुप्तौ च को वासौ प्रतिबुध्यते ॥ ४२॥ (वाऽसौ) (प्रतिबुध्यति)
शिवोवाच -
आहारं काङ्क्षते प्राणो भुञ्जतेऽपि हुताशनः ।
जाग्रत्स्वप्नसुषुप्तौ च वायु: स्वपितिबुध्यते ॥ ४३॥ (वायुश्च प्रतिबुध्यति)
देव्युवाच -
को वा करोति कर्माणि को वा लिप्यते पातकैः । (लिप्येत)
को वा करोति पापानि को वा पापैः प्रमुच्यते ॥ ४४॥
शिवोवाच -
मनः करोति पापानि मनो लिप्यते पातकैः ।
मनश्च तन्मनो भूत्वा न पुण्यैर्न च पातकैः ॥ ४५॥ (तन्मना, तन्मया)
देव्युवाच -
जीवः केन प्रकारेण शिवो भवति कश्चु स: । (कस्य च)
कार्यस्य कारणं ब्रूहि कथं किञ्च प्रसाधनम् ॥ ४६॥ (प्रसादनम्)
शिवोवाच -
भ्रान्तिबद्धो भवेज्जीवो भ्रान्तिमुक्तः सदाशिवः ।
कार्यं हि करणं तं च पुनर्बोध विशिष्यते ॥ ४७॥ (कारणं) (त्वञ्च पुनर्बोधो)
मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः । / ॥ ४८॥
इदं तीर्थमिदं तीर्थं भ्रमन्ति तामसा जनाः ॥ ४८॥ / ।
आत्मतीर्थं न जानन्ति कथं मोक्षो वरानने ॥ ४९/४८॥ (जानाति)
न वेदो वेदमित्याह वेद ब्रह्म सनातनम् । (न वेदं वेदमित्याहुर्वेदो)
ब्रह्मविद्यारतो यस्तु स विप्रो वेदपारगः ॥ ५०/४९॥
मन्थित्वा चतुरो वेदान्सर्वशास्त्राणि चैव हि । (मथित्वा)
सारं तु योगिनो पीत्वा तक्रं पिवन्ति पण्डिताः ॥ ५१/५०॥ (योगिभिः पीतं तक्रं पिबन्ति)
उच्छीष्टं सर्वशास्त्राणि सर्वा विद्या मुखे मुखे ।
नोच्छिष्टं ब्रह्मणो ज्ञानमव्यक्तं चिदनामयम् ॥ ५२/५१॥ (चेतनामयम्)
न तपस्तप इत्याहुर्ब्रह्मचर्यं तपोत्तमम् ।
ऊर्ध्वरेता भवेद्यस्तु स देवो न तु मानुषः ॥ ५३/५२॥
न ध्यानं ध्यानमित्याहुर्ध्यानं शून्यगतं मनः ।
तस्य ध्यानप्रसादेन सौख्यं मोक्षं न संशयः ॥ ५४/५३॥
न होमं होममित्याहु समाधौ तत्तु भूयते । (होममित्याहुः)
ब्रह्माग्नौ हूयते प्राणं होमकर्म तदुच्यते ॥ ५५/५४॥
पापकर्म भवेद्भव्यं पुण्यं चैव प्रवर्तते ।
तस्मात्सर्वप्रयत्नेन तद्द्रव्यं च त्यजेद्बुधः ॥ ५६/५५॥ (ताद्रूप्यं)
यावद्वर्णं कुलं सर्वं तावज्ज्ञानं न जायते ।
ब्रह्मज्ञानपदं गत्वा सर्ववर्णविवर्जितः ॥ ५७/५६॥ (ज्ञात्वा)
देव्युवाच -
यत्त्वया कथितं ज्ञानं नाहं जानामि शङ्कर ।
निश्चयं ब्रूहि देवेश मनो यत्र विलीयते ॥ ५८/५७॥
शिवोवाच -
मनो वाक्यं तथा कर्म त्रितयं यत्र लीयते । (तृतीयं?)
विना स्वप्नं यथा निद्रा ब्रह्मज्ञानं तदुच्यते ॥ ५९/५८॥
एकाकी निस्पृहः शान्तश्चिन्तानिद्राविवर्जितः । (शान्तश्चिन्ताविवर्जितः)
बालभावस्तथा भाव ब्रह्मज्ञानं तदुच्यते ॥ ६०/५९॥ (भावो)
श्लोकार्धं तु प्रवक्ष्यामि तदुक्तं तत्त्वदर्शिभिः । (यदुक्तं)
सर्वचिन्तापरित्यागो निश्चिन्तो योग उच्यते ॥ ६१/६०॥
निमिषं निमिषार्द्धं वा समाधिमधिगच्छति ।
शतजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ ६२/६१॥ (तत्क्षणात्देवि)
देव्युवाच -
कस्या नाम भवेच्छक्तिः कस्य नाम भवेच्छिवः । (कस्य नाम भवेच्छक्तिः)
एतन्मे ब्रूहि भो देव पश्यज्ञानं प्रकाशय ॥ ६३॥ (पश्चाज्ज्ञानं)
शिवोवाच -
चलच्चित्ते वसेच्छक्तिः स्थिरचित्ते वसेच्छिवः ।
स्थिरचित्ते भवेद्देवि स देहस्थोऽपि सिध्यति ॥ ६४॥ (स्थिरचित्तो)
देव्युवाच -
कस्मिन्स्थाने त्रिधा शक्तिः षट्चक्रं च तथैव च ।
एकविंशतिब्रह्माण्डं सप्तपातालमेव च ॥ ६५॥
शिवोवाच -
ऊर्ध्वशक्तिर्भवेत्कण्ठः अधशक्तिर्भवेत्गुदः ।
मध्यशक्तिर्भवेन्नाभिः शक्त्यतीतं निरञ्जनम् ॥ ६६॥
आधारं गुह्यचक्रं तु स्वाधिष्ठानं च लिङ्गकम् ।
चक्रभेदं मयाख्यातं चक्रातीतं नमो नमः ॥ ६७॥
कायोर्ध्वं च ब्रह्मलोकस्वधः पातालमेव च । (ब्रह्मलोकः स्वाधः, ब्रह्मलोकः स्वाधाः)
ऊर्ध्वमूलमधःशाखं वृक्षाकारं कलेवरम् ॥ ६८॥ (ऊर्ध्वमूलमधःसाग्रं ?)
देव्युवाच -
शिव शङ्कर ईशान ब्रूहि मे परमेश्वर ।
दशवायु कथं देव दशद्वाराणि चैव हि ॥ ६९॥ (दशवायुः)
शिवोवाच -
हृदि प्राणः स्थितो वायुरपानो गुदसंस्थितः ।
समानो नाभिदेशे तु उदानः कण्ठसंस्थितः ॥ ७०॥ (कण्ठमाश्रितः)
व्यानः सर्वगतो देहे सर्वागात्रेषु संस्थितः ।
नाग ऊर्ध्वोगतो वायुः कूर्मस्तीर्थानि कूर्म्मोस्तीर्थानि संस्थितः ॥ ७१॥ (ऊर्ध्वगतो) (कूर्म्मोस्थीनि, कूर्म तीर्थानि)
कृकरः क्षोभिते चैव देवदत्तोऽपि जृम्भणे । (क्रकरः)
धनञ्जयो नादघोषे निविशेच्चैव सन्मतिः॥ ७२॥ (शाम्यति)
एते वायुनिरालम्ब योगिनां योगसम्मतः । (एष, एवं) (वायुर्निरालम्बो)
नवद्वारं च प्रात्यक्षं दशमं मन उच्यते ॥ ७३॥
देव्युवाच -
नाडीभेदं च मे ब्रूहि सर्वगात्रेषु संस्थितम् ।
शक्तिः कुण्डलिनी चैव प्रसूते दशनाडिका ॥ ७४॥ (प्रसूता)
शिवोवाच -
ईडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी ।
गान्धारी हस्तिजिह्वा च प्रसवा गमनायता: ॥ ७५॥ (गमनायता)
अलम्बुषायशा चैव दक्षिणाङ्गे च संस्थिताः । (अलम्बुसा)
कुलश्च शङ्खिनी चैव वामाङ्गे च वपो:स्थिता ॥ ७६॥ (व्यवस्थिताः)
एतासु दशनाडीषु नानानाडीप्रसूतिका: । (नानानाडीप्रसूतिका)
द्विसप्ततिसहस्राणि शरीरे नाडिकाः स्मृताः ॥ ७७॥
एता यो विन्दते देवी स योगी योगलक्षणः ।
ज्ञाननाडी भवेद्देवी योगिनां सिद्धिदायिनी ॥ ७८॥
देव्युवाच -
भूतनाथ महादेव ब्रूहि मे परमेश्वर ।
त्रयो देवा: कथं देव त्रयो भावास्त्रयो गुणाः ॥ ७९॥ (त्रयो देवा, त्रयदेवा:)
शिवोवाच -
रजोभावस्थितो ब्रह्मा सत्त्वभावस्थितो हरिः । (सत्वभावस्थितो)
क्रोधभावेस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः ॥ ८०॥ (क्रोधभावस्थितो)
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
नानाभावं मनो यस्य तस्य मुक्तिर्न जायते ॥ ८१॥
वीर्यरूपी भवेद्ब्रह्मा वायुरूपः स्थितो हरिः ।
मनोरूपी स्थिता रुद्रस्त्रयो देवास्त्रयो गुणाः ॥ ८२॥ (मनोरूपः स्थितो)
दयाभावेस्थितो ब्रह्मा शुद्धभावस्थितो हरिः । (दयाभावस्थितो)
अग्निभावस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः ॥ ८३॥
एकं भूतं परं ब्रह्म जगत्सर्वं चराचरम् ।
नानाभावे मनो यस्य तस्य मुक्तिर्न जायते ॥ ८४॥ (नानाभावं मनो)
अहं सृष्टिरहं कालोऽप्यहं ब्रह्माऽप्यहं हरिः ।
अहं रुद्रोऽप्यहं शून्यमहं व्यापी निरंतरम् ॥ ८५॥ (निरञ्जनम्)
अहं सर्वात्मकं देवि निष्कामो गगनोपमाः । (सर्वात्मको)
स्वभावो निर्मलं शान्तं सैवाहं न संशयः ॥ ८६॥ (स्वभाव) (स्वान्तं) (स एवाहं)
जितेन्द्रियो भवेच्छूरो ब्रह्मचारी स पण्डितः । (भवेत् सुरो) (सुपण्डितः)
सत्यवादी भवेद्भक्तो दाता धीरो हितेरतः ॥ ८७॥
ब्रह्मचर्यं तपोमूलं धर्ममूला दया स्मृता । (ब्रह्मचर्य्यं)
तस्मात्सर्वप्रयत्नेन दयाधर्मं समाश्रयेत् ॥ ८८॥
देव्युवाच -
योगेश्वर जगन्नाथ उमायाः प्राणवल्लभ ।
वेदसन्ध्या तपो ध्यानं होमकर्म कुलं कथम् ॥ ८९॥
शिवोवाच -
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ब्रह्मज्ञानसमं पुण्यं कलां नार्हंति षोडशीम् ॥ ९०॥ (नार्हति)
सर्वदा सर्वतीर्थेषु यत्फलं लभते शुचिः ।
ब्रह्मज्ञानसमं पुण्यं कलां नार्हंति षोडशीम् ॥ ९१॥ (नार्हति)
न मित्रं न च पुत्रश्च न पिता न च बान्धवाः । (पुत्राश्च)
न स्वामी च गुरोस्तुल्यं यद्दृष्टं परमं पदम् ॥ ९२॥ (नयश्यामी ?)
न च विद्यागुरोस्तुल्या ना तीर्थं न च देवताः । (विद्यागुरोस्तुल्यं न) (नातिथ्यं ?)
गुरोस्तुल्यं न वै कोऽपि यद्दृष्टं परमं पदम् ॥ ९३॥
एकमप्यक्षरं यस्तु गुरु शिष्ये निवेदनम् । (गुरुः) (निवेदयेत्)
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चा नृणो भवेत् ॥ ९४॥ (चानृणी)
यस्य कस्य न दातव्यं ब्रह्मज्ञानं सुगोपितम् ।
यस्य कस्यापि भक्तस्य सद्गुरुस्तस्य धीयते ॥ ९५॥ (दीयते)
मन्त्रं पूजां तपो ध्यानं होमं जप्यं बलिक्रिया । (बलिक्रियाम्)
संन्यासं सर्वकर्माणि लौकिकीनी त्यजेद्बुधः ॥ ९६॥ (लौकिकानि)
संसर्गाद्बहवो दोषा: निःसङ्गाद्बहवो गुणाः । (दोषा)
तस्मात्सङ्गप्रयत्नेन यति सङ्गं परित्यजेत् ॥ ९७॥ (तस्मात् सर्वप्रयत्नेन) (यतिः)
अकारः सात्त्विको ज्ञेय उकारो राजसः स्मृतः ।
मकारस्तामसः प्रोक्तस्त्रिभिः प्रकृतिरुच्यते ॥ ९८॥
अक्षरा प्रकृतिः प्रोक्ता अक्षरः स्वयमीश्वरः । (रक्षरः ?)
ईश्वरानिर्गता सा हि प्रकृतिर्गुणबन्धना ॥ ९९॥ (ईश्वरान्निर्गता)
सा माया पालिनी शक्तिः सृष्टिसंहारकारिणी ।
अविद्या मोहिनी या सा शब्दरूपा यशस्विनी ॥ १००॥
अकारश्चैव ऋग्वेद उकारो यजुरुच्यते ।
मकारः सामवेदस्तु त्रिषु युक्तोऽप्यथर्वणः ॥ १०१॥
ओङ्कारस्तु प्लुतो ज्ञेयस्त्रिनाद इति संज्ञितः ।
अकारस्त्वथ भूर्लोक उकारो भुवरुच्यते ॥ १०२॥ (भुव उच्यते)
सव्यञ्जन मकारस्तु स्वर्लोकस्तु विधीयते । (सव्यञ्जनो)
अक्षरैस्त्रिभिरेतैश्च भवेदात्मा व्यवस्थितः ॥ १०३॥
अकारः पृथिवी ज्ञेया पीतवर्णेन संयुता । (संयुतः)
अन्तरिक्ष उकारस्तु विद्युद्वर्ण इहोच्यते ॥ १०४॥ (अन्तरीक्षं ?)
मकारः स्वरिति ज्ञेया शुक्लवर्णेन संयुतः । (ज्ञेयः)
ध्रुवमेकाक्षरं ब्रह्म ॐ इत्येवं व्यवस्थितम् ॥ १०५॥
(स्थिरासनो भवेन्नित्यं चिन्तानिद्राविवर्जितः । (चिन्तानिद्राव्यवस्थितः)
आसु सञ्जायते योगी नान्यथा शिवभाषिते ॥ १०६॥ (स जायते) (शिवभाषितम्)
य इदं पठते नित्यं शृणोति च दिने दिने ।
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ १०७॥)
देव्युवाच -
स्थूलस्य लक्षणं ब्रूहि कथं मनो विलीयते ।
परमार्थं च निर्वाणं स्थूलसूक्ष्मस्य लक्षणम् ॥ १०८/१०६॥
शिवोवाच -
येन ज्ञानेन हे देवि विद्यते न च किल्बिषम् । (किल्बिषी)
पृथिव्यापस्तथा तेजो वायुराकाशमेव च । / ॥ १०८/१०७॥
स्थूलरूपी स्थितोऽयं च सूक्ष्मं च अन्यथा स्थितिः ॥ १०९/१०८॥ (स्थितः)
(स्थिरासनो भवेन्नित्यं चिन्तानिद्राविवर्जितः ।
आशु स जायते योगी नान्यथा शिवभाषितम् ॥ १०९॥
य इदं पठते नित्यं शृणोति च दिने दिने ।
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ११०॥)
॥ इति योगशास्त्रे हरगौरीसंवादे ज्ञानसङ्कलिनीतन्त्रं समाप्तम् ॥
Note for the reader(s):
(1) There are word and shloka-numbering
variations amongst the referenced publications.
(2) The two shlokas 106-107 are placed
in the end in some publications with
numbering adjusted. The ones given in the
end (109-110) are in accordance with the
meaning of these shloka.
The original text is
from Muktabodha Indological Research Institute
www.muktabodha.org
Data entered by the staff of Muktabodha under
the direction of Mark S. G. Dyczkowski.
Revised and proofread by Ruma Dewan