भुवनमण्डले नवयुगमुदयतु
भुवनमण्डले नवयुगमुदयतु सदा विवेकानन्दमयम् ।
सुविवेकमयं स्वानन्दमयम् ॥
तमोमयं जनजीवनमधुना निष्क्रियताऽऽलस्यग्रस्तम् ।
रजोमयमिदं किंवा बहुधा क्रोध-लोभ-मोहाभिहतम् ।
भक्ति-ज्ञान-कर्म-विज्ञानैः भवतु सात्विकोद्योतमयम् ॥ १॥
वह्निवायुजलबलविवर्धकं पाञ्चभौतिकं विज्ञानम् ।
सलिलनिधितलं गगनमण्डलं करतल-फलमिव कुर्वाणम् ।
दिक्षु-विकीर्णं मनुजकुलमिदं घटयतु चैककुटुम्बमयम् ॥ २॥
सगुणाकारं ह्यगुणाकारं एकाकारमनेकाकारम् ।
भजन्ति एते भजन्तु देवं स्वस्वनिष्ठया विमत्सरम् ।
विश्वधर्ममिममुदारभावं प्रवर्धयतु सौहार्दमयम् ॥ ३॥
जीवे जीवे शिवस्वरूपं सदा भावयतु सेवायाम् ।
श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् ।
चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयम् ॥ ४॥
Encoded and proofread by Shubha shubhazero at gmail.com