संस्कृतदिवसनिमित्तं संस्कृतस्तुतिदशकम्
यत् संस्कृतं देवपुरस्य भाषा
वेदस्य भाषा मुनिलोकभाषा ।
पुराणभाषा स्मृतितत्त्वभाषा
संस्कारभाषा च पवित्रभाषा ॥ १॥
सत्कर्मभाषा हितकर्मभाषा
जीवस्य भाषा गृहशुद्धभाषा ।
तीर्थस्य भाषाखिलतत्त्वभाषा
विमुक्तिभाषा परिसिद्धभाषा ॥ २॥
धर्मस्य भाषा विभवस्य भाषा
कामस्य भाषा खलु मुक्तिभाषा ।
सुनीतिभाषा नृपनीतिभाषा
भाषासु शिष्टा सुजनस्य भाषा ॥ ३॥
रामायणस्था मधुरस्य भाषा
सेयं महाभारतलेखभाषा ।
आयुर्गमा दर्शनशास्त्रभाषा
सहित्यिका व्याकरणोक्तभाषा ॥ ४॥
काव्यस्य भाषा रससृष्टिभाषा
ज्ञानस्य भाषा कविवृन्दभाषा ।
सद्भावभाषा गुणराशिभाषा
विनम्रभाषा सरलस्य भाषा ॥ ५॥
स्नेहस्य भाषा विबुधस्य भाषा
सम्मानभाषा शुभदायिभाषा ।
राज्ञां च भाषा सचिवस्य भाषा
विज्ञानभाषा ग्रहचक्रभाषा ॥ ६॥
भाषाभिवन्द्या सुरकार्यदक्षा
दुर्दण्डदण्ड्या यमचाण्ड्यखण्ड्या ।
अभेदभेद्याखिलकार्यसाध्या
त्रितापतापा भवसिन्धुनौका ॥ ७॥
भद्रातिभद्रा नमनीयभावा
क्रोधेन हीना समभावपूर्णा ।
प्रशान्तभावा कमनीयरूपा
समग्रविश्वस्य समृद्धिकामा ॥ ८॥
आशीःप्रदात्री बहुभाग्यदात्री
प्रफुल्लदात्री जनशौर्यदात्री ।
सौन्दर्यकर्त्री सुरराज्यदात्री
यशोविभर्त्री गुणभाण्डधर्त्री ॥ ९॥
हे संस्कृतज्ञा! यदि संस्कृतं नः
गृहे सुतानां वदने सदा स्यात् ।
क्रमेण तत् भास्यति सर्वविश्वे
तदा जनानां सुखदा भवेत् सा ॥ १०॥
इति श्रीव्रजकिशोरत्रिपाठीविरचितं संस्कृतस्तुतिदशकं सम्पूर्णम् ।