अद्वैतशतकम्
प्रणम्य परमानन्दं स्वात्मानं परमेश्वरम् ।
अद्वैतशतकं वक्ष्ये सर्ववेदान्तसङ्ग्रहम् ॥ १॥
ज्ञप्तिरूपो महादेवो स्वेच्छया देहमाविशन् ।
जीवात्मेति श्रुतौ प्रोक्तो देहो मायेति संज्ञितः ॥ २॥
तस्माद्दृश्यमयो देहो देहि दृग्रूप उच्यते ।
एवं दृग् दृश्यरूपेण संस्थितं भूतमण्डलम् ॥ ३॥
विना देहेन जीवात्मा किञ्चित्कर्तुं न शक्तिमान् ।
विना जोवेन देहोऽपि ज्ञातुं द्रष्टुं न शक्तिमान् ॥ ४॥
तस्मात्तादात्न्तसम्बन्धं प्राप्तो देहेन चेतनः ।
देहोहमिति निश्चित्य कर्माणि कुरुते सदा ॥ ५॥
वपुश्चतुर्विधं प्रोक्तं मनुष्याणां विवेकिनाम् ।
स्थूलं सूक्ष्मं कारणञ्च सामान्यञ्चेति नामभिः ॥ ६॥
संसारार्णवमग्नानां जन्तूनामविवेकिनाम् ।
सामान्यदेहरहितं त्रिविधं वपुरूच्यते ॥ ७॥
जागरे स्थूलदेहस्यात्सूक्ष्मदेहः प्रकीर्तितः ।
स्वप्ने, सुषुप्तौ देहश्च कारणाक्यः प्रकीर्तितः ॥ ८॥
दृश्यरूपमिदं सर्वं देह इत्याभिधीयते ।
तत्रव्याप्तं परं ज्योतिर्देहोति परिगीयते ॥ ९॥
अयं सामान्य देहस्यात्मनुष्याणां विवेकिनाम् ।
सावस्था हि तुरोयारख्या भुवनेषु सुदुर्लभा ॥ १०॥
यदा सामन्यदेहेऽस्मिन् स्थितिः पुंसाभिजायते ।
तदा योगीश्वरो वेदैः परमात्मेति गीयते ॥ ११॥
यदा स्थूलादिदेहेषु मनुष्याणां स्थितिर्भवेत् ।
जीवात्मेति तदा प्रोक्तः सङ्कोचग्रहणाद्बुधैः ॥ १२॥
अयं जीवो हि संसारे सदाऽसारे परिभ्रमन् ।
लोकाल्लोकान्तरं गत्वा गर्भपात्रं विशात्यसौ ॥ १३॥
गत्वा गर्भगृहाद्भूयो मानुषं लोकमाविशन् ।
पुत्रोऽयं मम भार्येऽयमस्मदीयमिदं धनम् ॥ १४॥
इदं गोत्रमिदं मित्रमस्मदीयमिदं गृहम् ।
इयं माता मम पिता जना एते ममारयः ॥ १५॥
इति निश्चित्य जीवात्मा रागदेषं दिने दिने ।
एतान् प्रति करोत्येव स्वाज्ञानादेव केवलम् ॥ १६॥
एकरूपस्य देवस्य सर्वेषामन्तरात्मनः ।
व्योमवद्व्याप्तदेहस्य बोधरूपस्य सर्वदा ॥ १७॥
कुत्रचिद्दृश्यरूपस्य मायादीनां परिग्रहात् ।
सर्वस्याधाररूपस्य मेघाधीनां यथा नभः ॥ १८॥
सच्चिदानन्दरूपस्य ब्रह्मरुद्रादिकल्पनात् ।
विभागं कुरुते जीवः स्वाऽज्ञानादेव केवलम् ॥ १९॥
व्याप्तरूपस्य देवस्य सङ्कोचं दुःखमेव हि ।
तदेव जीवः कुरुते स्वाऽज्ञानादेव केवलम् ॥ २०॥
अथ सत्यविहीनानां कामिनां कामचारिणाम् ।
स्वधर्मविमुखानां च संसर्गं कुरुते सदा ॥ २१॥
पुनर्वश्यावशो स्थित्वा तैस्सार्धं श्वखरागवत् ।
सर्वधर्मविनिर्मुक्तो देहो ता एव सेवते ॥ २२॥
आलापे हरिणाक्षीणां दर्शनस्पर्शनादिषु ।
हासभावविलासेषु मनः सम्यङ् निमज्जति ॥ २३॥
विषयग्रहणाज्जन्तोः प्रद्वेष उपजायते ।
मातरं पितरं पुत्रं वृद्धञ्चान्यजनान् प्रति ॥ २४॥
अलब्धविषयो जन्तुः चिन्तया परितप्यते ।
शोकमोहभयक्लेशक्रोधलोभाधियुक्तया ॥ २५॥
लब्धे तु परमप्रीति सौभाग्यशतसंयुतम् ।
अभिप्रायशतं ध्यात्वा विषयेषु विषज्यते ॥ २६॥
अलब्धविषये लब्धे जन्तुः श्रेयो न लभ्यते ।
एवं विषयगर्तेषु परिमज्जति मानवः ॥ २७॥
सम्पाद्य मित्रं जीवात्मा तेषां दुःखं दिने दिने ।
ममेति मन्यते नित्यं जन्मान्तरकृताश्रुभात् ॥ २८॥
प्रारब्धकर्मणां भुक्तिं कुर्वन् देहि दिने दिने ।
पौरुषेण प्रयत्नेन कर्माणि कुरुते सदा ॥ २९॥
संसारे वर्तमानानां पुंसां तेनैव हेतुना ।
श्रुभाश्रुभानि कर्माणि द्विविधनीति सन्मतम् ॥ ३०॥
श्रुभाश्रुभानि कर्माणि पौरुषाणि न चेद्यदि ।
वेदानां विधिवाक्यानां व्यर्थत्वं भवति ध्रुवम् ॥ ३१॥
न हिंस्यात्सर्वभूतानि न कुर्यादहितं सताम् ।
एवमादीनि वाक्यानि व्यार्थन्येव विचारणे ॥ ३२॥
अन्यथा विधिवाक्यानि प्रवर्तन्ते तु कं प्रति ।
जीवं प्रति प्रवृत्तिश्चेत्सोऽपि कर्मवशानुगः ॥ ३३॥
कर्मानुसारि जीवश्च कर्माण्येवानुवर्तते ।
तस्माद्धि कर्माणि क्षीणे तस्य मृत्युर्भवेद्ध्रुवम् ॥ ३४॥
ये मूढा द्विविधं कर्म नाङ्गीकुर्वन्ति मोहतः ।
तेषां हि मरणं मोक्षो लोकायतिकवद्ध्रुवम् ॥ ३५॥
स्थूलदेहं गृहीत्वैवमनुभूय शुभाशुभम् ।
पौरुषं सूक्ष्मदेहेन भोक्तुमारभते पुनः ॥ ३६॥
स्थूलदेहात्सूक्ष्मदेहव्यावृत्तिं मरणं स्मृतम् ।
जीवानां मृतिकालेऽस्मिन् सूक्ष्मदेहः प्रकीर्तितः ॥ ३७॥
प्रारब्धकर्माणां नाशात् उपभोगेन चेतनः ।
स्थूलदेहात्सूक्ष्मदेहव्यावृत्तिं कुरुतेऽवशः ॥ ३८॥
यथा स्वप्ने स्थूलदेहात्सूक्ष्मदेहस्थितिर्भवेत् ।
मृतिकाले तथा पुसां सूक्ष्मदेहस्थितिर्भवेत् ॥ ३९॥
यत्कर्म कुरुते स्वप्ने सूक्ष्मदेहेन चेतनः ।
स्थूलदेहेन जीवात्मा तदेव कुरुते तदा ॥ ४०॥
स्थूलदेहं विहयैवं गृहीत्वा सूक्ष्मविग्रहम् ।
स्वर्गं वा नरकं वाऽपि जीवात्मा परिगच्छति ॥ ४१॥
जीवात्मा पुण्यबाहुल्यात्स्वर्गलोकं यथाक्रमम् ।
विकासयति भोगार्थं स्वरूपे स्वेन चतेसा ॥ ४२॥
विशुद्धं ज्ञानमेवैकं यथा स्वप्ने त्रिधा भवेत् ।
ग्राहकग्रहणाध्यैश्च स्वर्गलोके तथा भवेत् ॥ ४३॥
यद्यत्स्वप्नप्रपञ्चस्य चोपादानं स्वयं भवेत् ।
स्वर्गस्य नरकस्यैव उपादानं स्वयं भवेत् ॥ ४४॥
जीवात्मा लिङ्गदेहेन स्वर्गं नरकमेव वा ।
गत्वा मनोमयं पश्चादनुभूय शुभाशुभम् ॥ ४५॥
प्रविश्य कारणं देहं परिपूर्णं मनोमयम् ।
महत्सुखमवाप्नोति परित्यज्य परिश्रमम् ॥ ४६॥
विहाय कारणं देहं स्वात्मज्ञानमयाद्भुतम् ।
शुक्लार्तेवे सुसंशुद्धे गर्भपात्रे प्रबुद्धवान् ॥ ४७॥
पुनर्गर्भगृहाद्बुद्ध्वा शुद्धशुक्लार्तवं तदा ।
उपाधित्वेन सङ्गृह्य देहमेव किलेच्छति ॥ ४८॥
गर्भपात्रे स्थितं कुर्वन् बह्वभद्रावहः पुमान् ।
मूर्च्छावस्थां गृहीत्वादौ जन्मान्तरसुभाशुभात् ॥ ४९॥
प्रवाहतोऽनादिमयं देहमेव पुनः पुनः ।
ध्यात्वा ध्यात्वा कालवशात् देह एव प्रजायते ॥ ५०॥
उपाधित्वेन सङ्गृह्य स्थितश्शुक्लार्तवं यदा ।
देहं विना स्थियस्यास्य कथं ध्यानं भवेत्तदा ॥ ५१॥
बोधमात्रैकरूपस्य देवस्यानन्दरूपिणः ।
स्वस्वरूपेऽपरिच्छेद्या माया स्यात्पारमेश्वरी ॥ ५२॥
ज्ञप्तिरूपस्य देवस्य ज्ञप्तिरूपोऽहमेव हि ।
इति ज्ञानविहीनस्य बोधो मायेति कथ्यते ॥ ५३॥
एवं विचारणे माया दैवीति परिकल्पिता ।
तया सङ्कोचमात्तस्य बन्धोऽनादिरिहोच्यते ॥ ५४॥
अनाध्यन्तवती माया स्थिता मायाविचारणे ।
चराचरमिदं विश्वं तत्कार्यत्वात्तथा भवेत् ॥ ५५॥
अत एव हि देवस्य सच्चिदानन्दरूपिणः ।
सप्तयोनिष्वहम्भावस्तत्र तत्र दृढं भवेत् ॥ ५६॥
लोकेषु वर्तमानानां पुंसां तेन च हेतुना ।
देहं विनाप्यहङ्कारो वर्तते वासनावशात् ॥ ५७॥
वृक्षबीजे यथा वृक्षो स्थितश्शाखादिसंयुतः ।
तथाहमि स्थितो देहो हस्तपादादिसंयुतः ॥ ५८॥
तस्माद्गर्भस्थितिं कुर्वन् जीबोऽविद्यादिसंयुतः ।
अहङ्कारवशादेव देह एव प्रजायते ॥ ५९॥
देहि सम्पूर्णदेहोऽसौ जन्मान्तरशुभाशुभात् ।
पुनर्गर्भगृहाद्गत्वा मूर्च्छामाप सुविस्मिताम् ॥ ६०॥
एवं देहत्रये कुर्वन् स्थितिं देहि परिभ्रमन् ।
जीवात्मेतुच्यते सद्भिः सर्ववेदान्तपारगैः ॥ ६१॥
एवं संसरतः पुंसः स्वेनार्जितशुभाशुभात् ।
देशिकालोकनादेव वैराग्यं जायते हृदि ॥ ६२॥
एवं वैराग्ययुक्तस्य पुंसो हृदि निरन्तरम् ।
आविर्बभूव शुद्धात्मा विचारस्सोयमीदृशः ॥ ६३॥
धनेन दुःखरोपेण दुर्लभेनात्ममृत्युना ।
पुंसां का प्रीतिरेवस्यात्पापरूपेण सर्वदा ॥ ६४॥
किं मे गेहेन किं भोगैः किं धनईर्धनदैरपि ।
किं मित्रबान्धवईः कार्यं सर्व कालवशादसत् ॥ ६५॥
किं स्त्रिया पापरूपिण्या किं पुत्रैर्भन्दहेतुकैः ।
मृत्युना गृह्यमाणस्य तैः किं कार्यं क्षणे क्षणे ॥ ६६॥
अतीता बहवः पुत्राः दारा जन्मनि जन्मनि ।
प्रारब्धकर्मभोक्तृणां पुंसां किमिह तैः फलम् ॥ ६७॥
भावेष्वरतियुक्तस्य पुंसस्सत्यार्थभाषिणः ।
कोऽहं कथमिदञ्चेति चिन्ता स्यात्सुव्हिशारदा ॥ ६८॥
सा चिन्ता देशिकं विप्रं वेदशास्त्रागमान्वितम् ।
ब्रह्मज्ञानवतां पुंसां वरं घटयति क्षणात् ॥ ६९॥
शक्तिपातपवित्रोऽयं जीवात्मा गुरुविग्रहम् ।
दृष्ट्वा परवशो भूत्वा नतिञ्चकै पुनः पुनः ॥ ७०॥
नत्वा देवं महात्मानं देशिकं करुणामयम् ।
स्वस्वरूपं परिज्ञातुं प्राञ्जलिस्तमभाषत ॥ ७१॥
स्वरूपं परमानन्दं ज्ञातुभिच्छामि देशिक ।
संसाराब्धितितीर्षूणां कर्णधारोऽसि देहिनाम् ॥ ७२॥
इति पृष्टो विरक्तेन शिष्येण परमार्थवित् ।
स्वस्वरूपं पां ध्यायन् देशिकस्तमभाषत ॥ ७३॥
यमाश्रित्य प्रवर्तन्ते जनास्सर्वे निरन्तरम् ।
स्वरूपमिति तं विद्यात्करणैश्चक्षुरादिभिः ॥ ७४॥
जाग्रत्काले यमाश्रित्य स्थूलदेहः प्रबर्तते ।
सूक्ष्मदेहस्तथा स्वप्ने स्वरूपं तं विदुर्बुधाः ॥ ७५॥
सुषूप्तौ तु यमाश्रित्य भासते कारणं वपुः ।
स्वाज्ञानमयमव्यक्तं स्वरूपमवधारय ॥ ७६॥
यो जाग्रदादिभेदेन मिथ्यारूपेण भासते ।
तेषां द्रष्टृस्वरूपेण स एव परमेश्वरः ॥ ७७॥
स एव त्वं शिवो विष्णुरग्निरिन्द्रचतुर्मुखः ।
स एव सूर्यस्सोमश्च सः शास्ता स विनायकः ॥ ७८॥
वाणी श्रीगिरिजा दुर्गा देवी चेत्यादिनामभिः ।
विभिद्य प्रोच्यते प्राज्ञैर्मतिभेदेन नान्यथा ॥ ७९॥
एकरूपं समाश्रित्य सङ्कल्पञ्च विकल्पकम् ।
यदा करोत्यसौ देही मन इत्युच्यते तदा ॥ ८०॥
संशयं परित्यज्यं च रूपं प्रत्यवधारितः ।
यस्मिन् काले प्रत्यगात्मा बुद्धिरित्युच्यते तदा ॥ ८१॥
यदाऽसौ स्वपरामर्शादिदमित्थमिति स्फुटम् ।
रूपं प्रति विजानाति तदाहङ्कारवान् भवेत् ॥ ८२॥
यदा हस्तः कर इति बाहोः पर्याय एव हि ।
मनोबुद्धिरहङ्कारश्चित्तं चेति तथात्मनः ॥ ८३॥
यथावह्नोर्वर्तिभेदात् इक्षोः पाकविशेषतः ।
नामरूपात्मको भेदः स तथा जीवस्य नान्यथा ॥ ८४॥
यथा क्षीरे घृतं व्याप्त तथ्या दृश्ये परः पुमान् ।
उपाधिभेदात्भेदस्स्यात् तस्मादेकस्य नान्यथा ॥ ८५॥
एकरूपो महादेवः सर्वभूतेष्ववस्थितः ।
एकरूपो महाकाशो घटादिषु यथा स्थितः ॥ ८६॥
पृथक् पृथक् स्थितानाञ्च देहानामविवादतः ।
पाणिपादादियुक्तानां भेदो नास्ति विचारणे ॥ ८७॥
चराचरमिदं विश्वं पञ्चभूतात्मकं स्मृतम् ।
देहानां पञ्चभूतानां भेदो नास्ति तथास्थिते ॥ ८७॥
मृन्मयत्वाद्घटादीनां यथा भेदो न विद्यते ।
पञ्चभूतात्मकत्वेन देहानाञ्च तथैव च ॥ ८९॥
एवं विचारणे तात नास्ति भेदः कदाचन ।
देहानां पञ्चभूतानां जडानामाशुनाशिनाम् ॥ ९०॥
नवप्रदेशमात्रोऽयं हस्तपादादिमानहम् ।
इति निश्चयवान् लोके जीव इत्यभिधीयते ॥ ९१॥
सर्वत्र परिपूर्णोऽहमयं देहो समेति च ।
इति निश्चयवानन्तः परमात्मेति कथ्यते ॥ ९२॥
एवं स्थिते न भेदस्स्यात्जीवात्मपरमात्मनोः ।
तयोरभेद एव स्यात्चित्स्वरूपाविशेषतः ॥ १३॥
देहसाक्षी प्राण एव इति चेत्तन्न सङ्गतम् ।
सुषुप्तौ सर्वदेहानां जडत्वादेव नान्यथा ॥ १४॥
स्वव्यापारकृते प्राणो देहोपरतिदर्शनात् ।
देहस्य कर्ता न प्राण इत्येवमवधारय ॥ ९५॥
यच्चिन्त्यते भूपतिना तत्कुर्वन्त्यनुजीविनः ।
तस्मात्प्राणो न कर्ता स्यादिति लोकेषु दर्शनात् ॥ ९६॥
देहत्रयसमुद्भूतां वासनां सम्परित्यजन् ।
परिगृह्य परं देहं परिपूर्णं परो भव ॥ ९७॥
परिपूर्णमयं रूपं परिगृह्य शुभशुभम् ।
नित्यनैमित्तिकं कर्म सदा कुर्वन्न लित्यते ॥ ९८॥
कृतानि वाङ्मनः कायैर्लोके कर्माणि जन्तुभिः ।
तोषामन्यतमत्वेन कथं कर्ता भविष्यति ॥ ९९॥
सर्वत्रावस्थितं शान्तं स्वस्वरूपाभिधं शिवम् ।
अनुभूय वपुस्त्यक्त्वा ज्ञाप्तिमात्रमयो भव ॥ १००॥
इति श्रीगङ्गाधराशास्त्रिणा विरचितं अद्वैतशतकं सम्पूर्णम् ।
Encoded and proofread by Naveen Sankar