भारतशतकम्
भारतशतकम् काव्यपरिचयः
अमरुशतक-नीतिशतक-सूर्यशतकीयपरम्परायामिदं भारतशतकमपि
बाभाति स्वमहिम्ना । रसोक्तिवक्रोक्तिस्वभावोक्तिमय्याः कवितात्रिपथगाया
विलसदनेकतरङ्गभङ्गयोऽत्र रससीकरासारैः सचेतसां
रोमकञ्चुकमङ्कुरयन्त्योऽमन्दमानन्दं तनिष्यन्ति । अत्र
प्रायेणालङ्कारशास्त्रीयाः सर्वेऽपि सिद्धान्ता अनाहूता अपि दृढमुपविष्टा
लक्ष्यन्ते । देशप्रेमप्रवाहावगाहननिरतस्वान्तस्य कविकुलतिलकस्यास्य
समस्ता अपि सूक्तयो देशस्य बाह्यमाभ्यन्तरञ्च सौष्ठवमुदीरयितुं
पीयूषस्यन्दिनीमिव निस्यन्दयन्त्योऽद्यतनीं पुरातनीं च
वृत्तप्रवृत्तिं प्रवर्तयन्ति । अत्र क्रान्तेभैरवो हुङ्कार! दमनस्य
दुर्दमो मदः, शान्तेर्ललितं विलसितं, परिवर्तनस्य प्रत्यग्रं
विजृम्भितं, सनातनस्य निष्कम्पमवस्थानं, वर्तमानस्यानावृतं
स्वरूपं, स्पृहणीयाभ्युदयस्यारुणोदयश्च तथा रञ्जनमयं चित्रितं
यथा ज्ञानदशा द्रष्टुर्हर्षप्रकर्षः सम्बोभवीति ।
श्रीमहादेव पाण्डेयः,
साहित्यविभागाध्यक्षः,
संस्कृतमहाविद्यालयः,
हि. वि. विद्यालयः,
काशी ।
गणतन्त्रदिवसः,
२०३० वैक्रमाब्दम् । प्रथमं संस्करणम् ।
भारतशतकम्
आलोलां कुन्तलालिं गलमनुगलितां व्यूह्य धम्मिल्ललीलां
व्याधुन्वानं सटाग्रं मृगपतिमनिशं तीव्रयन्ती महोग्रा ।
मुञ्चन्ती चन्द्रहासं खलवलनिकरे सैरिभं मृद्नती द्राक्
श्रीशक्तिर्भारतेऽस्मिन्नरि नरि विजया वस्तुतः साविरस्तु ॥ १॥
प्रत्यक्षं निर्जराणां सकलसुरगणाध्यक्षमात्मप्रतीक्ष्यं
सन्तक्ष्याक्षुद्रवेगः क्षतवरुणमदः क्षीणयक्षेशदाक्ष्यः ।
विंशत्यक्षः क्षणेनाभजत समुचितां शिक्ष्यतां यस्य स द्राग्
रक्षेदक्षेमहारी हरिरमरवरैरीडितः पीडितं माम् ॥ २॥
यस्मादेते प्रसूता विविधतनुभृतो येन जीवन्ति भूता
यस्मिन् गच्छन्ति चैक्यं समधिकगुरुता यत्र मातुः पितुश्च ।
विश्वं सर्वें विभतिं प्रकृतिरयमथो पूरुषश्च स्वतन्त्रो
देशं तं वा परेशं सुरवरझरिणीसुन्दरं कीर्तयामः ॥ ३॥
आ लोलोल्लोलमालाकलकलकलिताम्भोधिकूलाल्ललामाद्
यावन्नीहारभूमीधरधवलशिलालग्नभूसंविभागान् ।
सीमान्तादा च वङ्गोपसरिदधिपतिं यावदस्त्येष सस्यैः
पत्रश्यामैर्द्रुमाग्रैर्वलयितवसुधो भारतं नाम देशः ॥ ४॥
इष्टो दिग्भ्यस्त्रयीभ्यः सरिदधिपतिभिः पादयोर्वीचिभङ्गैः
शृङ्गैर्लोकोपरिष्टादुदयमधिगतैः सन्नतः शैलराजैः ।
पर्यायेणोद्भवद्भी रसऋतुविभवैर्मेदुरश्रीर्मनोज्ञो
रत्नै रम्यः सुवर्णाकरनिकरयुतो भारतोऽन्वर्थसंज्ञः ॥ ५॥
बङ्गैः सङ्गीतकीर्तिः कलितकलकलश्चोत्कलैरान्ध्रबन्धु-
र्मद्रैरुन्निद्रमुद्रो जवजनितजयोद्गुर्जरः सिन्धुबिन्दुः ।
पञ्चापैरञ्चितश्रीर्मधुमधुरधुरो मध्ययुक्तैर्बिहारै-
रार्यावर्त्ताभिधानो जयति जनपदो मानिनां जन्मभूमिः ॥ ६॥
आद्योन्मेषाद्विधातुः प्रथमविकसितादाद्यपद्माग्रपत्रा
दारब्धा पुण्यपुञ्जैः कलुषलवलवेनाप्यसम्भिन्नगात्रैः ।
देवैरप्यात्मलाभं श्रयितुमतितरां वाञ्छिता विश्वमूर्ते-
र्निर्माणोत्कर्षसीमा परमसुषमया कापि नीराज्यते भूः ॥ ७॥
त्रैकोणी क्षेत्रभक्तिर्ज्ञपयति मधुरा विश्वचित्रे यमर्हं
यं संस्कुर्वन्ति रेखाः क्वचिदतिसरलाः क्वापि वामा मनोज्ञाः ।
देशानामुर्वराणां विपिननदनदीवाष्पयानादिकानां
स्थानं मानं च बोद्धुं भुवनहितविधौ बद्धकक्ष्यः स देशः ॥ ८॥
कृत्स्नाकूपारनीरव्रजजनितमहावृष्टिसम्भारशोभः
केदाराभोगलेखाशतशतभरितासस्यसम्पाददक्षः ।
वल्लीमालाललामद्रुमवलयलसन्मांसलश्यामलश्री-
र्लोकानां दर्शनीयः कृषकजनहितो भारताम्भोधरोऽयम् ॥ ९॥
गीर्वाणैः पुण्यपुञ्जो मधुमथनकलाकेलिनारिष्टसद्म
क्रीडारङ्गः प्रकृत्या मणिगणनिकरैः शेवधिर्वेदवाग्भिः ।
पूर्वाभावाविशिष्टाध्ययनगुरुकुलं शिक्षयारम्भभूमिः
संस्कृत्या सुप्रसूतिः सहजसुकृतिनामेष देशो गृहीतः ॥ १०॥
चञ्चच्चार्वाकचर्चो दृशिविषयतया स्वीकृतान्तस्थबाह्यो
विज्ञैर्वैभाषिकाह्वैरनुमितचरमः प्राज्ञसौत्रान्तिकैश्च ।
योगाचाराभ्युपेताकृतिधृतिविलसद्वित्तिमात्रप्रपञ्चः
शून्याधिष्ठानतत्त्वोद्भवनिखिलतया मध्यसिद्धान्तसिद्धः ॥ ११॥
साङ्ख्यैः सङ्ख्यातसख्यो यमनियममयो योगयोग्याङ्गसङ्गै-
र्गीतश्रीर्गौतमीयैः क्वणितकणकणः कोणकाणादवर्णैः ।
गीर्भिः कौमारिलीभिः कलितकुलकलो गौरवीमिश्रिताभिः
शान्तो वेदान्तदान्तः प्रगुणितगरिमा गीयते कोऽपि देशः ॥ १२॥
स्याद्वादो यावनैक्ये श्रुतिपथगमनैर्मुक्तकच्छैर्निरुक्त
स्तन्त्रस्थैर्वाममार्गः सिततनुदयया दीयमाने स्वराज्ये ।
कौटिल्यं राजकीयैः कलितमनुकलं देशरक्षाविधाने
यस्मिन्नृत्यन्ति भूयो विगतखलबलः स स्वतन्त्रः समस्तु ॥ १३॥
शुक्तीनां मुक्तिकेव त्रिदशसरिदिव स्रोतसां निर्मलानां
क्षौद्री धारेव हृद्या सरससुमनसां वज्रकाष्ठेव भूमेः ।
रश्मीनामैन्दवानाममृतविपुलतेवास्ति सम्भासमाना
प्राचीना दिव्यधामा दृढतममहिमा संस्कृतिर्भारतीया ॥ १४॥
आम्नायाम्नानयोगो द्युसदसुदृढतापत्तिसौधोपयोगो
ज्यानिक्षेपप्रयोगो निजजनधरणोद्योगदैत्याभियोगः ।
दुर्योगः क्षत्रजाते रजनिचरनृपश्रीवियोगः सुयोगो
गीताया जीवहिंसानिरसनकलुषक्रीडयोर्विप्रयोगः ॥ १५॥
सप्ताब्दानां शतानि प्रविकटमभितः पश्चिमातो विशद्भिः
पातिव्रत्ये सतीनां प्रहरणनिपुणैर्नैचिकीक्रव्यभक्षैः ।
विध्वंसे मन्दिराणां कटुकृतिकुशलैर्म्लेच्छलुण्टाकधूर्तैः
केनाभाग्येन ढूना धरणिरियमभूत् पादघातावधूता ॥ १६॥
द्वित्रा यद्राजयोगा नियतमिह नृणां भूपभूयं विदध्यु
स्तद्दिग्भूपालयोगाः प्रबलनिपतिता यत्तेनौ दिव्यदिव्याः ।
एकैके लोकलक्ष्मीनिगडनपटवोऽखण्डहेवाकशोभाः
पूर्णस्वातन्त्र्यसिद्धौ स खलु निजकृतः सङ्घचेष्टाविलम्बः ॥ १७॥
वाचालं काव्यलीलाकृतिकुशलपिकैर्गुञ्जितं शास्त्रभृङ्गै
रङ्गैः सङ्गं विहङ्गैर्निखिलकलकलाकामिनीकेलिलोलम् ।
श्रौतीभिः संविधाभिर्व्रततिभिरखिलं मञ्जुलं शालवृन्दै-
र्वागुद्यानं सुराणामिह खलु सुलभं लोभनीयार्थसार्थैः ॥ १८॥
और्जी ज्योत्स्नेव शुभ्रा सहृदयहरणी माधवश्रीः स्फुटेव
प्रातःसन्ध्येव रम्या प्रतपनशमनी ब्रह्मविद्येव हृद्या ।
गङ्गेवादर्शदृश्या श्रुतिरिव मधुरा मङ्गलानां पवित्रा
नाम्नां धारेव विष्णोर्जगति विजयते भारती कीर्तिरेखा ॥ १९॥
देवैराप्यायितश्रीरपि सुरझरिणीनिर्झराम्भःपुनीतो
नीतः शिक्षां बृहत्याः पतिभिरनुदिनं कीर्तितो लेखवृक्षैः ।
मन्दारैः पारिजातादिभिरथ सहरिः पुण्यभोग्यः सुधाच्छो
गन्धर्वैर्गीयमानो विलसति सकलो भारतस्वर्गलोकः ॥ २०॥
यन्नीरं जीवनार्थं कथयति निखिले भूतले लभ्यते त
न्नैदाघोन्माथरक्षाविधिरथ शुचितापादनं तत्समस्ते ।
कीटैर्नो जातु दूष्यं क्वचिदपि निहितं बुद्धिवर्धिष्णु हृद्यं
पुण्यं तद्गाङ्गमम्भः प्रवहति धरणीं प्लावयद्भारतीयाम् ॥ २१॥
पारं पङ्कोद्गमानां सुहृदयमखिलाम्नायमूलागमानां
वासः पौराणवाचां निधिरयमतुलः श्रेयसां सन्मणीनाम् ।
चारित्र्यस्योच्चदीक्षा सुजनजनधनव्रातसाङ्गत्यशिक्षा
धर्मद्रोरालवालं भरतवसुमतीभूषणां तीर्थसार्थः ॥ २२॥
तथ्यं कथ्यं तथाहि स्वयमनिशमलं कष्टजम्वालजालं
संवित्सिद्धिं विधित्सन् पितृवनवसतेर्भृत्यतामादधानः ।
गृह्णन् सूनोः पटार्धे प्ररुदितरमणीमन्त्यसंस्कारमूल्यं
धर्मादर्शव्यवस्थां व्यरचयदतुलां भूपतिर्गीतकीर्त्तिः ॥ २३॥
वासो गीर्वाणवाण्या निखिलजनिजुषां मोक्षभूमिर्मृताना
मार्यायाः सभ्यतायाः प्रथमनिषदनं मन्दिरं विश्वमूर्तेः ।
दुर्भेद्यो रागवन्धः किल सुरसरितो जन्मभूः शान्तिदेव्याः
सान्द्रानन्दाटवीयं जगति विजयते सर्वलोकैलक्ष्म्याः ॥ २४॥
यद्वीर्योपज्ञमासीद्रजनिचरपतेस्त्यागसीमावदानं
यस्यारण्यान्यबोधि प्रथमकविगुरोर्येन चीर्णं चरित्रम् ।
अद्याप्यार्याभिगुप्त्यै प्रभवति सकलद्वापरोत्तीर्णकर्मा
राज्यादर्शप्रतिष्ठाप्रभवपरिवृढः कुत्र रामावतारः ॥ २५॥
श्रीरामे कृत्यशक्तिर्विपुलविलसिता लोक्यते लोकलोकै-
र्बुद्धो निध्यायतेऽद्धा धृतधिषणधृतिर्धीः समृद्धा विवृद्धैः ।
ताभ्यां द्वाभ्यां श्रितात्मा नृपनयनिपुणो भारतोद्धारकर्ता
श्रीकृश्णः सर्वशक्तिः सकलनरवरः सोऽत्र पूर्णावतारः ॥ २६॥
ग्रीकाध्यक्षं विजिग्येऽद्भुतरणनिपुणैश्चाणकामात्ययोगात्
सञ्जह्रे युद्धयज्ञे कुसुमपुरनृपं प्राज्यसाम्राज्यकर्ता ।
व्यूहे जित्वा स सेल्यूकसमयतनयां हेलनां रम्यरम्यां
श्रीमान् वीराग्रगण्यः प्रथितगुणगणः स्मर्यतां चन्द्रगुप्तः ॥ २७॥
यत्साम्राज्यं वरिष्ठं शशिकरशिशिरं भारते सुप्रतिष्ठं
मूकाः स्तम्भाः सुधर्मप्रवचनपतवोऽद्यापि तिष्ठन्ति यस्य ।
त्यागी यद्भिक्षुसङ्घोऽकृषत बहुतरान्दूरदेशान् स्वशिष्यान्
सोऽशोकः क्लिष्टशोकक्वथितमृदुमनाः सौगतैरादृतोऽभूत् ॥ २८॥
चित्रं चित्तौरदुर्गे खलयवनबलैर्वीवधारोधदूने
युध्यद्भिः क्षत्रवीरैः पुनरगमदृढैः क्षीयमाणे क्रमेण ।
भीमेऽप्यन्ते प्रशान्ते पतिचरणरता पद्मिनी म्लेच्छशङ्का
दीप्तेऽग्नौ सञ्जुहाव स्वतनुमलमसौ सार्द्धमालीसहस्रैः ॥ २९॥
धन्यास्ते राजपुत्रा निजविषयगुरुत्वावने लब्धदीक्षा
अल्पीयांसोऽपि धीरा यवनपरभटैः सम्प्रहारेऽवसज्जाः ।
नित्यं योयुध्यमाना रिपुदलदलने सत्प्रतापप्रतापा
विश्वस्मिन् स्वेतिहासं कनकलिपिमयं नित्यमस्थापयंस्ते ॥ ३०॥
योऽगौप्सीद् गाःशरण्यः खलबललुलितान्ब्राह्मणान्सम्यगावीत्
स्वारक्षीन्मन्दिराणि प्रयुतशतशिखाः पाट्यमाना अपासीत् ।
आर्यक्षोणीं समाधाद् यवननृपमदं प्रव्यधावीत् समर्थो
दिल्लीमार्द्रां विडालीं व्यधित शिवविभुः सोऽस्तु भूयोऽवतीर्णः ॥ ३१॥
राहुग्रस्तां सुधांशोस्तनुमिव विमलां वारणेन्द्रावधूतां
रम्यामम्भोजराजीमिव वनपटलीं लङ्घितां वह्निनेव ।
म्लेच्छैराक्रान्तपूर्वां प्रविततसुषमां तां महाराष्ट्रभूमिं
जित्वाऽकार्षीत्स्वतन्त्रां तरुणगणनुतौ सिंहदुर्गेश्वरस्तात् ॥ ३२॥
पङ्कातङ्काङ्कितात्मा निरयरयगतत्राससञ्जातकम्प
श्चैतन्यानन्यभावानभिमुखहृदयः सङ्गमे देवनद्योः ।
निर्वाति स्नानमात्राच्छ्रुतिरियममला यं विशिष्टं शिनष्टि
त्रिस्रोतः क्षीणयक्ष्मा प्रविततमहिमा सोऽस्तु भूत्यै प्रयागः ॥ ३३॥
चत्वारः स्तम्भभूपा शुभनिकरकरा दिक्षु विभ्राजमानाः
केदारद्वारवत्यावथ समजगतां नाथरामेश्वराह्वौ ।
यन्निष्ठं धर्मसौधं सुदृढमधिगता वैजयन्ती जयन्ती
पुण्याया आर्यजाते रिपुवशमनिता गीयतेऽनन्तकालात् ॥ ३४॥
पूर्णप्राचीप्रतीचीप्रचुरसुरुचिराशेषविद्यानिधानं
स्वातन्त्र्यत्यागदीक्षाविहितपरिकरो हिन्दुताप्राणभूतः ।
आर्यावर्त्तप्रकाशो हिमकरधवला मालवीयस्य कीर्त्ति-
र्धर्मस्यैको निवासः स्मरहरनगरीविश्वविद्यालयोऽयम् ॥ ३५॥
ग्रामान् विध्वंसय द्राग् धुनु वरनगराण्यग्निसाद्भावयस्वा
शेषान् साङ्ग्रामिकार्थान् रिपुकरपतितान् सेतुबन्धाँल्लुनीहि ।
स्कन्धावारार्थमेतान् विघटय विततान् क्रोशतां क्षेत्रवर्गान्
निश्शस्त्रान् भारतीयान् कुरु वत विदधे शासकः क्षोभमित्थम् ॥ ३६॥
प्रध्वंसो दासतायाः कथमपि निवसन्प्रागभावो विनश्यन्
सामर्थ्यस्याखिलाप्तेः समसमयभवाभावसत्ता समग्रा ।
धौरेयस्वामितायाः प्रसभनिपतितान्मित्रराज्याद्विभेदो
देशेऽस्मिन् सुस्वतन्त्रेऽनुभवपथगताः खण्डनीयाः कुतस्ते ॥ ३७॥
जाग्रज्जाज्वल्यमानानलपटलललज्ज्वालमालावलीढ
व्यालोलस्फोटनिर्यज्ज्वलनकणगणादग्धपूःक्षेत्रवृक्षाः ।
छिन्नार्था रिक्तशस्त्राः परित इह वृता घोरशस्त्रास्त्रसज्जैः
प्राणांस्त्यक्त्वापि भूमिं प्रवलपरवलैर्मा मुचन् भारतीयाः ॥ ३८॥
भीष्यन्तां व्योमयानैर्ज्वलदनलवलद्गोलघोरावमर्दै-
र्दाह्यन्तां वह्न्यगारैरभित इह चलदृङ्कमुख्यायुधेद्धैः ।
रुद्ध्यन्तां योधलक्षैः क्षपितपरवलैः पूर्वतः पश्चिमाद्वा
स्वातन्त्र्यं संलभेरन् निजतनुहवने पण्डिता भारतीयाः ॥ ३९॥
कस्मै हन्तास्ति कथ्या निजविषयभवा पारतन्त्र्यप्रसूता
सङ्कष्टेयं दशा भो गृहनगरभवद्दाहलुण्ठाभियोगैः ।
वेत्राघातैः कशाभिर्विशसनजनितत्रासविक्षोभणाभि-
र्व्यग्रस्त्रीबालवृद्धातुरनिखिलजना कस्य पुंसो विनाश्या ॥ ४०॥
दान्तो दाहैर्गृहाणां हरणविशसनैस्त्रासितः सर्वनाशै-
र्नीतो विक्षोभदैन्यं गगनडयनकैर्यानसार्थैः पतद्भिः ।
गोलाङ्गारैर्निदग्धो विकलविलुलितो घातकैस्तैरुपायैः
स्वाधीनत्वाय मार्गं प्रतिदिनमयतेऽथापि कोऽप्यार्यदेशः ॥ ४१॥
ऐशान्यामुग्ररूपो ग्रसति वसुमतीं भारतीयां रणाग्नि-
र्व्यादायास्यं करालं कवलयति भृशं पूर्वतोऽकालकालः ।
सर्वे कष्टं सहन्ते प्रतिदिनमनिशं वर्द्धितैर्वस्तुमूल्यै-
रेकस्मिन्मासि गावः प्रयुतसमधिका हन्यमाना भवन्ति ॥ ४२॥
दूरं नीता विदेशे समरहुतवहे हूयमाना मुधैवं
सम्प्रत्यार्याः प्रवीरा निजनिजजननी रोदयन्तोऽतिलक्षाः ।
छिन्नः सौवर्णराशिर्यवननृपधरास्वाम्यपस्पर्शजातीः
सम्भेद्यास्तेऽद्य नीतिर्निगडितमतयो राष्ट्रभक्ता निबद्धाः ॥ ४३॥
दारिद्र्योद्दामदावादहनदरदलद्दानवैर्दूयमाना
दुर्वारद्वेषदुःखोदयदमनदृढद्योतनैर्दान्तदीनाः ।
दुर्दैवोद्योगदीर्णा दितदितिजदयोदन्तदूरप्रपद्या
माद्यन्मान्द्यैर्दुरीशैः प्रतिदिवसमहो हिन्दवो नाद्रियन्ते ॥ ४४॥
लोलूय्यन्ते ललामाः प्रतिकलमतुलान्दोलनैः शालमाला
लीलावल्लीमतल्लीवलयवलयिताः सत्फलास्ते रसालाः ।
लोक्यन्ते हार्यलोकैः कलितविकलितैस्तत्स्थले लङ्घितानि
बार्वूराणि क्रमेलाकुलहृदयतलान्यालवालानि तानि ॥ ४५॥
ऊर्जाभिस्तर्जनाभिर्जयजनितजयोद्गर्जितस्फूर्जिताभि-
र्भर्जाभिर्जर्जराभिर्ज्वरजनितजराजीर्णनिर्ज्वालनाभिः ।
जङ्घालैर्ज्वालजालैरगजगदखिलं भूर्जभर्जं सृजद्भिः
खर्जूरा नैव सर्जा जितजनिमनुजा निर्जरास्तैर्विवर्ज्याः ॥ ४६॥
स्वातन्त्र्यं क्वापि लीनं विजयसहभवा शूरतास्तं प्रपन्ना
सोत्सेधोत्साहभूमा विलयमुपगता श्रीः समज्ञान्तमाप्ता ।
नो पुंस्त्वस्याद्य चर्चा सुचरितनिकषो मान उच्चैर्विभग्नो
भूयांसस्तानभङ्गा भरतभुवमिमां यद्विभेत्तुं प्रवृत्ताः ॥ ४७॥
हंसायन्तेऽद्य काका मलिनसहयुजः केसरीयन्ति कोला
बाष्पायन्ते श्वसन्तः पुरुषतनुभृतः सर्वतो रुद्धचेष्टाः ।
साम्राज्यं वीणयन्ति प्रततबलमदोन्माथदम्भा महीशाः
क्षीरस्यन्ति प्ररुग्णा अधरचिकुरिताश्चाधुनोत्पुच्छयन्ते ॥ ४८॥
कोटीनां विंशती द्वे मनुजतनुभृतां पादपद्मावनम्रे
विंश्यामस्यां शताब्द्यां समुचितविविधास्त्रावसज्जे कदा नु ।
स्वातन्त्र्योत्साहपूर्णे द्विगुणबलभृते स्वर्णसिंहासनस्थां
वन्देतां देशलक्ष्मीं मृदितविलुलितद्वेषिवाहीकसैन्ये ॥ ४९॥
चत्वारिंशत्सदर्पाः सहजबलभृतः कोटयो भारतीया
गङ्गौघाः प्रावृषेण्या इव लुलिततटा व्यश्नुवानाः समन्तात् ।
स्वातन्त्र्यप्राप्तिकामा निगडितचरणां मातरं मोचयन्ते
जातैक्या उत्पतेयुः किमिव परबलं वारयेत् त्यक्तदेहान् ॥ ५०॥
दृप्यद्ध्वान्तावमग्ना प्रखररविकरोत्तप्तकेदारषण्डे
श्राम्यन्त्युत्थापिताभ्रिर्धरणिनिखनने तत्परा क्षामवर्ष्मा ।
वक्रैडूके वसन्ती विनमितपटले धूलिपूर्णे निकाय्ये
ग्रामाणां सप्तलक्षी हृतसमविभवा साम्प्रतं भारतेऽस्मिन् ॥ ५१॥
ग्रामाणां सप्तलक्षी वसति बत निजेऽप्यास्पदे प्रोषिताऽस्मिन्
यस्मै कस्मैचिदिच्छावशत इयमभूद्दीयमाना धनाय ।
स्कन्धावारार्थमेषा हृतगृहविभवोत्सार्यते नाथहीना
देशस्य प्राणभूता मृगयुवशगता गौरिव क्लिश्यतीह ॥ ५२॥
स्यात्कश्चित्तन्निमेषश्चतसृषु परितो दिक्ष्वपूर्वां वितन्वन्
जागर्तिं संहरन्तीं सरभसमखिलांस्त्रासलोभादिदोषान् ।
प्राणान्तत्यागधैर्यं निजविषयवलद्भक्तिमागूरयन्तीं
स्वातन्त्र्यप्रापणश्रीः सकलजनमतौ भावपूर्तिं दधानः ॥ ५३॥
ये वा के वा भवेयुः पुनरधिपतयस्त्रासयित्वात्यसह्याः
कांश्चिन्मासान् समा वा पुनरधिकमिमे नात्र देशेऽधिकुर्युः ।
सद्यो भावी स्वतन्त्रः सरिसरदखिलोद्योगसम्भारपूर्णो
विज्ञानोद्गीतकीर्त्तिस्तडिदतिधवलः शौर्यवीर्योर्जितात्मा ॥ ५४॥
कारावासप्रसोढोत्कटविकटमहायातनोग्रा भुशुण्डी-
र्गर्ज्जन्तीस्ताः शतघ्नीर्ज्वलनकणमुचो निर्भयं सम्प्रविश्य ।
वामं चाधाय पादं रिपुशिरसि बलाद् बद्धहेवाकभावा
संसत्काचिद् विजेत्री भजतु निजभुजैः प्राज्यसौराज्यलक्ष्मीम् ॥ ५५॥
सत्यासक्तः सितात्मा कविकृतिनिपुणो वृत्तगोवर्धनश्रीः
कृत्वा चक्रं कराग्रे गतिविगतिजुषां नेत्रदानैकशक्तः ।
एको यः कर्मयोगी निखिलहितविधौ बद्धकक्ष्यः श्रितेशः
सोऽव्यादव्याजभव्यः सकलनरवरो मोहनो देशमेनम् ॥ ५६॥
पर्जन्यो यस्य जन्यं घृतमनलहुतं लिप्सतेऽभीष्टवृष्ट्यै
शुद्धं सम्मुग्धदुग्धं रचयति रुचिरां सत्त्वसम्पत्तिवृत्तिम् ।
आयुर्भुक्तं समानां शतमिह तनुते प्राज्यमाज्यं प्रजानां
सानन्दं वल्गदास्तां प्रतिदिशमतुलं धैनुकं भारते तत् ॥ ५७॥
देवेन्द्रः पूर्वदेवैरसकृदधिजितो न प्रियोऽभूत् स्वभक्तः
कैलासो रावणेनोल्लसित इति पदे स्वेऽप्यतृष्णोऽखिलेशः ।
नेपालाधीश्वरेणानिशमुदयजुषा निःसपत्नेन तुष्ट
श्चाञ्चल्यातङ्कमुक्तः पशुपतिरवतात् काठमाण्डूनिविष्टः ॥ ५८॥
सूर्याचन्द्रप्रकाशस्थगयदतिघनध्वान्तसच्छादितान्धे
द्यावाभूमी समग्रे विदधत उरवो मेघषण्डा अखन्डाः ।
धारासम्पातवर्षास्रवदमललसद्विन्दुभिः प्लावयन्तः
सृष्टिं नूत्नां विधातुः पुनरतुलवलाः कर्तुमेते सुसज्जाः ॥ ५९॥
आपः सम्पादयन्ती वरविमलतरा सुन्दराम्भोरुहाण्यु
त्फुल्लानि द्योतयन्ती त्वरितगतिवहा आपगा मन्दयन्ती ।
तारातारैः प्रदीप्रं वलयितसुषमं साधयन्ती विहायो
वीरानुत्साहयन्ती लसति दिशि दिशि क्रीडनीया शरच्छ्रीः ॥ ६०॥
गोधूमादभ्रभागाः सहजसहयुजां क्षेत्रमालाढकीनां
केदाराः सर्पपाणां यवचणकजुषाः सन्मसूराभिभाजः ।
भक्तिः सातीनकानां विलसदतसिकाश्यामिकाश्यामलश्रीः
साश्चर्यैश्वर्यसीमा प्रमुदितमहिमा हैमनी भाति भूमिः ॥ ६१॥
श्रीपञ्चम्यां तपःश्रीस्तुहिनजडतया नाम्रपुष्पाणि सूते
न स्पन्दन्ते समीराः सुरभिततनवो नालयो यान्ति मोदम् ।
नोद्दीप्तः सूनधन्वा भुवनजयमहः कर्तुमिच्छां बिभर्त्ति
नाक्री सङ्क्रान्तिरेषा परभृतविरुतैरर्च्यतां कस्य हेतोः ॥ ६२॥
अत्यन्तोत्तप्तपांसुक्षितितलमखिलं व्याकुलं कल्पयद्भि-
र्निःशेषां निःशलाकां तृषितमृगकुलोल्लासनीमादधानैः ।
श्रोत्रोत्तोदं स्तनद्भिः सकलमिह जनं क्षोभयित्वोष्णवातै-
र्मध्याह्नोच्चण्डसूर्यस्तपसि विजयते स्वातपैः सप्रतापैः ॥ ६३॥
चञ्चच्चन्द्राभ्रदीर्घोज्ज्वलविमललसद्विर्त्तिदीव्यद्वितान
स्वाध्यायाचार्यसौधाकरकिरणगणाश्लिष्टसर्वाङ्गगौरम् ।
मल्लीमालाललामं विकसितपटलापाटलामोदमुग्ध
मौद्यानं चक्रवालं हरति निशि हृदां प्राणिनां भारतीयम् ॥ ६४॥
उन्माद्यच्चन्दनश्रीसुरभितसुरभिप्रत्युषःशान्तिकान्त्या
किर्मीरैर्लोलकीरैर्ललितखगकुलानीरयद्भिः समीरै ।
औल्लाघ्यं वेलयद्भिः पृथुकयुववयोऽतीतलोकाः प्रबुद्धाः
खेलन्त्युद्वीरयन्ते निजविषयनिजायत्ततां भावयन्ति ॥ ६५॥
चन्द्राङ्कात्सङ्गृहीतं नवजलदकुलादाहृतं पुष्कराद्वा
सन्नीतं कृष्णिमानं धृतवति परितो व्यश्नुवाने तमिस्रे ।
ह्रादिन्या दर्शयन्त्या कनककषलसत्स्निग्धया वर्त्मभेदान्
वर्षाक्षेत्राभिगुप्त्यै निशि कृषकगणाः साभ्रयः सञ्चरन्ति ॥ ६६॥
एतादृक्षेऽन्धकारे न ददति किमपि द्रष्टुमन्धे नितान्तं
दौर्बल्ये जाग्रति द्राक् प्रसरति परितः स्वान् स्वकीयान् समस्तान् ।
आस्थायैकं त्रिलोकीभरणपरिवृढं स्वप्रकाशं परेशं
योद्धव्यं सर्वशक्त्या सकलसमुदितैर्हिंसयाऽहिंसया वा ॥ ६७॥
धर्मस्यात्यन्तनिष्ठा सहजसुचरितस्यैकमात्रप्रतिष्ठा
सत्यस्योत्कर्षकाष्ठ नयविनयमहारम्भनीतिर्वरिष्ठा ।
धैर्यप्रष्ठार्यरीती रिपुविजयमहाश्चर्यचर्या पटिष्ठा
श्रेष्ठा स्फेष्ठा गरिष्ठा पवनसुतगुरोः कापि दृष्टिः शुचिष्ठा ॥ ६८॥
भोगावासोऽपि मोक्षाद्भुतसदनमलं देवभाषाप्रियोऽपि
नानापभ्रंशनिष्ठो यवनगणवृतोऽप्यार्यजातिप्रतिष्ठः ।
स्वातन्त्र्यप्राप्तिकामोऽप्यतुलविघटितानेकलोकाभिभूतो
देशोऽयं सार्वभौमीं कथमिह लभतामादिमां कीर्तिरेखाम् ॥ ६९॥
निर्वार्य्याः शक्लशुक्ला निकृतनिरसितानन्दनाः शिश्विदाना
नीत्यन्तर्वाणिकार्मा विसृमरयशसो वाग्मिनो जागरूकाः ।
साम्राज्योन्नाथहाराः कृशतनुसहजस्फीतवित्तप्रभावा
श्चार्वाघाटाः कुशास्तेर्भरतवसुमतीमातृपूजानदीष्णाः ॥ ७०॥
स्वातन्त्र्योज्ज्वालमालानलसुहुतनिजप्राणसर्वस्वशौण्डाः
कारायां जग्मिवांसस्तदनु च विपदां साहयः स्वायतीनाम् ।
भूयांसः क्षीणकायक्षयगदमृदिताः पेस्वराः कष्टमार्गे
श्रद्धेया भारतीयाः सुखविभवभृतो भस्त्रिकाश्चापरे स्युः ॥ ७१॥
गुञ्जद्भृङ्गालिगीतैः श्रुतिसुखमधुरैः कूजदालोहिताक्षै
श्चूतास्वादातिरिक्तस्वरमुखरपिकैर्माद्यदामोदवाहैः ।
पुष्पाणां पावमानैः प्रकृतिवरवधूनूतनाक्रीडमुग्धं
दिग्धं शोभाभिरामं कुशलकृतिकलोल्लासितं भारतं नः ॥ ७२॥
भायाद्भूयः प्रभूयाद्भवविभवभरैः सम्भ्रियाद्भूतिभावै-
र्भूष्याद्भव्यैः स्वभावैर्भुवनमुभयतो भावनां भूरिभासम् ।
भज्याद्भज्यात्प्रभावोद्भवभरितभुवो भूपतीन् भूतभाषान्
भुज्याद्भोगान् प्रभूतान् भविकभरतभूर्भाग्यभूमा प्रभूता ॥ ७३॥
यत्तप्तं नम्रतायै प्रभवति सततं लोहमेतत् प्रसिद्धं
भूमिस्तप्तैव सद्यो जनयितुमखिलानङ्कुराञ् शाशकीति ।
तस्मादन्तर्दधाना ज्वलनखरशिखा एव सद्भारतीयाः
स्वातन्त्र्यं साधयेयुः स्वसुखनवसुधामोदमोहान्निवृत्ताः ॥ ७४॥
आर्यावर्त्ताभिधाने वसुमति मधुरे मातरुन्निद्रलीले
त्वां सम्यक् सर्वभूतिं निखिलकलकलाज्ञानविज्ञानपूर्णाम् ।
शस्त्रैरस्त्रैर्विमानैर्निजजनजनितैर्जातरूपां भवानीं
कुल्याभिः सिच्यमानां दिशि विदिशि शुभां श्यामलां भावयामः ॥ ७५॥
न स्यात् कश्चिद् दरिद्रो वसनविरहितो नैव मूर्खो न लुब्धो
जात्या कश्चित् समाजे न भवतु पुरुषः स्त्री तथा मानहीनः ।
सर्वे स्युः सुस्वतन्त्राः सकलसुखभृतः पूर्णविद्याः प्रसन्नाः
सोत्साहाः स्वस्थदेहा भवविभवभरैः सम्भृताः संस्फुरन्तः ॥ ७६॥
शान्ते दान्ते नितान्तं शशधरधवले धैर्यधुर्ये धरित्रि!
पूते पूतप्रतापे मणिजटिलमहासिंहपीठप्रतिष्ठाम् ।
स्वायत्तां स्वस्थचित्तां सुचरितनिकषोच्चैश्चरित्रां विचित्रां
मातस्त्वां चिन्तयामो नवनवलसितोद्योगसम्भारपूर्णाम् ॥ ७७॥
कुल्याभिः कूपषण्डैर्वहदमलजलैर्नालिकाभिः सुसिक्तां
केदाराभोगभव्यां दलकुसुमफलोल्लासिवल्लीद्रुमाग्राम् ।
कुण्डोध्नीचर्व्यमाणैः शिशुतृणनिचयेर्वत्सभद्राभिरामै
रोरुच्याचान्तसीमां परविषयनुतां द्रष्टुमीहामहे त्वाम् ॥ ७८॥
यन्त्रव्यूहैर्नदद्भिश्चलदलविसरैर्विश्वतो व्याप्तशोभै-
र्वस्त्रव्राताँस्तथास्त्रव्रजगगनचरस्यन्दनान् बाष्पयानम् ।
सङ्ख्यातीतं विचित्रं निखिलजनमनोऽपेक्ष्यवस्तूनि नाना
तन्वानैर्मातृभूमे! भगवति! भवतीमीश्महे जात्ववाप्तुम् ॥ ७९॥
आकाशं व्योमयानैः स्थगितवति महादीर्घकायैः सहस्रै-
र्बाष्पैः सौदामनीभिर्विरचितगतिभिर्भूविभागाननोभिः ।
पोतैरब्धीन् स्रवन्तीर्विधुतवति रिपुस्तोममात्माधिपत्ये
ध्यायामस्त्वां जनानां जगति निवसतां पञ्चमांशेन पूर्णे ॥ ८०॥
अर्थाधिक्याभिसाध्यायुधवररचनाघोरसामर्थ्यसम्प
द्योगावाप्यान्यदेशोन्नतपदमहिमोत्कर्षसम्भावितत्वात् ।
उन्मूल्योद्दण्डशत्रुप्रतिभटजनतायोग्यसङ्ख्याश्रयत्वाद्
यस्याखण्डत्वमिष्टं विमलमतिमतां श्रद्धया तं स्तुवीमः ॥ ८१॥
श्रद्दध्मस्तत्र पूजां चिरमभिलषितां तस्य कुर्मः परस्माद्
वाञ्छामो नैव तस्मादमृतमपि शुभान्यर्थयामोऽथ तस्मै ।
तेनोत्कर्षं श्रयामस्तमिह जनपदं साधुवादं वदामः
स स्यात्सर्वा विभक्तीर्दधदमलतरा मे सुवाचां समासाम् ॥ ८२॥
पारोक्ष्यं केचिदीयुर्निजनुतिविषयं केवलं मुक्तिसिद्ध्यै
प्रात्यक्ष्यं चैकमन्ये कवनसमुचितं भुक्तिलाभार्थमापुः ।
विद्वांसो वस्तुतस्तु प्रवचनरचनाचारुचातुर्ययोग्यं
स्वं देशं जन्मभूमिं मतिसकलबलैः सर्वथा संश्रयन्ते ॥ ८३॥
कीरा हेम्नोऽपि बद्धाः शुचिरुचिरुचिरे पञ्जरे नात्र तुष्टा
मुक्ताः सद्यो विहायःपरिचरणममी प्रारभन्ते स्वतन्त्राः ।
यत्सत्यं भारतीयाः कति कति च शतीः पारतन्त्र्येण नीत्वा
स्वं राज्यं साधयन्ते वसुपशुधरणीजीवनं वास्तु मूल्यम् ॥ ८४॥
सम्पूर्णो वेदराशिर्ध्रुवमयमधुना मन्त्रविप्रद्वयात्मा
त्यागास्तोषास्तपस्याश्चिरतरनिचिता नूनमेषोऽवभाति ।
धर्म्या राजन्यनीतिर्विपुलितमहिमा कर्मशक्तिः समग्रा
पुण्यं वै कल्पकोटिप्रततमतिलसद्भारते धर्मसङ्घः ॥ ८५॥
गावः सर्वोपकाराः प्रकृतिसुमधुराः पुण्यनद्यः समस्ताः
पूताः शैलाः समग्राः शुचिरुचिरुचिरा नैकभेदा अटव्यः ।
पारावाराः पवित्रा अखिलमतिमहन्मण्डलं तीथसीम्नां
देवागाराण्यनन्तान्यमितनिधिरयं भारतस्याविरस्तु ॥ ८६॥
सृष्टिस्थित्यन्तकर्ता चिदमलमहिमा ज्योतिषां ज्योतिरेकं
सर्वाधिष्ठानमूर्तिर्विघटितघटनाशक्तयानन्तशक्त्या ।
कोटीर्ब्रह्माण्डखण्डान् क्षणत इह समाभासयन्नैकरूपां
क्रीडां तन्वन् विभाति प्रभवतु स विभुर्भूतये भारतस्य ॥ ८७॥
स्वातन्त्र्यैकान्तनिष्ठा प्रचुरशुचिरुचिर्दूरदृष्टिर्गभीरा
धीराऽऽभेद्या महाब्धीन् नुतसततकृतिः पारयित्वा फलन्ती ।
एका विस्रम्भभूमिर्निखिलविषयिणां जागरां संसृजन्ती
राष्ट्रेषु प्राक्तनेषु प्रबलसमुदिता भारती राजनीतिः ॥ ८८॥
पारेवाग्वर्त्तिरूपं विपुलविलसितं ज्ञानविज्ञानगर्भं
पारावाराभिरामं त्रिदशगणमहाभारतीसन्निबद्धम् ।
प्रागैतिह्यैकगम्यं समसमयहितं विश्वभाषाप्रभावं
राजद्विद्यालयश्रीः किमपि विजयते वाङ्मयं भारतीयम् ॥ ८९॥
दूरे दुर्भिक्षवार्त्ता जनगणविषमा क्वेति भीतिर्निरस्ता
न श्रूयन्ते कदापि क्वचिदपि सहसा दास्यवाः सन्निपाताः ।
नाऽन्यायस्य प्रवृत्तिं द्विषदपि सहते नैव मिथ्याभियोगः
स्वातन्त्र्ये जातमात्रे प्रगुणितगरिमा द्योतते भारतश्रीः ॥ ९०॥
लोकेष्वाकालमृत्युर्न चरति न भवन्त्याधयो व्याधयो वा
नैवाऽऽलस्यादिदोषास्तरुणिमनि नृणां वृद्धिसिद्ध्यन्तरायाः ।
न द्यूतं नापि मद्यं मलिनगुणगणा नापि दोषप्रवृत्ति-
र्दिव्येऽस्मिन्नार्यदेशे प्रथितमहिमनि भ्राजते धर्मलक्ष्मीः ॥ ९१॥
सौराज्येऽस्मिन्प्रतिष्ठां गतवति चरमां स्वर्णसिंहासनस्था
नीराज्येताऽऽर्यलक्ष्मीस्तरुणपरिवृढैः साधितार्थोल्लसद्भिः ।
अस्त्रैः शस्त्रैर्विमानैरुडुपशतशतैरन्तराहित्यसैन्यै-
र्नच्छेद्यैर्नापि भेद्यैः सुचरितनिकषै रक्षिता दुष्प्रधर्षा ॥ ९२॥
प्राज्यैराज्यैः पयोभिः प्रतिगृहमनिशं जायमानैरमेयैः
खाद्यान्नैः क्षेत्रवर्गेष्वतिविपुलमहाराशिभिः सम्भवद्भिः ।
धन्या स्वातन्त्र्यलक्ष्मीः सुवसननिचयैर्यन्त्रसङ्घातसिद्धै
रत्नैर्नानाखनिभ्यः प्रतिदिशमतुलैर्निःसृतैरद्य दृश्या ॥ ९३॥
विद्याविद्योतमानैर्नयविनयतपस्त्यागवाग्मित्वभाग्भि-
र्निर्भीकैर्न्यायनिष्ठैः सुचरितविभवैः सत्यसन्धैः प्रशस्तैः ।
शूरैर्वीरैर्बहुज्ञैरतिविमलयशोराशिभिर्धर्मशीलैः
सभ्यैः पूर्णाविरास्तां सततविजयिनी भारती लोकसंसत् ॥ ९४॥
स्वाराज्यं स्यात्स्वराज्यं भरतवसुमती स्यादखण्डा प्रपूर्णा
दिव्यप्रज्ञासमज्ञाः प्रबलविजयिनो भान्तु सर्वे युवानः ।
विद्यावासाः समस्ताः सुचरितविभवैश्छात्रवर्गैः समृद्धा
ग्रामे ग्रामेऽभिरामा हरिततृणभृतो गोचराः सन्तु गोभिः ॥ ९५॥
शान्तिः कान्तिर्नितान्तं प्रमुदितजनतासत्प्रवृत्तिर्विनीतिः
साध्वी रीतिः समीची कृतिरतिविमला प्रीतिरास्तिक्यवृत्तिः ।
न तः शस्या शुभंयुः प्रकृतिरथ सिता सौम्यकीर्तिर्विभूति-
र्लोकश्लाघ्या चिरस्य स्थितिमिह तनुतामार्यदेशे स्वतन्त्रे ॥ ९६॥
येयं वीथी चलन्ती हरति जनिमतो लोक्यते या समस्तै-
र्यस्यां यान्तो हसन्तः पुरत उपनतं नैव पश्यन्ति कूपम् ।
तां जानन्तोऽप्यसक्ताः प्रखरपरिचयास्तत्परस्यां विभूतौ
शश्वद्भास्वत्प्रभायां भरतभुवमिमे शोभयन्त्वध्वनीनाः ॥ ९७॥
चारित्र्याणां विधानं मनुजतनुभृतां संविधानं शुचीनां
मर्यादानां निधानं विमलमतिमतां योगिनां सन्निधानम् ।
आधानं दिव्यभासां प्रकृतिविलसितागारमेकं प्रधानं
राष्ट्रं न्यायावधानं प्रतिपदमयते भारतोच्चाभिधानम् ॥ ९८॥
विश्वेशः सर्वशक्तिर्गिरिवरतनयासाहचर्यार्चितश्रीः
सान्द्रानन्दामृताम्भोनिधिरमरसरिद्वीचिवाचालमौलिः ।
स्वातन्त्र्योल्लासलीलां विलसितविभवां सर्वशोभाभिरामां
भव्यां भव्यैकभावां भरतभुवमिमां सर्व्दा सम्बिभर्तु ॥ ९९॥
आसेतोराहिमानीविशदतटभरादद्रिभूपालमौले
रासिन्धोराचवङ्गोदधिसलिलरुचेर्भारतोर्वीविभूतेः ।
यावच्चन्द्रार्कदीव्यद्द्युतिनुतिभरिता दिव्यगङ्गाङ्गशोभा
पद्योन्मालेयमास्तामुरसि सुमनसां तावदुल्लासितश्रीः ॥ १००॥
ऐलायग्रामजन्मा व्रजितरसयुगक्रोशनीरेशमार्गः
सौमित्रिः काशिवासी शतकसुमनसामम्बिकादत्तसूनुः ।
स्रीविश्वेशप्रसादोपनतकविकृतिप्रातिभाश्चर्यशक्तिः
प्रालम्बं मञ्जुलीलं सुनयति तदुरः श्रीमहादेवशर्मा ॥ १०१॥
इति काशीहिन्दूविश्वविद्यालये साहित्यविभागाध्यक्षेण
कवितार्किकचक्रवर्तिना पण्डितश्रीमहादेवशस्त्रिपाण्डेयेन
प्रणीतं भारतशतकं समाप्तम् ॥
कविपरिचयः
कविकुलगुरुवाणीनर्ममर्मोत्तरश्री
रसभरपरिपाको यस्य जागर्त्ति काव्ये ।
तुलयति नहि लोके यञ्च कश्चिद् विपश्चित्
स जयति बुधवर्यः श्रीमहादेवशास्त्री ॥
अखिलभरतखण्डे कृत्स्नशास्त्रेषु शिक्षां
प्रददति किल शिष्या यस्य पारेसहस्रम् ।
मतिरतिविकला नो नोन्मिषत्यद्य दिव्यां
कथमथ कलयामो बोधशक्ति तदीयाम् ॥
अध्यक्षः महामहोपाध्याय श्रीचिन्नस्वामिशास्त्री
वैशाखकृष्णप्रतिपत् १९९९
सार्वभौमसंस्कृतप्रचारपरिषत् काशीद्वारा समर्पिताभिनन्दनदलांशः
प्रकाशकः सुरेशदत्तपाण्डेयः
साहित्याचार्यः साहित्यरत्नं
१९ असी, काशी ।
Encoded and proofread by Paresh Panditrao