.. भावोपनिषत् ..
.. अथ भावोपनिषत्..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं
पश्येमाक्षभिर्यजत्राः |
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः |
व्यशेम देवहितं यदायुः |
स्वस्ति न इन्द्रो वृद्धश्रवाः | स्वस्ति नः पूषा विश्ववेदाः |
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु |
ॐ शान्तिः शान्तिः शान्तिः ||
आत्मानमखण्दमण्दलाकारमवृत्य सकलब्रह्मान्दमन्दलं
स्वप्रकाशं ध्यायेत् | श्रीगुरुः सर्वकारणभूता शक्त्तिः || १||
तेन नवरन्ध्ररूपो देहः || २|| नवचक्ररूपं श्रीचक्रम् || ३||
वाराही पितृरूपा कुरुकुल्ला बलिदेवता माता || ४||
पुरुषार्थाः सागराः || ५|| देहो नवरत्नद्वीपः || ६||
त्वगादि सप्त्तधातुरोमसंयुक्त्तः || ७||
संकल्पाः कल्पतरवस्तेजः कल्पकोद्यानम् || ८||
रसनया भाव्यमाना मधुराम्लतिक्त्तकटुकषायलवणरसाः षडृतवः || ९||
ज्ञानमर्ध्यम् ज्ञेयम् हविर्ज्ञाता होता
ज्ञातृज्ञानज्ञेयानामभेदभवनम् श्रीचक्रपूजनम् || १०||
नियतिः श्रृङ्गारादयो रसा अणिमादयः || ११||
कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया
ब्राह्म्याद्ययषटशक्त्तयः || १२||
आधरनवकम् मुद्राशक्त्तयः || १३||
पृथिव्यप्तेजोवाइवाकाशाश्रोत्रत्वक्चक्षुर्जिह्वघ्राण-
वाक्पाणिपादपायूपस्थानि मनोविकाराः
कामाकर्षिण्यादि षोदश शक्त्तयः || १४||
वचनादानागमनविसर्गानन्दहानोपादानोपेक्षाख्य-
भुद्धयोऽनङ्गकुसुमाद्यष्टौ || १५||
अलम्बुसा कुहुर्विश्वोदरा वारणा हस्तिजिह्वा यशोवती पयस्विनी
गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति
चतुर्दश नाड्यः सर्वसंक्ष्होभिण्यदि चतुर्दशशक्त्तयः || १६||
प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनंजया
दशवायवः सर्वसिद्धिप्रदादिबहिर्दशारदेवताः || १७||
एतद्वायुसंसर्गकोपाधिभेधेन रेचकः पाचकः शोषको
दाहकः प्लावक इति प्राणमुख्यवेन पंचधा जठराग्निर्भवति|| १८||
क्षारक उद्धारकः क्षोभको जृंभको मोहक इति
नागप्राधान्येन पंचबिधास्ते मनुष्याणां देहगा
भक्ष्ह्यभोज्यशोष्यलेह्यपेयात्मकपञ्चविधमन्नं पाचयन्ति|| १९||
एता दशवह्निकलाः सर्वज्ञाद्या अन्तर्दशारदेवताः || २०||
शीतोष्णासुखदुःखेच्छाः सत्त्वं रजस्तमो
वशिन्यादिशक्त्थयोअष्तौ || २१||
शब्दादि तन्मात्त्राः पंचपुष्पबाणाः || २२|| मन इक्ष्हुधनुः || २३||
रागः पाशः || २४|| द्वेषोऽङ्कुशः || २५||
अव्यक्त्त महदहंकाराः कामेक्ष्वरी वज्रेश्वरी
भगमालिन्योऽन्तस्त्त्रिकोणगा देवताः || २६||
निरुपाधिकसंविदेव कामेश्वर || २७||
सदानन्दपूर्ण स्वात्मेव परदेवता ललिता || २८||
लौहित्यमेतस्य सर्वस्य विमर्श || २९||
अनन्यचित्तत्वेन च सिद्धिः || ३०|| भावनायाः क्रिया उपचरः || ३१||
अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यमुपासितव्यमिति
विकल्पानामात्मनि विलापनम् होमः || ३२||
भवनाविषयाणामभेदभवना तर्पणम् || ३३||
पंचदशतिथिरूपेण कालस्य परिणामावलोकनम् || ३४||
एवम्ं मुहूर्तत्त्रितयं मुहूर्तद्वितयं मुहूर्तमात्त्रं वा
भावनापरो जीवन्मुक्त्तो भवति स एव शिवयोगीति गद्यते|| ३५||
आदिमतेनान्तश्चक्रभावनाः प्रतिपादिताः || ३६||
य एवं वेद सोऽथर्वशिरोऽधीते || ३७||
इत्युपनिषत् ||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं
पश्येमाक्षभिर्यजत्राः|
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः | व्यशेम देवहितं यदायुः |
स्वस्ति न इन्द्रो वृद्धश्रवाः | स्वस्ति नः पूषा विश्ववेदाः|
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु|
ॐ शान्तिः शान्तिः शान्तिः ||
|| इति भावोपनिषत् ||
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com