भुवि विजयते तीर्थराजप्रयागः
शान्तो दान्तो मुनिरिव तपः पूतमूर्तिः प्रशान्तः
सौम्यो रम्यो विशदवसुधा-मौलिमालायमानः ।
तूर्णं पुण्यं दिशति नियतं स्वान्तमभ्यागतानां
भव्यो दिव्यो भुवि विजयते तीर्थराजः प्रयागः ॥ १॥
स्वच्छच्छायोत्थितपुलिनकं कञ्जकुञ्जावदातं
कम्बुप्रायप्रचलमकरं यस्य वारां वितानम् ।
वारं वारं यदमृतपयः पानपुष्टीकृताङ्गाः
सङ्गाद्यस्यामित-जनिसुखं केऽपि चान्ते लभते ॥ २॥
प्राच्यां यस्यानुपमितपुरी काशते काशिकाऽसौ,
सौख्यासारं वपुषि दधती कर्णपूः सा प्रतीच्याम् ।
आचामन्ती निखिलकलुषं काचिदम्बाः ह्यवाच्यां,
यस्योदीच्यां कलकलरवो जन्हुकन्याप्रवाहः ॥ ३॥
गङ्गाम्भोभिर्मिलित-यमुनाऽन्तस्सरस्वत्यमन्द-
स्यन्दैर्यस्य प्रणवमहिमोद्भासिका यस्य कीर्त्या ।
तीर्थः सम्यक् सलिलभरितैश्चैकमत्येन तैः प्राक्-
सम्भूयद्राक् स्वयमतुलितस्तीर्थराजीकृतो यः ॥ ४॥
तस्य प्राचां मुदितमनसां देवतानां मुनीनां
आवासेन प्रथित-यशसः पूर्ण-कुम्भाभिषेके ।
सद्यः स्नानाद् भरततटिनी-सङ्गमादम्बुपानाद्,
धन्यात्मानः सुकृतमतनु-प्राप्तुकामा यतन्ते ॥ ५॥
-- डाॅ शिवजी उपाध्यायः
(साहित्य प्राध्यापकाः सं सं. वि. वि. वाराणसी)
Encoded and proofread by Deepakshi Kumar