एकं सद् बहुधा विलोक्यते भारतम्
एकं सद् बहुधा विलोक्यते भारतम् ।
बहुधा सच्चैङ्कं विराजते भारतम् ।
एकमखण्डभिन्नमस्ति मे भारतम् ।
रम्यमस्ति सुरवन्द्यमस्ति मे भारतम् ॥ १॥
एकं सद् ... ।
यदि पादेऽस्य कदापि निविशते कण्टकं
निखिलतनौ पीडनं भवति मर्मान्तकम् ।
यदि वेदना शिरसि समुदेति सदा ध्रुवं
व्यथते सकलतनौ मे निखिलं भारतम् ॥ २॥
एकं सद् ... ।
भिन्नमस्तु भाषाभूषासु पदे पदे
भिन्नमस्तु लोकाचारेषु पदे पदे ।
भिन्न्मस्तु पूजापद्धतिषु पदे पदे
आत्मन्येकमभिन्नमस्ति मे भारतम् ॥ ३॥
एकं सद् ... ।
कोटिकोटिजनताचेतस्सु विराहजतम् ।
नित्यनवीनोत्सवपर्वावलि - राजितम् ।
विश्वबन्धुता-विजीविषा-विस्तारकम् ।
जगतो हृदयं जयति जगति मे भारतम् ॥ ४॥
एकं सद् ... ।
वीक्ष्य यमृद्धिं यन्त्रोद्योगनां भृशम् ।
वीक्ष्य समृद्धिं कृषिसम्पत्त्या वा भृशम् ।
वीक्ष्य समृद्धिं ज्ञानकलादीनां भृशम्,
मोमुदीति मनसा निखिलं मे भारतम् ॥ ५॥
एकं सद् ... ।
- डाॅ रमाकान्त शुक्ल