भाररमाता बुधजनगीता
भारतमाता बुधजनगीता
निर्मलगङ्गाजलपूता ॥
शिरसि विराजित-हिमगिरिमुकुटं
चरणे हिन्दु-महोदधि-सलिलं
जघने सस्य-लता-तरु-वसनं
जय भारतजननी ॥
ॠषिवर-घोषित-मन्त्र-पुलकिता
कविवर-गुम्फित-पावन-चरिता
धीर-वीर-नृप-शौर्य-पालिता
जय भारतजननी ॥
मम मनसि सदा तव पदयुगलं
संस्कृत-संस्कृति-सतत-चिन्तनं
भाव-राग-लय-ताल-मेलनं
जय भारतजननी ॥
Encoded and proofread by Shubha shubhazero at gmail.com