संस्कृतेन पाठनम्
संस्कृतेन पाठनं संस्कृताय जीवनम् ।
संस्कृतेन पाठनं संस्कृताय अर्पणम् ॥
एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकं उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे ॥
चिन्तितं व्रतमिदं आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने ॥
संस्कृतेन चिन्तनं मानसोल्लासनं
संस्कृतेन लेखनं सर्वकार्यसाधनं
संस्कृतेन भाषणं भरतवर्षभूषणम् ॥
- जि। महाबलेश्वरभट्टः
Encoded and proofread by Shubha shubhazero at gmail.com