वन्दे भारतवर्षम्
गायति निरतं निखिलो लोकः प्रीत्या यस्योत्कर्षम् । वन्दे०
प्रालेयाचल-मुकुट - मण्डितं कश्मीराञ्चित - भालम्,
निर्जरतटिनी-मिहिरकन्यका-विलसितचलगलमालम्,
क्षीणकल्मषं विन्ध्यमध्यमं सन्ध्येऽलङ्करुतोऽलम्,
रणरणकैर्यच्चरणमर्णवः क्षालयते सुविशालम्,
लोकालोक - प्रहरि - राजितं वैरिभ्यो दुर्द्धर्षम् । वन्दे०
आदिसभ्यतास्रोतः सततं सत्याऽहिंसा - युक्तं,
मानवता - निर्मातृ निर्मलं सामगान - संसक्तम्,
भाषा - वर्ण - विचाराणामपि यत्रास्ते वैचित्र्यं,
समता-समरसता - विवेकिता - ख्यातं यत्पावित्र्यम्,
निन्दं निरामयं निर्भयं विरलं वीतामर्षम् । वन्दे०
नन्दनवननवसुमैः सुरभितं सस्यं यस्य यशस्यं,
विहगानां कलरुतं वसन्ते मदयति मनः प्रशस्यम्,
पूर्वपश्चिमालिङ्गितमुत्तरदक्षिणदेश - नमस्यं,
दशसु दिक्षु भास्वरतररूपं वन्द्यं विश्ववयस्यम्,
स्वर्णसूत्रवद् ग्रथितं भूमौ वितरतु जगते हर्षम् । वन्दे०
वन्दे भारतवर्षम् ।
-श्री शास्त्रिरुद्रदेवत्रिपाठिनाम, ``मालवमयूर''
Proofread by Mandar Mali