मातृभूमिस्तवः
(गीतिका) (स्रग्विणी वृतम्)
मातृभूमि सदा देवभूमि शुभा
देववर्यैवृता वीरवर्यै स्तुता ।
भारती भूरिय रत्नगर्भा मता
स्वर्णभूमिर्मणीना सनि समता ॥ मातृ०॥
मातृभूमेस्तु तुल्य न किञ्चिद् भवे
मातृभूमिस्तु स्वर्गादपि श्रेयसी ।
प्राणदात्री सदा चान्नदात्री स्थिता
पालिका पोषिका मातृरूपा मता ॥ मातृ०॥
मातृभूमि सदा वन्द्यते स्तूयते
पुत्ररूपा वयं स्नेहभाजो मता ।
मातृभूमेरृणान्नैव मुक्तिभवे
प्राणदान सदाऽपेक्षते मातृभू ॥ मातृ०॥
क्रान्तिदूतैः सदा प्राणदानैः स्तुता
शान्तिदूतैः सदा स्वार्थत्यागाद् वृता ।
धर्मनिष्ठैः स्वदेहार्पणेनाऽऽदृता
देशभक्तैश्च शूलि प्रियेवाऽऽदृता ॥ मातृ०॥
स्वर्गरूपा सदा स्नेहरूपा प्रिया
हैम-विन्ध्याद्रिमाला-गुणालङ्कृता ।
शस्य श्यामा सरिद्धि सुरक्ताञ्चिता
पद्मजा शैलजा नीरजेवाऽऽदृता ॥ मातृ०॥
अन्नदानैः सदा तोयदानैः स्तुता
कन्द-मूलैः सुपुष्पैः फलैर्मण्डिता ।
पूतपासु श्रिता तीर्थराजैः शुभैः
मातृशक्तिः सदा प्रेरणादायिनी ॥ मातृ०॥
शक्तिदात्री सदा स्नेहस्रोत प्रिया
सौख्यधामी सदा शान्तिरूपा मता ।
तेऽघ्रियुग्म सदा पाप-सन्तापहं
दोषह रोषह क्लेशह द्वेषहम् ॥ मातृ०॥
विश्वशान्ते सदा शिक्षिका शान्तिदा
शान्तिधामाऽश्रया श्रेयसे ज्ञानदा ।
विश्ववन्धुत्व-शिक्षाप्रदा भैरवा
शत्रु-संहारिणी दैत्य विध्वंसिनी ॥ मातृ०॥
भारतीया समे ते सुता लालिता
पालिता पोषिता स्नेह-संवर्धिता ।
भ्रातृरूपा न तेषां विरोध शुभ
स्नेह-भावोदय प्रोते कारक ॥ मात०॥
धर्मभेदो न वा जातिभेद शुभो ।
वर्गभेदो न वा वर्णभेद शुभ ।
मातृभूमे समुत्कर्षहेतोर्मुदा
प्राणदानं वरं वित्तदानं शुभम् ॥ मातृ०॥
Proofread by Mandar Mali