रात्रिशयनस्तुतिः
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ १॥
अगस्तिर्माधवश्चैव मुचुकुन्दो महाबलः ।
कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥ २॥
सर्पापसर्प भद्रं ते दूरं गच्छ महाविष ।
जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥ ३॥
विश्वेश्वरीं जगद्धात्रीं स्थिति-संहार-कारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ ४॥
तिस्रो भार्याः कफल्लस्य दाहिनी मोहिनी सती ।
तासां स्मरणमात्रेण चौरो गच्छति निष्फलः ॥ ५॥
इति रात्रि-शयनस्तुतिः सम्पूर्णा ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com