श्रीभक्तिसंवर्धनशतकम्
पूर्वभागः
जातं जातं खलु जगदहो चित्रमेतत् समस्तं
क्षीणं क्षीणं मुहुरपि परादृश्यते यत्प्रभावात् । (मृश्यते)
तस्मै साक्षात् स्वरसपरमानन्दवीचीमयाय
ब्रह्माख्याय त्रिभुवनपते देव तुभ्यं नमोऽस्तु ॥ १॥ (ब्रह्मण्याय)
जीवात्मा यद्भ्रमति बहुशोऽप्यत्र संसारचक्रे
तत्त्वन्मायाविलसितमतः प्राञ्जलिः प्रार्थयेऽहम् ।
मामानाहं जगति भगवन् जन्म सम्पद्यते चेत् (मायाद्यीनं जगति)
कर्माभ्यर्हं भवतु भवनाधीश मानुष्यमेव ॥ २॥
चातुर्वर्ण्यप्रभृतिविभिदामुद्रिते मानुषं चेत् ।
ब्रह्मण्याय स्पृहयति जगन्नाथ नित्यं जनोऽयम् ।
तत्राकुर्वन्नमृतमशुभं कर्म कुर्वन्नकामं
भक्तो भूयाद्भवतु भगवन् मार्गयन् मुक्तिमार्गम् ॥ ३॥
बन्धः कर्मण्यथ बहुविधे स्त्रीगुहायां प्रविष्टः
पुंसो रेतःकणशबलिते शोणिते वर्तमानः ।
विट्पङ्कोत्थैः कृमिभिरभितः ताडितः पीडितात्मा
यावत् सीदाम्यवशमरविन्दाक्ष तावत् प्रसीद ॥ ४॥
क्षारैरुष्णैरपि च कटुभिर्मातुराहारजातैः
उद्यद्बाधो जठरकुहरे सङ्कुचत्सङ्कुलाङ्गः ।
श्वासोच्छासेष्वहमतितरां क्लेशशाली यदा स्यां
गोविन्द त्वं प्रशमय तदा भक्तिभाजो ममार्तिम् ॥ ५॥
प्राचीनानामनुशयवतो जन्मनां कर्मणां च-
स्मारं स्मारं मनसि सहसा लब्धबोधोदयस्य ।
गर्भागारे रुधिरकृमिविण्मूत्रपूर्णे स्थितस्य
प्रादुर्भूयान्मधुविमथन त्वत्स्वरूपस्मृतिर्मे ॥ ६॥
मध्येगर्भाशयमत इतो भ्रान्तिमान् वर्तमानो
मासि प्राप्ते तदनु दशमे पूर्यमाणाखिलाङ्गः ।
व्यासेधेन व्यथितहृदयो रक्तजम्बालसिक्तो
वैकुण्ठ त्वां जननसमयप्राप्तखेदः स्मराणि ॥ ७॥
भूयो भूयः प्रसृमरकठोरामनस्यार्दिताया-
माक्रन्द्रन्त्यां प्रसवसमये स्रस्तगात्र्यां जनन्याम् ।
यन्त्रच्छिद्रात् सपदि विवृताद्दुःखतः सूतिवातै-
र्नीतिं जातं भुवि निपतितं पाहि मामार्तबन्धो ॥ ८॥
अद्भिः प्रक्षालितवपुरपि स्वच्छतां नोपगच्छन्-
मातुः स्तन्यं गलितमुपजातार्तिरास्वाद्य सद्यः ।
अस्वातन्त्र्यादधिकविमनाश्चेष्टितेष्वप्रवीणः
प्राप्तो मोहं मुहुरहमहो रक्षणीयोऽस्मि विष्णो ॥ ९॥
शीतोष्णाभ्यां प्रबलमरुता क्षुत्तृडार्तिप्रसक्त्या-
यूकादंशप्रभृतिभिरपि प्रत्यहं बाध्यमानः ।
आत्मोत्सृष्टैरविषहशकृन्मूत्रपङ्कैश्च लिप्तः
साक्रन्दोऽहं तव मुररिपो बालकः पालनीयः ॥ १०॥
दन्तोत्पत्तेः प्रथमममृदु प्रायमाहारजातं
भोक्तुं वाच्छन्ननिपुणतया दूयमानो निकामम् ।
यावत् क्रन्दाम्यहमतितरां दीनदीनः क्षुधार्तः
तावद्देव प्रसरतु मयि क्षिप्रमेकः कटाक्षः ॥ ११॥
उत्तिष्ठासुः कथमपि समुत्थापितो बालवर्गैः
मन्दं मन्दं किमपि चरणन्यासमाकाङ्क्षमाणः ।
नालम्भूष्णुर्झटिति पतितं निष्ठुरे भूमिपृष्ठे
यावन्मुह्याम्यजित भवता रक्षणीयोऽस्मि तावत् ॥ १२॥
क्रीडालौल्याद्गुरुभिरसकृत् प्रेरितः क्रूरवाग्भिः ।
विद्याभ्यासे प्रचकितमना हन्त शोचामि यावत् ।
यावद्दूये दशनपतनैः कर्णवेधेन चाहं
तावत् पीताम्बर तव कृपालोक एवावलम्बः ॥ १३॥
सस्नेहाभ्यां परवशतया पुष्यमाणः पितृभ्यां
क्रीडालौल्यप्रथितबहुचापल्यमुल्लङ्घय बाल्यम् ।
द्वैतीयीकं पुनरथ वयः प्राप्नुवन् दृप्तचित्तो
लक्ष्मीजाने तव पदयुगं विस्मरन् मास्म भूवम् ॥ १४॥
धर्माचारं दिनमनुपरित्यज्य विध्वस्तलज्जः
पापान्यापादयितुमुदितौद्धत्यमुद्योगशाली ।
अर्थापत्यप्रियसुतकलत्रादिसक्ताशयोऽहं
गर्हाभ्यर्तः सदसि विदुषां मा भवेयं मुरारे ॥ १५॥
आशापाशैर्निगलितमहन्ताग्रहग्राहकृत्त
स्वस्थावस्थापरिचयमनुष्ठाननिष्ठाविहीनम् ।
दृप्तं चित्तं मम कुरु तमोधाम कामभितप्तं
मा मा मग्नं नरकमथन स्त्रीविषाब्धौ दयाब्धे ॥ १६॥
त्यक्त्वा धैर्यं व्यपगतपरीपाकमुच्चैर्विपाकं
मुक्त्वा हित्वा सपदि च कृपां वाक्पटुत्वं च कृत्वा ।
क्रोधोद्वृत्तं भवति यदि मे ध्वस्ततत्त्वप्रबोधं
चित्तं चक्रायुध तव पदस्थास्नु कर्तव्यमेव ॥ १७॥
देहे मांसक्षत जभरिते रूपवत्ताभिमानात्
कञ्चित् कालं वपुषि मिलितो यौवनस्योदयाच्च ।
ऐश्वर्यादप्यहह सहसा नश्वरराद्विश्वमूर्ते
चित्तं मत्तं प्रचलति यदि त्वामृते का गतिर्मे ॥ १८॥
विद्यावत्त्वं द्रविणगुरुता पुत्रमित्रादिसौख्यं
कस्यापि स्याद्यदि सवयसः प्रायशो जायमानः ।
अन्तः सन्तापकृदविरतं मत्सरो दुःसहात्मा
मा मा नाथ प्रसभमभवं प्रश्र यस्यापनेता ॥ १९॥
यस्मिन् कस्मिन्नपि लघुतरे कार्यवस्तुन्यवस्थां
कालं देशं पुनरगणयन् द्रव्यजातं त्यजामि ।
यस्मात्क्षोभात् समुचितमपास्यामि धर्मं च तस्मात्
चेतो डम्भाद्विरमतु ममेत्यद्य याचे हरे त्वाम् ॥ २०॥
कञ्चिद् द्दष्ट्वा सपदि विपदे भर्त्सये तत्समक्षं
वेगाद्धावामि च पथि जले निष्पताम्युत्पतामि ।
किञ्चाहेतोर्मुहुरपि हसाम्युच्चकैर्यत्प्रभावात्
दर्पः सोऽयं न भवतु मम त्वत्प्रसादान्मुकुन्द ॥ २१॥
मातुर्वाक्यं पितुरपि निराकृत्य नित्यं गुरूणा-
माज्ञामुल्लङ्घय च गुरुतरान्नातिबिभ्यन्महद्भयः ।
अभ्यस्यन्नप्यविनयमहो स्त्रैण एव प्रवृत्तो
नाम त्वामप्यपरिगणयन् मा दिनान्येष नैषम् ॥ २२॥
बद्धोत्साहः प्रतिमुहुरसत्कर्मणे धर्मदारान्
दूरात्त्यक्त्वा रहसि परदारैः समं रन्तुकामः ।
निन्द्याकारोऽप्यतिजडमतिः सुन्दरम्मन्य एव
स्वेच्छाकारी मदनविवशो मा भवं देवदेव ॥ २३॥
वामां वामां कुटिलहृदयां काममात्मन्यकामा-
मागृह्णानः प्रणयचपलः कामतप्तान्तरात्मा ।
तत्ताद्दग्भिः कपटचरितैर्वञ्च्यमानस्तयाहं
योषित्क्रीडाकपिरिति विभो मापहास्येय सद्भिः ॥ २४॥
स्त्रीभ्यो दत्त्वा सकलमचिरात् स्वापतेयं स्वकीयं
दारिद्रैकः स्वयमनुदिनं जाड्यवान् पीड्यमानः ।
अन्यायेन द्रुतमथ परद्रव्यमप्याजिहीर्षु-
र्मैव श्रीवल्लभ दुरितमित्यार्जितं प्राज्यकीर्ते ॥ २५॥
मोहेनोपप्लुतमतिरतिक्रम्य तारुण्यमुद्रां
पापं कुर्वन् विषमविषयाकृष्टचित्तः प्रमत्तः ।
आधिव्याधिप्रभृतिभिरपि प्रत्यहं बाध्यमानः
कर्णाभ्यार्णाकलितवलितः त्वां विभो भावयानि ॥ २६॥
क्षुत्प्रक्षीणं निजमवाधीर्बिभ्रदेकः कुसुम्बं
नैष्णिञ्चन्यात्तमनभिलषन् मित्रवर्गादविन्दन् । (नैष्किञ्चन्यात्)
कर्माधीने वपुषि जरसा जर्जरे लज्जमानः
सत्संर्गे भवति भगवन् भक्तचित्तो भवानि ॥ २७॥
अस्वातन्त्र्यात् परमनिपुणः क्लेशलेशासहिष्णुः
पुत्रैर्दारैः सततरुदितैः सेर्ष्यमाभाष्यमाणः ।
शय्यापर्याकुलमधिशयारोहमुद्वृत्तलक्ष्मा
यावद्दूये मुरमथन ते नाम तावत् स्मराणि ॥ २८॥
कासश्वासप्रसरविधुरेऽजीर्णतापूर्णगात्रे
नेत्रश्रोत्रप्रभृतिकरणग्रामशक्त्या वियुक्ते ।
अस्पष्टाभिर्वदति विकृतं वाग्भिरुद्भूतपश्चा-
त्तापे जाते मयि सकरुणं वीक्ष्यतां तार्क्ष्यकेतो ॥ २९॥
अन्येनोत्थापितमकृपया शायितं जीर्णतल्पे
ललाजालं वदनकुहराद्भ्रष्टदन्ताद्वमन्तम् ।
कष्टं दष्टं वपुषि मशकैर्मत्कुणैर्मक्षिकाभि-
र्मुह्यन्तं मामजित कृपया पाहि पाहीति पाहि ॥ ३०॥
क्षुत्क्षामत्वाद्भृशतरमहो दुर्बलैः पुत्रदारैः
कष्टावस्थामहमुपगतोऽनास्थया रक्ष्यमाणः ।
शून्यागारेऽप्यपगतसुहृद्भुमिमावेष्टमानो
दुःखायिष्ये यदि बत जरन्माधव त्वं प्रसीद ॥ ३१॥
दुष्कर्माणि प्रबलतमसा जन्मनोपार्जितानि
स्मारं स्मारं निरयपतनं शश्वदुत्प्रेक्षमाणः ।
मृत्योर्बिभ्यन्नपि जरठतां निःसहो मर्तुमिच्छुः
त्वन्नामोच्चारणमगणयन्नेव मानाथभूवम् ॥ ३२॥
शय्याप्रान्ते सततमविदन्नेव मोमूत्र्यमाणो
मुक्त्वा भुक्त्वा बहुमलमनिर्वृत्तशौचः शयानः ।
श्वासायासव्यसनपरिपूर्णार्तिरासन्नमृत्युः
त्रातव्योऽहं तव विपवदस्थां गतः शार्ङ्घपाणे ॥ ३३॥
अत्यासन्ना बहुमृतिरमुष्येति शृण्वन् जनानां
वाचं घो रैर्घुरुघुरुरवैः क्लिष्टकण्ठः कफेन ।
क्षुभ्यत्प्राणः श्वसितरभसोद्धूतमर्मास्थिबन्धः
सोऽहं विष्णो जय जय मुकुन्देति वाणीं ब्रवाणि ॥ ३४॥
जञ्झावाते चलति तिमिरे वर्धमाने कठोरे
मेघेऽप्युच्चैः स्तनति सहसा कान्दिशीके जनौधे ।
द्यावाभूम्योर्विततवपुषः प्रेतराजस्य दूतान्
पश्यन्तं मां परमकृपण रक्ष पङ्केरुहाक्ष ॥ ३५॥
वृत्ताकारप्रचलनयनो ध्वान्तरौद्रानलानि
व्यादीर्णानि भ्रुकुटिविकटान्युग्रदंष्ट्रोद्भटानि ।
दृष्ट्वा दृष्ट्वा यमभटमुखान्याशु सन्त्रस्यतो मे
नाथ त्राता भव मृतिदशासङ्कटे पङ्कजाक्ष ॥ ३६॥
चक्रश्वासभ्रमितवपुषं मूत्रमप्युत्सृजन्तं
नेत्रोन्मेषं विदधतमकाण्डे च फेनायमानम् ।
आलोक्यालोक्य च यमभटानन्तरा वेपमानं
प्राणापायव्यसनसमये रक्ष मां चक्रपाणे ॥ ३७॥
क्षुद्रे सद्यस्तमकसहिते ब्रह्मवृत्तावसाने
श्वासोच्छिन्ने महति च चलत्यूर्ध्वमूर्धाभिधाने ।
देहाद् देहि मम विघटते यावदासाद्य तावत्
साक्षाद्भूयास्त्वमिति भगवन् प्रार्थये तीर्थपाद ॥ ३८॥
मर्मस्थानां प्रकृतिकठिने लोठतामस्थिकूटे
स्वस्थानेभ्यः कृतदृढतराघातमुद्घाटितानाम् ।
मत्प्राणानां विदधति यदा यातनादेहयोगं
मृत्योर्दूताः शिव शिव तदा पाहि मां पद्मनाभ ॥ ३९॥
हुङ्कुर्वद्भिः श्रवणपरुषं मुद्गरैस्ताड्यमानः
पाशैः पश्चात्कृतभुजयुगं गाढमाबद्धगात्रः ।
तुष्टैः कृष्टः पितृपतिभटैः कण्टकैनीर्यमानः
त्रातव्योऽस्मि प्रचुरकरुणावास ते वासुदेव ॥ ४०॥
छायाहीने विषमितपथे वीततोयप्रसङ्गे
सन्तप्ताभिर्भृशमत इतो वालुकाभिश्च पूर्णे ।
यावन्नीये विगतकरुणैः श्राद्धदेवस्य दूतैः
तावद्भक्ताभयद भगवन्नुत्तमश्लोक पाहि ॥ ४१॥
दुर्मार्गाया मरुमयभुवो योजनानां सहस्रं
वेगान्नीतः प्रहरणवरैः किङ्करैरङ्कुशेन ।
आज्ञां श्रोतुं तदनु पुरतो दर्शितो दण्डपाणेः
सन्त्रस्तोऽहं मनसि दयनीयोऽस्मि लक्ष्मीपते ते ॥ ४२॥
आहूयाग्रे स्वयमथ यमो लेखकं चित्रगुप्तं
पापान्याकर्ण्य च मम तदा हन्त तेनोदितानि ।
यावत्पापी चिरतरमयं दण्ड्यतामित्यकाण्डे
रोषादाज्ञापयति च जगन्नाथ रक्ष्योऽस्मि तावत् ॥ ४३॥
तामिस्राख्ये महति नरके रौरवेऽप्यन्धकूपे
पूयस्रोतस्यसकृदसिपत्राटवीनामधेये ।
लालाभक्ष्येऽप्यथ बहुविधे कष्टमन्यत्र यावत्
पात्ये तावत् परमपुरुष त्वं प्रसीद प्रसीद ॥ ४४॥
इष्टापूर्तिप्रभृतिसुकृतापादनात् स्वर्गसौख्यं
कञ्चित्कालं पुनरनुभविष्यामि यद्यप्युदारम् ।
न श्रद्धेयं न च खलु तथाप्येतदस्यावसाने
यज्जन्म स्यात् पुनरिति विभो मुक्तिकामों भवानि ॥ ४५॥
गन्धर्वा ये तुरगवदना ये च विद्याधरा ये-
सिद्धाः साध्या अपि बहुविधा ये च ये वा रणाश्च । (चारणाश्च)
ये केऽप्यन्ये दिशि दिशि नभोवर्त्मना सञ्चरन्ते
तेषां स्थाने न हि मम रतिर्नाथ नित्येतरत्वात् ॥ ४६॥
इन्द्रो वह्निः पितृपतिरथो यातुधानः प्रधान-
स्तोयानां च प्रभुरथ मरुत् किन्नरेशो महेशः ।
इत्यष्टौ ये दिवमधिवसन्त्येकशो लोकपाला-
स्तेभ्यो मे न स्पृहयति हृषीकेश मोक्षेच्छुरात्मा ॥ ४७॥
पूर्णैः पुण्यैरथ च दुरितैर्भूरिभिः सौख्यदुःखा-
न्येकैकस्मादनुभवति यज्जीवनामायमात्मा ।
तस्मादिच्छाम्युपशमविधानेन नैष्कर्म्यसिद्धिः
यस्मात् सिध्येत् परमममृतं देव कैवल्यनाथ ॥ ४८॥
अष्टाङ्गस्य स्वयमिह समारभ्य योगस्य योग्या-
सत्यस्याथ प्रकटितफलान्याशु कर्माण्यमूनि । (न्यभ्यस्याथ)
मोक्षप्राप्त्यै स्पृहयति मनो विस्मृताशेषसङ्ग-
स्त्वत्पादब्जस्मृतिमनुभवाम्येव लक्ष्मीनिवास ॥ ४९॥
त्वत्कं ध्यायन् मनसि सकलं निष्कलं च स्वरूपं
सर्वात्मत्वं त्वयि च कलयन् पूर्णभक्तिप्रपञ्चः ।
नामान्युच्चार्य च बहुविधान्यस्य चिन्ताविहीनः-
कैवल्यार्थी तव परमहं देव दासो भवामि ॥ ५०॥
॥ इति भक्तिसंवर्धनशतके पूर्वभागः सम्पूर्णः ॥
उत्तरभागः
जातः सत्यव्रतनुनृपतेरञ्जलौ वर्धमानः (नरपते)
कल्पाम्भोधौ विततसलिले क्लृप्तकेलीप्रचारः ।
तस्मै राज्ञे हितमुपदिशन् वेदमप्याददानो
मायामत्स्यस्त्वमिह मनसि स्मर्यसे विश्वनाथ ॥ ५१॥
पीयूषार्थं दिविषदसुरैरन्बुधौ मध्यमाने
मन्थाद्रौ च क्षुभितसलिलं याति पातालमूलम् ।
आदायैनं विपुलिमभृता कर्परेणोद्धरन्तं
चित्तेन त्वामजितकुहनाकच्छपं चिन्तयामि ॥ ५२॥
पारावारे प्रलयवितते चञ्चदूर्मिप्रपञ्चे
मग्नां पृथ्वीमनिभृतभृतौद्धत्यमुद्धर्तुकामः ।
मङ्क्षुर्मग्नः कुटिलशिखया दंष्ट्रया तां दधानः
क्रीडाक्रोडः कमलनयन त्वं मया चिन्त्यसेऽन्तः ॥ ५३॥
प्रह्लादस्य स्वपदयुगलीदत्तचित्तस्य हत्यै
सन्नद्धस्य त्रिभुवनरिपोर्दैत्यभर्तुर्निहन्ता ।
घोराकारः प्रखरनखरो भीषणभ्रूकुटीक-
स्त्रैलोक्याधीश्वर मनसि मे वर्तसे त्वं नृसिंह ॥ ५४॥
विश्वाधीशे प्रभवति बलौ माणवीभूय भूयः
पृथ्वीमग्नीन्धनविधिकृतये याचमानो जिघृक्षुः ।
आशु क्रामन् भुवनमखिलं धातृनिर्णिक्तपादः
त्वं देवेन्द्रावरज मनसा वामनो भावितोऽसि ॥ ५५॥
जातो मध्येधरणि जमदग्नेः सुतो रेणुकाया-
मन्तेवासी त्रिपुरमथितुः कार्तवीर्यस्य जेता ।
पाणौ बिभ्रत्परशुमधिसङ्ग्राममासन्नविंशान्
वारान् क्षेप्ता दुरवनिभुजो देव राम स्मृतोऽसि ॥ ५६॥
जातो वंशे सवितुरृषिणा सङ्गतो जानकीशः
स्वैरं गच्छन् वनमथ वियुक्तप्रियो ध्वस्तवाली ।
उत्तीर्णाब्धिः कपिकुलबलो रावणस्यापि हन्ता
सीतायुक्तः पुरमधिवसन् देव राम स्मृतोऽसि ॥ ५७॥
श्वेताकारो हलमुसलवान् नीलवस्त्रन्दधानः
कर्षन् मत्तस्तपनतनयामात्तपीताङ्गरागः ।
नानादैत्यप्रमथनपटुर्नागराजावतारो
भूमेर्भारं गुरुमपहरन् देव राम स्मृतोऽसि ॥ ५८॥
जातो वंशे तुहिनमहसो गोकुले क्लृप्तवासः
कंसध्वंसी परिणयमथ स्त्रीगणानां वितन्वन् ।
चैद्यारातिः समरसमये सारथिः पाण्डुसूनोः
धात्रीभारक्षपणनिपुणो देव कृण्ण स्मृतोऽसि ॥ ५९॥
अन्तं सङ्गच्छति कलियुगे वर्णसङ्कीर्णभावे-
भाविन्यत्युत्कटतरमधर्मे च वर्तिष्यमाणे ।
अश्वारूढः करतलचलन्मण्डलाग्नः खलौघान्
भर्त्स्यन् कल्कित्रिभुवनपते घोररूपः स्मृतोऽसि ॥ ६०॥
शैले कूटत्रयवति पयःसिन्धुना वेष्टयमाने
पुष्पोद्यानोदरकमलिनीं गाहमाने गजेन्द्रे ।
ग्राहग्रस्ते स्तुवति तदनुग्राहकस्त्वं दयालु-
स्ताक्ष्यार्रुढः कमलनयन स्मर्यसे चक्रधारी ॥ ६१॥
देवैर्दैत्यैरपि विमथितादुत्थितः क्षीरसिन्धोः
श्वेतोष्णीषी वलभिदुपलश्यामलः क्षेमकारः ।
बिभ्रच्चक्रं दरमथ सुधापूर्णकुम्भं जलूकां
दोर्भिर्धन्वन्तरिरिह भिषग्भाव्यसे त्वं मुरारे ॥ ६२॥
श्रीकण्ठाय प्रकटिततरौत्कण्ठ्यमाक्रीडमध्ये
प्रक्रीडन्ती धुततनुलतासौष्ठवातिष्ठमाना ।
सभ्रूभङ्गस्मितसहचरापाङ्गलीलभिरामा
दैत्यारे त्वं कपटतरुणी भाव्यसे दिव्यबेषा ॥ ६३॥
नैष्कर्म्याविष्करणनिपुणः कर्दमापत्यभूतः
स्वच्छन्दात्मा कपिलरुचिभिः शोभमानो जटाभिः ।
तत्त्वज्ञानं परमुपदिशन् देवहूत्यै स्वमात्रे
गोविन्द त्वं मनसि कपिलो वासुदेवः स्मृतोऽसि ॥ ६४॥
दुष्टाद्वेनान्मुनिजनमहाशापतः प्राप्तनाशात्
जातश्चापाटनिविदलितक्ष्माधरायां धरायाम् ।
मेरौ दोग्धर्यमितधनधान्यादि विस्तारयन्तं
ध्यायामि त्वां पृथुमतिपृथुप्राभवं विश्वनाथ ॥ ६५॥
भर्गे भक्तत्रितयमपथे वर्तमानं पुराणां
वाचोयुक्त्या परिणतमहद् द्वेषमापादायन्तम् ।
धर्मस्थित्यै प्रथितचरितं बुद्धसंज्ञं मुनीन्द्रं
मायादेवीसुतमयि हरे मायिननं भावये त्वाम् ॥ ६६॥
दाक्षायण्यां प्रथितयशसौ धर्मदेवस्य पुत्रौ
सञ्जातौ द्वौ महितनरनारायणाख्यं दधानौ ।
प्रालेयाद्रेस्तटभुवि बदर्याश्रमे संवसन्तौ
रक्षाहेतुं जगति भगवन् भावयामि त्वदंशम् ॥ ६७॥
सौन्दर्यश्रीललितवपुषं क्लृप्तसंन्यासावेषं
दिव्यं दिग्वाससमत इतः स्त्रीसहायं चरन्तम् ।
अध्यात्मज्ञैर्मुनिभिरभितः स्तूयमानं मुनीन्द्रं
दत्तात्रेयं मनसि भगवन् भावयामि त्वदंशम् ॥ ६८॥
रेवास्रोतोविहरणपरं प्रस्फुरद्दोःसहस्रं
धात्रीरक्षापरमपरिमेयात्मवीर्यानुभावम् ।
दत्तात्रेयादुपगतवरं कार्तवीर्यार्जुनं त्वां
कीर्तिस्तोमाज्जनितभुवनं भावये श्रीनिवासम् ॥ ६९॥
पाराशर्या परिणततनुर्बीजशक्त्या श्रुतीनां
व्यासं कुर्वन् बहुविधपुराणेतिहासप्रणेता ।
वेदान्तार्थप्रकाशस्तुतिमुपनयन् पूर्णशिष्यप्रशिष्यः
कृष्णद्वैपायनमुनिवरः स्मर्यसे त्वं मुकुन्द (?) ॥ ७०॥
वेलाघातप्रचलितमहावीचिजालप्रसर्प-।
त्फेनावर्तं धवलसलिलोद्भ्रान्तयादःकदम्बम् ।
नानारत्नद्युतितरलितागाधगर्भप्रदेशं
दुग्धाम्भोधिं मनसि भगवन् भावये त्वन्निवासम् ॥ ७१॥
पुष्यत्कल्पद्रुमसुरलताजृम्भितामोदभारं
नानापक्षिप्रवरललिताबन्धनादप्रपञ्चम् ।
भृङ्गश्रेणीरवमुखरितं मन्दवाताभिरामं
श्वेतद्वीपं तव पदमिमं देव सम्भावयामि ॥ ७२॥
उद्यानोद्यत्कुसुमनिकरं गोपुराबद्धसालं
रथ्याशृङ्गाटकविलसितं केतनोद्यत्पताकम् ।
प्रासादाग्रस्फुरितवलभीभागमुत्तङ्गसौधं
वासस्थानं मनसि कलये पद्मनाभ त्वदीयम् ॥ ७३॥
आशापालान् सहितदयितान् सप्रियान् देवयोनीन्
देवब्रह्मक्षितिपतिमुनीन् भक्तिभारैर्विनम्रान् ।
त्वत्पादाब्जप्रणमनपरान् भक्तिभारावनम्रान्
पर्यन्तस्थान् परमपुरुष त्वन्मयान्भावयामि ॥ ७४॥
तत्त्वज्ञानप्रवणहृदयान् भूयशोऽभ्यस्तयोगान्
ज्योतिर्जालप्रसरतरलान्नित्यकौमारयुक्तान् ।
ब्रह्माण्डान्तभ्रमणनिपुणानुज्ज्वलत्त्वत्पदाब्ज-
प्राप्तान् पद्मारमण सनकाद्यान् मुनीन् भावयामि ॥ ७५॥
भूषावेषाद्यधिकसुभगान् दोश्चतुष्काभिरामान्
मेघश्यामान् कपिशवसनान् फालबद्धार्धपुण्ड्रान् ।
दीर्घापाङ्गान् प्रहसितमुखान् भक्तलोकैकबन्धो
नाथ त्वत्पार्षदवृषवरान्नन्दमुख्यान् स्मरामि ॥ ७६॥
भक्तिप्रह्वं मुकुलितदृशं प्राञ्जलिं प्रान्तसंस्थं
नामान्युच्चैःस्वरमुखरिताभ्याशमुच्चारयन्तम् ।
आह्लादार्दै मनसि विकसत्त्वत्स्वरूपप्रकाशं
प्रह्लादाख्यं नलिननयन त्वत्प्रियं चिन्तयामि ॥ ७७॥
सङ्गायन्तौ गमकगतिमन्मूर्छनाग्रामभिन्न-
श्रुत्यारूढस्वरपरिणमद्रागहृद्यं विपञ्चया ।
नानावन्दिप्रवरसहितौ गायकौ तावकीनौ
साक्षादीक्षे मनसि भगवन्नारदं तुम्बुरुं च ॥ ७८॥
किञ्चिद्विस्रंसितकचभराः पूर्णसर्वाङ्गभङ्गी-
र्नेपथ्यश्रीमधुरिमजुषो मञ्जुशिञ्जानभूषाः ।
पार्श्वे स्थित्वा ललितललिन्त चामरं चारयन्तीः
पश्याम्यन्तदितिसुतरिपो चामरग्राहिणीस्ते ॥ ७९॥
अभ्याशस्थं भुजगपटलीभूषितोद्दीप्तगात्रं
पक्षक्षेपक्षुभितभुवनं चण्डतुण्डप्रकाण्डम् ।
आपिङ्गाक्षं कनककपिशज्योतिषं वाहनं ते
तार्क्ष्यं वीक्षे मनसि करबद्धाञ्जलिं कञ्जनाभ ॥ ८०॥
शूत्कुर्वन्तं फणदशशतीविस्फुरद्रत्नजालं
दंष्ट्राकोटिद्वितयविलसच्चण्डतुण्डान्तरालम् ।
श्वेताकारं तरलपवनाहारतो वर्धमानं
पर्यङ्कस्थं मनसि कमलाकान्त पश्याम्यनन्तम् ॥ ८१॥
ज्योतिर्जालज्वलितवपुषः प्राञ्जलीन् प्राज्यविद्यान्
उच्चैरभ्युच्चरितजयशब्दस्वनाध्मापिताशान् ।
मूर्तान् दैत्यप्रमथनपरानायुधौघान् प्रभाते
चित्ताभोगः प्रकटयति मे शङ्खचक्रप्रधानान् ॥ ८२॥
पीतश्यामप्रभतनुलते रक्तपीताङ्गराग-
क्षौमाभोगे मकुटकटकाद्युज्ज्वलन् भूशिताढ्ये ।
सौन्दर्योद्यत्तरुणिमदिलासाञ्चिते पार्श्वसंस्थे
सङ्गच्छेते हृदि मम हरे त्वत्प्रिये श्रीधरण्यौ ॥ ८३॥
रत्नभ्राजत्कनकमकुटं कुञ्चितानीलकेशं
वेल्लत्सान्द्रालकमलिकसम्भासमानोर्ध्वपुण्ड्रम् ।
भ्रूविक्षेपाञ्चितमभिनवाम्भोजपत्रायताक्षं
साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८४॥
कर्णाभ्युद्यन्मकरविलसत्कुण्डलं तुङ्गनासं
दन्तज्योत्स्नामधुरमधरज्योतिषा शोभमानम् ।
गण्डाभोगोड्डमरसुषमं कौस्तुभोल्लासिकण्ठं
साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८५॥
हाराभ्यन्तस्स्फुरिततुलसीदामवन्यस्रगाढ्यं
श्रीवत्साङ्कप्रथिनघुसृणामोदिवक्षोविभागम् ।
दीप्तस्वर्णाङ्गदवलयकेयूरवद्दोश्चतुष्कं
साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८६॥
उद्यद्रोमावलिवलियुतं प्रस्फुरद्दुन्दबन्धं
लोकेशाढ्यासितविकचपद्मोल्लसन्नाभिरन्ध्रम ।
काञ्चीदामाञ्चितकटितटं पीतकौशेयवस्त्रं
साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८॥
आपीनोरुद्वितयमतुलाकारजानुप्रदेशं
भ्राजज्जङ्घायुगलसुषमाभोगमागूढगुल्फम् ।
कूर्माकारप्रपदमधिकाताम्रपादारविन्दं
साक्षादीक्षे मनसि मधुविध्वंसन त्वत्वरूपम् ॥ ८८॥
कालाम्भोदाज्जननवकलायप्रसूनाभिरामं
श्यामज्योतिष्पटलपरिवेषाञ्चितं चारुवेषम ।
सर्वाङ्गीणप्रकटनफलावन्यपूर्णप्रकाशं (फलावन्ध्य)
साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ८९॥
उद्यन्मन्दस्मितमधुरिमोद्भासिवक्त्रारविन्दं
कारुण्याम्भःप्रसरलहरीपूर्णनेत्रारविन्दम् ।
योगीन्द्रान्तःकरणमधुलिट्सेव्यपादारविन्दं
साक्षादीक्षे मनसि मधुविध्वंसन त्वत्स्वरूपम् ॥ ९०॥
पातालाङ्घ्निं धरणिवलयं श्रोणिभागं विहाय
मध्योद्देशं सुरपुरमुखं ब्रह्मलोकोत्तमाङ्गम् ।
भास्वच्चन्द्रेक्षणमनिलनिश्वासमम्भोधिवीर्यं
ध्यायाम्यन्तस्त्रिभुवनपते पूरुषं त्वां विराजम् ॥ ९१॥
भूतात्मानं भुवनविततं भूतिसर्वस्वभाञ्ज
भुक्तेर्मुक्तेरपि च विषयं भूरिकारुण्यपूर्णम् ।
भूतग्रामप्रभवविभवं भूर्भुवःस्वर्निधानम् ।
भूयो भूयो मनसि भगवन् भावयेयं भवन्तम् ॥ ९२॥
मायातीतं मननविषयं मौनभाजां मुनीनां
कालात्मानं कलिमलमुषं कारणं कारणानाम् ।
दुर्विज्ञेयं निगमवचसा मुख्यावाक्यार्थसारं
तेजोरूपं त्रिभुवनपते चेतसा त्वां स्मरामि ॥ ९३॥
आत्मारामं विपुलममलं वाक्प्रपञ्चातिवृत्तं
द्वन्द्वातीतैर्विषयविमुखैर्योगिभिश्चिन्त्यमानम् ।
आविर्भूतस्वरसपरमानन्दनिष्यन्दसान्द्रं
विश्वोत्पत्तिस्थितिलयकरं त्वां मुरारे स्मरामि ॥ ९४॥
मुक्तिस्थानं मुनिजनमनोमन्दिरं मूर्तिहीनं
नानाकारं निरुपममसङ्ख्यातवीर्यानुभावम् ।
निर्व्यापारं विविधविभवं निर्मलं निर्विकल्पं
विश्वाकारं परमपुरुष त्वामहं भावयामि ॥ ९५॥
स्थूलं सूक्ष्मं गुरुलघुसमुत्तुङ्गमुच्चैर्गभीरं
दीप्रं शान्तं तरलमचलव्यक्तमव्यक्तरूपम् ।
सर्वाध्यक्षं सकलकरुणागोचरं लूतमायं
मायाहीनं मनसि कलये देव रूपं त्वदीयम् ॥ ९६॥
सत्तामात्रं विकृतिरहितं व्याप्तमाद्यन्तशून्यं
संविद्रूपं गुणगणनिकाविक्रमाह्लादपूर्णम् ।
शुद्धं बुद्धं विघटिततमोबन्धमात्मप्रकाशं
प्रत्यग्भूतं तव मुररिपो रूपमन्तःस्स्मरामि ॥ ९७॥
सर्वस्मादप्युपरि विलसत्सर्वभूतात्मभूतं
सर्वाकारप्रकटनपरं सर्वतेजोनिधानम् ।
सर्वापायक्षपणनिपुणं सर्वलोकप्रधानं
त्वद्रपं मे लसतु हृदयाम्भोरुहे देवदेव ॥ ९८॥
निर्वाणाख्यं निखिलजगतामाश्रयं दुर्विभाव्यं
भव्यं दिव्यं भवजलनिधेः पारमुच्चैरयन्तम् ।
सच्चित्सौख्यात्मकमुपनिषन्मुख्यवाक्यप्रपञ्च-
व्याख्यायोग्यं परमपुरुष त्वत्स्वरूपं स्मरामि ॥ ९९॥
सत्यं ज्ञानं मुहुरपि महायोगिभिश्चिन्त्यमानं
पूर्णानन्दामृतलहरिकाजालमान्यं तुरीयम् ।
ओङ्कारार्थं परमममृतं त्वन्निषेधावशेषं
ब्रह्माद्वैतं परमपुरुष स्वात्मबोधं स्मरामि ॥ १००॥
स्तोत्रं विष्णोरिति मृदुपदैः सुप्रबन्धैः शतेन
श्लोकैरेभिर्विरचितमिदं भक्तिसंवर्धनाख्यम् ।
भक्त्या युक्तः पठति खलु यः प्रातरुत्थाय नित्यं
प्राणापाये व्रजति हि हरेर्धाम निर्वाणनाम ॥ १०१॥
इदं स्तोत्रं पठेन्नित्यं यो नरः प्रातरुत्थितः ।
भक्तिसंवर्धनं नाम स याति परमं पदम् ॥ १०२॥
भक्तिसंवर्धनं नाम श्लोकानां शतकं मया ।
ब्रह्मदत्ताभिधानेन स्तोत्रं विष्णोर्विनिर्मितम् ॥ १०३॥
॥ इति श्रीभक्तिसंवर्धनशतके उत्तरभागः सम्पूर्णः ॥
इति भक्तिसंवर्धनशतकं सम्पूर्णम् ।
Proofread by Saritha Sangameswaran