भारतजनताऽहम्
अभिमानधना विनयोपेता शालीना भारतजनताऽहम् ।
कुलिशादपि कठिना कुसुमादपि सुकुमारा भारतजनताऽहम् ॥ १॥
निवसामि समस्ते संसारे मन्ये च कुटुम्बं वसुन्धराम् ।
प्रेयः श्रेयः च चिनोम्युभयं सुविवेका भारतजनताऽहम् ॥ २॥
विज्ञानधनाऽहं ज्ञानधना साहित्यकला-सङ्गीतपरा ।
अध्यात्मसुधातटिनी-स्नानैः परिपूता भारतजनताऽहम् ॥ ३॥
मम गीतैर्मुग्धं समं जगत्, मम नृत्यैर्मुग्ध समं जगत् ।
मम काव्यैर्मुग्धं समं जगत्, रसभरिता भारतजनताऽहम् ॥ ४॥
उत्सवप्रियाऽहं श्रमप्रिया, पदयात्रा-देशाटन-प्रिया ।
लोकक्रीडासक्ता वर्धेऽतिथिदेवा, भारतजनताऽहम् ॥ ५॥
मैत्री मे सहजा प्रकृतिरस्ति, नो दुर्बलतायाः पर्यायः ।
मित्रस्य चक्षुषा संसारं, पश्यन्ती भारतजनताऽहम् ॥ ६॥
विश्वस्मिन् जगति गताहमस्मि, विश्वस्मिन् जगति सदा दृश्ये ।
विश्वस्मिन् जगति करोमि कर्म, कर्मण्या भारतजनताऽहम् ॥ ७॥
लेखकः - श्रीमान् रमाकान्तशुक्लःभारतजनताऽहं