.. अव्यक्तोपनिषत् ..
स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी .
प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु .. ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ . पुरा किलेदं न किंचन्नासीन्न द्यौर्नान्तरिक्षं
न पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं
रूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् .
तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् .
तत्र यद्रक्तं तत्पुंसो रूपमभूत् . यद्धरितं तन्मायायाः .
तौ समगच्छतः . तयोर्वीर्यमेवमनन्दत् . तदवर्धत .
तदण्डमभूधैमम् . तत्परिणममानमभूत् . ततः
परमेष्ठी व्यजायत . सोऽभिजिज्ञासत किं मे कुलं किं मे
कृत्यमिति . तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापते
त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति . किमव्यक्तं
यस्मादहमासिषम् . किं तद्व्यक्तं यन्मे कृत्यमिति .
साब्रवीदविज्ञेयं हि तत्सौम्य तेजः . यदविज्ञेयं तदव्यक्तम् .
तच्चेज्जिज्ञाससि मावगच्छेति . स होवाच कैषा त्वं
ब्रह्मवाग्यदसि शंसात्मानमिति . सा त्वब्रवीत्तपसा मां
विजिज्ञासस्वेति . स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास .. १..
अथापश्यदृचमानुष्टुभीं परमां विद्यां
यस्याङ्गान्यन्ये मन्त्राः . यत्र ब्रह्म प्रतिष्ठितम् .
विश्वेदेवाः प्रतिष्ठिताः . यस्तां न वेद किमन्यैर्वेदैः
करिष्यति . तां विदित्वा स च रक्तं जिज्ञासयामास .
तामेवमनूचानां गायन्नासिष्ट . सहस्रं समा
आद्यन्तनिहितोङ्कारेण पदान्यगायत् . सहस्रं
समास्तथैवाक्षरशः . ततोऽपश्यज्ज्योतिर्मयं
श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छदितमौलिं
मृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् .
ततः प्रजापतिः प्रणिपपात नमोनम इति . तथैवर्चाथ तमस्तौत् .
उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् . वीरमित्याह
वीरो वा एष वीर्यवत्त्वात् . महाविष्णुमित्याह महतां वा अयं
महान्रोदसी व्याप्य स्थितः . ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः .
सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् .
नृसिंहमित्याह यथा यजुरेवैतत् . भीषणमित्याह भीषा वा
अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहति
भीतः पर्जन्यो वर्षति . भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः .
मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादानाम् .
नमामीत्याह यथा यजुरेवैतत् . अहमित्याह यथा यजुरेवैतत् .. २..
अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं
तदाशंसेति . स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मि
व्यक्तं मम कृत्यमिति पुराश्रावि . तत्राव्यक्तं भवानित्यज्ञायि
व्यक्तं मे कथयेति . व्यक्तं वै विश्वं चराचरात्मकम् .
यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति . स होवाच न शक्नोमि
जगत्स्रष्टुमुपायं मे कथयेति . तमुवाच पुरुषः प्रजापते
शृणु सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि .
सर्वत्र शक्ष्यसि सर्वं करिष्यसि . मय्यग्नौ स्वात्मानं
हविर्ध्यायेत्तयैवानुष्टुभर्चा . ध्यानयज्ञोऽयमेव .
एतद्वै महोपनिषद्देवानां गुह्यम् . न ह वा एतस्य साम्ना
नर्चा न यजुषार्थो नु विद्यते . य इमा वेद स सर्वान्कामानवाप्य
सर्वांल्लोकाञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति .. ३..
प्रजापतिस्तं यज्ञायं वसीयांसमात्मानं मन्यमानो
मनोयज्ञेनेजे . सप्रणवया तयैवर्चा हविर्ध्यात्वात्मान-
मात्मन्यग्नौ जुहुयात् . सर्वमजानात्सर्वत्राशकत्सर्वमकरोत् .
य एवंविद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः
सर्वकर्ता भवति . स सर्वांॅल्लोकाञ्जित्वा ब्रह्म परं प्राप्नोति .. ४..
अथ प्रजापतिर्लोकान्सिसृक्षमाणस्तस्या एव विद्याया यानि
त्रिंशदक्षराणि तेभ्यस्त्रींॅल्लोकान् . अथ द्वे द्वे अक्षरे
ताभ्यामुभयतो दधार . तस्या एवर्चो द्वात्रिंशद्भिरक्षरै-
स्तान्देवान्निर्ममे . सर्वैरेव स इन्द्रोऽभवत् . तस्मादिन्द्रो
देवानामधिकोऽभवत् . य एवं वेद समानानामधिको भवेत् .
तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे . तस्या
एकादशभिरेकादशादित्यान्निर्ममे . सर्वैरेव स विष्णुरभवत् .
तस्माद्विष्णुरादित्यानामधिकोऽभवत् . य एवं वेद समानानामधिको
भवेत् . स चतुर्भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् .
स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणमजनयत् .
दशभिर्दशभिर्विट्क्षत्रे . तस्माद्ब्राह्मणो मुख्यो भवति .
एवं तन्मुख्यो भवति य एवं वेद .
तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्योऽभवत् .
न वेदं इवा न नक्तमासीदव्यावृतम् .
स प्रजापतिरानुष्टुभाभ्यामर्धर्चाभ्यामहोरात्रावकल्पयत् .
ततो व्यैच्छत् व्येवास्मा उच्छति . अथो तम एवापहते .
ऋग्वेदमस्या आद्यात्पादादकल्पयत् . यजुर्द्वितीयात् .
साम तृतीयात् . अथर्वाङ्गिरसश्चतुर्थात् यदष्टाक्षरपदा
तेन गायत्री . यदेकादशपदा तेन त्रिष्टुप् .
यच्चतुष्पदा तेन जगती यद्द्वात्रिंशदक्षरा तेनानुष्टुप् .
सा वा एषा सर्वाणि छन्दांसि . य इमां सर्वाणि छन्दांसि वेद .
सर्वं जगदानुष्टुभ एवोत्पन्नमनुष्टुप्प्रतिष्ठितं
प्रतितिष्ठति यश्चैवं वेद .. ५..
अथ यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथं
न्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमितीमामृचं
गातुमुपाक्रामत् . ततः प्रथमपादादुग्ररूपो देवः
प्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं
विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुंरूपं व्यधात् .
उभाभ्यानंशाभ्यां सर्वमादिष्टः . ततः प्रजाः प्रजायन्ते .
य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गाय-
न्नुद्ग्रथितजटाकलापः प्रत्यग्ज्योतिष्यात्मन्येव रन्तारमिति .
इन्द्रो वै किल देवानामनुजावर आसीत् . तं प्रजापतिरब्रवीद्गच्छ
देवानामधिपतिर्भवेति . सोऽगच्छत् . तं देवा ऊचुरनुजावरोऽसि
त्वमस्माकं कुतस्त्वाधिपत्यमिति . स प्रजापतिमभ्येत्योवाचैवं
देवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति . तं प्रजापतिरिन्द्रं
त्रिकलशैरमृतपूर्णैरानुष्टुभाभिमन्त्रितैरभिषिच्य तं
सुदर्शनेन दक्षिणतो ररक्ष पाञ्चजन्येन वामतो द्वयेनैव
सुरक्षितोऽभवत् . रौक्मे फलके सूर्यवर्चसि मन्त्रमानुष्टुभं
विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् . ततः सुदुर्निरीक्षोऽभवत् .
तस्मै विद्यामानुष्टुभीं प्रादात् . ततो देवास्तमाधिपत्यायानुमेनिरे .
स स्वराडभूत् . य एवं वेद स्वराड् भवेत् . सोऽमन्यत पृथिवीमपि
कथमपां जयेयमिति . स प्रजापतिमुपाधावत् .
तस्मात्प्रजापतिः कमठाकारमिन्द्रनागभुजगेन्द्राधारं
भद्रासनं प्रादात् . स पृथिवीमभ्यजयत् . ततः स
उभयोर्लोकयोरधिपतिरभूत् . य एवं वेदोभयोर्लोकयोरधिपतिर्भवति .
स पृथिवीं जयति यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्यो
वसीयान्भवति यश्चैवं वेद यश्चैवं वेद .. ६..
य इमां विद्यामधीते स सर्वान्वेदानधीते . स सर्वैः क्रतुभिर्यजते .
स सर्वतीर्थेषु स्नाति . स महापातकोपपातकैः प्रमुच्यते . स
ब्रह्मवर्चसं महदाप्नुयात् . आब्रह्मणः पूर्वानाकल्पाऽश्चोत्तरांश्च
वंशान्पुनीते . नैनमपस्मारादयो रोगा आदिधेयुः . सयक्षाः
सप्रेतपिशाचा अप्येनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा
पापिनः पुण्यांॅल्लोकानवाप्नुयुः . चिन्तितमात्रादस्य सर्वेऽर्थाः
सिद्ध्येयुः . पितरमिवैनं सर्वे मन्यन्ते . राजानश्चास्यादेशकारिणो
भवन्ति . न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् .
न चास्मादुपावरोहेत् . जीवन्मुक्तश्च भवति . देहान्ते तमसः परं
धाम प्राप्नुयात् . यत्र विराण् नृसिंहोऽवभासते तत्र खलूपासते .
तत्स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते . न च
पुनरावर्तन्ते . न चेमां विद्यामश्रद्दधानाय ब्रूयान्नासूयावते
नानूचानाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्ताय
नाशान्ताय नादीक्षिताय नाधर्मशीलाय न हिंसकाय नाब्रह्मचारिण
इत्येषोपनिषत् ..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इत्यव्यक्तोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com