महामहनीय मेधाविन्
त्वदीयं स्वागतं कुर्मः ।
गुरो गीर्वाणभाषायाः
त्वदीयं स्वागतं कुर्मः ॥ ध्रु ॥
दिनं नो धन्यतममेतत्
इयं मङ्गलमयी वेला ।
वयं यद्बालका एते
त्वदीयं स्वागतं कुर्मः ॥ १॥
न काचिद्भावना भक्तिः
न काचित् साधना शक्तिः
परं श्रद्धासुमाञ्जलिभिः ।
त्वदीयं स्वागतं कुर्मः ॥ २॥
किमधिकं ब्रूमहे श्रीमन्
निवेदनमेतदेवैकम् ।
न बाला विस्मृति नेयाः
त्वदीयं स्वागतं कुर्मः ॥ ३॥
- वासुदेवद्विवेदी शास्त्री