आयाहि रे ! आयाहि रे !
नायकः -आयाहि रे ! आयाहि रे ! आयाहि रे !
विहायसि सराग-रश्मि-चन्द्रमाः
तनोति सान्द्र-रोचि-मञ्जु-चन्द्रिकाः
सिन्धुरावघोषिताः रोदसीकन्दराः
यान्तु यानपात्रचालकाः सधीवराः ॥ १॥
अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे ! या.अ.अहि ॥
नायकः - चन्द्रहासमज्जिता तामसी प्रिया
सर्व-देह-कान्ति-पुञ्ज-मञ्जु-वल्गना ।
निश्चला विभासते तारलोचना
यान्तु यानपात्रचालकाः सधीवराः ॥ २॥
अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे ! या.अ.अहि ॥
नायकः - सागरेण चुम्बिता चन्द्रिका मुदा
राजते विलास-हास-लास्य-चित्रिता
रागिणीव भासते रागरञ्जिता
यान्तु यानपात्रचालकाः सधीवराः ॥ ३॥
अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे ! या.अ.अहि
- श्री परीक्षित् शर्मा
Encoded and proofread by Shubha shubhazero at gmail.com