स्वागतं पयोद ते
गर्जनेन वर्षणेन ते धरा प्रमोदते ।
स्वागतं पयोद ते स्वागतं पयोद ते ॥ धृ॥
हे सुकालवारिमुक्त्वया धरा सुतर्पिता ।
हे पयोद चातकास्त्वया भृशं सुहर्षिता ।
केकिनां गणस्त्वया मुदा वनेषु नर्तते ॥ १॥
वीतवर्षशोषकृत्यदाधुना त्वमागतः ।
भूमनः तथापराशिरत्यतं कृतं गतः ।
मानसे मुदो न मान्ति दर्शनाजनस्य ते ॥ २॥
नूतनाः सुपादपाः प्रमोदिता सुवल्लरी ।
उच्छलत्सुविभ्रमा तरङ्गितास्ति निर्झरी ।
पक्षिणश्च नीडनिर्मितं द्रुतं प्रकुर्वते ॥ ३॥
क्षेत्रकर्षणेन बीजवापकर्मणा धृतम् ।
कार्षकैः सभार्यकैः स्वधर्मपालनं कृतम् ।
श्रावणेऽथ भाद्रकेऽपि ते दयां भजन्तु ते ॥ ४॥
दोलया मनोविनोदमाचरन्ति बालिकाः ।
तीव्रग्रामिणो गृहं प्रयन्ति पश्य पान्थकाः ।
उत्कया बलाकया मनोरथः स्वपूर्यते ॥ ५॥
मोदमेतु मेदिनी प्रमोदमेतु मानवः ।
नो कदापि बान्धतां भुवं कुशोषदानवः ।
अन्नमस्तु दुग्धमस्तु विद्युदस्तु केन ते ॥ ६॥
Encoded from audio and proofread by manish gavkar manishyg at gmail.com