शिशु-अनन्तदासः
लेखकः - नन्दप्रदीप्तकुमारः
शिशु-संप्रदायस्य प्रतिष्ठाता शिशु-अनन्तः ``पञ्चसखा'' गोष्ठीषु सर्वकनिष्ठत्वेन परिगणितः । अयं महात्मा १४८६ ख्रीष्टाब्दे पुरी जिल्लायाः ``बालिपाटणा'' नामके स्थाने एकस्मिन् करण परिवारे अजायत । केचन अस्य जन्मस्थानं कौणार्कभूमौ अभवदिति कथयन्ति, तन्मृग्यम् । अस्य पिता कपिल महान्तिः माता च गौरी देवी आस्ताम् । तदुक्तम् ईश्वरदासेन चैतन्यभागवते-
``कपिल महान्ति ता नाम । ताहार पुत्र अनुपम ॥
अनन्त माहान्ति बोलाइ । कोठ करण होइथाइ ॥ ''
भुवनेश्वरस्थितः ``खण्डगिरि'' स्थानमस्य महात्मनः साधनपीठ आसीत् । किम्बदन्ती आसीत्सः सूर्यदेवादेशेन पुरीं गत्वा चैतन्यात् दीक्षां प्रगृह्य एकाक्षर-सूर्यमन्त्रं प्राप्तवान् । तस्मात् सहस्रश्लोकानपि प्राप्तवान् ।
शिशु अनन्तः प्रख्यातो योगी आसीत् । योगशक्त्या शिशुः भूत्वा सः देव्याः महालक्ष्म्याः कोलमण्डनं चकार । अनया योगविभूत्या सन्तुष्टः सन् स्वयं देवाधिदेवो जगन्नाथस्तस्मै शिशु-उपाधिं दत्तवान् इति कर्णाकर्णिकया श्रुत्या ज्ञायते । अयं सम्बादः ईश्वरदासकृत-चैतन्यभागवतात् प्रमाणीक्रियते । यच्चोक्तम्-
``शिशु रूपरे मोते भ्रम । अनन्त शिशु तोर नाम ॥
पृथिवी येते दिन थिव । तो नाम विख्यात होइव ॥ '' इति ।
अनन्तदासस्य बहवो ग्रन्था आसन् । तेषु हेतु उदय भागवतं, चुम्बक मालिका, अणाकार शवद, भवमुक्तिदायक गीता, अर्थतारिणी, भजनतत्त्वम्, मन्त्रचन्द्रिका, गरुड-केशव संम्बादः, पिण्ड-ब्रह्माण्ड गीता, ठिक बाखरः, उदे बाखरः, छाट बाखरः, आगत भविष्यः, पद्मवन रासः, ठुल शून्यरासः, यन्त्रटीका, धामछत्रम्, वैष्णव पुराणम्, शिशुमन्त्रविचारादयः प्रसिद्धाः वर्तन्ते ।
अनन्तदासस्य बहु शिष्या आसन् । शिशु अर्जुन दासः, शिशु वनमालि दासः, शिशु शंकर दासः, शिशु प्रताप रायः एवं शिशु दयानिधि दासप्रमुखाः मूर्द्धन्याः सन्ति । एते सर्वे शिशु संप्रदायेषु अन्तर्भुक्ता भवन्ति ।
``पञ्चसखा'' इति कल्पना ओडिआ साहित्यस्य बलिष्ठा परंपरा । अयं विशालः फलपुष्पयुक्त-पनसवृक्षरूपेण परिगणितः कदाचित् । वृक्षस्यात्मा स्वयं जगन्नाथः । द्रष्टा श्रीचैतन्यः । तथाहि-
``जगन्नाथ दास शुणिले । मञ्जिरूपी वृक्ष स्थापिले ॥
प्रभुंकु कले सुमरण । बालुत वृक्ष कले पुण ॥
बालुत वृक्षकु बलराम । कले युवा डाल पत्रेण ॥
मो आज्ञा पाइ वृक्ष तोष । वौले फलिला पणस ॥
अच्युत आज्ञारे पणस । वृक्षरे पाचिण अवश्य ॥
आज्ञा प्रमाणे वृक्ष पुण । भूमिकु ओहलि पडिण ॥
पणस तोलि शिशु नेइ । चैतन्य पारुशे दिऐ ॥
पक्व पणस चैतन । भांगिण वाण्टिले आपण ॥ '' इति । इदं सुवासितं सुन्दरतमं मधुरफलं षोडशशताब्द्याः आरभ्य अद्यावधि सर्वत्र सादु भोजनरूपेण प्रतिभाति ।
``हेतूदय भागवतम्'' अनन्तदासस्य कृतिषु अन्यतमम् । अस्मिन् ग्रन्थे पिण्ड ब्रह्माण्डतत्त्वम्, काया साधनम्, जगन्नाथस्य बुद्धरूप स्वीकारः, शरीरे जगन्नाथस्य अवस्थितिः एवं राधाकृष्णयोः जीवात्म-पपरमात्म रूपेण वर्णनं मिलति । यच्चोक्तं-
``श्रीराधाकृष्ण वेनि जन । जीव परम रूपे जाण ॥ '' इति । अनयोः राधाकृष्णयोरवस्थानं धवलांगद्वीपे वर्तते । गोपीभक्तेः निदर्शन स्वरूपेण केवलं कामिनी भावेन हि कृष्णप्राप्तिर्जायते । अपि च तत्र- ``कामिनी गणे आभासै । पुरुष लेश तहिं नांहि ॥ '' इति प्रेमभक्तेः पराकाष्ठा वर्णिता । सृष्टिप्रक्रिया चात्र- आदौ ओंकारः । तस्मादाकाशः । आकाशात् विन्दुः । विन्दोः मनः । मनसो माया । मायायाः सत्यम् । सत्यात् विराड् इति समुत्पद्यन्ते ।
हेतूदय-भागवते आदौ गुरुतत्त्वं वर्णितम् । गुरुः सर्वेषां जीवानां समुद्धरकर्ता । तं विना मुक्तौ नाधिकारो वर्तते । शिष्यस्य जिज्ञासा बहुविधा अस्ति । आदौ शास्त्र श्रवणम् । तत्तु -
``यदि शुणै मूढपणे । वधिर जन्म अकारणे ।
यदि शुणै ममतारे । असुर जन्म लभे नरे ।
यदि शुणै अहं गुणे । नर्क भोजन अनुदिने ।
ये शुणि करे उपहास । नर्करे जन्म ता अवश्य । ''
अपि चात्र-
``येवण जन ए दीक्षाकु । विख्याति कहै आनकु ।
एमन्ते सात जन्म गले । पुणि जन्मै भाट घरे ।
भाट वनिता पणे पुन । दिन वञ्चै अनुदिन ।
एहि मतरे दिन जाइ । जीव उद्धरि न पारै ।
येउं गुपत गुरुवाणी । विख्यात कला मूढ प्राणी ।
तेणु पाइला सेहु फल । जन्म लभिला भाट कुल ।
गुरु ये शिष्यंक विचार । अन्यकु दिशे अन्धकार ॥ '' इति गुरोः तत्त्वश्रवणविधानं वर्णितम् ।
``असाधन-मार्गः'' अथवा अजपाजपविधिः अनन्तदासस्य महती साधना वर्तते । अवनाक्षर-जपेन कोटिजन्मस्य पापं विधौति इति तस्य नय आसीत् । अयं मार्गः न केनापि साधनकोटिषु अन्तर्भुक्तः । तस्मादसाधनमार्गत्वेन परिगणितः स्वीकृतश्च । तथाहि-
``दन्त ओष्ट न हलिब शिर कण्ठ न कम्पिब ।
मन्त्र यन्त्र नांहि तंहि देखिव ब्रह्मस्वरूप ॥ '' इति समर्थयति दादु महाराजः-
``नैनविन देखिवा अंगविन पेखिवा ।
रसनविन वोलिबा ब्रह्म सेती ।
श्रवन् विन शुणिवा चरण विन चालिवा
चित्त विन चेतिवा सहज एति । '' इति अतिन्द्रिय मार्गेण ब्रह्मसाक्षात्कारः सम्भव इति निष्कर्षः । तीर्थ्व्रतादिकमपि न साधनमार्गे सहायका भवन्ति । शरीरमेव सकलसाधन स्थलम् । सुस्थे शरीरे सकलाः साधनाः सिध्यन्ति । तस्मात्पिण्डब्रह्माण्डसाधनं सर्वश्रेष्ठम् । यतो हि -
``न या तीर्थ व्रत करि । हृदे जप राम हरि ।
कहन्ति अनन्त शिशु तरिवु ए भवकु---- ॥ '' इति नामस्मरणस्य सर्वित्कृष्टा साधना उक्ता । रा म अथवा ह रि इति संयुक्ताक्षर-स्मरणं नक्तन्दिवं कार्यम् । तद्व्यतिरिक्तं द्वितीयो मार्गो नावशिष्यते । तथाहि-
``ए वेनि अक्षर येवे एकत्र होइव । हरि वोलि करि नाम हृदरे बुणिव ।
हरि उदे हेउछन्ति न जाणन्ति केहि । कहन्ति अनन्त शिशु हरीन्द्रकु ध्यायी ॥ '' इति सर्वं हरिमयं जगदिति सप्रमाणं निगदितं तेन । साधनसिद्धः अनन्तदासस्य आसीत् जगन्नाथे प्रगाढो विश्वासः । परम-भागवतोत्तमस्य श्रीहरेर्विशुद्धभक्तिं प्राप्तुं तेन सर्वादौ चेष्टितः । सफलीकृतश्च । जय जगन्नाथ ।
सहायक ग्रन्थाः
१- पञ्चसखा ओडिआ साहित्य-अध्यापकः देवेन्द्र महान्तिः
२- सन्थ भक्ति साहित्य-चित्तरंजन दासः
३- कृष्णचन्द्र साहु रचनासम्भार ५ भाग
४- ओडिआ स्नातक पाठ्यक्रमः- Odisha state open university, sambalpur
५- ओडिआ साहित्यर इतिहास- डाॅ वंशीधर महान्तिः
६- ओडिआ साहित्यर आदिपर्व- सुरेन्द्र महान्तिः
७- ओडिआ साहित्यर इतिहास- पं सूर्यनारायण दासः
८- ओडिआ साहित्यर सांस्कृतिक विचारधारा- चित्तरंजन दासः
९- ओडिशार धर्मधारारे पञ्चसखा परिकल्पना- डाॅ नटवर सामन्त रायः
१०- महापुरुष परिचय ओ बाणी- निमांइ चरण दासः
११- wikipidia org
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com