देशो ददाति नः सर्वस्वम्
देशो ददाति नः सर्वस्वम् ।
वयमपि किञ्चिद्दातुमिच्छेम ॥
सूर्यो ददाति नवप्रकाशः,
वायुः ददाति नवीनजीवनम् ।
बुभुक्षां नः दूरीकर्तुम्,
भवति कृषिः अस्यां धरित्र्याम ।
निहितं हितं परेषामपि च,
कार्यमीदृशं सदा कुर्याम ॥ १॥
पथिकेश्यः तप्तदुपहर्याम्,
वृक्षैः सदा दीयते छाया ।
सदा दीयते पुष्पसुगन्धिः,
अस्मभ्यं पुष्पाणां माला ।
जीवनेन त्यागीवृक्षाणां,
वयमपि परेषां हितं कुर्याम ॥ २॥
येऽशिक्षिताःपाठयें तान्,
ये मूकाः वाणीं यच्छेम ।
पृष्ठेगतानग्रे कुर्याम,
तप्तधरित्र्यै जलंयच्छेम ।
परिश्रमस्य दीपं प्रज्ज्वाल्य,
नवप्रकाशं कर्तुमिच्छेम ॥ ३॥