उपदेशात्मकं पत्रम्
(गीतिः रथोद्धता च)
गणपतिरखिलाघहरः पाति गणान्साधनस्य यो मुक्तेः ।
अवतु स सदाऽप्रमत्तो दत्त्वा त्वां मोक्षसौख्यमतिविश्वम् ॥ १॥
शङ्करो भवति यः सुखङ्करो
जीवदुःखमपनीय सर्वदा ।
भेदशून्यसुखमद्वयं च यत्
तत्त्वमेव वदतीह सद्गुरुः ॥ २॥
ब्रह्मरूपमति विश्वमतीन्द्रियं
स्वप्रभं विगतभेदमनुत्तमम् ।
तत्सदाहमिति निश्चिनु हे हरे
निर्विकल्पसुखमात्रमगोचरम् ॥ ३॥
माया न मायाकार्यं च नाविद्या न तनुर्मनः
न बन्धो नैव मोक्षश्च ब्रह्मानन्दे स्थिरो भव ॥ ४॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् ।
आषाढ शुक्ल ४, रचनास्थान श्रीक्षेत्र सज्जनगिरि, संवत्सरः - १९६१
Proofread by Manish Gavkar