क्रान्तिगीतम्
(गीतिका) (स्रग्विणी वृत्तम्)
क्रान्तिगीतं भजध्वं भजध्वं सखे ।
क्रान्तिमार्गं श्रयध्वं श्रयध्वं सखे ।
क्रान्ति-गीतामृतं पीयतां पीयतां
देशहेतोर्मुदा जीवनं दीयताम् ॥ क्रान्ति०॥
पालिना पोषिता वर्धिता लालिता
मातृभूम्यां स्वरक्तार्चितास्तोषिता ।
दुष्ट-दैत्यैहृता शोषिता पीडिता
क्लेश-घातेन दुखेन सम्पीडिता ॥ क्रान्ति०॥
धर्म एषोऽस्ति मातुः सदा रक्षणे
प्राणदानं मुदा संश्रयध्वं सखे ।
पासुभिः पूतपूतैर्विवृद्धिं गता
रक्षणीया सदा प्राणदानेन सा ॥ क्रान्ति०॥
क्रान्तिवह्नि समन्ताच्चरेद् भारते
क्षोभ-दावाग्नि-दाहो दहेज्जीवनम् ।
लोभ-कामादि-कीटाणु-नाशो भवेत्
स्वार्थनाशोऽस्तु दैन्याऽधिनाशो भवेत् ॥ क्रान्ति०॥
जागृति सञ्चरेत्, क्रोधवह्नि सरेद्,
मातृ-दुःखाग्नि-दाहो जने सञ्चरेत् ।
व्योममालां प्रवर्धेत् स्फुलिंङ्गान् सदा
जीवने क्षोभमालां प्रवृद्धिं व्रजेन् ॥ क्रान्ति०॥
त्रायतां त्रायतां रक्ष्यतां रक्ष्यतां
मातृभूमिहृता हीनवृत्तैरियम् ।
त्रास-शोकेन सन्तप्तगात्रा सदा
रक्षणं याचते स्व-सुपुत्रानियम् ॥ क्रान्ति०॥
क्रान्ति-मन्त्रोदयं स्यात् समन्तात् शुभं
क्रान्ति दावाग्नि-दाहश्चरेज्जीवने ।
शोक-शोषं प्रणाशो न यावद् भवेद्
मातृपादेऽर्पितं स्यान्निजं जीवनम् ॥ क्रान्ति ॥
शनुनाशो भवेद्, दैत्यनाशो भवेत्,
तापनाशो भवेत्, शोकनाशो भवेत् ।
स्वार्थलिप्सा-परः कीट-मृत्युः व्रजेद्
देशद्रोही न देशेऽवशिष्टो भवेत् ॥ क्रान्ति०॥
ये तु विश्वासघाताः नरा भारते
क्रान्ति-वह्नौ समे ते लयं प्राप्नुयुः ।
देशद्रोही न क्षम्यं कदाचिद् भवे
देश-विश्वास-घाती च घात्यं सदा ॥ क्रान्ति०॥
क्रान्तिगानं चरेत्, क्रान्तिगानं सरेत्
क्रान्तिगानं लसेत्, क्रान्तिगानं फलेत् ।
क्रान्तिगानं मतं शान्ति-मूलं सदा
क्रान्तिगानं तु देशस्य सौभाग्यदम् ॥ क्रान्ति०॥
Proofread by Mandar Mali