भारतं विभारतम्
भारतं विभा-रतम्, अविरतं नमाम तम् ।
देशमात्म-गौरवं चिर-नवं दधाम तम् ॥ (ध्रुवम्)॥
भारतीय-चेतना, एकता-निकेतना ।
विश्व-विदित-दर्शना, हृदय-दिव्य-भावना ।
शोभितं सुगर्भितं सुरभितं महाव्रतम्,
देशमात्म-गौरवं चिर-नवं दधाम तम् ॥ १॥
भ्रातृ-भाव-भास्वरा, बन्धुरा वसुन्धरा ।
भारती ऋतम्भरा, सम्पदां परम्परा ।
पावनं तपोवनं स्व-भुवनं समुन्नतम्,
देशमात्म-गौरवं चिर-नवं दधाम तम् ॥ २॥
दिग्-दिगन्त-नर्त्तिता, यस्य भव्य-मूर्त्तिता ।
सार-तत्त्व-कीर्त्तिता, जन-हिते प्रवर्त्तिता ।
पूजितं सभाजितं रिपुजितं नमाम तम्,
निर्भयं नुमो वयं मधुमयं दधाम तम् ।
देशमात्म-गौरवं चिर-नवं नमाम तम्,
चिर-नवं दधाम तम् ॥ ३॥
-- गीति-रचना : डाॅ हरेकृष्ण-मेहेरः
(``पुष्पाञ्जलि-विचित्रा ''- काव्यतः)
Copyright Dr.Harekrishna Meher