जयतु भारत-सैनिक-वाहिनी
प्रकृति-वैभव-मण्डित-विग्रहा
विविध-भास्वर-चारुकलामयी ।
जगति मङ्गलदा सुख-शान्तिदा
जयति नः प्रिय-भारतभूरियम् ॥ १॥
त्रिविध-रङ्ग-सुशोभित-केतनं
विदधती रुचिरं जन-रञ्जनम् ।
सकल-तीर्थमयी चिर-पावनी
विजयते प्रिय-भारतमातृका ॥ २॥
अरिबलान्निज-देश-सुरक्षणे
बहुविधाधुनिकायुध-बर्द्धितः ।
वहति मातृकृते स्वकलेवरं
जयति निर्भय-भारत-सैनिकः ॥ ३॥
स्वपरिवार-सुखं परिहृत्य वै
सतत-देश-सुरक्षण-जाग्रता ।
वितनुते प्रियभारत-गौरवं
स्थल-नभोजल-सैनिक-संहतिः ॥ ४॥
अरि-विनाशन-चण्ड-धुरन्धरा
प्रहरणादि-सुसज्जित-तत्परा ।
अमित-केशरि-शक्ति-समूर्जिता
जयति भारत-सैनिक-वाहिनी ॥ ५॥
रिपु-बलाक्रमणान्निज-भारतं
सबलमेव हि सीम्नि सुरक्षितम् ।
प्रकुरुते निरतं प्रिय-सैनिको
रवि-सुदीप्तिधरो जित-सङ्कटः ॥ ६॥
अधिगृहं सकलास्तु सुनिद्रिताः
सुखभरं स्वजनैः सहिता वयम् ।
परमसौ निज-भारत-सीम्नि नः
सतत-जाग्रत एव सुरक्षकः ॥ ७॥
प्रबल-शैत्य-सवृष्टि-खरातपं
निजबलैः प्रविषह्य दिवानिशम् ।
वहति देशहितेऽर्पित-जीवनं
चिर-सुवन्दित-सैनिक एव सः ॥ ८॥
तदवदानमिहास्ति समुन्नतं
सुचिर-सुस्मरणीय-पराक्रमम् ।
रिपुनिपातन-शौर्य-विभूषितं
स्वबलिदानमपि प्रिय-भारते ॥ ९॥
जय विभारत-भारत-वीर हे !
रिपु-विदारण हे ! रणधीर हे !
तव कृते प्रियवर्ग ! समर्प्यते
जनगणैः प्रणतेः कुसुमाञ्जलिः ॥ १०॥
प्रियजनी-धरणीं प्रति हार्दिकं
स्वबलिदान-महोज्ज्वल-कर्म ते ।
सविनयं जनता स्मरतीह वै
सहृदयाश्रुभरा च सवन्दनम् ॥ ११॥
धरणिभृत्सम-धैर्यधराः स्वयं
जननि-रक्षण-यज्ञ-हुतासवः ।
अमर-वीरगतिं खलु ये गताः
प्रणतयः प्रति तान् प्रियसैनिकान् ॥ १२॥
न हि कदा परदेश-कृते रिपु-
र्भवति भारतमत्र महीतले ।
उचितमुत्तरितुं सबला वयं
यदि कदाक्रमणे यतते परः ॥ १३॥
जयतु भारत-संस्कृतिरक्षया
लसतु भारत-गौरव-सौरभम् ।
जयतु भारत-केतनमुज्ज्वलं
जयतु भारत-राष्ट्रिय-संहतिः ॥ १४॥
विविध-मौलिक-सुप्रतिभा-रतं
लसतु भारतमात्मविभा-रतम् ।
जयतु भारतमात्म-सुनिर्भरं
जगति सुप्रथितं भुवनं परम् ॥ १५॥
-- रचयिता - डाॅ हरेकृष्ण-मेहेरः
(मौलिक-संस्कृत-कविता द्रुतविलम्बितच्छन्दसा प्रणीता)
Copyright Dr.Harekrishna Meher