श्रीनवग्रहमङ्गलस्तोत्रं अथवा श्रीनवग्रहमङ्गलाष्टकम्
भास्वानर्कसमिच्च रक्तकिरणसिंहाधिपः काश्यपो
गुर्विन्द्वोश्च कुजस्य मित्रमरिखत्रिस्थश्शुभः प्राङ्मुखः ।
शत्रुर्भार्गवसौरयोः प्रियगुडः कालिङ्गदेशाधिपो
मध्ये वर्तुलमण्डले स्थितियुतः कुर्यात् सदामङ्गलम् ॥ १॥
चन्द्रः कर्कटक प्रभुस्सितरुचिश्चात्रेय गोत्रोद्भवः
चाग्नेये चतुरश्रगोऽपरमुखो गौर्यर्चया तर्पितः ।
षट्सप्ताग्निदशाद्यशोभनफलोऽशत्रुर्बुधार्कप्रियः
सौम्यो यामुन देशपर्णजसमित् कुर्यात् सदा मङ्गलम् ॥ २॥
भौमो दक्षिण दित्रिकोण निलयोऽवन्तीपतिः खादिर-
प्रीतो वृश्चिकमेषयोरधिपतिर्गुर्वर्क चन्द्रप्रियः ।
ज्ञारिः षट्त्रिशुभप्रदश्च वसुधादाता गुहाधीश्वरो
भारद्वाजकुलोद्भवोऽरुणरुचिः कुर्यात् सदामङ्गलम् ॥ ३॥
सौम्यः पीत उदङ्मुखसमिधपामार्गोऽत्रिगोत्रोद्भवः
बाणेशानगतस्सुहृद्रविसितो वैरी कृतानुष्णरुक् ।
कन्यायुग्मपतिर्दशाष्टम चतुष्षण्णेत्रगश्शोभनो
विष्ण्वाराधन तर्पितो मगधपः कुर्यात् सदा मङ्गलम् ॥ ४॥
जीवश्चोत्तर दिङ्मुखोत्तरककुप् जातोऽङ्गिरोगोत्रतः
पीतोऽश्वत्थसमिच्च सिन्ध्वधिपतिश्चापर्क्षमीनाधिपः ।
सूर्येन्दुक्षितिजप्रियस्सित बुधारातिस्समो भानुजे
सप्तापत्यतपोर्थगश्शुभकरः कुर्यात् सदामङ्गलम् ॥ ५॥
शुक्रो भार्गवगोत्रजस्सितरुचिः पूर्वाननः पूर्वदिक्
काम्बोजाधिपतिस्तुलावृषभपश्चौदुम्बरैस्तर्पितः ।
सौम्यायः सुहृदम्बिका स्तुतिवशात्प्रीतोऽर्कचन्द्राहितो
नारी भोगकरश्शुभो भृगुसुतः कुर्यात् सदा मङ्गलम् ॥ ६॥
सौरिः कृष्णरुचिश्चपश्चिममुखः सौराष्ट्रपः काश्यपो
नाथः कुम्भमृगर्क्षयोः प्रियसुहृच्छुक्रज्ञयोर्गृध्रगः ।
षट्त्रिस्थश्शुभदोऽशुभो तनुगतिश्चापाकृतौ मण्डले
सन्तिष्ठन् चिरजीवितादि फलदः कुर्यात् सदा मङ्गलम् ॥ ७॥
राहुर्बर्बरदेशपो निऋऋतौ कृष्णाङ्ग शूर्पासनो
याम्याशाभिमुखश्च चन्द्ररविरुत् पैठीनसिः क्रौर्यवान् ।
षट्त्रिस्थश्शुभकृत्करालवदनः प्रीतश्च दूर्वाहुतौ
दुर्गापूजनतः प्रसन्नहृदयः कुर्यात् सदा मङ्गलम् ॥ ८॥
केतुर्जेमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः
चित्राङ्क ध्वजलाञ्छनो हि भगवान् याम्याननश्शोभनः ।
सन्तुष्टो गणनाथ पूजनवशात् गङ्गादितीर्थप्रदः
षट्त्रिस्थश्शुभकृच्च चित्रिततनुः कुर्यात् सदा मङ्गलम् ॥ ९॥
इति श्रीनवग्रहमङ्गलस्तोत्रं अथवा श्रीनवग्रहमङ्गलाष्टकं सम्पूर्णम् ।
The stotra has nine verses but is also
called as aShTakam, perhaps mistakenly.
Proofread by Mohan Chettoor