एकः शृगालः वनं गच्छति
एकः शृगालः वनं गच्छति ।
बुभुक्षया पिपासया वनं गच्छति ॥ धृ॥
किं च करोति सः किं च करोति ।
अरे अत्र पश्यति अरे तत्र पश्यति ॥
कुत्र गच्छति सः कुत्र गच्छति ।
अत्र गच्छति सः तत्र गच्छति ॥
किं च पश्यति सः किं च पश्यति ।
सः पश्यति द्राक्षाफलम् ॥
किं च करोति सः किं च करोति ।
सः उत्पतति उत्पतति पुनः उत्पतति उत्पतति ।
किन्तु न लभते द्राक्षाफलम् ।
किं च वदति सः किं च वदति ।
आम्लं द्राक्षाफलम् ।
Encoded from audio and proofread by manish gavkar manishyg at gmail.com