करुणानिधे प्रभो
करुणानिधे प्रभो नो
दोषान् क्षमस्व भगवन् ।
सुचिरात् प्रसुप्तदेशम्
परिबोधयाशु भगवन् ॥
भुविभूतसर्वभाषा
परिपूरिताभिलाषा ।
श्वसितीव देवभाषा
तां पालयस्व भगवन् ॥
आसीत् कदाचिदेषा
वाणी विशुद्धवेषा ।
अधुना लवावशेषा
तामाश्रयस्व भगवन् ॥
देशे स्वतन्त्रतायाः
प्राचीनसभ्यतायाः ॥
समयं समर्घतायाः
पुनरानयस्व भगवन् ॥
-- याजुषी